द्वितीयः पादः
न च वाक् पूर्वरूपं मन उत्तररूपं ‘मनः पूर्वरूपं वागुत्तररूपम्’ इत्युक्तेः व्यामिश्रत्वादनिर्णीतिरेव । ‘वाक् पूर्वरूपं मन उत्तररूपं’ इति वाचः
पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनःपूर्वरूपं इत्यनेन साम्यम् । ‘मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ इति युक्तितो विशेषो
मनःपूर्वकत्वस्यैव श्रुत इति प्राधान्यं मनस एव हि ज्ञायते ।
सृष्टौ च विलये चैव सदा पूर्वप्रवर्तने । नियन्तृत्वे च वचसो मनोधीशं शिवो हि तत् ॥ इति श्रुतेश्च ॥1॥
न च मनःपूर्वकत्वनियमादशेषदृष्टादृष्टव्यापाराणां तस्य प्राणादनूनता
इन्द्रियस्थैः स्वरूपैस्तु ज्ञानानि जनयत्यसौ । मनस्स्थेन विशेषेण कार्मै कर्मकृदेव च ॥
पृथक्स्थितेन रूपेण जीवं धारयति प्रभुः । जीवस्थितेन रूपेण वेदयत्यहमित्यपि ॥
प्राण एको वशी नित्यं बाह्यान्तःकरणेश्वरः । तान्येतान्यवशान्येव तथापि कृपयैव सः ॥
पृथक्शक्तोपि तद्गैस्तु स्वरूपैस्तद्गकार्यकृत् । तस्येशो भगवान् विष्णुरेवमेष यथान्यगः ॥
इत्यादिश्रुतेः प्राणस्यैवाढ्यतावगमात् ॥2॥
सोध्यक्षे इत्यस्याप्येवमेवाशङ्का परिहारश्च । श्रुतिबाहुल्यमेवाशङ्कायां परिहारे च विशेषहेतुः ॥3॥
न च भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्तेर्मुक्तिलययोर्विशेषभावाच्चैकस्मिन्नेव भूते सर्वेषां लयोर्थतः क्लृप्तः इति वाच्यम् ।
तत्तद्भूतोद्भवत्वात् तत्तद्देवानां तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेः । विशेषश्रुतेश्च ॥4-5॥
न च प्रकृतेः संसाराभावादिनेशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात् सर्वसाम्यमेवेश्वरेण, न चेत् संसारित्वमिति युक्तम् । ईश्वरस्य
महामहिमत्वात् । नित्यमसंसारित्वस्य नित्यं तदनुग्रहेणैवोपपत्तेः ।
सदानित्यतयानित्यं नित्यं नित्यात्मना यतः । नित्ययैव स्वशक्त्यैशो नियामयति नित्यदा ॥
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । प्रकृतिः पुरुषश्चैव न सन्ति यदुपेक्षया ॥ इत्यादिश्रुतेश्च ॥6॥
न चान्यदेवादीनां प्राणाधीनत्वात् तत्प्राप्तिनियमात् परप्राप्तिर्नास्त्येव ।
प्राणं प्राप्य परं देवास्तदन्ये चैव तद्गताः । प्राप्नुवन्ति परं देवं वसन्ति च यथासुखम् ॥ इति विशेषश्रुतेः ॥7॥
न च सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पाद्यनुसारित्वनियमे संसारसमानधर्मत्वं मुक्तेरिति वाच्यम् । कृतार्थत्वेन विशेषोपपत्तेः ।
अपूर्णतादिभावो वा दुःखं वा नास्ति किञ्चन । मुक्तस्य पारतन्त्र्येपि तारतम्येप्यतः सुखी ॥ इति च श्रुतिः ॥8॥
न च प्रारब्धकर्मशेषत्वात् उत्क्रान्तावविशेषो ज्ञानिनः । ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुवृत्तेः ।
प्रारब्धकर्मशेषस्तु विरजातरणावधिः । स्वोदयात् फलदं ज्ञानमादेहं कर्म वारवेः ॥
तथापि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते ॥ इति हि श्रुतिः ।
‘शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते । स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः स
सम्प्राप्नोति विरजां नदीं तत्सुकृतदुष्कृते विधूनुते’ ‘ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे’ इति च ।
‘अन्यथाभावनियमोनृतता कार्यकारणे’ इति च ॥9॥
न च कृष्यादिलौकिकसाधनस्य फलस्मरणानपेक्षत्वात् स्वर्गमोक्षयोरपि तथात्वमिति वाच्यम् ।
‘क्रियानुवृत्तिर्लौकिके साधने तु मनोनुवृत्तिर्वैदिके साधने स्यात् । भवेत् फलं सर्वथेत्येव तस्मात् स्मरेत् सदा निश्चितत्वेन विद्वान् ॥’
इति श्रुतेस्तदनुसार्यनुवृत्तेः लौकिकवैदिकयोः साम्यात् । अतोत्र फलानुस्मरणं लवनादिकृष्यनुवृत्तिवद् द्रष्टव्यम् ।
वचनप्रामाण्यात् ॥10॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य द्वितीयः पादः ॥