जिज्ञासाधिकरणम्
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
प्रथमाध्याये प्रथमः पादः
जिज्ञासाधिकरणं ञ्–१–१
न्यायविवरणम्
चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे ।
नमो नारायणायाजशर्वशक्रादिवन्दित ॥ १ ॥
कृत्वा भाष्यानुभाष्येऽहमपि वेदार्थसत्पतेः ।
कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृतिं स्फुटम् ॥ २ ॥
करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम् ।
प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः ॥ ३ ॥
जीवव्यतिरिक्तेश्वरस्याभावात्तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति प्राप्ते ‘अथातो ब्रह्मजिज्ञासा’ इत्याह ॥ ‘तद्विजिज्ञासस्व तद्ब्रह्म’ इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभव-सिद्धाल्पगुणजीवाभेदः । अथ कस्मादुच्यते ब्रह्मेति । ‘बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेः ॥ १ ॥
श्री जयतीर्थविरचिता न्यायविवरणपञ्चिका
न्यायविवरणपञ्चिका
जयन्ति जानकीभर्तुश्चरणाम्भोजरेणवः ।
नमत्सुरकिरीटस्थान् ये मणीनतिशेरते ॥ १ ॥
दुरन्तदुरितध्वान्तविपाटनपटीयसे ।
बादरायणसंज्ञाय परस्मै महसे नमः ॥ २ ॥
नमामि श्रीमदानन्दतीर्थाचार्यं परं गुरुम् ।
यस्य वाणीकृपाणीयं निकृन्तति भवाटवीम् ॥ ३ ॥
प्रणम्य चरणाम्भोजे गुरूणां तत्कृपाबलात् ।
सन्न्यायविवृतिव्यख्यां करिष्यामि यथामति ॥ ४ ॥
ग्रन्थारम्भे विघ्नविघातायाचार्यः समुचितविशिष्टेष्टदेवतां नारायण-मुपश्लोकयति ॥ चेतनेति ॥ जन्मादिसूत्रे यत्सकलजगज्जन्मादिहेतुत्वं सार्वज्ञ्याद्यशेषगुणवत्त्वं चेति द्विविधं ब्रह्मलक्षणमभिप्रेतं तदाद्येन पदद्वयेन नारायणस्य सूचितम् । चेतनेति सकलजगत्सङ्ग्रहार्थम् । तेन कथञ्चिज्जगदेकदेशनियमनवतां विरिञ्चादीनां व्युदासः । अत्र द्वितीयान्तस्य जगच्छब्दस्य तृन्नन्तेन नियन्तृशब्देन समासः । तेन जगन्नियमने नारायणस्य प्रयोजनसद्भावे प्राक्तदूनत्वादपूर्णता । अन्यथा तदेवायुक्तमित्येतदपि निरस्तम् । तृनस्ताच्छील्यार्थत्वात् । अशेष-विषयत्वादशेषा संविद्यस्यासावशेषसंवित् । अनेनैव विशिष्टता चोपपादिता भवति । अजेत्यादिनेष्टदेवतात्वमुपपादयति । अजादयो हीश्वरा न कस्यापि वन्दारव इति केषाञ्चिदभिमानः । तन्निरासायैषां ग्रहणम् । आदिपदेनादित्यादीनां ग्रहणम् । अत एव समासार्थतया प्राप्तयोरपि शर्वशक्रयोः स्वरूपेणोपादानम् ।
नान्येषामिव मम परोक्षो नारायण इति ज्ञापनाय सम्बुद्ध्यन्त-प्रयोगः । तुभ्यमित्यध्याहारेण सम्बन्धः ॥ १ ॥
कृत्वेत्यादिना श्लोकद्वयेन ग्रन्थारम्भं समथर्यते । तथा हि । सूत्रार्थ-ग्रहणाय खल्वयमारम्भः । तच्च भाष्यानुव्याख्यानाभ्यामेव सिद्धमिति किमनेनेत्यत उक्तं ‘भाष्यानुभाष्ये कृत्वापि सूत्रानुव्याख्यासन्न्याय-विवृतिं करोमि’ इति । सत्यं सूत्रार्थग्रहणाय भाष्यानुभाष्ये कृते तथाप्यनुव्याख्यायामुक्ता ये सन्न्यायास्तेषां विवृतिं ‘विव्रियन्तेऽनया’ इति तद्विवरणार्थं ग्रन्थं करोमीति । न्यायशब्देन पूर्वोत्तरपक्षयुक्त-योऽभिधीयन्ते । अत्र तासां प्रतिपादकानि वाक्यान्युपलक्ष्यन्ते । पूर्वपक्षन्यायानां सत्वं, सदलत्वं सूत्रप्रयोजकत्वमिति यावत् । सिद्धान्तन्यायानां तु तत्वनिश्चयसामर्थ्यम् ।
अथवा सिद्धान्तयुक्तय एव सन्न्यायाः । न च तेषां विवरणमन्तरेण पूर्वपक्षन्यायविवरणं सुबोधमिति तेऽप्युपलक्षणीयाः । अत एव प्रायेण सिद्धान्तप्राधान्येनैव विवृतिर्वर्तिष्यते । ‘लिङ्गं साधारणम्’ इत्यादि विषयवाक्यविवरणं तु क्वचिदेवेति नोक्तम् । साध्यनिर्देशस्तु न्याय-विवरणाङ्गमेवेति । न चैवं वाच्यं न सूत्राणामयङ्ग्रन्थ इति । परम्परया सूत्रार्थग्रहणोपायत्वादिति भावेन प्रसिद्धोऽप्यनुव्याख्यायाः सूत्रसम्बन्धो दर्शितः । एतच्च प्रारिप्सितग्रन्थगौरवसम्पादनार्थम् ।
ननु सूत्राणामेव गौरवं कुतः । परमाप्तप्रणीतत्वादिति भावेनोक्तम् ॥ कृष्णस्येति ॥ समासे गुणीभूतस्यापि सूत्रपदस्य बुद्ध्या विविक्तस्य भिन्नपदेन विशेषणं युज्यते । वेदार्थनिर्णयार्थत्वे श्रुतियुक्तिसम्पादि-तत्वाच्च गौरवं सूत्राणामिति भावेनोक्तं वेदार्थसत्पतेरिति । मुख्य-पालकस्य । स्यादेतत् ‘अथातो धर्मजिज्ञासा’ इत्यादिनैव वेदार्थस्य निर्णीतत्वाद्गतार्थानि सूत्राणीत्यतो वा तदुक्तं वेदार्थसत्पतेरिति ॥ ब्रह्मैव हि सर्ववेदानां मुख्योऽर्थः । तन्निर्णयाय चैतानि सूत्राणि भगवता कृतानीति भगवति वेदार्थसत्पतित्वम् । अन्ये तु पुनरे-तन्न्यायोपजीवनेन वेदैकदेशामुख्यार्थकर्मादिनिर्णयाय सूत्राणि प्रणीत-वन्ति इति । ननु सन्न्यायविवृतिं शिष्या एव करिष्यन्ति किमनेन स्वकृतग्रन्थविवरणेनेत्यत उक्तम् ॥ अहमिति ॥ अनेनान्येषामसामर्थ्यं सूचयति । ‘ईदूदेदिति प्रगृह्यत्वे मणीवादीनां प्रतिषेध’ इति वचना-द्भाष्यानुभाष्येऽहमिति प्रकृतिभावाभावः ।
यद्वा अनुव्याख्यायाः सन्न्याया भाष्यानुभाष्ययोरेव विवृताः । यथा भाष्ये ‘सर्वज्ञा हि रुद्रादय’ इत्यादिना । अनुभाष्ये च ‘आप्तैः प्रत्यक्षतो दृष्ट्वा’ इत्यादिना । किमनेनेत्यत उक्तं सूत्रानुव्याख्या-सन्न्यायानां विवरणं भाष्यानुभाष्ये कृत्वाऽप्यत्र स्फुटीकरोमीति । सामीप्याद्वर्तमानव्यपदेशः । स्फुटत्वं च सर्वविषयत्वेनाक्षरार्थ-व्याख्यानेन चेत्यादि । किमनेन स्फुटीकरणेन, येनायं ग्रन्थः कर्तव्यः स्यादित्यत उक्तम् ॥ मन्दबुद्धीनामुपकारिकामिति ॥ न चैवं महाबुद्धीनामनुपादेयता तदपेक्षितस्याप्यत्राभावादिति भावेनोक्तम् ॥ बुधानां चेति । अस्तु परेषामिदं प्रयोजनं स्वस्य तु कृतग्रन्थप्रवृत्तिरेव नेत्यत आह ॥ प्रीत्या इति ॥ संक्षेपविस्तराभ्यां स्वग्रन्थे विवृते सत्सु चोपकृतेषु सूत्रकृतो महती प्रीतिर्भवति । एतेनैतदपि निरस्तम् । आदौ दुर्गमार्थानि वाक्यानि विरच्य पुनस्तद्विवरणं, वृथा लवणं जग्ध्वा पुनः पानीयान्वेषणमनुसरतीति ॥ प्रीत्या एवेति सम्बन्धः । न केवलं ग्रन्थनिर्माणफलं तत्प्रीतिरपि तु तत्कारणं चेत्याह ॥ तत्प्रसादेति ॥ तत्प्रसादः पुरःसर इव कारणं यस्य ग्रन्थं कुर्वतो मम सोऽहं तथोक्त इति ॥ ३ ॥
एवं न्यायविवरणारम्भमुपपाद्येदानीं प्रथमाधिकरणपूर्वपक्षन्यायं तावद्विवृणोति ॥ जीवेति ॥ ननु प्रथमद्वितीयपादयोर्युक्तिमालैव नास्ति । तत्कस्य विवरणमुच्यते । यद्यप्यत्र ‘बाहुल्यं लिङ्गशब्दानां’ इत्यादिवन् न न्यायाः सङ्ग्रहेणोक्तास् तथापि प्रत्यधिकरणं सिद्धान्त-न्यायास्तावदुक्ता एव । पूर्वपक्षन्याया अपि क्वचिदुक्ताः क्वचिदनुमिताः सन्त्येवेति युक्तं विवरणम् । यद्यप्यत्र विषयप्रयोजनसम्बन्धाधि-कारिणामनुपपत्त्या पूर्वपक्षः, तदुपपादनेन च सिद्धान्तस् तथाप्युप-लक्षणतया विषयनिराकरणसमर्थनयोरेव तदुपपादनादिना विवरणं क्रियते । एवमन्यत्रापि द्रष्टव्यम् । अत्र तावत् ‘ओतत्ववाची’ इत्यादिना सिद्धान्तन्यायोऽभिहितः । तेनानुमितश्चायं पूर्वपक्षन्यायोऽत्र विव्रियते । ईश्वरो हि विचारविषयतयाऽभिमतः । न चासौ जीव-व्यतिरिक्तोऽस्ति प्रमाणाभावात् । प्रत्यक्षानुमानयोस्तद्विषयत्वा-नङ्गीकारात् । आगमस्य कार्यपरत्वात् (पा.) कार्यज्ञापकत्वात् । सिद्धज्ञापकत्वेऽपि तस्य जीवविषयत्वोपपत्तेरिति भावः । ततः किं स एव विचारविषयो भवत्वित्यत आह ॥ तस्य चेति ॥ उपलक्षणमेतत् । स्वप्रकाशज्ञानाश्रयत्वेन मानसप्रत्यक्षेण वा निश्चितत्वादित्यपि द्रष्टव्यम् । जिज्ञास्यता विचारविषयता । सन्दिग्धो हि विचारस्य विषयो भवति । न हि निश्चिते संशयो युज्यते विरोधादिति । चः समुच्चये । समुच्चिताभ्यामेव द्वाभ्यां विषयाक्षेपसम्भवात् । एतन्निरासाय सूत्रमवतारयति ॥ प्राप्त इति ॥ तन्निरासार्थं सूत्रकार इति शेषः । अनुव्याख्यान्यायविवरणं प्रतिज्ञाय सूत्रोदाहरणमसङ्गतमिति चेन्न । येऽनुव्याख्यायामुक्ता न्यायास्ते नोत्सूत्रिता अपि तु सूत्र एवोक्ता-स्तदाक्षिप्ता अध्यायान्ते कृतया द्विरुक्त्या सूचिता एवेति ज्ञापनार्थत्वेन सङ्गतत्वात् ।
अत्र सूत्रे ब्रह्मशब्देन सूचितमनुव्याख्यया स एव ब्रह्मशब्दार्थ इति व्याख्यातं सिद्धान्तन्यायं विवृणोति ॥ तद्विजिज्ञासस्वेति ॥ कर्तव्यैव जिज्ञासा श्रुतिविहितत्वात् । न च विषयाभावः । ईश्वरस्य विचार-विषयत्वात् । न च जीवव्यतिरिक्तेश्वरे प्रमाणाभावः । यतः ‘तद्विजिज्ञासस्व’ इति श्रुतिर् जिज्ञासां विधाय ‘तद्ब्रह्मे’ति जिज्ञास्ये ब्रह्मशब्दं प्रयुङ्क्ते । तेन ज्ञायते जीवातिरिक्तः परमेश्वरो विष्णुर्जिज्ञासा-विषयोऽस्तीति । कथम् । ब्रह्मशब्देन जिज्ञासाविषयस्य भगवतः पूर्णगुणत्वोक्तेः । जीवानां चाल्पगुणतया स्वस्यानुभवसिद्धत्वात् ।
न च पूर्णगुणोऽल्पगुणानतिरिक्त इति शक्यते वक्तुं विरोधात् । श्रुतेश्च सिद्धार्थत्वस्य सिद्धत्वात् कुतो ब्रह्मशब्दस्य पूर्णगुणार्थत्वमित्यत आह ॥ अथेति ॥ उच्यते विष्णुः । ततो जीवोऽस्तु निश्चितो मा वा भूत् । ‘तद्ब्रह्म’ इति वाक्येन जीवातिरिक्ततया प्रतीतस्य नानाविध-विगानविषयतया सन्दिग्धप्रकारस्य वेदार्थस्य विष्णोर्मोक्षप्रयोजन-जिज्ञासा मुमुक्षुणा कर्तव्येति सिद्धम् । इदं सूत्रं शास्त्रव्यापारस्य विचारस्य कर्तव्यतासमर्थनद्वारेण शास्त्रस्यारम्भणीयतां प्रतिपादयदपि ‘तद्विजिज्ञासस्व’ इति वाक्यार्थविचारपरत्वाद् वेदार्थमीमांसाशास्त्रा-न्तर्गतमपि भवतीति वेदितव्यम् । एतदर्थविचारणमेव चतुरध्याय्यां भविष्यतीति प्रायेण न्यायविवरणस्यैवात्र ग्रन्थे प्रक्रान्तत्वात् सङ्गत्यादिकमन्यतोऽवगन्तव्यम् ॥ १ ॥
श्री बालाचार्यविरचिता निगूढार्थप्रबोधिनी
निगूढार्थप्रबोधिनी
कुब्रह्मान्यं महाब्रह्मगुणैः पूर्णमपांसुलम् ।
दुष्टघ्नमिष्टदं साधुज्ञेयं श्रीनृहरिं भजे ॥ १ ॥
जेजीयते गुरुः सत्यपरायणयतीश्वरः ।
द्विषां मूधर्ि्न पदं कुर्वन् धनञ्जय इवाधुना ॥ २ ॥
प्रणम्यानन्तसंख्यार्यान् संख्यावत्प्रवरान् मुहुः ।
सन्न्यायविवृतेष्टीकां विवृणोमि यथामति ॥ ३ ॥
लक्ष्मीनारायणाचार्ययाञ्चया नृहरेर्मुदे ।
धीवाक्शुध्द्यै न निन्द्योऽस्मि नाम्ना बालः स्खलन्नपि ॥ ४ ॥
ग्रन्थादौ मङ्गलमाचरति ॥ जयन्तीति ॥ अतिशेरत इति । नमन-समये मणिषु स्वसङ्क्रमणेन तान्न्यग्भावयन्तीति भावः । शीङ् स्वप्न इत्यतो लट् । शीङो रुडिति रुडागमः । ‘देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणां’ इति मणीनां कर्मत्वम् । कुरून्स्वपितीति यथा ॥ महस इति ॥ तेजस इत्यर्थः । महो भवेदुत्सवतेजसोश्चेति विश्वः ॥२॥
निकृन्ततीति ॥ इदितो नुं धातोरित्यत्र योगविभागाद् इदितोऽपि नुं साधुर् इत्याहुः । तच्चिन्त्यम् । शिष्यावधारणाय प्रतिजानीते ॥ सन्न्यायेत्यादिना ॥ ४ ॥
नारायणमुपश्लोकयतीति ॥ पद्यविषयं करोतीत्यर्थः । श्लोकोपश्लोकशब्दौ पर्यायौ । पद्ये यशसि च श्लोक इत्यमरः । श्लोकृ सङ्घाते । अनुदात्तेत् । संघातो ग्रन्थः । स च ग्रथ्यमानस्य व्यापारो ग्रथितुर्वा । आद्ये अकर्मकः द्वितीये सकर्मक इत्युक्तेरिह ग्रथितु-र्व्यापारस्य विवक्षितत्वात् सकर्मकः । नारायणं श्लोकते ॥ प्राग्वदर्थः । तत्र प्रेरणांशत्यागे नारायणः श्लोकते । पद्यविषयो भवतीत्यर्थः । ततो हेतुमण्णिच् । नारायणं श्लोकयति । अर्थस्तूक्तः । अत्राणौ कर्मणोऽणौ कर्तृत्वाभावाण्णेरणाविति तङ्प्रसक्तेरभावाच्छेषात्कर्तरीति परस्मैपदम् ।
यद्वा उपेति भिन्नं पदम् । नारायणादवमो भगवान् भाष्यकारो नारायणं श्लोकयतीत्यर्थः । उपोऽधिके चेत्युपशब्दस्यात्र हीने कर्म-प्रवचनीयसंज्ञा ॥ तद्योगेन कर्मप्रवचनीययुक्ते द्वितीयेति नारायणमिति द्वितीया । उपहरिं सुरा इत्युदाहरणम् । हरेर्हीना इत्यर्थः । शिष्टं समानम् । अथवा उप समीपे श्लोकयति नारायणमपरोक्षतः स्तौतीति भावः । एतच्चानुपदं स्पष्टम् ॥ द्वितीयान्तस्येति ॥ द्वितीयाश्रितेत्यत्र श्रितादिषु गमिगम्यादीनामुपसङ्ख्यानाद् द्वितीयेति योगविभागाद्वेति भावः । षष्ठीसमासस्य न लोकाव्ययनिष्ठाखलर्थतृनामिति निषेधादिति ज्ञेयम् ॥ तदेवेति ॥ नियमनमित्यर्थः । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायादिति भावः ॥ वन्दारव इति ॥ वदि अभिवादन-स्तुत्योर् इत्यतः शृृवन्द्योरारुरित्यारुप्रत्ययः । अत एव कृद्योगे कर्तरीति कर्मणि षष्ठी । वन्दारुरभिवादक इत्यमरः । आदित्यादीना-मिति ॥ आदिपदेन स्कन्दैकदन्तादिपरिग्रहः । अत एवेति ॥ अजादयो हीश्वरा न कस्यापि वन्दारव इति केषाञ्चिद्वादिनां दुरभिमान निरासज्ञापनायैवेत्यर्थः । समासार्थतयेति ॥ अजशर्वशक्रादि-वन्दितेत्यत्र शर्वशक्रपदयोस्त्यागेऽपि बहुव्रीह्यर्थतया यद्यपि तयोर्लाभः सम्भवति तथापि स्वरूपेण तयोरुपादानं दुर्वादिदुरभिमाननिरास-ज्ञापनायैवेत्यर्थः । अन्ये तु चेतनाचेतनजगदिति समासार्थतया प्राप्तयोरपि शर्वशक्रयोरिह स्वरूपेण ग्रहणमुक्तदिशा दुर्वादिदुरभिमान-निरासाय । यद्यप्यजस्यापि तत्र समासार्थतया प्राप्तिरस्तीत्यज-शर्वशक्राणामिति वक्तव्यं तथापीहाजस्याभ्यर्हितत्वेनापरित्यज्यतया शर्वशक्रयोरेव ग्रहणं कृतमित्याहुः । समर्थयत इति पाठः साधुः । आगर्वादात्मनेपदिन इति चुरादावुक्तेः । समर्थयतीति पाठे तु चक्षिङो ङित्करणेनानुदात्तेत्वनिबन्धनस्यात्मनेपदस्य अनित्यत्वज्ञापनात्परस्मै-पदमिति ज्ञेयम् । तथा च कालिदासः । प्रार्थयन्ति शयनोत्थितं प्रिया इति ॥ न च तेषामिति ॥ पूर्वपक्षन्यायविवरणम् अन्तरेण विना तेषां सिद्धान्तन्यायानां विवरणं न च सुबोधमित्यन्वयः । अन्तरान्तरेणेति द्वितीया । अत एवेति ॥ सिद्धान्तयुक्तीनामेव सन्न्यायत्वादेवेत्यर्थः । प्रथमाधिकरणन्यायविवरणव्यावृत्तये प्रायेणेति ॥ क्वचिदेवेति ॥ तृतीयपाद इत्यर्थः । ननु सार्वत्रिकस्यापि नानुभवसिद्धाल्पगुणजीवाभेद इत्यादिसाध्यनिर्देशस्येह कुतो न प्रतिश्रुतिरित्यत आह । साध्य-निर्देशस्त्विति ॥ अप्रधानत्वान्न तत्प्रतिज्ञेति भावः । प्रसिद्धस्याप्यनु-व्याख्यायाः सूत्रसम्बन्धस्य कथने बीजमाह ॥ न चैवमित्यादिना ॥ एतच्चेति ॥ अनुव्याख्यायाः सूत्र सम्बन्धप्रदर्शनमित्यर्थः । गौरव-सम्पादनार्थमिति ॥ आदरणीयत्वसम्पादनार्थमित्यर्थः ।
गुणीभूतस्यापीति ॥ उपसर्जनीभूतस्यापीत्यर्थः ॥ बुद्ध्या विविक्त- स्येति ॥ प्रथमसूत्रे ॐकारान्वय इवेति भावः । अन्ये त्विति ॥ जैमिन्यादय इत्यर्थः । अमुख्यार्थेति ॥ एतच्च परममुख्यवृत्त्यपेक्ष-योक्तम् । ‘तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता’ इत्यनुव्याख्या-नोक्तेः । कर्मादीत्यत्रादिपदेन दैवपरिग्रहः । ननु भाष्यानुभाष्य इत्येदन्तद्विवचनस्य ईदूदेद्द्विवचनं प्रगृह्यमिति प्रगृह्यसंज्ञायां प्लुतप्रगृह्या अचि नित्यमिति प्रगृह्यसंज्ञकस्य प्रकृतिभावे सति गङ्गे अमू इतीव भाष्यानुभाष्ये अहमिति स्यात् । न तु एङः पदान्तादतीति पूर्वरूप-तेत्याशङ्क्य समाधत्ते ॥ ईदूदेदीति ॥ ईद् आदिर् यस्य तद् ईदादि । इदूद इति सूत्रम् । तेन प्रगृह्यत्वे प्रगृह्यसंज्ञायां विषये इत्यर्थः । प्रतिषेध इति ॥ प्रगृह्यसंज्ञाप्रतिषेध इत्यर्थः । तथा च यथा मणी-वोष्ट्रस्य लम्बेत इति भारतवाक्ये प्रगृह्यसंज्ञाभावेन सवर्णदीर्घस्तथेहापि पूर्वरूपत्वमिति भावः ।
ननु मुनित्रयानुक्तत्वान्नेदं वार्तिकम् । भारतवाक्यं तु वेतिपदच्छेदेन निर्वाह्यमिति चेन्न । काशिकायां वार्तिकतया उदाहृतेऽस्मिन् मुनित्रयानुक्तत्वस्य सन्दिग्धत्वात् । अस्य वार्तिकस्याप्रत्यख्यातत्वाच्च । अभ्युपगम्य चेदमुदितम् । संज्ञापूर्वकविधेरनित्यत्वान्नात्र प्रगृह्यसंज्ञेत्यपि ज्ञेयम् । तथा च श्रीहर्षः । ‘‘शत्रुसौहृदसमापनसीमास्तम्भकार्यमपुष-द्वपुषैवेति’’ । अनयैव रुच्या स्फुटपदस्वारस्याय च भाष्यानुभाष्यपदं सप्तम्यंततया व्याचिख्यासुस्तद्व्यावर्त्यामाशङ्कामुत्थापयति ॥ यद्वे-त्यादिना ॥ भाष्यानुभाष्य इति ॥ समाहारद्वन्द्व इति भावः । वर्तमाननिर्देश इति ॥ वर्तमानसामीप्ये वर्तमानवद्वेति सूत्रादिति भावः ॥ एतेनेति ॥ ‘तस्यैव देवस्य प्रीत्यै’ इत्यभिधानेनेत्यर्थः ॥ आदाविति ॥ प्रथममित्यर्थः। जग्ध्वेति ॥ भुक्त्वेत्यर्थः । प्रसाद इति ॥ प्रीतिरित्यर्थः । प्रसादानुग्रहापरपर्याययोः कादाचित्कशक्तिव्यक्ति-भावयुजोः परस्परं भगवता च सविशेषाभिन्नयोः प्रीत्योर्ग्रन्थनिर्माण-कार्यत्वतत्कारणत्वे न विरुद्धे इति न कश्चित् क्षुद्रोपाद्रवः । तदुक्तं ‘तत्प्रसादादेव मुच्यते’ इत्यत्र सुधायाम् । तस्य ब्रह्मणो नारायणस्य प्रसादात् परमानुग्रहादेव मुच्यत इति । तत्रैवान्यत्रापि । प्रसादो नाम इच्छाविशेषो गुणान्तरं वेत्यादि ।
सिद्धान्तन्यायास्तावदिति ॥ ओतत्ववाची ह्योंकारः । ॐ अथातो ब्रह्मजिज्ञासा, जन्याद्यस्य यत इत्यादिना तत्र तत्रेत्यर्थः । क्वचिदुक्ता इति ॥ ‘‘शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु’’ इत्यादिना शास्त्रयोनित्वाद्यधिकरणेष्वित्यर्थः । क्वचिदनुमिता इति ॥ जिज्ञासाधि- करणादावित्यर्थः । यद्यप्यत्रेति ॥ जिज्ञासानय इत्यर्थः । व्यक्तमे-तत्तत्वप्रकाशिकायाम् । विषयनिराकरणसमर्थनयोरेवेति ॥ करणे ल्युट् । क्रमात् पूर्वपक्षसिद्धान्तन्याययोरित्यर्थः । तदुपपादनादिनेति । आदिपदेन सम्बन्धोपपादनग्रहणम् । एवमन्यत्रापीति ॥ जन्माधि-करणादिष्वित्यर्थः । तत्र पूर्वसूत्रोक्तब्रह्मजिज्ञासाया विषय-प्रयोजनादिशून्यतया न कर्तव्यतेत्याक्षेपस्याभिप्रेतत्वादिति भावः । व्यक्तमेतच्चन्द्रिकायाम् । तद्विषयत्वानङ्गीकारादिति ॥ ईश्वरे प्रत्यक्षानुमानयोरप्रसक्त्येति भावः । कार्यपरत्वादिति ॥ लिङ् लोट् तव्यप्रत्ययार्थपरत्वादित्यर्थः । तदुक्तं सुधायाम् । किञ्चेश्वरे भवन्न तावत्प्रत्यक्षम् । तस्यापाततस्तदभावावेदकत्वात् । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुमिति । स्वप्रकाशज्ञानाश्रयत्वेनेति ॥ एतच्च प्राभाकररीत्या । मानसप्रत्यक्षेण वेति तार्किकरीत्या ।
यत्तु तत्त्वप्रकाशिकायामुक्तपक्षद्वयनिराकरणेन जीवस्य स्वप्रकाशत्व- समर्थनं, तद्भाष्यस्थ ‘ग्रन्थोऽयमपि बह्वर्थ’ इत्युक्तबह्वर्थत्वज्ञापनायेति ज्ञेयम् । तदुक्तं सुधायां जीवस्य चाहमिति स्वप्रकाशतया वा स्वप्रकाश-ज्ञानाश्रयतया वा मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासा-विषयत्वमित्युक्तमिति ॥ द्वाभ्यामेवेति । ईश्वराभावजीवसिद्धिभ्या-मेवेत्यर्थः । आक्षेपो निराकरणम् ।
ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ अत्रोङ्कारो बुद्ध्या विविक्तेन ब्रह्मेत्यनेनान्वीयते । अथ अध्ययनशमदमादिरूपाधिकारसम्पत्त्यनन्तरं, अतो ऽकारवाच्यात् प्रसन्नाद्ब्रह्मणो ज्ञानजन्यप्रसादजमोक्षाख्यफल-सद्भावात् ॐ ब्रह्मणः गुणपूर्णस्य विष्णोर्जिज्ञासा श्रवणमनननिदि-ध्यासनरूपा कर्तव्येति सूत्रार्थः । अत्र द्वे दर्शने । अथातो ब्रह्म-जिज्ञासेत्यादिमं सूत्रमित्येकम् । अपरन्तु ॐ अथातो जिज्ञासेत्यभि-नवचन्द्रिकाकृतः । तत्रोपपत्तिस्तत्रैव द्रष्टव्या ॥ न्याया इति ॥ पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चेत्यर्थः ॥ सूत्र एवोक्ता इति ॥ विकारशब्दादयः गुणपूर्णत्वजन्मादिकारणत्वादयश्चेत्यर्थः ॥ तदाक्षिप्ता इति ॥ सूत्रानुमिता इति भावः । एतच्च प्रायः पूर्वपक्षन्यायाभिप्रायेण । तेषां सूत्रोक्तत्वमप्याह ॥ अध्यायान्त इत्यादिना ।
अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा ।
विचारो यत्र सज्येत पूर्वोक्तस्यावधारणे ॥
अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् ।
विनिन्द्य चेतरान्मार्गात्सम्पूर्णफलता तथा ॥
इति द्वितीयाध्यायभाष्योदाहृतप्रमाणादिति भावः । सिद्धार्थत्व-स्येति ॥ इष्टे व्युत्पत्तिरिष्यत इत्यनुव्याख्यानोक्तेरिति भावः । इदमपि सौत्रातःशब्दव्याख्यानमित्यभिप्रेत्य सिद्धत्वादित्युक्तम् । मा वा भूदिति ॥ मा भूद्वेत्यन्वयः । भवतेर्लुङ् । न माङ्योगे इति अडभावः । नानाविधविगानविषयतयेति ॥ विवादविषयतयेत्यर्थः । विगानस्य नानात्वं च तत्त्वप्रकाशिकायां प्रथमाध्याये प्रायः प्रत्यधिकरणमुक्तदिशा द्रष्टव्यम् । शास्त्रान्तर्गतमपीति । तदुक्तं सुधायां ‘‘अत एवास्य सूत्रस्य न शास्त्र बहिर्भावः’’ इति । चतुरध्याय्या-मिति । चतुर्णाम् अध्यायानां समाहारश्चतुरध्यायी तस्यामित्यर्थः । सङ्ख्यापूर्वो द्विगुरिति द्विगुसंज्ञायां द्विगोरिति ङीप् । अन्यत इति ॥ तत्त्वप्रकाशिकादित इत्यर्थः ।
जन्माधिकरणम्
जन्माधिकरणं ञ्–१–२
न्यायविवरणं
न जीव एवायं ब्रह्मशब्दः । ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षण-त्वोक्तेः ॥ २ ॥
न्यायविवरणपञ्चिका
ॐ जन्माद्यस्य यतः ॐ ॥ अत्र पूर्वपक्षन्यायं सूचयन् प्रतिषेधति ॥ नेति ॥ जीव इति प्रथमान्तं सप्तम्यन्तं वा । आद्ये ब्रह्मेति शब्दो यस्यासौ ब्रह्मशब्दः । द्वितीये विषयसप्तमीयम् । ब्रह्मेति शब्दो ब्रह्मशब्दः । अयमिति ‘तद्ब्रह्म’ इति श्रौतः । अयं भावः । ब्रह्मशब्दस्तावज् जाति–जीव–कमलासन–शब्दराशिषु प्रसिद्धः । तत्र जातिपरत्वं नोपपद्यते । तस्याः सुप्रसिद्धत्वेन ‘तद्विजिज्ञासस्व’ इति जिज्ञास्यतानुपपत्तेः । अत एव न शब्दराशिपरता । प्रामाण्यादि-जिज्ञासा च लोकत एव सिद्धा । नापि कमलासनपरत्वम् । तज्जिज्ञा-साया निष्प्रयोजनत्वात् । अतः परिशेषाज्जीव एवायं ब्रह्मशब्दः । ननु सोऽपि प्रसिद्ध एव । मैवम् । देहादिविविक्ततयाऽप्रसिद्धत्वात् । विष्णौ तत्प्रयोगस्तु यौगिक एवेति ।
यद्वा जीव एवेति जात्यादेरप्युपलक्षणम् । एवशब्दस्तु भगवन्तं व्यावर्तयति । अयमभिप्रायः । जात्यादयो हि स्वरूपतो ब्रह्मशब्द-वाच्यतया च प्रमिताः । केवलमन्यतमस्य तात्पर्यगोचरत्वं कल्प्यम् । अलौकिके विष्णौ सर्वमपि कल्पनीयम् । तथा च जात्यादेः प्रसिद्ध-त्वान्निष्प्रयोजनत्वात्तद्विजिज्ञासस्वेति श्रुतिरनुपपन्नार्थेति कुतो नेत्येत-त्सूत्रोक्तमनुव्याख्यायां सूत्रव्याख्यानेनैव व्याख्यातं न्यायं विवृणोति ॥ यत इति ॥ जन्मादिकारणत्वस्येति ॥ सकलजगज्जन्मादिनिमित्त-त्वस्येत्यर्थः । एवशब्देन जीवादावसम्भविन इति सूचयति । जिज्ञास्य-ब्रह्मणः श्रुत्योक्तं लक्षणमेव, प्रसिद्धान्यपि जीवादीनि त्याजयिष्यति ग्राहयिष्यति चाप्रसिद्धमिति भावः ॥ २ ॥
प्रबोधिनी
ॐ जन्माद्यस्य यतः ॐ ॥ अस्य प्रमितस्य चेतनाचेतनात्मकस्य जगतः, जन्मादि सृष्टिस्थितिसंहारनियमन ज्ञानाज्ञानबन्धमोक्षा यस्माद् यथायोग्यं भवति तज्जन्मादिकारणं ब्रह्मेति सूत्रार्थः । लोकत एवेति । सफलप्रवृत्तिजनकत्वाद्यनुमानेनेत्यर्थः । अप्रसिद्धत्वादिति ॥ अतो देहादिभिन्नतया जीवस्यैव जिज्ञास्यत्वं न विष्णोरिति भावः । ननु विष्णावपि ब्रह्मशब्दप्रयोगात्तस्याप्यत्र जिज्ञास्यत्वं कुतो न स्यादित्यत आह ॥ विष्णौ तत्प्रयोगस्त्विति ॥ यौगिक एवेति ॥ न तु जीव इव रूढ इत्यर्थः । तथा च रूढियोगयो रूढेरेव बलवत्वाज्जीववाचित्वमेव मुख्यम् । न च रूढिपरित्यागेन योगाङ्गीकारो युक्तः । बाधकं विना मुख्यार्थत्यागायोगात् । न चात्र तादृशं बाधकमस्तीत्यतो जीव एव देहादिभिन्नतया जिज्ञास्य इति भावः । न जीव एवायं ब्रह्मशब्द इत्यनन्तरं तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति पूर्वाधिकरणपूर्वपक्षवाक्यशेषं मत्वापि व्याचष्टे ॥ यद्वेति । पराभिप्रेतोपादानत्वप्रतीतिवारणाय व्याख्याति । सकलजग-ज्जन्मादिनिमित्तत्वस्येत्यर्थ इति ।