द्युभ्वाद्यधिकरणम्
अथ तृतीयः पादः
द्युभ्वाद्यधिकरणं ञ्–३–१
न्यायविवरणं
हरिः ॐ ॥ ‘प्राणानां ग्रन्थिरसि । रुद्रो वै लोकायतनम् । वायुना वै गौतमसूत्रेणायं च लोकः परश्च लोकः सर्वाणि भूतानि सन्दृब्धानि भवन्ति । सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चा-लोकाश्चालोकिनश्च विष्णावेवोताश्च प्रोताश्च भवन्ति’’ इत्यादे-र्द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम् ॥ १ ॥
न्यायविवरणपञ्चिका
तृतीयेऽस्मिन्पादेऽनुव्याख्यायामधिकरणविषयाः सङ्गृह्योक्ताः ।
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचार्या द्विःस्थिता इह ॥ इति ।
तदिदं दुर्गमार्थं न्यायमालावाक्यविवरणप्रसङ्गेनादौ तावत्तद्विवृ-णोति । विषयावगतिपूर्वकत्वात्पूर्वोत्तरपक्षन्यायावगतेः । अत्र ‘द्युभ्वाद्यायतनं स्वशब्दात्’ इत्यत्र प्रथमाधिकरणसाधारणं लिङ्गं विचार्यमित्युक्तम् । किं तल्लिङ्गं कुत्र च साधारणं कथं च साधारणम् । साधारणत्वे च कथं तस्य भगवदेकविषयतेत्यत आह ॥ प्राणा-नामिति ॥ अत्र ‘यस्मिन्द्यौः’ इत्यादिवाक्योक्तं च द्युभ्वाद्यायतनत्व-लिङ्गं विचार्यम् । यद्यप्येतानि बहूनि लिङ्गानि । तथा च वक्ष्यति ‘अत्रोक्तानां लिङ्गानाम्’ इति । तथाप्येकवाक्योक्तत्वेनैकवचनम् । तच्च रुद्र–वायु–प्रकृति–जीव–विष्णूनां साधारणम् । ‘प्राणानां’ ‘रुद्रो वै’ इत्यादिवाक्याद्रुद्रनिष्ठतया प्रतीतेः । ग्रथ्यन्तेऽस्मिन्निति ग्रन्थिः । ‘वायुना’ इत्यादिश्रुतेर्वायुनिष्ठत्वावगमात् । सूतमत्र सर्वं जगदिति सूत्रम् । सन्दृब्धानि, संगतान्येव तदाधारतयाऽवस्थितानीत्यर्थः । ‘सर्वे वा एते’ इत्यादिश्रुतेर्विष्णुविषयत्वप्रदर्शनात् । प्राणा इन्द्रियाणि । प्राणिनो देहिनः । प्राणिग्रहणेन गृहीतानामपि देवानां प्राधान्यज्ञापनाय पुनर्ग्रहणम् । दिवि भवानि दिव्यानि कल्पतरुप्रभृतीनि वस्तूनि । लोका भूरादयः । तदभिमानिनो लोकिनः । पूर्ववत् पुनर्ग्रहणम् । भूरादिभ्योऽन्ये वैकुण्ठादयोऽलोकाः । तद्गता मुक्ता अलोकिनः । ‘ओताश्च प्रोताश्च’ इति एतमाश्रिता इत्यर्थः । इत्यादेरित्यादिग्रहणेन प्रकृत्यादिनिष्ठत्वेऽपि प्रमाणमुदाहार्यमित्याचष्टे । तच्चान्यत्रोदाहृतम् । अज्ञानां न्यायानुसन्धानरहितानां मतेन । साधारणस्य कथं सिद्धान्तेऽ- साधारणता साध्यत इति शङ्काऽनेन परिहृता । एवमुत्तरत्रापि ॥ १ ॥
प्रबोधिनी
॥ आदौ तावदिति ॥ न्यायमालायाः पश्चाद्विवरणमभिप्रेत्यादावित्युक्तम् । तावच्छब्दो वाक्यालङ्कारे । आदौ विवरणे बीजमाह ॥ विषयावगतीत्यादिना ॥ पूर्वोत्तरपक्षावगते-र्विषयावगतिपूर्वकत्वात्तदर्थमादौ विवृणोतीत्यन्वयः । यद्यपि विषय-मालाया आदौ विवरणे तस्या अनुव्याख्याने आदौ कथनमेव बीजं वक्तव्यम् । तथापि तस्यास्तत्रादौ कथनेऽपि बीजस्यावश्यवक्तव्यतया तद्धेतोरिति न्यायेनैवमुक्तमिति बोध्यम् ॥ अत्रेति ॥ विषयमालाया-मित्यर्थः । द्युभ्वाद्यायतनं स्वशब्दादित्यत्रेति ॥ यस्मिन्द्यौरित्यादि-श्रुतौ द्यावाभूम्यन्तरिक्षाद्याश्रयतयोक्तं ब्रह्मैव । न रुद्रादि । कुतः । तमेवैकं जानथ आत्मानमिति स्वशब्दपर्यायात्मशब्दश्रवणादिति सूत्रार्थः । इत्युक्तमिति ॥ अधिकरणक्रमानुरोधेनात्र विषयाभि-धानादिति भावः । शङ्काचतुष्टयस्य मूलाभिप्रेतमुत्तरं क्रमाद्व्यनक्ति ॥ अत्रेत्यादिना ॥ अस्मिन्नधिकरण इत्यर्थः । एतानीति ॥ प्राणानां ग्रन्थिरसीत्यादिवाक्योक्तानीत्यर्थः । बहूनीति ॥ द्युभ्वाद्यायतन-त्वान्तकत्वगजचर्मवसनत्वादीनीत्यर्थः । वक्ष्यतीति ॥ ‘बाहुल्यं लिङ्ग-शब्दानाम्’ इत्येतदधिकरणपूर्वपक्षन्यायविवरणावसर इत्यर्थः । रुद्रादिषु क्रमेण साधारण्यमुपपादयति ॥ प्राणानामित्यादिना ॥ प्रतीतेरित्यादिपञ्चम्यन्तानां रुद्रस्य साधारणं वायोः साधारणमिति विश्लिष्यान्वयः । ग्रन्थिरिति ॥ ‘‘कनिखष्यज्यसिवसिवनिसनिधू-निग्रन्थिचलिभ्यश्च’’ इतीप्रत्यय इति भावः । सूत्रमिति ॥ सिवेः ष्टन्प्रत्यये ‘सिवि मुच्योष्टेरूज्’ इत्यूजागमः । अत्र पूर्वत्र च बहुल-ग्रहणादधिकरणे प्रत्यय इति भावः । सर्वं वाक्यं प्रायः सावधारण-मित्यभिप्रेत्याह ॥ संदृब्धान्येवेति । पुनर्ग्रहणमिति ॥ ब्राह्मण-परिव्राजकन्यायेनेति भावः । पूर्ववदिति देवपदेन गृहीतानामपि लोकिनां ब्राह्मणपरिव्राजकन्यायेन प्राधान्यज्ञापनाय पुनर्ग्रहणमिति भावः । अन्यत्रेति ॥ यद्भूतं भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतं चेति बृहदारण्यकवाक्यं तत्वप्रकाशिकायामुदाहृत-मित्यर्थः । आकाशे प्रकृताविति श्रुत्यर्थः ।
मतेनेति ॥ एतेन मूले अज्ञानामित्यनन्तरं मतेनेति शेषो बोध्य इत्युक्तं भवति । अनेनेति ॥ अज्ञानामित्यनेनेत्यर्थः । उत्तरत्रापीति ॥ भूमाद्यधिकरणेष्वपि साधारणानां भूमशब्दादीनां सिद्धान्ते कथम-साधारणता साध्यत इति शङ्का अज्ञानामित्यनेन परिहृता ज्ञेयेत्यर्थः ।
भूमाधिकरणम्
भूमाधिकरणं ञ्–३–२
न्यायविवरणम्
‘प्राणो वा आशाया भूयान्विष्णुर्वै देवेभ्यो भूयास्तस्माद्भूयान्नाम’ इत्यादेर्भूमशब्दोऽज्ञानां साधारणः ॥२॥
न्यायविवरणपञ्चिका
‘शब्दौ’ इत्यनेन द्वितीयतृतीययोरधिकरणयोर्नामात्मकौ साधारणौ शब्दौ विचार्यावित्युक्तम् । लिङ्गमिति पृथगुक्तम् । तेन शब्दस्य नामविषयत्वात् । साधारणमित्यस्य च यथान्वयं विपरिणामेन सर्वत्रानुवृत्तेः । अनुवृत्तिज्ञापनार्थमेवान्तेऽपि ‘द्विःस्थिता’ इत्याह । ‘द्वी’त्यनेकोपलक्षणम् । ‘विचार्या’ इत्येतदपि यथान्वयं विपरिणम्यते । एवं स्थिते ‘भूमा सम्प्रसादादध्युपदेशात्’ इत्यत्र तावत्पूर्ववच्छङ्का-चतुष्टयनिरासार्थमाह ॥ प्राणो वा इति ॥ ‘प्राणो वा आशाया भूयान्’ इत्युपक्रम्य भूम्न आम्नानाद्भूमशब्दस्य प्राणविषयताप्रतीतेः । ‘विष्णुर्वै’ ‘पूर्णमदः’ इत्यादिश्रुत्यन्तरसमाख्यानाद्विष्णुविषयता-प्रतीतेश्च भूमशब्दोऽज्ञानां तयोः साधारणो विचार्यः । ननु भूमशब्दो भाववाची । तत्कथं धर्मिणोः शङ्क्यते । कथं च भूयानित्यनेन समानार्थः । कथं च नामात्मकः । मैवम् । ‘यो वै भूमा तत्सुखम्’ इत्याद्युत्तरवाक्यपर्यालोचनया भावभवित्रोरभेदाभिप्रायेण भवितृविषय-तावगमात् । आसन्नस्योपक्रमस्यानासन्नायाः समाख्यायाश्च कथं साधारण्यप्रतीतिहेतुत्वमिति चेन्न । अज्ञानामित्युक्तत्वात् ॥ २ ॥
प्रबोधिनी
नन्वनुव्याख्याने विषयमालायां प्रत्यधिकरणं प्रातिस्विकरूपेण विषयानुक्तेर्भूमशब्दोऽज्ञानां साधारण इत्यादि-वाक्यजातं कथं तस्या विवरणं भवेत् । वैरूप्यादित्यतो नैतद्विषय-मालाविवरणपरमपि तु विषयमालया सिद्धप्रमेये शङ्काविशेषनिवारणाय प्रवृत्तम् । विषयमालाविवरणं तु मूले पूरणीयमित्यभिप्रेत्याह । शब्दा-वित्यनेनेत्यादिना ॥ ननु नामलिङ्गसाधारणस्येह शब्दशब्दस्य कथं नाममात्रग्राहकत्वम् । कथं च साधारणावित्यश्रुतस्यानुवाद इत्यतस्त-द्बीजमाह । तेनेति ॥ लिङ्गस्य पृथग्वचनेनेत्यर्थः । नामविषयत्वा-दिति ॥ अन्यथा तस्य पृथग्वचनवैयर्थ्यापत्तेरिति भावः । यथान्वय-मित्यादि ॥ एतच्चानुपदं स्फुटीभविष्यति । तथा च नाश्रुतानुवाद इति भावः ।
ननु रुद्राद्रिबहुव्यक्तिसाधारणस्य लिङ्गस्य कथं द्विःस्थितत्वोक्ति-रित्यत आह ॥ द्वीतीति ॥ विपरिणम्यत इति ॥ लिङ्गं साधारणं विचार्यम् । शब्दौ नामात्मकौ । एवमग्रेऽपि । साधारणौ विचार्यौ । स्थानं साधारणं विचार्यम् । लिङ्गं साधारणमिति प्राग्वत् । अनुग्रहः साधारणो विचार्यः । पुनो ऽनन्तरं शब्दा द्विःस्थिताः साधारणा विचार्याः । लिङ्गशब्दौ साधारणौ विचार्याविति विपरिणम्यानुवृत्ति-र्ज्ञेया । तथा च मूले साधारणं लिङ्गमित्यनन्तरं प्राणो वा इत्यतः प्राक् शब्दावित्यनेन द्वितीयतृतीययोरित्यारभ्य यथान्वयं विपरिणम्यत इत्यन्तस्य वाक्यजातस्य शेषः पूरणीय इति भावः । ‘‘यत्रानवसरोऽ- न्यत्र पदं तत्र प्रतिष्ठितम् । वाक्यं वेति सतां नीतिः’’ इति स्मृतेः ॥
उत्तरग्रन्थमुत्थापयति । एवं स्थित इत्यादिना ॥ भूमा सम्प्रसादादध्युपदेशादित्यत्रेति ॥ यो वै भूमा तत्सुखमिति श्रुत्युक्तो भूमा विष्णुरेव । न तु वायुः । कुतः । सम्प्रसादात् । सम्यक् प्रसीदत्यनेनेति सम्प्रसादः पूर्णसुखम् । तदभिधानात् । अध्युपदेशात् । अधि उपरि नामादिसर्वोत्तमत्वेनोपदेशाच्चेति सूत्रार्थः । पूर्ववदिति ॥ किं तन्नाम । कुत्र साधारणम् । साधारण्ये च को हेतुः । साधारण्ये च कथं तस्य सिद्धान्ते भगवद्विषयतोच्यत इति शङ्काचतुष्टयनिरासार्थ-मित्यर्थः । प्राणो वा इति ॥ आशायास्तन्नाम््नयाः सरस्वत्याः प्राणो वायुर्भूयान् उत्तमः वै प्रसिद्धमिति श्रुत्यर्थः । भूम्न आम्नानादिति ॥ यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखमिति छन्दोगश्रुतौ पाठादित्यर्थः । भूमाभिधस्य श्रीनारायणस्य लक्षणकथनाय प्रवृत्तेयं श्रुतिः । यो वै भूमा पूर्णो नारायणाख्यस्तत्सुखम् अनन्याधीनसुख-रूपम् । अस्य लक्षणस्यातिव्याप्तिं निराचष्टे ॥ नाल्प इति ॥ भूमप्रसादं विना नाल्पे मुक्तजाते सुखमस्ति । ततः किमित्यत आह ॥ भूमैवेति ॥ तस्माद्भूमैवानन्याधीनसुखरूपमिति श्रुत्यर्थः । मूले आदिपदोपात्तां श्रुतिमुदाहरति । पूर्णमद इत्यादीति ॥ अदो मूलरूपं पूर्णम् इदमव-ताररूपं च पूर्णम् । तत्पूर्णं सृष्टिकाले पूर्णान्मूलरूपादुदच्यते उद्रिच्यत इति श्रुत्यर्थः । तयोरिति ॥ प्राणविष्ण्वोरित्यर्थः । भाववाचीति ॥ बहुशब्दात् पृथ्व्यादिभ्य इमनिज्वेति सूत्रेण भाव इमनिच् प्रत्यये बहोर्लोपो भू च बहोरितीमनिचो लोपे बहुशब्दस्य भूरित्यादेशे च भूमन् शब्दनिष्पत्तेरिति भावः । धर्मिणोरिति ॥ साधारण्येन प्राण-विषयतयेति शेषः । समानार्थ इति ॥ भूयःशब्दस्य धर्मिवाचित्वा-द्भूमन्शब्दस्य च धर्मवाचित्वात् कथं समानार्थ इति भावः ।
कथं चेति ॥ भूमन् शब्दस्य धर्मवाचकताया एव युक्तत्वादिति भावः । इत्यादीति ॥ आदिपदेन यो वै भूमा तदमृतम् । स एवा-धस्तात्स उपरिष्ठादित्यादिवाक्यपरिग्रहः । भावभवित्रोरिति ॥ धर्म-धर्मिणोरित्यर्थः । अवगमादिति ॥ भूमन् शब्दस्येति शेषः । उपलक्षणमेतत् । अव्युत्पन्न एवायमखण्डः शब्दो धर्मिपर इत्यपि ज्ञेयम् । तदुक्तं चन्द्रिकायाम् । पूर्वपक्षेऽपि च धर्मिपरत्वाट् टीकानु-व्याख्यानयोश्च नामत्वोक्त्या धर्मिणि रूढेरभिप्रेतत्वाद् व्याकरणस्य च साधुत्त्वान्वाख्यानपरत्वाद् भूमशब्दस्य विपुलधर्मिपरतैव न त्वनेकपरता न वाऽनेकत्ववैपुल्यरूपधर्मपरतेति । चन्द्रिकाप्रकाशे श्रीराघवेन्द्रतीर्थीये च । रूढेरिति ॥ तथा चाव्युत्पन्नएवायमखण्डः शब्द इत्युक्तं भवति । तर्हि पाणिनीयव्युत्पादस्य का गतिरित्यत आह । व्याकरणस्य चेति ॥ यत्रार्थस्य विसंवादः प्रत्यक्षेणोपलभ्यते स्वर-संस्कारमात्रार्था तत्र व्याकरणस्मृतिरित्युक्तेः स्वरसंस्कारमात्रार्थत्वा-च्चेत्यपि ध्येयमिति । अनासन्नाया इति । समाख्याश्रुतेः स्थलान्तर-स्थत्वादिति भावः । अज्ञानामितीति ॥ उपक्रमसमाख्ययोर्बलाबल-ज्ञानविधुराणामित्यर्थः ।