अथ तृतीयः पादः
‘प्राणानां ग्रन्थिरसि’ ‘रुद्रो वै लोकायतनम्’ ‘वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।’ ‘सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकिनश्च विष्णोरेवोताश्च प्रोताश्च भवन्ति’
इत्यादेः द्युभ्वाद्यायतनत्वमज्ञानां साधारणं िलङ्गम् ॥1॥
‘प्राणो वा आशाया भूयान्’ ‘विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान्नाम’ इत्यादेर्भूमशब्दोज्ञानां साधारणः ॥2॥
विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारणः ॥3॥
कारणत्वसाम्यात् विष्णोरचेतनप्रकृतेश्च ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिसृष्टिस्थानं साधारणम् ॥4॥
िलङ्गं हृत्पद्मस्थितत्वं साधारणम् ॥5॥
‘कथं नु तद्विजानीयाम्’ इत्यानुकूल्येन ग्रहणं कस्येति विचार्यमनुग्रहः ॥6॥
पुनः शब्दाः ‘ईशानो वज्रो ज्योतिराकाशः’ इति ॥7॥10-12॥
िलङ्गं स्वप्नादिदर्शनं कस्येति ॥13॥
शब्दो ब्राह्मण इति ॥14॥
अथ तृतीयः पादः
‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः’ इत्यत्रोक्तानां िलङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दिलङ्गबाहुल्यम् । ‘प्राणानां ग्रन्थिरसि रुद्रो माविशान्तकः ।’ ‘प्राणेश्वरः कृत्तिवासाः पिनाकी’ ‘मनो वै रुद्र ओतं च प्रोतं च’ ‘रुद्रो वाव लोकाधारः’
इत्यादिकं शब्दबाहुल्यम् ॥1॥
‘प्राणो वा आशाया भूयान्’ इत्युक्त्वा प्राणाद्भूयसोनुक्तिः ॥2॥
अत्तेत्युक्त्वा ‘न तदश्नाति किञ्चन’ इति विरुद्धता ॥3॥
‘बहु स्यां प्रजायेय’ इत्यन्यस्यान्यभावादृष्टिः ॥4॥
‘दहरोस्मिन्नन्तर आकाशस्तस्मिन्यदन्तिस्तदन्वेष्टव्यम्’ इत्यनेन ‘यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय आकाशः’ इत्यस्यान्वयाभावः ॥5॥
‘तदेतदिति मन्यन्ते’ ‘कथं नु तद्विजानीयाम्’ इति ‘तेषां सुखं शाश्वतं नेतरेषाम्’ इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः ॥6॥
‘ऊर्ध्वं प्राणमुन्नयति’ इत्यादििलङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः । एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते इत्यादिवाक्यात् भ्रमः ॥7॥
वज्रशब्द उद्यतिलङ्गं च तादृग्द्वयम् ॥10॥8॥
आदित्यादिज्योतिष्ट्वमुभयलोकसञ्चरणम् ‘आदित्येनैवायं ज्योतिषास्ते’ इत्यवधारणमित्यादीनां परमात्मान्यवकाशाभावो बहुतादृक्त्वम् ॥11॥9॥
‘वै नाम’ इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि ॥12॥11॥
जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः ॥13॥11॥
ब्राह्मणशब्दस्य पापालेपिलङ्गस्य च चतुर्मुखस्य सह परमात्मनाभेदं विनावकाशराहित्यदर्थादभेदप्राप्तिरिति समस्तमेतत् ॥14॥12॥ पूर्वपक्षः॥
तेषामेव िलङ्गशब्दानां ‘प्राणानां ग्रन्थिरसि’ इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्वम् । तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम् ॥1॥
प्राणस्य विष्णोः सकाशात् भूयस्त्वानुक्तिः । चशब्देन ‘एष तु वा अतिवदति’ इति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्च ॥2॥
सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धम् । ‘पतिं विश्वस्यात्मेश्वरं’ ‘विश्वात्मानं परायणम्’ इत्यादिश्रुतेः ।
अनशनत्वोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशता ॥3॥
अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते ॥4॥
आकाशपक्ष एवान्वयाभावः । विष्णुपक्षे तु योन्वेष्टव्यो भगवान् तस्यान्तर्हृदये यावान् वायमाकाशस्तावानाकाशः तस्मिन् द्यावापृथिवी अन्तरेव समाहिते स भगवानपहतपाप्मेत्यन्वयः ॥5॥
यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्ते । अतः पूर्ववादविपरीतैव श्रुतिः । पूर्ववादोक्तयोजना तु भ्रम एव ॥6॥
िलङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव । वामनश्रुतेरेवानकाश इति ईशानाशब्दोक्तो विष्णुरेव ॥7॥
वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यतत्वमिति ॥10॥8॥
‘अयं पुरुषः’ इति संसारी । आत्मशब्दोदित एव विष्णुः । अत आदित्यादिज्योतिष्ट्वं संसारिण एव । ‘आदित्येनैव’ इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि । लोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्यात् ॥11॥
वै नामेति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम् , प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धम् ॥12॥
सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोः भेदोक्तेरसङ्गतत्वादि चेश्वरस्यैवेत्यर्थात् भेद एव भवति । जीवस्य तदयुक्तेरीशे सावकाशत्वाच्च ॥13॥
ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोपि तस्मिन्नेव । चतुर्मुखस्य कर्मफलाभावायुक्तेस्तयोर्भेदोर्थादापद्यत एव । उक्तिविरोधश्च तत्रैव । भेदश्रुतिबाहुल्यात् । तल्लिङ्गं स शब्दश्च चतुर्मुखेनवकाश इति समस्तमेतत् ॥14॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः ॥