अथ तृतीयः पादः
न च वियतः उत्पत्तिमत्वेनुभूतियुक्तिबहुवाग्विरोधोस्ति व्यवस्थायोगात् । अवकाशमात्रस्याव्याकृतात्मकत्वादनुत्पत्तिवचनानां तद्विषयत्वं
उत्पत्तिवचनानामसितवर्णभूताकाशतदभिमानिशरीरविषयत्वं पराधीनविशेषत्वमात्रविषयत्वं चेति व्याख्या ।
आकाशो नीिलमोदेति न प्रदेशः कथञ्चन । अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपि ॥ इति पैङ्गिश्रुतिः ॥1॥
ततोधिकमेतत्सर्वमनुभूत्यादिविरुद्धत्वं वायूत्पत्ताविति न वायोरेवानुत्पत्त्यनुपपत्तेः । पराधीनविशेषमात्रं ह्युत्पत्तिः । तदभाव उभयोः स्वातन्त्र्यं
विरुद्धमेव । सर्वोत्तमत्वानुपपत्तेः । उभयोरपि पराधीनत्वप्राप्तेश्चान्योन्यानुरोधे अननुरोधे तु न सर्वैश्वर्यम् । ज्ञानाविस्मृत्या वायावपि
व्यवस्थेत्यतिदेशः । अनुपपत्तिस्तु तत्प्रापिका । पराधीनविशेषवत्त्वमात्रं त्वाव्याकृताकाशस्य तदभिमानिप्रकृतेश्च सममेव ॥2॥
न च सतः पराधीनविशेषवत्वं स्वातन्त्र्यात् ॥3॥
न च विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्यम् । द्वारमनुसृत्यैव विष्णोः प्रवृत्तेः ॥4॥
न च तेजस एवापामुत्पत्यङ्गीकारे घर्मात् स्वेदादिदृष्ट्यनुसारित्वमिति गुणाधिक्यम् । मुख्यार्थपरित्यागप्राप्तेः ॥5॥
न चअद्भ्यो वान्नमुत्पद्यते इत्याद्युक्तप्रसिद्धान्नाख्यान्यार्थाविरोधेन प्रसिद्धान्ननामस्वीकारे बहुवाक्यानुवर्तितेति गुणः । अन्नशब्दस्य
प्रयोगबाहुल्यात् पृथिव्यामपि शक्तिमत्वात् । अधिकारादीनां निरवकाशत्वाच्च । बहुवाक्यानुरोधोप्यत्रैवेति ॥6॥
न च रुद्रादीनां लयकारित्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेः लोकदृष्ट्यनुसारित्वमिति गुणः । लोकपितृवैरूप्यात् विष्णोर्यथावाक्यमङ्गीकारोपपत्तेः । अन्यथा ‘न विष्णोरन्यो विलयकृन्न विष्णोरन्यो विमुक्तिदः’ इत्यादि श्रुतिविरोधात् । रुद्रस्य तु क्वचित्
संहारद्वारत्वेनैव तद्वाक्यानां सावकाशत्वात् ॥7॥
न च लोकानुसारित्वम् । क्रमादुत्पद्यते क्रमात् विलीयते क्रमेणैवोत्पत्तिः विलयश्च क्रमेणैवास्योत्पत्तिविलयौ इत्यादि लोकानुसारिबहुश्रुत्यनुरोधश्च यथोत्पत्तिलये ।
द्विविधः क्रम उद्दिष्टो व्यत्क्रमनुक्रमस्तथा । सुष्टावन्यो लये चान्य इति वेदविदो विदुः ॥
इति श्रुतेः क्रमवाक्यस्य सावकाशत्वात् वैरूप्यं बहुप्रकारत्वं क्रमस्य ॥8॥
न च केषाञ्चित् क्रमाल्लयः केषाञ्चित् व्युत्क्रमाल्लय इत्यङ्गीकारे लोकदृष्ट्यनुसारादन्तरा विज्ञानमनसी व्युत्क्रमः । सर्वं वा एतत् क्रमादुत्पद्यते व्युत्क्रमाल्लीयते इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लयसङ्ग्रहात् तल्लिङ्गस्य तु चराचरव्यपाश्रयविज्ञानादिविषयत्वेवैव
सावकाशत्वात् ॥9॥
न च चेतनत्वसाम्यात् विष्णोरपि देहलयः । ‘सर्वे वा एते चिदात्मानो ब्रह्मंल्लयमनुप्राप्य विष्णोरुदरे संविशन्ति’ इति तस्योदरे सर्वसङ्ग्रहादिश्रुतिभ्यो नित्यत्वावगमात् तद्देहस्य । अश्रुतत्वाच्चान्यथा ॥10॥
न चानादित्वाज्जीवस्य पराधीनविशेषाप्राप्तिः । ‘इदं सर्वमसृजत’ इति सर्वस्मिन् गृहीतत्वात् । पराधीनविशेषवत्वेप्यनादित्वस्याविरोधात् ॥11॥
न च सर्वदेहे स्पर्शज्ञानाद्रसादीनां च तत्र तत्र परिज्ञानाज्जीवस्यानणुत्वम् । उत्क्रान्तिगत्यादेः । आदिशब्देन सूक्ष्मतेजोरूपेण व्याप्त्या स्पर्शादिज्ञानोपपत्तिः । अतोणुत्वमनणुत्वं चेति भावः ॥12॥
न च जीवस्य बहुरूपत्वशक्तावीशेन गुणसाम्यम् । ईशशक्त्यैव बहुरूपत्वादेः ॥13॥
न च श्रुत्या जीवेश्वरैक्यम् । सर्वमानविरोधात् । श्रुतेः सादृश्यैक्यवादिना सावकाशत्वात् । बहुमानविरोधे एकस्य दौर्बल्याच्च । धर्मिग्राहकविरोधाच्च ॥14॥
न चोत्पत्तिमत्वाद्विनाशित्वं जीवस्य । अनित्यत्वे तदभीष्टमोक्षाद्यसिद्धेः । न च पराधीनविशेषवत्वमात्रेण विनाशित्वम् । तादृशानामेव नित्यत्वश्रुतिविरोधात् ॥15॥
न च स्वगुणाननुभूतत्यनुपपत्तेः पूर्वं ज्ञानादीनां सामस्त्येनाभावः । पूर्वमव्यक्तानां पश्चात् सुव्यक्त्युपपत्तेः ॥16॥
न चेश्वरस्यैव कर्तृत्वे कल्पनालाघवम् । जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यात् । तस्यापि कर्तृत्वे शास्त्रार्थसिद्धेश्च ॥17॥
न च नानाश्रुतेरप्रामाण्यम् । दृष्टभेदानुसारेण तासामर्थोपपत्तेः । अप्रामाण्यकल्पनस्य विपरीतज्ञानमूलत्वात् ॥18॥
न च वैचित्र्यमनाभासत्वे कारणम् । जीवानां सामान्यतः आभासत्वेपि विशेषादृष्टात् वैचित्र्योपपत्तेः ॥19॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य तृतीयः पादः ॥