०१ प्रथमः पादः

रुद्रादीनां सकाशाद् विष्ण्वादीामेवाप्तत्वम् । श्रुत्यनुसारित्वात्

स्मृत्यधिकरणं

रुद्रादीनां सकाशाद् विष्ण्वादीामेवाप्तत्वम् । श्रुत्यनुसारित्वात् ॥1॥

नविलक्षणत्वाधिकरणं

न च श्रुतेः रुद्रादिस्मृतिसाम्यं किन्तु साक्षिप्रत्यक्षसाम्यमेव निरपेक्षत्वात् ॥2॥

अभिमान्यधिकरणं

न मृदादीनां वचनाद्यदृष्टिः श्रुत्यप्रामाण्यकारणम् । अपि तु वचनादिशक्ताया देवताया मृदादिशब्दवाच्यत्वद्योतिकैव ॥3॥

असदधिकरणम्

ईश्वरस्य स्रष्टृत्ववदसतोपि स्रष्टृत्वं श्रूयत इति नास्ति । सोसच्छब्दो ब्रह्मशब्दवदेव ब्रह्मवाचक इति श्रुतिसाम्यम् ॥4॥

भोक्त्रधिकरणम्

“कर्माणि विज्ञानमयश्च आत्मा परेव्यये सर्व एकीभवन्ति’ इति श्रुतिबलान्नैक्यम् । किन्तु भेदापादकमेवैतत् “निरञ्जनः परमं साम्यमुपैति’ “परात् परं पुरुषमुपैति दिव्यम्’ इति सन्निहितवाक्यबलात् । एकीभावशब्दस्तु सान्निध्येपि भवति । “एकीभूता तु सा सेना पाण्डवानभ्यवर्तत’ इतिवत् ।यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ इति वाक्यान्तराच्च ॥5॥

आरम्भणाधिकरणं

न च लौकिकसर्वकार्यानुसारेणाकर्तृतन्त्रत्वं सर्वानुसारः । किं तर्हि तद्वैलक्षण्येन सर्वकर्तृवलिक्षणसर्वशक्तित्वमेवाशेषयुक्तिश्रुत्यनुसारि । “एष सर्वेश्वरः’ इति श्रुतेः । युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बलवती ॥6॥

इतरव्यपदेशाधिकरणं

न चेश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवम् । श्रुतिसिद्धत्वेनाकल्पनात् । अश्रुतजीवकर्तृत्वाङ्गीकारे गौरवमेव । तदभावात् सिद्धान्ते लघुता । “नान्यः कर्ता स हि स्वतन्त्रः परमात् परमो हरिः’ इत्यादेश्च । अभेदपक्षस्तु निराकृतः । श्रुत्यनुभवविरोधाच्च ॥7॥

श्रुतेस्तु शब्दमूलत्वाधिकरणं

शब्दैकसमधिगम्यत्वसर्वशक्तित्वादीनां विशेषाणामदर्शनं जीवे । न जीवाद्विशेषादर्शनं परमेश्वरे । विशेषश्रुतेरेव ॥8॥

प्रयोजनाधिकरणं

न च प्रयोजनाभावोकर्तृत्वे कारणम् । अशेषकर्तृत्वापादकश्च । फलापेक्षिणस्त्वपूर्णत्वादेव न सर्वकर्तृत्वादिशक्तिर् इतरस्य पूर्णत्वादेवानन्तशक्तित्वाच्च लीलयैव कर्तृत्वम् ॥9॥

वैषम्यनैर्घृण्याधिकरणं

नेशस्य पूर्णत्वासिद्धिः । कर्मसापेक्षत्वेनीशत्वमनपेक्षत्वे श्रुतेरप्रामाण्यमिति । कर्मणोपि तदधीनत्वम् । तथापि तदनुसारेण फलदानमित्यनङ्गीकार एवेष्टश्रुतिप्रामाण्यासिद्धिः ॥10॥

सर्वधर्मोपपत्त्यधिकरणं

सर्वचेतना अपूर्णगुणा इति नियमो न । स्वतन्त्रस्य पूर्णगुणत्वनियमात् “अपूर्णोयं जीवसङ्घोस्वतन्त्रः पूर्णो हरिर्यः स्वतन्त्रः सदैव । न हि स्वतन्त्रोपूर्णतां कामयीत पूर्णो यदि स्यादस्वतन्त्रः कुतः सः ॥’ इति श्रुतेः ॥11॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य प्रथमः पादः ॥