०२ द्वितीयः पादः

न च वाक् पूर्वरूपं मन उत्तररूपं “मनः पूर्वरूपं वागुत्तररूपम्'

वाङ्मासाधिकरणं

न च वाक् पूर्वरूपं मन उत्तररूपं “मनः पूर्वरूपं वागुत्तररूपम्’ इत्युक्तेर् व्यामिश्रत्वादनिर्णीतिरेव । “वाक् पूर्वरूपं मन उत्तररूपं’ इति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनःपूर्वरूपम् इत्यनेन साम्यम् । “मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ इति युक्तितो विशेषो मनःपूर्वकत्वस्यैव श्रुत इति प्राधान्यं मनस एव हि ज्ञायते ।सृष्टौ च वलिये चैव सदा पूर्वप्रवर्तने । नियन्तृत्वे च वचसो मनोधीशं शिवो हि तत् ॥ इति श्रुतेश्च ॥1॥

मनःप्राणाधिकरणं

न च मनःपूर्वकत्वनियमादशेषदृष्टादृष्टव्यापाराणां तस्य प्राणादनूनता इन्द्रियस्थैः स्वरूपैस्तु ज्ञानानि जनयत्यसौ । मनस्स्थेन विशेषेण कार्मै कर्मकृदेव च ॥ पृथक्स्थितेन रूपेण जीवं धारयति प्रभुः । जीवस्थितेन रूपेण वेदयत्यहमित्यपि ॥ प्राण एको वशी नित्यं बाह्यान्तःकरणेश्वरः । तान्येतान्यवशान्येव तथापि कृपयैव सः ॥ पृथक्शक्तोपि तद्गैस्तु स्वरूपैस्तद्गकार्यकृत् । तस्येशो भगवान् विष्णुरेवमेष यथान्यगः ॥ इत्यादिश्रुतेः प्राणस्यैवाढ्यतावगमात् ॥2॥

अध्यक्षाधिकरणं

सोध्यक्षे इत्यस्याप्येवमेवाशङ्का परिहारश्च । श्रुतिबाहुल्यमेवाशङ्कायां परिहारे च विशेषहेतुः ॥3॥

नैकस्मिन्नधिकरणं

न च भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्तेर्मुक्तलिययोर्विशेषभावाच्चैकस्मिन्नेव भूते सर्वेषां लयोर्थतः क्लृप्त इति वाच्यम् । तत्तद्भूतोद्भवत्वात् तत्तद्देवानां तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेः । विशेषश्रुतेश्च ॥4-5॥

समनाधिकरणं

न च प्रकृतेः संसाराभावादिनेशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात् सर्वसाम्यमेवेश्वरेण, न चेत् संसारित्वमिति युक्तम् । ईश्वरस्य महामहिमत्वात् । नित्यमसंसारित्वस्य नित्यं तदनुग्रहेणैवोपपत्तेः । सदानित्यतयानित्यं नित्यं नित्यात्मना यतः । नित्ययैव स्वशक्त्यैशो नियामयति नित्यदा ॥ द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । प्रकृतिः पुरुषश्चैव न सन्ति यदुपेक्षया ॥ इत्यादिश्रुतेश्च ॥6॥

पराधिकरणं

न चान्यदेवादीनां प्राणाधीनत्वात् तत्प्राप्तिनियमात् परप्राप्तिर्नास्त्येव । प्राणं प्राप्य परं देवास्तदन्ये चैव तद्गताः । प्राप्नुवन्ति परं देवं वसन्ति च यथासुखम् ॥ इति विशेषश्रुतेः ॥7॥

अविभागाधिकरणं

न च सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पाद्यनुसारित्वनियमे संसारसमानधर्मत्वं मुक्तेरिति वाच्यम् । कृतार्थत्वेन विशेषोपपत्तेः । अपूर्णतादिभावो वा दुःखं वा नास्ति किञ्चन । मुक्तस्य पारतन्त्र्येपि तारतम्येप्यतः सुखी ॥ इति च श्रुतिः ॥8॥

तदोकोऽधिकरणं

न च प्रारब्धकर्मशेषत्वाद् उत्क्रान्तावविशेषो ज्ञानिनः । ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुवृत्तेः । प्रारब्धकर्मशेषस्तु विरजातरणावधिः । स्वोदयात् फलदं ज्ञानमादेहं कर्म वारवेः ॥ तथापि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते ॥ इति हि श्रुतिः । “शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते । स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः स सम्प्राप्नोति विरजां नदीं तत्सुकृतदुष्कृते विधूनुते’ “ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे’ इति च । “अन्यथाभावनियमोनृतता कार्यकारणे’ इति च ॥9॥

योग्याधिकरणं

न च कृष्यादिलौकिकसाधनस्य फलस्मरणानपेक्षत्वात् स्वर्गमोक्षयोरपि तथात्वमिति वाच्यम् । “क्रियानुवृत्तिर्लौकिके साधने तु मनोनुवृत्तिर्वैदिके साधने स्यात् । भवेत् फलं सर्वथेत्येव तस्मात् स्मरेत् सदा निश्चितत्वेन विद्वान् ॥’ इति श्रुतेस्तदनुसार्यनुवृत्तेर् लौकिकवैदिकयोः साम्यात् । अतोत्र फलानुस्मरणं लवनादिकृष्यनुवृत्तिवद् द्रष्टव्यम् । वचनप्रामाण्यात् ॥10॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य द्वितीयः पादः ॥