०४ चतुर्थः पादः

न च प्राणानामुत्पत्यङ्गीकारे “प्राणा एवानादयः’ इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोधः

प्राणोत्पधिकरमणं

न च प्राणानामुत्पत्यङ्गीकारे “प्राणा एवानादयः’ इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोधः । “आत्मैवेदमग्र आसीत् स प्राणमसृजत स प्राणान्’ इत्यादिवचनादनादित्व एव स्पष्टार्थवद्विशेषश्रुतिविरोधात् । “इदं सर्वमसृजत’ इति सामान्यवचनस्याधिक्यं सिद्धान्ते । विशेषमात्रश्रुतेः सावकाशाया उभयश्रुतेः प्राबल्यात् ॥1॥

तत्प्रागधिकरणं

न च “नित्यं मनोनादित्वात्’ इति विशेषश्रुतिविरोधः । “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति विशेषश्रुतेः ॥2॥

तत्पूर्वकत्वाधिकरणं

न च “वाग्वाव नित्या’ इति विशेषश्रुतिविरोधः “मनसो वाव वागुत्पद्यते वाचो व्याहरणम्’ इति विशेषश्रुतेः ॥3॥

सप्तगत्यधिकरणं

न च “दशेमे पुरुषे प्राणा आत्मैकादशः’ “सप्त प्राणाः प्रभवन्ति तस्मात्’ इति सङ्ख्याविशेषश्रुत्योरेव परस्परविरोधः । “गुहायां निहिताः सप्त सप्त’ इति सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वात् सङ्ख्याश्रुत्योर् विषयवैलक्षण्यात् ॥4॥

अण्वधिकरणं

न च “दिवीव चक्षुराततम्’ इति व्याप्त्याख्यविशेषवाचकश्रुतिविरोधः । “अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्याततः’ इति ततोप्यणुत्ववाचकविशेषश्रुतिविरोधात् ॥5॥

श्रेष्ठाधिकरणं

न च यत्प्रीतिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ॥ इत्यादिमाहात्म्यवचनान् मुख्यप्राणस्य नोत्पत्तिरिति वाच्यम् । महत्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट् । किं नाम न सृजेदेष येन शक्येदमावृतम् ॥ इति श्रुतेस्ततोपि माहात्म्याद् विष्णोः ॥6॥

न च प्राणादिपञ्चस्य व्यक्तसद्गुणत्वान् मुख्यप्राणवृत्तित्वमेव । अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासाः पञ्च चान्येपि प्राणाद्याः सद्गुणैर्युताः ॥7॥

पञ्चवृत्त्यधिकरणम्

इति श्रुतेर् मुख्यप्राणस्य ततोपि व्यक्तसद्गुणत्वात् ॥8॥

अण्वधिकरणं

न चाणुत्वे प्राणस्य “महान् वै मुख्यप्राणो येन व्याप्तं चराचरम्’ इति दृष्टायुक्तिः । “अणुर्वै मुख्यप्राणो य उत्क्रामति नाडीभिः’ इति दृष्टायुक्तेरनणुत्वे प्राणस्य ॥9॥

ज्योतिरधिकरणं

न चेन्द्रियाणां जीवाकरणत्वे दृष्टायुक्तिः । क्वचिदतद्वशत्वस्यापि दृष्टत्वात् । “यच्चक्षुषि तिष्ठन्’ इत्यादिदृष्टात्युक्तेरीशाधीनत्वानङ्गीकारे । लौकिकदृष्टेस्त्वीशेनैव जीवानुसारित्वक्लृप्त्योपपत्तेः ॥10॥

इन्द्रियाधिकरणं

न चेशवशत्वसाम्यान् मुख्यप्राणस्याप्यन्यसाम्यम् “यस्मिन्निदं सर्वमध्याधर्नोत्’ “प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्’ इत्यादि श्रुतेरीशसाम्यस्यापि भावात् । “प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः’ इति श्रुतेर्मध्यमत्वोपपत्तेः ॥11॥

सञ्ज्ञाधिकरणं

न च विरिञ्चस्यापि कर्तृत्वशक्तेः स एव शरीरादिस्रष्टा ।त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥ अतो रूपस्य नाम्नश्च व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पितातो भगवान् प्रभुः ॥ इत्यादेस्तस्यैव कर्तृत्वशक्तेर्विरिञ्चस्य तु द्वारतयोपपत्तेः ॥12॥

मांसाधिकरणं

न च मिश्रत्वाद् भूतानां मिश्रतायामविशेषः । “अन्नमशितं त्रेधा विधीयते’ इत्यादिना मिश्रतायामपि विशेषोक्तेः ।सर्वं च भौतिकं मिश्रं मिश्रत्वेपि विशेषतः । भौमं मांसमसृग्वारि तेजो मज्जा विशेषतः ॥ इत्यादेश्च ॥13॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य चतुर्थः पादः ॥