“प्राणानां ग्रन्थिरसि’ “रुद्रो वै लोकायतनम्'
द्युभ्वाधिकरणम्
“प्राणानां ग्रन्थिरसि’ “रुद्रो वै लोकायतनम्’ “वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।’ “सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकिनश्च विष्णोरेवोताश्च प्रोताश्च भवन्ति’ इत्यादेर् द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम् ॥1॥
“यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः’ इत्यत्रोक्तानां लिङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दलिङ्गबाहुल्यम् । “प्राणानां ग्रन्थिरसि रुद्रो माविशान्तकः ।’ “प्राणेश्वरः कृत्तिवासाः पिनाकी’ “मनो वै रुद्र ओतं च प्रोतं च’ “रुद्रो वाव लोकाधारः’ इत्यादिकं शब्दबाहुल्यम् ॥1॥
तेषामेव लिङ्गशब्दानां “प्राणानां ग्रन्थिरसि’ इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्वम् । तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम् ॥1॥
भूमाधिकरणम्
“प्राणो वा आशाया भूयान्’ “विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान्नाम’ इत्यादेर्भूमशब्दोज्ञानां साधारणः ॥2॥
“प्राणो वा आशाया भूयान्’ इत्युक्त्वा प्राणाद्भूयसोनुक्तिः ॥2॥
प्राणस्य विष्णोः सकाशाद् भूयस्त्वानुक्तिः । चशब्देन “एष तु वा अतिवदति’ इति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्च ॥2॥
अक्षराधिकरणं
विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारणः ॥3॥
अत्तेत्युक्त्वा “न तदश्नाति किञ्चन’ इति विरुद्धता ॥3॥
सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धम् । “पतिं विश्वस्यात्मेश्वरं’ “विश्वात्मानं परायणम्’ इत्यादिश्रुतेः । अनशनत्वोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशता ॥3॥
सदधिकरणं
कारणत्वसाम्याद् विष्णोरचेतनप्रकृतेश्च “सदेव सोम्येदमग्र आसीत्’ इत्यादिसृष्टिस्थानं साधारणम् ॥4॥
“बहु स्यां प्रजायेय’ इत्यन्यस्यान्यभावादृष्टिः ॥4॥
अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते ॥4॥
दहराधिकरणं
लिङ्गं हृत्पद्मस्थितत्वं साधारणम् ॥5॥
“दहरोस्मिन्नन्तर आकाशस्तस्मिन्यदन्तिस्तदन्वेष्टव्यम्’ इत्यनेन “यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय आकाशः’ इत्यस्यान्वयाभावः ॥5॥
आकाशपक्ष एवान्वयाभावः । विष्णुपक्षे तु योन्वेष्टव्यो भगवान् तस्यान्तर्हृदये यावान् वायमाकाशस्तावानाकाशस् तस्मिन् द्यावापृथिवी अन्तरेव समाहिते स भगवानपहतपाप्मेत्यन्वयः ॥5॥
अनुकृत्यधिकरणम्
“कथं नु तद्विजानीयाम्’ इत्यानुकूल्येन ग्रहणं कस्येति विचार्यमनुग्रहः ॥6॥
“तदेतदिति मन्यन्ते’ “कथं नु तद्विजानीयाम्’ इति “तेषां सुखं शाश्वतं नेतरेषाम्’ इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः ॥6॥
यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्ते । अतः पूर्ववादविपरीतैव श्रुतिः । पूर्ववादोक्तयोजना तु भ्रम एव ॥6॥
वामनाधिकरणम्
“ऊर्ध्वं प्राणमुन्नयति’ इत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः । एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते इत्यादिवाक्याद् भ्रमः ॥7॥
लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव । वामनश्रुतेरेवानकाश इति ईशानाशब्दोक्तो विष्णुरेव ॥7॥
देवताधिकरणम्
अपशूद्राधिकरणम्
कम्पनाधिकरणं
वज्रशब्द उद्यतलिङ्गं च तादृग्द्वयम् ॥10॥8॥
वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यतत्वमिति ॥10॥8॥
ज्योतिरधिकरणम्
आदित्यादिज्योतिष्ट्वमुभयलोकसञ्चरणम् “आदित्येनैवायं ज्योतिषास्ते’ इत्यवधारणमित्यादीनां परमात्मान्यवकाशाभावो बहुतादृक्त्वम् ॥11॥9॥
“अयं पुरुषः’ इति संसारी । आत्मशब्दोदित एव विष्णुः । अत आदित्यादिज्योतिष्ट्वं संसारिण एव । “आदित्येनैव’ इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि । लोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्यात् ॥11॥
आकाशाधिकरणम्
पुनः शब्दाः “ईशानो वज्रो ज्योतिराकाशः’ इति ॥7॥10-12॥
“वै नाम’ इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि ॥12॥11॥
वै नामेति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम् , प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धम् ॥12॥
सुषुप्त्यधिकरणं
लिङ्गं स्वप्नादिदर्शनं कस्येति ॥13॥
सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोर् भेदोक्तेरसङ्गतत्वादि चेश्वरस्यैवेत्यर्थाद् भेद एव भवति । जीवस्य तदयुक्तेरीशे सावकाशत्वाच्च ॥13॥
ब्राह्मणाधिकरणं
शब्दो ब्राह्मण इति ॥14॥
ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य सह परमात्मनाभेदं विनावकाशराहित्यदर्थादभेदप्राप्तिरिति समस्तमेतत् ॥14॥12॥ पूर्वपक्षः॥
ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोपि तस्मिन्नेव । चतुर्मुखस्य कर्मफलाभावायुक्तेस्तयोर्भेदोर्थादापद्यत एव । उक्तिविरोधश्च तत्रैव । भेदश्रुतिबाहुल्यात् । तल्लिङ्गं स शब्दश्च चतुर्मुखेनवकाश इति समस्तमेतत् ॥14॥
जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः ॥13॥11॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः ॥