०४

अथ चतुर्थः पादः
अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्वं चेति द्विविधं ह्यवरत्वादि । ‘निरनिष्टो निरवद्यः’ इत्यादिश्रुतेस्तत्तद्दोषतादात्म्यात्यस्पृष्टिनियमात् विष्णोः
‘नामानि सर्वाणि यमाविशन्ति’ इति श्रुतिबलाच्च नियन्तृत्वमवरत्वादिकमित्यापतति । श्रुतिद्वयस्यापि निरवकाशत्वात् । मृत्युशब्दादिषु
प्रसिद्धेश्च । प्रसिद्धत्वाच्च कर्तृव्युत्पत्तेः । ‘तमेव मृत्युममृतं तात दैवं सर्वात्मनावैहि परं परायणम्’ इत्यादेश्च । उपचारकल्पनायाश्च क्लिष्टत्वात् ।
प्रमाणाभावाच्च । नाव्यक्तादिशब्दानां परमात्मविषयत्वङ्गीकारे सर्वमानविरोधः ॥1॥
रूढिः (रूढो रूढयोगो महारूढो महायोगो महारूढयोगो - पा) योगः रूढियोगः महायोगो रूढी रूढियोगो महायोगो महारूढियोगो रूढोपचारो रूढलक्षणोपचारो लक्षणेति शब्दवृत्तिभेदात् रूढिपूर्वकत्वेन महायोगवृत्या परमेश्वरे अखिलशब्दव्युत्पत्युपपत्तिः ॥2॥
बहुरूपत्वादधिकरणाधेयत्वादिकं तस्यैव युज्यते ॥3॥
व्यक्त्यपेक्षया कार्यत्वं च ॥4॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य चतुर्थः पादः ॥