न च प्रतिशाखमुच्यमानानामर्थानां पृथकत्वात् ..
सर्ववेदाधिकरणं
न च प्रतिशाखमुच्यमानानामर्थानां पृथकत्वात् तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियमः । “नानावेदैरितिहासैः पुराणैः सुज्ञेय एको भगवान् युक्तिभिश्च’ इति श्रुतेः सुष्टु ज्ञेयत्वाद् विष्णोः ॥1॥
उपसंहाराधिकरणं
न चाशक्यतया कस्यापि सर्वगुणोपसंहारो नास्ति । “सर्वे गुणाः सर्वदैव ह्युपास्यास्तेनैव विद्वान् विधिकृन्नान्यथा स्यात्’ इति श्रुतेर्विहितक्रियालोपप्रसङ्गात् ॥2॥
प्राप्त्यधिकरणं
केषाञ्चित् सर्वगुणोपसंहारस्य कर्तव्यत्वे सर्वेषामपि तथा स्याद् अनेन नोपसंहर्तव्या अनेनोपसंहर्तव्या इत्यनिर्णीतेरिति न मन्तव्यम् । यस्य यावद्गुणाः स्पष्टं प्रतिभासन्त्युपासते । युगपत् स्वभुजौ यद्वद् ध्यायेत् तावत एव सः ॥ युगपद्ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः । तदन्येषां यथायोग्यं स्वमाहात्म्यानुसारतः ॥ इति श्रुतेर्युगपद्गुणप्रतीत्यादिमाहात्म्यान्निर्णयोपपत्तेः ॥3॥
सर्वाभेदाधिकरणं
न च फलानिर्णीतिः । माहात्म्येनैवान्यत् फलं महतामिति निर्णयोपपत्तेः ॥4॥
आनन्दाधिकरणम्
आनन्दादीनां केषाञ्चित् समुच्चये प्राप्ते सर्वगुणसमुच्चयः सर्वेषां स्यादिति न मन्तव्यम् । अल्पशक्तित्वात् तेषां पुंसाम् ॥5॥
प्रियशिरस्त्वाधिकरणम्
प्रियशिरस्त्वादीनामानन्दादिविशेषत्वेनैव दर्शनात् तेषामपि सर्वोपसंहार्यत्वमिति न मन्तव्यम् ।यथायोग्यान् गुणपूगानुपास्य फलं भवेन्मुक्तिगं नान्यथा स्यात् । नित्यैकाग्र्यव्यङ्ग्यताहेतुतश्च साक्षाद्दृशिर्नो तद्विशेषैः स्मृतैश्च ॥ इति श्रुतेः स्वयोग्यगुणैरेव फलभावात् ॥6॥
इतराधिकरणं
तर्हि ब्रह्मणोन्येषां देवादीनामपि बहुगुणोपासनया कार्यं नास्ति मध्ये नियमासिद्धेरिति न मन्तव्यम् । तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपदेशोपपत्तेः । यो यो भावो देवतानां विमुक्तौ तत्तत् प्राप्तौ सुगुणानीशितुश्च । ब्रह्मा दिशत्यथ तांस्ते विचिन्त्य तत्तद्भावं प्राप्नुवन्त्यात्मशक्त्या ॥ इति श्रुतेः ॥7॥
आध्यानाधिकरणं
न च नानास्थानेषूक्तगुणानामनुपासनार्थता । विप्रकीर्णगुणान् पिण्डीकृत्योपासितुस्तत्सदृशफलप्राप्तेस्तथा ध्यानार्थमेव गुणानामुक्तिरित्युपपत्तिः ॥8॥
आत्मगृहीत्यधिकरणं
न चाश्वापरोक्ष्यायानन्दादीनामपि लोपेनात्मेत्येतावता पूर्यते । आत्मशब्दार्थविशेषत्वादानन्दादीनाम् ॥9॥
अनव्याधिकरणं
न चात्मशब्दो विभ्रमकरः । गुणाधिकानामधिकारिणां भगवद्गुणानधिकान् प्रकाशयतीत्यवधारणोपपत्तेः ॥10॥
कार्याधिकरणम्
अलौकिकगुणानामप्रतीतेर्लौकिकगुणाध्याने तदपाकृतिरेव भवतीति न मन्तव्यम् । लौकिकवलिक्षणा अत्युत्तमा इति ध्यानस्यैव प्राधान्यात् ॥11॥
समानाधिकरणम्
ब्रह्मणो ब्रह्माण्याश्च स्थानैक्यं गुणतारतम्यं च यथागुणोपासनं मुक्तावाधिक्यं न भवतीत्यत्र लिङ्गम् । समविषमोपासनायुक्तेरिति न मन्तव्यम् । यथाशक्ति स्मृतान् धात्रा गुणान् विष्णोः सरस्वती । स्मरेत् त्रैविक्रमाद्यांस्तु नित्यविक्रान्तिपूर्वकैः ॥ कदाचिल्लोपेयेद्देवी स्थानैक्यं न गुणैस्ततः । साम्यं तयोर्यथाविष्णोर्गुणोपासा फलं भवेत् ॥ इत्यध्यात्मवचनाद्यथाशक्ति क्रिया देव्याः ॥12॥
नवाधिकरणं
न चात्मशब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्त इति व्यवस्थित्यभावः । यस्य यावन्तोर्था युगपद् ध्यातुं शक्यन्ते तस्य तावन्त इति सन्धेः ॥13॥
सम्भृत्यधिकरणं
न च मुमुक्षव इत्यविशेषाद् भरणस्य द्युतेश्च सर्वेषामपेक्षितत्वाच्च सम्भृतिद्युव्याप्तौ अपि सामान्ये । सत्यो ज्ञानं परमानन्दरूपम् आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते ॥ गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते । न व्याप्तिर्जगदस्मृत्या नानाशक्तिर्यतो मता ॥ देवानां युगपदज्ज्ञानं मानुषाणां तथा न तु । पर्यायेणापि सत्याः स्युर्नैवान्यथा कथञ्चन ॥ इत्यादिप्रमाणबलात् ॥14॥
पुरुषाधिकरणं
क्वचिद् बहुगुणाः क्वचिदल्पगुणाः श्रुतिष्वेवोच्यन्ते इत्युपसंहारस्याप्रयोजनतेति न वाच्यम् । गुणा सर्वे ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः । इति श्रुतेः । सर्वगुणोपासकस्याप्यधिकारिणो भावादेकत्रापृथक्सर्वगुणानुक्तेर् बलादुपसंहारानतेः ॥15॥
वेधाधिकरणं
न च मुक्तावुपासनभावे फलादिकमपि स्यादित्यतिप्रसङ्गः । उपासनायाः संस्काराख्यकारणस्य सत्त्वात् । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते इत्यवृद्धिप्रमाणभावाच्च ॥16॥
हान्यधिकरणं
न च कर्मकरणशक्तेरप्यदूरत्वात् तत्संश्रयनियमः । उपासनाख्यकार्ये नित्यकृतिसंस्कारो न तथा कर्मणीति कार्यवैशेष्यात् ॥17॥
छन्दाधिकरणं
न चायोग्यताख्यविशिष्टकारणाज्ज्ञानिष्वपि केषाञ्चिन्मोक्षो न भवतीति नियमः । ज्ञानिनां मोक्षं ददात्येवेश्वरः स्वभावात् । अयोग्यानां ज्ञानस्यैवानुपपत्तेः ॥18॥
अनियमाधिकरणं
न च प्रयत्नानुसारिणो मुक्तावाधिकारिका आनन्दादयः । अधिकारानुसारित्वात् प्रयत्नस्य । कथञ्चिदधिकयत्ने तत्साधनादिवस्तूनां दूषणप्राप्तेः । स्वाधिकाराधिको यत्नः प्रायशो नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित् समापतेत् ॥ इति वचनाच्च ॥19॥
यावदधिकरणं
न चैकस्मादेको विशिष्टो दृष्ट एवेति प्राणाद् विशिष्टजीवाभावे दृष्टवैरूप्यमिति दोषः ।यः सर्वमवजानीयादृते देवं नारायणं देवीं च परमां श्रियम् । स प्राणानवरुद्ध्येमं मन्त्रमावर्तयीत । आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः । घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥ इति । “स ह्येषां भूतानां वरिष्ठो न ह्येतस्मात् कश्चनोपरि विना देवं नारायणं देवीं च परमां श्रियम्’ इति प्रतिक्रियाविधानादिविरोधात् ॥20॥
इयदामननाधिकरणम्
“अस्ति भगवः प्राणाद्भूय’ इति प्रश्नाद्यभावात् प्राणस्यैवोन्नतिप्रतीतेर्न विष्णोरपि ततः परत्वमिति न मन्तव्यम् । एष तु वा अतिवदति इति विशेषणात् प्रश्नप्रतिवचनप्रतिसन्धानोपपत्तेः ॥21॥
व्यतिहाराधिकरणं
न च सत्यादीनाभेदानुक्तेरन्यत्वम् । “सत्यं पूर्णं विज्ञानं पूर्णं कृतिः पूर्णा निष्ठा पूर्णा श्रद्धा पूर्णा मति पूर्णा सुखं पूर्णं भूमा पूर्णोहं पूर्ण आत्मा पूर्णो नात्र किञ्चिदूनं पूर्णमेवाधस्तात् पूर्णमुपरिष्ठात् पूर्णं मध्यतः पूर्णं सर्वतः । तदेष श्लोको भवति । पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥’ इति श्रुतेः सर्वेषामनूनत्वात् । “सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः । तस्मै नमो भगवते यस्मादेव विमुच्यते ॥’ इति वचनाच्च ॥22॥
सत्याधिकरणं
न च श्रियोप्रयत्नत्वादनुपासनं संसारो वा । नित्यं भगवदुपस्थितेरतिप्रियत्वात् संस्कारपाटवान्नित्योपासोपपत्तेश्च ॥23॥
कामाधिकरणं
न च बन्धदाढ्ये श्रवणादीनामफलता । अन्यथोपासां विनैव श्रवणादिज्ञानमात्रेण मुक्तिरिति दोषः । श्रवणादित्रयोत्पन्नदृष्ट्यैव स्वेच्छया हरिः । प्रसन्नो मुक्तिदो नित्यमन्यथा न कथञ्चन ॥ इतीश्वरेच्छानियतिश्रुतेः ॥24॥
निर्धारणाधिकरणं
न च गुर्वधीनत्वे ज्ञानमोक्षयोर्ज्ञानिनोपि कदाचिद् गुरुकोपाज्ज्ञानपराभावेनामुक्तिप्रसङ्गान्न गुर्वधीनत्वमिति । ज्ञानिनो गुरुशापेपि नामुक्तिः संसृतेः क्वचित् । आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति ॥ इति वचनान्मुक्तिदूषणेनैव गुरुशापादेः कृतार्थत्वात् । ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादिति गुरोर्वरेण वा मुक्त्युपपत्तेः ॥25॥
प्रदानाधिकरणं
शिष्यस्यापि पुरुषत्वसाम्याद् धारणादेस्तत्प्रयत्नस्य न दौर्बल्यमिति न मन्तव्यम् । “गुरुप्रसादो बलवान्’ इत्यादिविशेषोक्तेः ॥26॥
लिङ्गभूयस्त्वाधिकरणं
न चोत्तमगुरुस्वीकारार्थत्वेन प्राप्तसन्त्यागनिमित्तदोषः । तत्र दोषे मानाभावात् ॥27॥
पूर्वविकल्पाधिकरणं
न च विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णयः । “नान्यः पन्था अयनाय विद्यते’ इत्यवधारणाद् विद्यावचनस्य प्राधान्यात् ॥28॥
विद्याधिकरणं
न च विद्यावचनस्य प्राधान्यं भ्रमः । “प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः’ इति भगवतस्तस्मिन्नेवाधिकप्रीतिवचनात् । “यमेवैष वृणुते तेन लभ्यः’ इति तत्प्रीतेरेव मोक्षवचनाच्च ॥29॥
श्रुत्यधिकरणं
न च कस्यचिद्विशेषज्ञानोपपत्तेर्भक्त्यादिकं विना मुक्तिः । “भक्त्यैवैनं जानाति भक्त्यैवैनं पश्यति भक्त्यैव बन्धाद् विमुच्यते भक्त्यैवानन्दीभवति’ “यमेवैष वृणुते तेन लभ्यः’ “भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिः’ इत्याद्यागमात् ॥30॥
अनुबन्धाधिकरणं
न च “दृष्ट्वैव तं मुच्यते नापरेण’ “यावान् यश्चास्मि तत्त्वतः’ “ततो मां तत्त्वतो ज्ञात्वा’ इत्यादि सामान्यालापमात्रेण दर्शनस्याविशेषः । “यथायोग्यमेवैष आत्मानं दर्शयति यथाधिकारं देवेभ्योतो ब्रह्मैवैनमभिपश्यत्यथात्मैवात्मानम् अभिपश्यति सुस्थिरो ह्येष नियमः’ इति दर्शनविशेषनियमस्य सुस्थिरत्ववचनात् । यावान्यश्चास्मीति ब्रह्मण एव ज्ञानोपपत्तेः । “यावान्’ इत्यत्रापि सामान्यविशेषज्ञानोपपत्तेश्च ॥31॥
प्रज्ञान्तराधिकरणं
न च भगवतः सर्वत्र गुणसाम्याद्यस्य कस्यापि रूपस्य दर्शनात् सर्वेषां मुक्तिः । “समोपि भगवान् स्वबिम्बदर्शन एवैनं मोचयति । यथा समेष्वपि कर्मसु स्वकृतमेवैनं भोजयति ॥’ इति श्रुत्युक्तस्वकृतप्राप्तिदृष्टान्तात् ॥32॥
सामान्याधिकरणम्
भक्तिरेवैनमिति भक्तेरेव पृथङ्मोचकत्वदर्शनान्नेशकृत्यमिति न मन्तव्यम् । अनादितो गुणाः सन्तो भक्त्याद्या न ह्यमूमुचन् । जीवं तद्गुणसुव्यक्तिं कृत्वैनं मोचयेद्धरिः ॥ कञ्चिन्न मोचयेद्वासौ स्वातन्त्र्यं तस्य तेन हि । भक्तिवाक्करणत्वेन सावकाशेशवागथ ॥ भक्त्यैनं मोचयेद् विष्णुरिति मानत्वमेष्यति ॥ इति ब्रह्मतर्कवचनादनादिगुणविस्तरे सत्यप्यव्यक्त्यादिना तदिच्छां विना मोक्षाप्राप्तेः ॥33॥
परेणाधिकरणं
न चांशिमार्गस्यांशेनागम्यत्वात् तयोर्भेदः । साधनोत्तमस्यादृष्टस्यांशिकृतस्यांशेन भुज्यमानत्वात् । अन्यथादृष्टं विना शरीराद्यनुपपत्तेः ॥34॥
एकाधिकरणं
न च गुणान्तरसन्धानस्य क्वचिद् दर्शनमात्रेण समाधिकाङ्गदेवतान्तरगुणा अप्यङ्गदेवतान्तर उपसंहर्तव्याः । नानागुणत्वेन तेषां श्रुतिषुदृष्टेः । अनिषिद्धगुणानां वाक्यान्वयन्यायेनोपसंहारान्न शाखास्वित्यादिविशेषः । उत्तमेष्वधमगुणापेक्षया मन्त्रादिवद्वेति ॥35॥
अङ्गावबद्धाधिकरणं
न च भूमगुणस्योपासकं प्रति विशेषाभावेपि तत्तदिष्टगुणानुसारेण फलोपपत्तिरित्यविशेषः । “भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते’ इत्यादिशिष्टेः ॥36॥
भूमाधिकरणं
न च भूमगुण उपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यम् । विशेषस्य कल्पनोपपत्तेरिति न मन्तव्यम् । “यावानेवाधिकारेषु विशेषोनून एव हि । ततो भूमत्वदृष्टौ च ब्रह्मादीनां पृथक् पृथक् ॥’ इति विशेषस्यानूनत्ववचनात् ॥37॥
नानाधिकरणं
न च शुद्धमोक्षसाधनवैरूप्यान्मोक्षसाधनत्वेनोपदिष्टं विना विष्णोरेवेवोपासनान्तरस्याकर्तव्यता । अविघ्नतासाधनत्वात् ॥38॥
विकल्पाधिकरणं
न च काम्यसाधनानामपि गुणानामङ्गत्वादेवोपसंहर्तव्यतानियमः । अनुपसंहारे विरोधाभावात् । काम्यानामनियताङ्गत्वाच्च । “अर्थादिधर्मसिद्धौ हि न नियत्याङ्गमिष्यते’ इति ब्रह्मतर्के ॥39॥
कामाधिकरणं
न च देवादीनामिति तत्रैव विशेषवचनाभावाद् ब्रह्मा शिरसि ललाटे रुद्र इत्यादीनां नावश्योपास्यता ।“देवादीनामेव ध्यायेदङ्गदेवताः परस्य विशिष्टा हि गुणा मुक्तौ देवानां भवन्ति ते हि तादृशास्ते हि हरेरनुरूपाः’ इति श्रुतेर्गुणवैशेष्यात् ॥40॥
अङ्गाधिकरणं
न च क्रियात्वादुपासनाया अग्निष्टोमादिवत् प्रतिशाखं वक्तव्यता । उपासना यजनं चेति साम्यं तत्तद्विशेषान् संहरेत् सर्वतश्च । तथाकर्तॄणां तत्फलानां विशेषाद् व्यर्था हि शाखा अन्यथैवं च सार्थाः ॥ इत्युपासनाविशेषाणामधिकारिविशेषाणां चागमेवगमात् ॥41॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य तृतीयः पादः ॥