चतुर्थः पादः
न च प्राणानामुत्पत्यङ्गीकारे ‘प्राणा एवानादयः’ इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोधः । ‘आत्मैवेदमग्र आसीत् स प्राणमसृजत स प्राणान्’
इत्यादिवचनादनादित्व एव स्पष्टार्थवद्विशेषश्रुतिविरोधात् । ‘इदं सर्वमसृजत’ इति सामान्यवचनस्याधिक्यं सिद्धान्ते । विशेषमात्रश्रुतेः
सावकाशाया उभयश्रुतेः प्राबल्यात् ॥1॥
न च ‘नित्यं मनोनादित्वात्’ इति विशेषश्रुतिविरोधः । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति विशेषश्रुतेः ॥2॥
न च ‘वाग्वाव नित्या’ इति विशेषश्रुतिविरोधः ‘मनसो वाव वागुत्पद्यते वाचो व्याहरणम्’ इति विशेषश्रुतेः ॥3॥
न च ‘दशेमे पुरुषे प्राणाः आत्मैकादशः’ ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ इति सङ्ख्याविशेषश्रुत्योरेव परस्परविरोधः । ‘गुहायां निहिताः सप्त
सप्त’ इति सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वात् सङ्ख्याश्रुत्योः विषयवैलक्षण्यात् ॥4॥
न च ‘दिवीव चक्षुराततम्’ इति व्याप्त्याख्यविशेषवाचकश्रुतिविरोधः । ‘अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्याततः’ इति ततोप्यणुत्ववाचकविशेषश्रुतिविरोधात् ॥5॥
न च यत्प्रीतिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ॥ इत्यादिमाहात्म्यवचनात् मुख्यप्राणस्य नोत्पत्तिरिति वाच्यम् ।
महत्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट् । किं नाम न सृजेदेष येन शक्येदमावृतम् ॥
इति श्रुतेस्ततोपि माहात्म्याद् विष्णोः ॥6॥
न च प्राणादिपञ्चस्य व्यक्तसद्गुणत्वान् मुख्यप्राणवृत्तित्वमेव ।
अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासाः पञ्च चान्येपि प्राणाद्याः सद्गुणैर्युताः ॥
इति श्रुतेः मुख्यप्राणस्य ततोपि व्यक्तसद्गुणत्वात् ॥8॥
न चाणुत्वे प्राणस्य ‘महान् वै मुख्यप्राणो येन व्याप्तं चराचरम्’ इति दृष्टायुक्तिः । ‘अणुर्वै मुख्यप्राणो य उत्क्रामति नाडीभिः’ इति दृष्टायुक्तेरनणुत्वे प्राणस्य ॥9॥
न चेन्द्रियाणां जीवाकरणत्वे दृष्टायुक्तिः । क्वचिदतद्वशत्वस्यापि दृष्टत्वात् । ‘यच्चक्षुषि तिष्ठन्’ इत्यादिदृष्टात्युक्तेरीशाधीनत्वानङ्गीकारे ।
लौकिकदृष्टेस्त्वीशेनैव जीवानुसारित्वक्लृप्त्योपपत्तेः ॥10॥
न चेशवशत्वसाम्यात् मुख्यप्राणस्याप्यन्यसाम्यम् ‘यस्मिन्निदं सर्वमध्याधर्नोत्’ ‘प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्’ इत्यादि श्रुतेरीशसाम्यस्यापि भावात् । ‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः’ इति श्रुतेर्मध्यमत्वोपपत्तेः ॥11॥
न च विरिञ्चस्यापि कर्तृत्वशक्तेः स एव शरीरादिस्रष्टा ।
त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥
अतो रूपस्य नाम्नश्च व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पितातो भगवान् प्रभुः ॥
इत्यादेस्तस्यैव कर्तृत्वशक्तेर्विरिञ्चस्य तु द्वारतयोपपत्तेः ॥12॥
न च मिश्रत्वाद् भूतानां मिश्रतायामविशेषः । ‘अन्नमशितं त्रेधा विधीयते’ इत्यादिना मिश्रतायामपि विशेषोक्तेः । सर्वं च भौतिकं मिश्रं मिश्रत्वेपि विशेषतः । भौमं मांसमसृग्वारि तेजो मज्जा विशेषतः ॥ इत्यादेश्च ॥13॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य चतुर्थः पादः ॥