बहुलिङ्गसहितश्रुतेरपि सावकाशाया निरवकाशश्रुत्यादीनामेव बलवत्वम्
सर्वगतत्वाधिकरणम्
बहुलिङ्गसहितश्रुतेरपि सावकाशाया निरवकाशश्रुत्यादीनामेव बलवत्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषूक्त्वादित्येनुक्तिरित्यादिलिङ्गं च । तथापि निरवकाशा एतमेवेत्यवधारणादयः ॥1॥
अत्तृत्वाधिकरणं
सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्वम् । सन्दिग्धश्रुतिर् लिङ्गं चादितिशब्दोदितत्वं च ॥2॥
गुहाधिकरणं
द्विवचनश्रुतेरपि निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ॥3॥
अन्तराधिकरणम्
“सोहमस्मि’ “स एवाहमस्मि’ इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योपि निरवकाशोपपत्तेरेव प्राबल्यम् ॥4॥
अन्तर्याम्यधिकरणम्
पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेर् विष्णोरपि ॥5॥
अदृश्यत्वाधिकरणम्
“अक्षरात् परतः परः’ इति श्रुतेरपि नाक्षरात् सम्भवतीह विश्वम् इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ॥6॥
वैश्वानराधिकरणं
श्रुतिसाधारण्येपि विशेषश्रुत्यादेर् निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्वनिरवकाशत्वबलान् निश्चयः ॥7॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ॥