०२ द्वितीयः पादः

सर्वगतत्वाधिकरणम्

अथ द्वितीयः पादः

सर्वगतत्वाधिकरणं ञ्–२–१

न्यायविवरणम्

बहुलिङ्गसहितश्रुतेरपि सावकाशाया निरवकाशश्रुत्यादीनामेव बलवत्त्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषूक्त्वाऽऽदित्येऽनुक्तिरित्यादिलिङ्गं च । तथापि निरवकाशा एतमेवेत्यवधारणादयः ॥ १ ॥

न्यायविवरणपञ्चिका

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ ‘एतं ह्येव बह्वृचा’ इत्यादावादित्यः प्रतिपाद्यो भवितुमर्हति । तदीयश्रुतिलिङ्गानामत्र दर्शनात् । जीवो वा । जीवलिङ्गानां चक्षुर्मयत्वादीनां श्रवणात् । न च एतदन्तःस्थाधिकरणन्यायेन उपासात्रैविध्यादिति वा परिहृतमिति वाच्यम् । सम्भवति हीश्वरे कल्पनैषा । न चासावत्र सम्भवति । सर्वेषु भूतेष्वित्यल्पौकस्त्वश्रवणात् । ईश्वरस्य पूर्णतया ब्रह्मततमित्यङ्गी-कृतत्वात् सम्भोगप्राप्तेश्च । न चेश्वरसाधकं प्रमाणमस्ति । ब्रह्मशब्दस्य जीवे सम्भवात् । मुख्यानुपपत्तावमुख्यस्वीकारस्य न्यायप्राप्तत्वादित्येवं प्राप्ते प्रतिविहितं– ‘सर्वत्रोच्यमानो नारायण एव । ब्रह्मशब्दस्या-श्रुतत्वादिलिङ्गानां च श्रवणात् । स्मृतिसमाख्यानाच्च । जीवस्य

चाणोरेकस्य सर्वशरीरस्थत्वानुपपत्तेः । कर्मकर्तृव्यपदेशानुपपत्तेश्च’ इति ।

तदिदमनुपपन्नम् । श्रुतिलिङ्गपरपक्षानुपपत्तिभिः पूर्वपक्षे सति, तावन्मात्रेण सिद्धान्तनिर्णयायोगात् । न हि समबलं बाधकं भवतीत्यत आह ॥ बहुलिङ्गेति ॥ ‘परपक्षानुपपत्तेरपि’ इत्यपि ग्राह्यम् । श्रुत्या-दीनामित्यादिपदेन लिङ्गसमाख्यापरपक्षानुपपत्तीनां परिग्रहः । यद्यपि पूर्वपक्षश्रुत्यादयः सन्ति सिद्धान्तेऽपि तथापि पूर्वपक्षस्थाः सावकाशाः, निरवकाशास्तु सिद्धान्तस्थाः । सावकाशाच्च निरवकाशस्य प्राबल्यं सिद्धमेवेति कथं निर्णयाभावः । ‘बहुलिङ्गसहितश्रुते’रित्युक्तं विवृणोति ॥ बहवो हीति ॥ यद्यप्यादित्यशब्द एक एव तथाप्यावृत्तिबहुत्वाद्बहव इत्युक्तम् । यद्वा आदित्यस्य प्रतिपादकाः शब्दा आदित्यशब्दाः । ते च ‘यश्चासावादित्ये’ ‘सूर्य आत्मा जगतः’ ‘चक्षुर्मित्रस्य’ इत्यत्र बहवः सन्ति । ‘एतमस्या’मित्यादिना, ‘‘एतमादित्ये’’ इत्येव-मात्मकोऽयमादित्य इत्यत्र लिङ्गम् । सजातीयेषूक्त्वाऽत्रानुक्तेः कारणान्तराभावात् । आदिपदेन चक्षुर्मयत्वादिकं जीवलिङ्गं च । अत्र श्रुतेर्लिङ्गानां च बहुत्वोक्त्या, बह्वी च सा लिङ्गसहितश्रुतिर्बहुलिङ्ग-सहितश्रुतिः । बहुलिङ्गैः सहिता श्रुतिर्बहुलिङ्गसहितश्रुतिरिति समास-द्वयस्यैकशेषनिर्देश इति सूचयति । बहुशब्दद्वयं वा तन्त्रेणोपात्तमिति बहुलिङ्गश्रुतेरित्येतद्व्याख्यायेदानीं समस्तं वाक्यं विवृणोति ॥ तथा-पीति ॥ यद्यपि पूर्वपक्षे श्रुतिलिङ्गपरपक्षासम्भवाः सन्ति तथापि ते सावकाशाः । तथा हि– आदित्यादिश्रुतिस्तावदन्तःस्थाधिकरण-न्यायेन विष्णौ सावकाशा । आदित्येऽनुक्तिस्त्वसिद्धा । उपलक्षण-तयोक्तत्वात् । चक्षुर्मयत्वादिकं च शतायुष्ट्वादिवदीश्वरे घटत एव । अल्पौकस्त्वादिकं च निचाय्यत्वादिना प्रत्युक्तम् । सिद्धान्तहेतवस्तु निरवकाशा इति निर्णयो युज्यत एवेति । निरवकाशब्रह्मशब्दादय इति वक्तव्ये ‘एतमेव’ इत्यवधारणादय इति वचनन्तु ब्रह्मशब्दस्यामुख्य-वृत्त्या जीवेऽप्यवकाशोऽस्तीत्याशङ्कापरिहारार्थम् । ततश्चावधारण-सहितब्रह्मशब्दादय इत्यर्थः ॥

प्रबोधिनी

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ सर्वत्र पृथिव्यादि-षूच्यमानं ब्रह्मैव । श्रुत्यादौ विष्णावेव प्रसिद्धब्रह्मशब्दस्य ‘एतमेव ब्रह्मेत्याक्षते’ इत्यादिना तत्रोपदेशादिति सूत्रार्थः ॥ एतं ह्येव बह्वृचा इत्यादाविति ॥ ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते एतमग्ना-वध्वर्यव एतं महाव्रते छन्दोगा एतमस्यामेतं दिव्ये तं वायावेतमाकाश एतमप्स्वेतमोषधीष्वेतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इत्यैतरेयश्रुतावित्यर्थः । बह्वृचा ऋग्वेदिन एतमेव परमात्मानं मह-त्युक्थे तन्नामि्न बृहतीसहस्रे मीमांसंत इत्यन्वयः । एवमग्रेऽपि । तथा अध्वर्यवः याजुषा अग्नौ । तथा छन्दोगाः सामगा महाव्रते महा-व्रताभिधमखाङ्गभूतस्तोत्रे मीमांसन्ते विचारयन्ति । अस्यां पृथिव्यां वनस्पतिषु वृक्षेषु भूतेषु प्राणिषु ब्रह्मेति पूर्णमेवेत्याचक्षते वदन्तीति श्रुत्यर्थः ॥ तदीयश्रुतिलिङ्गानामिति ॥ तस्यैतस्यासावादित्यो रसः । यश्चासावादित्य इत्याद्या आदित्यश्रुतयः । संवत्सर एव प्रध्वंसयन् तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवतीत्यादिना श्रुतानि संवत्सराधि-पतित्वसर्वपुरुषाभिमुख्यादीन्यादित्यलिङ्गानि तेषां दर्शनादित्यर्थः ॥ चक्षुर्मयत्वादीनामिति ॥ चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मेति चक्षुरादिप्राचुर्यरूपजीवलिङ्गानां श्रवणादित्यर्थः । अन्तःस्थाधिकरणन्यायेनेति ॥ तत्राधिदेवगतशब्दानां प्रवृत्ति-निमित्तानामनन्याधीनत्वादिना विष्णावेव मुख्यताया अभिप्रेतत्वादिति भावः । अल्पौकस्त्वेति ॥ अल्पस्थानस्थत्वेत्यर्थः । ब्रह्मततमिति ॥ ब्रह्मततममपश्यदिति श्रुतिशेषः । ततममतिशयेन व्याप्तं ब्रह्म पूर्ण-मपश्यदिति श्रुत्यर्थः । सम्भोगेति ॥ ईश्वरस्य सर्वेषु भूतेष्वित्युक्त-सर्वजीवशरीरस्थत्वे जीवसमानभोगप्रसङ्गादित्यर्थः । न हि दह्यमान-गेहगतयोरन्यतरस्यैव दाह इति युक्तमिति भावः ।

अत्र संसमशब्दौ पर्यायौ । अतः समानभोग इत्यर्थे सम्भोग इति साधुः । अत एव संधिशब्दव्याख्यामरसुधालिङ्गाभट्टीयादिषु सन्धीयते समीक्रियते इति सन्धिरिति विवृतम् । ‘प्रोपाभ्यां समर्थाभ्याम्’ इति सूत्र इव समशब्दस्यैव शकंध्वादित्वेन पररूपत्वं वा । भट्टोजिना तत्र तथाभिधानात् । इममेवाभिप्रायं मनसि निधाय ‘आत्मेशब्रह्मसम्भवाम्’ इत्यत्र सम्भवपदं फलाध्यायसुधायां ‘सह भवन्तीति सम्भवाः’ इति विवृतम् । अत्र सुधाटिप्पण्यां तु अव्ययानामनेकार्थत्वात् समित्यस्य साहित्यार्थता युक्तैवेति ध्येयमित्युक्तम् । ब्रह्मशब्दस्येति ॥ एतमेव ब्रह्मेत्याचक्षत इति ब्रह्मशब्दश्रवणात् । ‘स योऽतोऽश्रुतोऽगतोऽमतोऽ- नतोऽदृष्टोऽविज्ञातोऽनादिष्टः’ इत्यश्रुतत्वादिलिङ्गानां च श्रवणा-दित्यर्थः । अतः व्याप्तः । अन्यैः साकल्येनाश्रुतः । अगतो ऽप्राप्तः । अमतो ऽविचारितः । अनतः स्वतन्त्रः । अदृष्टः प्रत्यक्षेणाज्ञातः । अविज्ञातः विशेषज्ञानाविषय इति श्रुत्यर्थः । स्मृतिसमाख्यानाच्चेति । ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’ इति स्मृतिसमाख्याना-दित्यर्थः । एतच्च गीतायामर्जुनं प्रति श्रीकृष्णस्य वचनम् । कर्मेति ॥ एतमस्यामित्यादिना सर्वत्रोच्यमानस्यात्मानमिति कर्मत्वेन शंसतीति जीवस्य कर्तृत्वेनात्मानं परस्मै शंसतीत्यादौ व्यपदेशान्न जीवः सर्वगत इत्यर्थः । एकस्यां क्रियायां कर्मकर्त्रोरुत्सर्गतो भेदनियमादत्र चापवाद-कारणाभावादिति भावः । परपक्षानुपपत्तिभिरिति ॥ सर्वगत ईश्वर इति सिद्धान्तपक्षेऽल्पौकस्त्वानुपपत्तिभिरित्यर्थः । एवमग्रेऽपि । ताव-न्मात्रेणेति ॥ श्रुतिलिङ्गपरपक्षानुपपत्तिमात्रेणेत्यर्थः । अत्र परपक्षा-नुपपत्तिस्तु जीवः सर्वगत इति पूर्वपक्ष एकस्याणोर्जीवस्य सर्वशरीर-स्थत्वानुपपत्तिर्ज्ञेया । सिद्धमेवेति ॥ श्येनेनाभिचरन्यजेतेत्यत्र श्रुते-र्दुर्बलस्यापि लिङ्गस्य निरवकाशत्वेन प्राबल्यं पूर्वतन्त्रे सिद्धमित्यर्थः । प्रपञ्चितमेतदस्माभिरन्तस्थत्वनये । प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति प्राणब्रह्मणोरुपक्रमेऽपि श्रुतिलिङ्गादिना निरवकाशेन ब्रह्मोपक्रमेण प्राणोपक्रमबाधः प्रसिद्ध इत्यप्याहुः । एकशेषनिर्देश इति । ‘‘स-रूपाणामेकशेष एकविभक्तौ’ इत्येकशेषस्य निर्देश इत्यर्थः ।

तन्त्रेणेति ॥ सकृदुक्तमनेकोपकारकं तन्त्रम् । तेनेत्यर्थः । समस्त-मिति ॥ सावकाशाया इत्यादि समस्तं वाक्यमित्यर्थः । अल्पौ-कस्त्वादिकमिति ॥ आदिपदेन सम्भोगप्राप्तिपरिग्रहः । प्रत्युक्तमिति ॥ किं ब्रह्मणोऽल्पौकस्त्वाद्युक्तिर्व्यर्थोतायुक्ता । आद्ये आह । निचाय्य-त्वादिति ॥ अल्पौकस्त्वेन चक्षुर्मयत्वेन चोपास्यत्वान्न व्यर्था । द्वितीयं प्रत्याह । व्योमवच्चेति ॥ यथा व्याप्तस्याप्याकाशस्यैकदेशस्थत्वं तथा ब्रह्मणोऽपि युक्तमिति निचाय्यत्वादेवं व्योमवच्चेति सूत्रखण्डार्थः । आदिपदेन वैशेष्यादिति सूत्रखण्डपरिग्रहः । जीवेश्वरयोरेकशरीर-स्थत्वेऽपि सामर्थ्यविशेष्यादीश्वरस्य जीवसमानभोगाभावो युज्यत इति सूत्रखण्डार्थः । दह्यमानगेहगतयोरन्यतरस्याग्निस्तम्भविद्यावतो दाहा-भाववदिति भावः । अवधारणसहितब्रह्मशब्दादय इति ॥ एतमेव ब्रह्मेत्याचक्षत इत्यत्रेति भावः । तथा च श्रुत्यन्तरम् । एष उ एव ब्रह्मैष उ एवात्मेत्यादि । एतेन शब्दविशेषादिति सूत्रं विवृतं भवति । परं ब्रह्म वेद ब्रह्मैव भवतीत्यत्र जीवव्यावृत्तये नपुंसकब्रह्मशब्दस्य परशब्देनेवेह सर्वेषु भूतेष्वित्यादिश्रुतौ ब्रह्मशब्दस्यावधारणेन विशेषणादिति तदर्थोऽभिनवचन्द्रिकायां व्यक्तः ॥


अत्तृत्वाधिकरणम्

अत्तृत्वाधिकरणं ञ्–२–२

न्यायविवरणं

सन्दिग्धश्रुतिलिङ्गाभ्यां, निश्चितलिङ्गप्रकरण-योरेव बलवत्त्वम् । सन्दिग्धा श्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं च ॥ २ ॥

न्यायविवरणपञ्चिका

ॐ अत्ता चराचरग्रहणात् ॐ ॥ देवमातैवात्र प्रतिपाद्या तच्छ्रुतेः । न च श्रुतिरिन्द्रादिश्रुतिवद्विष्णौ सावकाशेति वाच्यम् । तत्रासम्भावितलिङ्गस्यापि सत्त्वादिति प्राप्ते चराचरात्तृत्वलिङ्गा-त्प्रकरणाच्च विष्णुरेवेति सिद्धान्तितम् । तदयुक्तम् । श्रुतिलिङ्गाभ्यां लिङ्गप्रकरणयोर्दुर्बलत्वादित्यत आह ॥ सन्दिग्धेति ॥ श्रुतिलिङ्गे हि सन्दिग्धे सावकाशत्वात् । लिङ्गप्रकरणे तु निश्चिते निरवकाशत्वात् । सन्दिग्धाच्च निश्चितं बलवत् । तत्कुतो निर्णयाभावः । के ते सन्दिग्धश्रुतिलिङ्गे इत्यत आह ॥ सन्दिग्धा श्रुतिरिति ॥ लिङ्गं च सन्दिग्धमिति ग्राह्यम् । यथासङ्ख्यं सम्बन्धः । भवत्वदितिशब्दो, देवमातुः श्रुतिः ‘अदितिर्देवतामयी’ इत्यादौ प्रयोगाद् विष्णौ सावकाशाच्च । अदितित्वं तु कथं लिङ्गं कथं च सावकाशमिति चेदुच्यते । अदितेरदितित्वं हि श्रूयते । ‘त्व’प्रत्ययश्च जातेर्वाचकः । यथा पृथिवीत्वं गोत्वमित्यादौ । तदसम्भवे स्वरूपस्यैव । यथा आकाशत्वं चन्द्रत्वमित्यादौ । न चादितित्वं नाम जातिः सम्भवति व्यक्तेरभेदात् । ततोऽदितित्वमदितेः स्वरूपमेव । न च अदिति-स्वरूपमीश्वरस्य सम्भवति । अत्यन्तभिन्नत्वात् । न च अदितिशब्दो भगवत्पर इत्यनुपपत्त्यभावः । अदितित्वेनादितिशब्दस्य तत्र विधि-त्सितत्वेनानुवादानुपपत्तेः । अन्यथा १अन्योन्याश्रयप्रसङ्गादिति पूर्वपक्षी मन्यते । सिद्धान्तिनस्त्वयमाशयः । भावे हि ‘त्व’ प्रत्ययः स्मर्यते । तद्धितभावश्च शब्दप्रवृत्तिनिमित्तम् । तच्च क्वचिज्जातिः क्वचित्क्रिया क्वचिद्गुणः क्वचिद्द्रव्यं क्वचित्स्वरूपम् । तत्र यत्सर्वात्तृत्वमुक्तं तददिति-त्वम् अदितिशब्दप्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमस्योच्यते । अदिते-रिति च भाविनी संज्ञा विज्ञायते । यथा– ‘अस्य सूत्रस्य शाटकं वये’ति । अन्यथा परस्यापि दुर्घटमेतत् । अविवक्षितनिमित्तां प्रसिद्धि-माश्रित्य ममानुवाद इति चेन्ममापि तत्समम् । इयास्तु विशेषः । परस्य लौकिकी प्रसिद्धिर्मम तु वैदिकीति ॥ २ ॥

प्रबोधिनी

ॐ अत्ता चराचरग्रहणात् ॐ ॥ सर्वं वा अत्तीत्य-त्रोक्त अत्ता संहर्ता विष्णुरेव न त्वदितिर्देवमाता । सर्वं वा अत्तीति चेतनाचेतनजातस्य भक्ष्यतया ग्रहणाद् अभिधानात् । न हि चराचरस्य सर्वस्यात्त्री देवमातेति सूत्रार्थः । अत्रेति ॥ ‘‘स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वम्’’ इति बृहदारण्यक श्रुतावित्यर्थः । स अदितिर्यद्यदसृजत तत्तदत्तुं भक्षणार्थं मन इति शेषः । अध्रियत दधार । तत आदच्चेति शेषः । कुतः सर्वात्त्री सा । स सर्वमत्तीति यत्तत्सर्वात्तृत्वमदितेरदिति शब्दार्थस्यादितित्वमदिति-शब्दप्रवृत्तिनिमित्तं यस्मादतः सा सर्वात्त्रीति श्रुत्यर्थः । अदित्यां स इति पुल्लिङ्गं च ‘कूटस्थोऽक्षर उच्यते’ इत्यादिवदिति भाष्ये स्पष्टम् । लिङ्गस्यापीति । अदितित्वलिङ्गस्य श्रवणादित्यर्थः । न हि विष्णो-रदितिभिन्नस्यादितित्वमिति भावः । न केवलमदितिश्रुतेरित्यपि-शब्दाशयः । प्रकरणाच्चेति ॥ अप्संवत्सरापरपर्यायचतुर्मुखसृष्ट्यादिना वैष्णवत्वेन निश्चित ‘नैवेह किञ्चनाग्र आसीत्’ इत्यादिप्रकरणबलाच्च सर्वं वा अत्तीत्युक्त अत्ता विष्णुरेवेति सिद्धान्तितमित्यर्थः ॥ दुर्बलत्वादिति ॥

श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।

पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णयः ॥

इति स्मृतेरिति भावः । यद्यपि लिङ्गं लिङ्गात्समानमेव न तु दुर्बलम् । तथापि श्रुतिसाहित्येन पूर्वपक्षिणोऽदितित्वलिङ्गस्य प्राबल्यमभिप्रेत्य लिङ्गप्रकरणयोर्दुर्बलत्वादित्युक्तम् । अन्यथा श्रुतेर्लिङ्गस्य चेत्यवक्ष्यत् । अदितिर्देवतामयीत्यादिप्रयोगादिति ॥ देवतामयी देवतोत्तमा अदितिरित्यर्थः । आदिपदेन अदितिर्हीदं सर्वं यदिदं किञ्चेति श्रुतिपरिग्रहः । श्रुतिलिङ्गे इत्यत आहेति ॥ ईदूदेद्द्विवचनं प्रगृह्यमिति प्रगृह्यसंज्ञायां प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावः ॥ व्यक्तेर-भेदादिति । एकव्यक्तिमात्रवृत्तिस्तु न जातिरित्युक्तेरिति भावः । तदुक्तं–

व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।

रूपहानिरसंबन्धो जातिबाधकसङ्ग्रहः ॥ इति ॥

स्वरूपमेवेति ॥ तथा चादितित्वशब्दस्य धर्मिवाचकतया न लिङ्गात्मकशब्दत्वमिति भावः । अदितित्वलिङ्गस्य सावकाशत्वमपि निराह । न चादितिस्वरूपमिति ॥ न चादितिशब्द इति ॥ त्वप्रत्ययप्रकृतिरित्यर्थः । अनुपपत्त्यभाव इति । अत्यन्तभिन्नत्वा-दित्युक्तानुपपत्यभाव इत्यर्थः । तथा चादितित्वलिङ्गस्य सावकाशत्व-मिति भावः । विधित्सितत्वेनेति ॥ विधातुमिच्छाविषयत्वेनेत्यर्थः । विपूर्वाद्दधातेः सन्नंतात् क्तप्रत्ययः । अनुवादानुपपत्तेरिति ॥ प्रवृत्ति-निमित्तोक्तेः पूर्वमदितिशब्दविधानाभावेन तदधीनस्यादितेरित्यनुवाद-स्यानुपपत्तेरिति भावः । अन्यथेति ॥ अदितिशब्दस्य विधाना-त्पूर्वमप्यनुवादे इत्यर्थः । अन्योन्याश्रयादिति ॥ अदितेरित्यनुवादे सति तत्पदप्रवृत्तिनिमित्तकथनपूर्वकमदितिशब्दस्येश्वरे विधानसिद्धिः । तत्सिद्धौ चादितेरित्यनुवादसिद्धिरित्यन्योन्याश्रयादित्यर्थः । तथा च नादितित्वं विष्णौ सावकाशमिति भावः । स्मर्यत इति ॥ ‘‘तस्य भावस्त्वतलौ’’ इति सूत्रादिति भावः । क्वचित्क्रियेति ॥ कर्तृत्वं भोक्तृत्वमित्यादौ । क्वचिद्गुण इति । रूपित्वं सुखित्वमित्यादौ । क्वचिद्द्रव्यमिति । दण्डित्वं कुण्डलित्वमित्यादौ । अस्येति । अदितित्वशब्दस्येत्यर्थः । तथा च धर्मवाचकतया लिङ्गत्वं युक्तमिति भावः । तदुक्तमनुव्याख्याने । ‘‘क्रियालिङ्गे’’ इति । तत्रैव सुधायां च क्रिये च ते लिङ्गे च ततः प्रथमाधिकरणात्परं द्वाभ्यामधिकरणाभ्याम् अत्ता चराचरग्रहणाद् गुहां प्रविष्टावात्मानौ हि तद्दर्शनादित्ये-ताभ्यामधिकरणाभ्यां चिन्त्येत इति । तच्चादितित्वलिङ्गं विष्णौ सावकाशम् । ननु विष्णावदितित्वनिमित्तेनादितिशब्दस्य विधित्सित-त्वेन निमित्तोक्तेः पूर्वं तस्य विधानाभावे नादितेरिति कथमनुवाद इत्यत आह । अदितिरिति चेति ॥ तथा च भाविनीं संज्ञां सिद्धवत्कृत्यादितेरित्यादावपि व्यवहारो युज्यत इति भावः ।

तत्र दृष्टान्तमाह । यथेति ॥ सूत्रशाटकन्यायश्चोपपादितो महाभाष्ये । तद्यथा कश्चित्कञ्चित् प्रत्याह । अस्य सूत्रस्य शाटकं वयेति । यत्पश्यति तद्यदि शाटको न तर्हि वातव्यः । यदि वातव्यो न स शाटकः । शाटकश्च वातव्यश्चेति विप्रतिषिद्धम् । तस्मादयमर्थः । ‘तथा वातव्यं यथोते शाटको भवती’ति । शाटकः परिधानीयः पटः । तं वय । वेञ् तन्तुसन्तान इत्यतो लोट् । कानड्या भाषया नेयीत्यर्थः । उपलक्षणमेतत् । यूपं न क्षति । ‘‘इग्यणः संप्रसारणाम्’’ इत्या-द्युदाहरणं द्रष्टव्यम् । अन्यथेति ॥ भाविसंज्ञानालंबन इत्यर्थः । परस्यापीति ॥ अदितिपदस्य प्रसिद्धादितिपरत्ववादिनोऽपि । एतत् तददितेरदितित्वमिति श्रुत्यर्थोपपादनं दुर्घटमित्यर्थः । उक्तदिशा परस्पराश्रयप्रसङ्गादिति भावः । नन्वेतदयुक्तम् । दर्शपूर्णमासप्रकरणे यदेनमस्मै दधि कुरुतेत्यब्रवीत् तदस्मै दध्यकुर्वन् तदेनमधिनोत्तद्दध्नो दधित्वमित्यैन्द्रदधिशब्दान्वाख्यानपरार्थवादवाक्ये दधिशब्दा-न्वाख्यानायाविवक्षितप्रवृत्तिनिमित्तां लोकप्रसिद्धिमाश्रित्य दध्नो दध्न इत्यनुवाद इवेहापि देवमातर्यदितिशब्दान्वाख्यानायाविवक्षितप्रवृत्ति-निमित्तां लोकप्रसिद्धिमाश्रित्य देवमातुरदितेरित्यनुवादसम्भवेना-न्योन्याश्रयशङ्काया दूरोत्सारणेन श्रुत्यर्थोपपादनस्य सुघटत्वादित्या-शङ्क्य समाधत्ते । अविवक्षितेत्यादिना ॥

ननु लोकमातर्यदितिशब्दस्य प्रसिद्धेर्लौकिकीं तामाश्रित्यादिते-रित्यनुवादो मम युक्तः । भवतां तु विष्णावदितिशब्दस्याप्रसिद्धे-र्लौकिकीं तामाश्रित्य कथमदितेरित्यनुवादो भवेत् । येन तौल्यमित्यत आह । इयांस्त्विति ॥ वैदिकीति ॥ लौकिक्या विप्लुतिसम्भवा-द्वैदिक्यास्तु प्रसिद्धेस्तदयोगादिति भावः । वस्तुतस्तु यदेनमधिनोत्तद्दध्नो दधित्वमित्यादिकं यदि प्रसिद्धदधिविषयं तर्हि जातिनिमित्तकस्य दधिशब्दस्येदमन्वाख्यानमात्रम् । यदि त्वप्रसिद्धविषयं तर्ह्यबाधा-न्निमित्तपरमेवेत्युक्तत्वात्तन्न्यायेन तददितेरित्यपि वाक्यं विष्णावदिति-शब्दप्रवृत्तिनिमित्तपरमेव । देवमातरि रूढिबाधनायेत्यदितिशब्दस्य भाविसंज्ञाश्रयणमेव ज्यायः । न चाबाधे श्रुत्युक्तं निमित्तं त्यागार्हम् । अनश्नन्नित्यादेस्तु गतिर्वक्ष्यत इति । तदेनमिन्द्रमधिनोत् । धिनु पुष्टौ । अपुषत् । धियि प्रीणने । अप्रीणयदिति वा यत्तद्दध्नो दधिपदवाच्यस्य दधित्वं दधिपदप्रवृत्तिनिमित्तमिति श्रुत्यर्थः ॥ २ ॥