०४ चतुर्थः पादः

न च एतं सेतुं तीर्त्वा’ इत्यत्रातिक्रमोक्ते र्मुक्तो ब्रह्म तीत्वा गच्छतीति

सम्पद्याद्यधिकरणं

न च एतं सेतुं तीर्त्वा’ इत्यत्रातिक्रमोक्ते र्मुक्तो ब्रह्म तीत्वा गच्छतीति । तरतीति सामान्य प्रतीतेर् ब्रह्म तीत्वेदं गच्छतीति विशेषानुक्तेः । “इमां घोरामशिवां नदीं तीर्त्वा ब्रह्म सम्पद्यत’ इति विशेषोक्तेश्चैतं सेतुं प्रत्यन्यत् तीर्त्वेत्यन्यथोपपत्तेः ॥1॥

मुक्ताधिकरणं

न च कृतिमत्त्वादमुक्त एवोच्यते । “स तत्र पर्येति’ इत्यादौ “स्वेन रूपेणाभिनिष्पद्यते’ इति मुक्तस्य स्पष्टं प्रतिभातत्वाच्छ्रुतौ । स तत्र पर्येतीति श्रुत्यैक्यप्रतीतेश्च ।एवम्भूतस्यापि प्रकरणत्वं परिकल्प्य श्रुतिबाधाङ्गीकारे सा श्रुतिरप्येवं विभज्य किं योजयितुं न शक्या इति श्रुतेरेवाभावप्रसङ्गः । सत्यं ज्ञानमित्यादावपि सत्यमित्यस्यान्यमित्यनेननान्वय इत्यादिप्रसङ्गात् ॥2॥

आत्माधिकरणं

न च परञ्ज्योतिःशब्देनादित्यज्योतिरङ्गीकारे “स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्त’ इत्यादिनैकार्थतेति प्रयोजनम् । “अथ किमुच्यते परं ज्योतिरित्यात्मैव परञ्ज्योतिः स हि परमो द्योतते जीवाच्चाजीवाच्च तस्मादाहुः परञ्ज्योतिरिति । तमेव जीवोभिसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति तस्यैव परञ्ज्योतिष्ट्वोक्तेः । सावकाशलिङ्गान्निरवकाशश्रुतेरेव बलवत्वात् ॥3॥

अविभागाधिकरणं

न च परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्ति । ईश्वरस्य स्वत एव पूर्णानन्दत्वादभोगस्यापि सम्भवादिति वाच्यम् । पूर्णानन्दः पूर्णभुक् पूर्णकर्ता पूर्णज्ञानः पूर्णभाः पूर्णशक्तिः । “आश्चर्यत्वाद् भगवान् वासुदेवो विरुद्धशक्तिर्न च दोषस्पृगीशः’ इत्याश्चर्यतयैव ब्रह्मण उभयोक्तेः । सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव बलवत्वात् ॥4॥

ब्राह्माधिकरणं

न च पारगतत्वान्मुक्तस्य चिन्मात्रदेहोपि नास्तीति वाच्यम् । अकृत्रिमत्वात् तस्य देहस्याप्यनपगमात् । “अथ विमुक्तस्य चिन्मात्र एव देहो भवति चिन्मात्राणि करणानि तैरीशानुगृहीतैर्भोगान् भुङ्क्ते’ इति श्रुतेः ॥5॥

सङ्कल्पाधिकरणं

न च भगवदोकः स्थितत्वान् मुक्तस्य तस्याप्योकस्त्वसाम्येन तत्तदुपायसाध्यभोगसाधनत्वं वाच्यम् । निर्दोषत्वात् तदोकसो मुक्तस्य च सङ्कल्पादेवेति श्रुत्युक्तानुसारेणोपपत्तेः ॥6॥

अनन्याधिपत्याधिकरणं

न च परगृहगतत्वादस्य राजगृहगतस्यैव स्वाधमा अपि कदाचिदीशते । निर्दोषत्वादेव मुक्तस्येश्वरस्य तत्रस्थानां मुक्तान्तराणां च राजदोषवद्दोषासम्भवाद्यथा योग्यमेव स्वीकारोपपत्तेः ।मुक्तानां पतयो देवा देवानां च प्रजापतिः । तस्य विष्णुर्न चैवेदं पारावर्यं विनश्यति ॥ इति च श्रुतिः ॥7॥

अभावाधिकरणं

न च देहभावे तत्कार्यदुःखादिस्तदभावे भोगासम्भव इति दोषः । देहाभावाच्च भावाच्च निर्भोगित्वं च दुःखिताम् । यान्त्यमुक्ता नोभयं च मुक्तानां वशिता यतः ॥ इति श्रुत्यैव विशेषक्लृप्तेः ॥8॥

जगद्व्यापाराधिकरणं

न च सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिसमस्तकार्यसम्भवः । व्यापारो जगतो शुद्धमपि वह्निकार्यकरं भवेत् । अयोग्याशक्तितस्त्वेव नाधिकानन्दसम्भवः ॥ न हि कश्चित् सुशक्तोपि चकाराचेतनं चितिम् । न च कामस्तथा भूयात् ततः स्यात् सत्यकामता ॥ इति श्रुत्या विशेषक्लृप्तेरेव । मुक्तानां न जगद्यत्नस्तथापि विबुधाः सदा । मुक्तानां तु नियन्तारस्तेषां ब्रह्मास्य वै हरिः ॥ इति च विशेषक्लृप्तिः ॥9॥

स्थित्यधिकरणं

न च वशित्वान्मुक्तस्यापि वृद्धिः । कृतकृत्यत्वेन निःश्रमत्वादुपासनादावभ्यासपाटवान् निर्दोषत्वात् स्नेहाधिक्याच्च तस्यैव परमसुखरूपत्वेन फलस्वरूपत्वात् । अभ्यासपाटवात् स्नेहादश्रमत्वादुपासना । भक्तिश्च सुखरूपैव मुक्तानां न तु साधनम् ॥ इति च श्रुतिः ॥10॥

अनावृत्त्यधिकरणं

न चानन्तत्वात् कालस्य त्रयोदशीपञ्चदशीवत् कदाचित् समस्तस्यापि सम्भवान्मुक्तस्यापि पुनरावृत्त्याशङ्केति वाच्यम् । सत्यकामत्वादिमाहात्म्यात् । “अदोषकामसत्यत्वान् मुक्तानामपुनर्भवः । यस्मात् स कामयेदेव नित्यमात्मापुनर्भवम् ॥’ इत्यनन्तमहान्यायमीमांसापारवारिधेः । उत्तारणात्यशक्त्यैव व्याकुलीकृतचेतसाम् ॥ मन्दानामुपकाराय महतां चोच्छ्रितात्मनाम् । तद्विशेषपरिज्ञानप्रदीप्तार्काभचेतसाम् ॥ विशेषगाढे मनसि नितरामुपकारकः । न्यायप्लवो मयाकारि सङ्क्षेपात् प्रमिताक्षरैः ॥ विस्तरोप्ययमेव स्यात् तद्विशेषातिवेदिनाम् । व्याख्यानुव्याख्यायोरेव विस्तारो यदुदीरितः ॥ अनल्पचेतसां पुंसामलं विज्ञानसिद्धये । तन्न्यायोद्धरणेशक्ता अपि ह्येतेन सुस्थिरम् ॥ साक्षाद्विद्याधिराजेन न्यायामृतमनुत्तमम् । अशेषतोधिगच्छेत वन्द्यो वृन्दारकोपि सन् ॥ एवं सुदुर्लभेप्यद्धा महान्यायपरामृते । केचनाधिक्रियन्तेत्र तत्प्रसादानुरञ्जिताः ॥ ब्रह्माद्या अमृते यद्वत् सागरोन्मथनोद्धृते । अहं तु तत्प्रसादैकमहास्पदबलोद्धतः ॥ न्यायमृतार्णवमिममवगाह्य विभज्य च । सङ्क्षेपविस्तराभ्यां च चकार व्याकृतिं कृतिम् ॥ तत्प्रसादमृते कस्य शक्तिः संसारसागरे । मग्नस्य चेतनस्य स्यात् तत्कृतानुकूतौ क्वचित् ॥ नित्यानन्दामृतस्यन्दितत्कटाक्षैधितस्य तु । का नु शक्तिर्भवेन्नैव ततः को वातिविस्मयः ॥ विद्याविद्ये सुखं दुःखमशक्तिः शक्तिरेव च । उत्पत्तिस्थितिनाशाश्च विशेषाश्च परेखलिाः ॥ चेतनाचेतनस्यास्य समस्तस्य यदिच्छया । स मम स्वकृतेनैव प्रीयतां पुरुषोत्तमः ॥ यस्य त्रीण्युदितानि वेदवचने रूपणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचो नयं प्रथमकं पृक्षो द्वितीयं वपुर् मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ नमोजभवभूर्यक्षपुरःसरसुराश्रय । नारायणारणं मह्यं मापते प्रेयसां प्रिय ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य चतुर्थः पादः ॥