०१ प्रथमः पादः

चेतनाचेतनजगन्नियन्त्रे शेषसंविदे ।नमो नारायणायजशर्वशक्रादिवन्दित

चेतनाचेतनजगन्नियन्त्रे शेषसंविदे ।नमो नारायणायजशर्वशक्रादिवन्दित ॥1॥

कृत्वा भाष्यानुभाष्येहमपि वेदार्थसत्पतेः ।कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृत्तिः स्फुटम् ॥2॥

करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम् ।प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः ॥3॥

जिज्ञासाधिकरणं

जीवव्यतिरिक्तेश्वरस्याभावात् तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति प्राप्ते “अथातो ब्रह्मजिज्ञासा’ इत्याह । “तद्विजिज्ञासस्व तद्ब्रह्म’ इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः । “अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेः ॥1॥

जन्माधिकरणं

न जीव एवायं ब्रह्मशब्दः । “यतो वा इमानि भूतानि जायन्ते’ इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेः ॥2॥

शास्त्रयोनित्वाधिकरणं

न च रुद्रादौ सममेतल्लक्षणम् । शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य ॥3॥

समन्वयाधिकरणं

न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणम् । किन्तूपक्रमादलिक्षणः समन्वय एव ॥4॥

ईक्षत्यधिकरणं

न च तस्यावाच्यत्वं श्रुत्यभिप्रायः । “सर्वे वेदा यत्पदमामनन्ति’ इत्यादि श्रुतिसहितानुभवस्य बलवत्वात् ॥5॥

आनन्दमयाधिकरणं

न चावयवत्वविरोधः “नेह नानास्ति किञ्चन’ इति श्रुतेरवयवाद्यभेदात् ॥6॥

अन्तस्थत्वाधिकरणम

न च “ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोनुक्लृप्तं वाचो वीर्यं तपसान्वविन्दत् ।’ इत्यादि शब्दानामन्यविषयत्वम् । श्रुतिसन्देेहेनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेः ॥7॥

छन्दोधिकरणम् (गायत्र्यधिकरणम्)

अधिभूताध्यात्माधिवेदगतानामपि शब्दानामचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु विद्यमानेष्वपि भगवद्विषयत्वमेवानन्यथा सिद्धलिङ्गैः । “तावानस्य महिमा ततो ज्यायांश्च पुरुषः’ इत्यादिशब्दसहितलिङ्गैश्च । सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामपि असन्दिग्धयोः केवलयोरेव बलवत्वात् ॥8-11॥

पादान्त्यप्राणाधिकरणं

न च चानन्यथासिद्धत्वमन्यत्र श्रुतिलिङ्गादेः । अन्यगतलिङ्गदीनामपि तद्गभगवदपेक्षया युक्तेः ॥12॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः ॥