०३ तृतीयः पादः

न च तत्र तत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथङ्मार्गसुक्रमोपपत्तिरिति वाच्यम्

अतिवाहिकाधिकरणं

न च तत्र तत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथङ्मार्गसुक्रमोपपत्तिरिति वाच्यम् । “सर्वे वा एत उत्क्रामन्ति तेर्चिषमेवाभियन्ति ततो वायुं ततोहः पूर्वपक्षमित्येष उ एव ब्रह्मपथः । द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च’ इति विशेषश्रुतितो ज्ञानिनामेकमार्गस्यैव प्राप्तत्वात् । “एष एव ब्रह्मपथः’ इत्यवधारणविरोधोन्यथा । एजदिति वैदिकानुष्ठानवत उक्तेर्नाधोगतिविरोधः । पुनरावर्तिनो ये तु तेषां धूम्रपथो ध्रुवः । अन्येषामर्चिरादिश्च तद्भेदो मध्यसंस्थितिः ॥ धूमार्चिरादिदेवेभ्यः प्राप्यानुज्ञां तु मध्यगाः । विहृत्य स्वेष्टदेशेषु तदूर्ध्वं याति वाधरम् ॥ अत्यल्पानामविज्ञाताप्यनुज्ञावर्तिनां भवेत् । पुन्द्वारेण स्वदृष्ट्या वा यथायोग्यं विमुच्यताम् ॥ अतो न मार्गभेदोस्ति न हि मार्गोत्र सम्भवः । प्रेतत्वं चाधरो मार्गः पापजत्वात् तयोः पृथक् ॥ इति स्मृतेश्च ॥1-4॥

वैद्युताधिकरणं

न च सोमादग्निमग्नेरिन्द्रमिति सोमादग्नेरवरस्यापि प्राप्तेः प्रधानवायोरप्यवरोन्यः प्राप्योस्त्विति वाच्यम् । उत्तमत्वात् तस्यैव ब्रह्मप्रापयितृत्वशक्तेः । “वायुरेव ब्रह्म गमयति तस्य ह्येषा शक्तिः । न ह्यन्यो ब्रह्म गमयति प्रियो ह्येनद्गमयति । न ह्यन्यः प्रियो ब्रह्मणः’ इति श्रुतेः । मार्गे त्ववरस्यापि यथामार्गं पश्चात् प्राप्तिर्भवति लोकवत् । न हि राजानं यः कश्चित् प्रापयति क्लृप्तमतिप्रियं चातिहाय ॥5॥

कार्याधिकरणं

न च चतुर्मुखस्य प्राप्तिपर्यन्तं सन्ततत्वनियमाद् बन्धस्य तावद्भगवत्प्राप्तिर्नास्तीति नियमः । यान्ति देवं परं केचित् पूर्वं केचिल्लये विभुम् । योग्यतातारतम्येन विशेषोथमपीष्यते ॥ इति श्रुतेस्तथाप्राप्तत्वात् । न च परब्रह्मण एव ब्रह्मशब्दमुख्यार्थत्वेन प्रथमप्राप्तत्वादपोहायुक्तेस्तस्यैव प्राप्तिनियमः । “यान्ति देवं परं केचित्’ इति प्रमाणप्राप्तत्वादेव । न च परप्राप्तिर्यस्याभीष्टा तस्य तत्प्राप्तिरिति नियमः । क्रमानुरागी भगवान् क्रमात् पुम्भिरवाप्यते । अतः क्रमात् समृद्धे तु ज्ञाने ब्रह्मलये नरैः ॥ प्राप्यते नियमेनैव कैश्चिदेवाप्यते मृतौ ॥ इति भगवतः क्रमानुरागित्वश्रुतेः । न च बहुधाश्रुतेर्यथासौकर्यं चतुर्मुखस्य परस्य वा प्राप्तिरिति वाच्यम् । श्रुत्युक्तानुवृत्तेरेव न्याय्यत्वात् । “सप्रतीकाश्चतुर्मुखमप्रतीकाः परममु हैते गच्छन्त्यागच्छन्ति च चतुर्मुखात् परमं परमाच्चतुर्मुखं यावद्वलियमथ सह चतुर्मुखेन विमुच्यन्ते आनन्दीभवन्ति’ इति हि श्रुतिः । अन्तर्भेदाधिकरणत्वात् समुदायोक्तिः ॥6॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य तृतीयः पादः ॥