अथ द्वितीयः पादः
बहुिलङ्गसहितश्रुतेरपि सावकाशायाः निरवकाशश्रुत्यादीनामेव बलवत्वम् । बहवो ह्यत्रादित्यशब्दाः ।
क्षित्यादिषूक्त्वादित्येनुक्तिरित्यादििलङ्गं च । तथापि निरवकाशा एतमेवेत्यवधारणादयः ॥1॥
सन्दिग्धश्रुतििलङ्गाभ्यां निश्चितिलङ्गप्रकरणयोरेव बलवत्वम् । सन्दिग्धश्रुतिः िलङ्गं चादितिशब्दोदितत्वं च ॥2॥
द्विवचनश्रुतेरपि निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ॥3॥
‘सोहमस्मि’ ‘स एवाहमस्मि’ इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योपि निरवकाशोपपत्तेरेव प्राबल्यम् ॥4॥
पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेः विष्णोरपि ॥5॥
‘अक्षरात् परतः परः’ इति श्रुतेरपि नाक्षरात् सम्भवतीह विश्वं इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ॥6॥
श्रुतिसाधारण्येपि विशेषश्रुत्यादेः निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्वनिरवकाशत्वबलात् निश्चयः ॥7॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ॥