न हि दृष्टेर्बलवत्किञ्चित्प्रमाणम्..
तर्कस्य प्रमाणदृष्टबाधनासामर्थ्ये वास्तविकनिमित्तप्रदर्शनम्
**श्रीमज्जयतीर्थटीका **
तर्कः प्रमाणदृष्टार्थबाधनस्य नेष्टे कुत इति पृष्टवतः प्रतिवादिनो दत्तमुत्तरम् । सुहृद्भावेन पृच्छन्तं प्रत्याह ।
मूलं
न हि दृष्टेर्बलवत्किञ्चित्प्रमाणम् ।
बाधकेन हि बलवता भवितव्यम् । विरोधमात्रेण बाधकत्वे वैपरीत्यस्यापि प्रसङ्गात् । न हि विशिष्टादिजगद्विषयप्रत्यक्षादिदृष्टेः सकाशात्तर्कस्य प्राबल्यमस्ति । येनासौ तद्बाधकः स्यादिति ।
**द्वैतद्युमणिः **
ननु प्रत्यक्षप्राबल्यस्य पूर्वमुपपादितत्वादभ्यधिकाऽशङ्क्योत्तरग्रन्थप्रवृत्ति-रित्यस्याप्युत्तरत्र तच्छङ्कानिराकरणादर्शनेन वक्तुमशक्यत्वात् ‘न हि दृष्टेः’ इत्यादिग्रन्था-सङ्गतिरित्याशङ्क्य तमुत्थापयति ॥ तर्क इति ॥