बलवद्दृष्ट्यबाधे..
**प्रत्यक्षाभासस्यापि तर्कबाध्यत्वाभावसमर्थनम् **
**श्रीमज्जयतीर्थटीका **
ननु यदा वस्तुतोऽनन्ने प्रत्यक्षेणान्नबुद्धिर्जायते । तदास्त्येवोक्ततर्केण बाधः परित्यागदर्शनात् । तत्कथमेतदित्यत आह ।
मूलं
बलवद्दृष्ट्यबाधे ।
पूर्वेणान्वयः । यदा परित्यागस् तदा बलवदनन्नत्वदृष्ट्यान्नत्वदृष्टेर्बाधे सत्येव । न तु केवलतर्केण । अन्यथाऽन्यत्रापि तत्प्रसङ्गादिति ।