ततश्च दुःखित्वं स्यात्..
ईश्वरस्य संसारिणैक्याननुभवसमर्थनम्
**श्रीमज्जयतीर्थटीका **
नन्वीश्वरेण संसारिणैक्यमनुभूयत एव । अतो नैतदनिष्टापादनमित्यत आह ॥
मूलं
ततश्च दुःखित्वं स्यात् ।
ईश्वरस्येति वर्तते । ‘यो दुःखिनैक्यमनुभवति स दुःखी यथा सम्प्रतिपन्नः’ इति व्याप्तेः । यदीश्वरः संसारिणैक्यमनुभवेत्तदा दुःखी प्रसज्येत । न चैवम् । ततो नेश्वरस्य संसारिणैक्यानुभवोऽङ्गीकर्तुमुचितः ।