०१

प्रथमः पादः
‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति वचनात् स्वाभाविकमरणमेव मुक्तिरिति न मन्तव्यम् । मुक्तिसाधनत्वेन ज्ञानादिगुणाधिक्योपदेशात् मरणे भूतवियोगस्यैवाभावात् । ‘भूतयुक्तः परं लोकमिमं लोकं च गच्छति’ इत्यादिवचनात् ॥1॥
‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्यत्र भूतानीति सामान्यनामानुक्त्वापामिति विशेषनामकथनादपामेव सहगतिरिति न वाच्यम् । त्र्यात्मकत्वादपामर्थतः सर्वभूतानां गतिप्राप्तेः ॥2॥
न च भूतानि गच्छन्तीति सहैवानुक्तेस्तदभावः । प्राणगतेरुपपत्तित उक्तत्वात् ॥3॥
न च ‘अग्निं वागप्येति’ इत्याद्यन्यथोक्तेः प्राणानां च न सहगतिः द्विरूपत्वात् प्राणानाम् ॥4॥
न च ‘प्रथमतो भूतानि जुह्वति’ इति विशेषानुक्तेः भूतानामसहगतिः ‘भूतानि जुह्वति’ इत्युपक्रमादपि ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्युपसंहारस्याधिक्यात् तदनुसारेणोपक्रमोक्तश्रद्धाशब्दस्यापि ता एवार्थ इत्यापत्तेः । उपक्रमविरोधेनोपसंहारानुपपत्तेः ।
उपक्रमप्रामाण्यार्थमेवोपसंहारानुसारित्वमङ्गीकर्तव्यम् । व्याख्यानस्य पश्चात्तनत्वनियमात् ।
उपक्रमानुसारित्वनियमेप्युपसंहारस्योपसंहारेणैवोपक्रमार्थो ज्ञायते ॥5॥
न च विशेषाश्रवणनियम एव बलवान् । स्थानान्तरश्रवणस्याप्येतदनुरूपत्वात् । आर्थिकश्रवणमप्यनुक्तिं बाधत एव । किमु स्थानान्तरगतं स्पष्टश्रवणमिति कैमुत्यार्थमेव नेष्टादिकारिणां प्रतीतेरिति परिहारान्तरमुक्तम् ॥6॥
न च ‘अपाम सोमममृता अभूम’ इति विशेषत एव मोक्षफलस्याप्युक्तेः कर्मैव तत्साधनमिति मन्तव्यम् । ‘नान्यः पन्थाः अयनाय विद्यते' ‘स च आत्मानामेव लोकमुपास्ते । यावदिन्द्रो यावन्मनुर्यावदादित्यः’ इत्यादिश्रुतिबलादमृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेः ॥7॥
न चानुशयस्यापि सहभावात् स्वर्ग एव फलदत्वम् । भुक्तशेषानुशयवान् इत्यादिवचनाद्यथायोग्यमेव फलदानोपपत्तेः ॥8॥
न च मार्गस्यापि सहभावाद्यथागतमेवागमनमिति नियमः । वचनबलाद्यथायोग्यमेवागमनोपपत्तेः ॥9॥
न च ‘इष्टापूर्ते दत्तमित्युपासते’ इत्युपशब्देनेष्टादिभिराचारस्य सहपाठाच्चरणफलं पुनरावृत्तिं करणफलत्वेन भ्रमात् वदन्तीति वाच्यम् । ‘नान्यः पन्थाः’ इत्यादिवचनादेवोभयोरपि चरणशब्देनैवोक्तेर्योग्यत्वात् ॥10॥
न च भयफलकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसारः । अनिष्टकादिकारिणां तदभावान्मुक्तिरिति वाच्यम् । तेषां प्रबलदोषश्रुतेः
॥11॥
न च नरकभोगस्यानित्यत्वकथनान्नित्यनरकोक्तिः विरुद्धा ।
रौरवोथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥
तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ॥ इति विभागात् ॥12॥
न च सहस्थानादीशस्यापि नरकदुःखप्राप्तिः । स्वातन्त्र्यात् कारणाभावात् ॥13॥
न च साधनेन सह श्रुतेस्तद्वत् फलेपि जीवस्य स्वातन्त्र्यम् । अविहितत्वेन कारणाभावात् । अथैतयोः पथोः इत्यस्य च साधनार्थत्वात् ॥14॥
न च दुःखसहस्थायित्वादन्धेतमस्यपि सुखम् । ईशस्याप्रियत्वेनैव कारणाभावात् ॥15॥
न च धूमादिदेवतासहावस्थानात् कर्मिणोपि तत्पदप्राप्तिः । तन्निमित्तविद्याख्यकारणाभावात् ॥16॥
न च तैस्तैः सहावस्थानादतिचिरत्वम् । ‘वत्सरात् पूर्वमेवतु’ इति क्लृप्तकालादधिकावस्थाने कारणाभावात् ॥17॥
न च व्रीह्यादिजीवैः सहावस्थानात् दुःखप्राप्तिः । शब्दविहितत्वेन पापाख्यकारणाभावात् ॥18॥
ईशक्लृत्प्यैव पितरं प्रविश्यायाति न च वैयर्थ्य पितृशरीरगमने मातरम् इतीशक्लृप्तत्ववचनात् ॥19॥
न च पितुः सकाशादन्यतो वौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेर्योनिप्रवेशाभाव इति वाच्यम् । ‘योनिद्वारेण देहं च प्राप्नोति प्रायशो नरः’ इति
वचनात् सामान्यतो गत्यन्तराभावात् ।
विशेषकारणादेव विशेषाज्जनिरिष्यते । सामान्यजननं चैव नृणां सामान्यहेतुतः ॥ इति वचनाच्च ॥20॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य प्रथमः पादः ॥