०४ चतुर्थः पादः

अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्वं चेति द्विविधं ह्यवरत्वादि

आनुमानिकाधिकरणम्

अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्वं चेति द्विविधं ह्यवरत्वादि । “निरनिष्टो निरवद्यः’ इत्यादिश्रुतेस्तत्तद्दोषतादात्म्यात्यस्पृष्टिनियमाद् विष्णोः “नामानि सर्वाणि यमाविशन्ति’ इति श्रुतिबलाच्च नियन्तृत्वमवरत्वादिकमित्यापतति । श्रुतिद्वयस्यापि निरवकाशत्वात् । मृत्युशब्दादिषु प्रसिद्धेश्च । प्रसिद्धत्वाच्च कर्तृव्युत्पत्तेः । “तमेव मृत्युममृतं तात दैवं सर्वात्मनावैहि परं परायणम्’ इत्यादेश्च । उपचारकल्पनायाश्च क्लिष्टत्वात् । प्रमाणाभावाच्च । नाव्यक्तादिशब्दानां परमात्मविषयत्वङ्गीकारे सर्वमानविरोधः ॥1॥

नसङ्ख्योपसङ्ग्रहाधिकरणं

रूढिः (रूढो रूढयोगो महारूढो महायोगो महारूढयोगो - पा) योगः रूढियोगः महायोगो रूढी रूढियोगो महायोगो महारूढियोगो रूढोपचारो रूढलक्षणोपचारो लक्षणेति शब्दवृत्तिभेदाद् रूढिपूर्वकत्वेन महायोगवृत्या परमेश्वरे अखलिशब्दव्युत्पत्युपपत्तिः ॥2॥

नसङ्ख्योपसङ्ग्रहाधिकरणम्

बहुरूपत्वादधिकरणाधेयत्वादिकं तस्यैव युज्यते ॥3॥

आकाशाधिकरणं

व्यक्त्यपेक्षया कार्यत्वं च ॥4॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य चतुर्थः पादः ॥