सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि..
**प्रमाणदृष्टस्य तर्कबाध्यत्वाभावसमर्थनम् **
**श्रीमज्जयतीर्थटीका **
ननु प्रमाणदृष्टार्थे तर्कबाधोऽकिञ्चित्कर इत्येतत्कुत इति । तत्राह
मूलं
सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव
ब्रह्म खलु सदेव सोम्येत्यादिप्रमाणैः सत्यमवगतं तर्कविरोधेन दुर्घटञ्च । तत्र न तावत्तर्कं पुरस्कृत्य प्रमाणमनादृत्य परेणानिर्वचनमङ्गीक्रियते । किन्तु तर्कविरोधेन दुर्घटमपि प्रमाणात्सत्यमेवाङ्गीक्रियते । तेन परस्यापि सिद्धमेतद् यत्प्रमाणसिद्धेऽर्थे तर्कोऽकिञ्चि-त्करः । प्रमाणविरुद्धस्य तर्कस्य विपर्ययापर्यवसानेनाभासत्वादिति । अन्यथा ब्रह्मापि मिथ्याङ्गीकरणीयं स्यात् ।
**द्वैतद्युमणिः **
॥ प्रमाणात्सत्यमेवाङ्गीक्रियत इति ॥ ननु कथमेतत् । ‘ब्रह्मणः स्वप्रकाशतयैव सिद्ध्यङ्गीकारात् । अथ स्वप्रकाशत्वं दुर्वचम् । तद्धि, वृत्त्यव्याप्यत्वं वा फलाव्याप्यत्वं वा अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा तद्योग्यत्वं वा तद्योग्यत्वात्यन्ता-भावानधिकरणत्वं वा । नाद्यः । ब्रह्मणोऽप्यावरणभङ्गाय वृत्तिव्याप्यत्वात् । न द्वितीयः । अतीतादौ नित्यातीन्द्रिये चातिव्याप्तेः । न तृतीयः । सुषुप्त्यादौ व्यवहाराभावेनाव्याप्तेः । न चतुर्थः । योग्यत्वरूपधर्मस्यापि मोक्षकालेऽभावेनाव्याप्तेः । न पञ्चमः । तस्यापि धर्मत्वेन मोक्षदशायामभावात् । न च तृतीयचतुर्थपञ्चमानां कादाचित्कत्वेऽपि ब्रह्मासाधारण-धर्मत्वाल्लक्षणत्वानपाय इति शङ्क्यम् । स्वप्रकाशत्वस्य कादाचित्कत्वे ब्रह्मणोऽस्वप्रकाशत्वमेव स्वभावः स्यात् । अतः स्वप्रकाशत्वस्य स्वाभाविकत्वेन ब्रह्मस्वरूपसिद्ध्यर्थं सार्वज्ञादिकत्व-स्यावश्यं वक्तव्यतयोक्तदूषणसङ्गतेरिति चेन्न ।
पञ्चमपक्षस्य क्षोदसहिष्णुत्वात् । अनधिकरणत्वस्याधिकरणत्वात्यन्ताभावस्य ब्रह्मस्व-रूपत्वाभ्युपगमात् । स्वरूपत्वेऽपि भवतां विशेषेणेव मन्मते कल्पितभेदेनैव लक्ष्यलक्षण-भावोपपत्तेः । प्रमाणवृत्तिं विनाऽपि व्यवहार्यत्वाय प्रमाणवृत्तिनिरपेक्षव्यवहारविषयत्वव्याप्यं स्वप्रकाशत्वस्वरूपमिदं निरुच्यते ।
चतुर्थस्य मोक्षे विद्यमानत्वाभावेऽपि व्यवहारकालव्यापकत्वाल्लक्षणत्वं युक्तमेव । स्वाभाविकत्वानङ्गीकारादिति केचित् ।
पञ्चमस्य ब्रह्मस्वरूपत्वेऽपि लक्षणवाक्यस्याखण्डार्थकतया अखण्डार्थबोधद्वारीभूत-भेदधीविषयतया लक्षणत्वं युक्तमेव । अतः कल्पितभेदेनाधाराधेयभावानभ्युपगमेऽपि न क्षतिरिति तु तत्त्वम् ।
ननु योग्यत्वस्यापि स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वानुरोधेन ब्रह्मणि तदत्यन्ताभावस्यावश्यकतया कथं तदत्यन्ताभावानधिकरणत्वम् । अत्यन्ताभावस्य ब्रह्म-स्वरूपत्वेन तदधिकरणत्वाप्रसिद्ध्या लक्षणासम्भवभियाऽत्यन्ताभावत्वविशिष्टाधिकरणताया निवेश्यतयोक्ताधिकरणतायास्तत्राव्याहतत्वात् । न चोक्ताधिकरणताया अपि मिथ्यात्वात्तद-भावोऽस्तीति नासम्भव इति वाच्यम् । योग्यत्वात्यन्ताभावस्य लक्षणत्वपरित्यागे नोक्ताधि-करणत्वाभावपर्यन्तानुधावनानौचित्यादतिव्याप्तेरुभयत्र साम्यात्तत्परिहारचिन्तनस्यापि साम्या- च्चेति चेन्न । योग्यत्वानधिकरणवृत्तित्वविशिष्टत्वेन व्यावहारिकत्वेन वा तादृशात्यन्ताभावस्य विशेषणीयत्वात् । ब्रह्मस्वरूपभूतस्य मिथ्यात्वघटकयोग्यत्वात्यन्ताभावस्योक्तवैकल्पिक-विशेषणानाक्रान्तत्वेन धर्मादिनिष्ठस्यैव तथात्वेनासम्भवातिव्याप्त्योरनवकाशात् ।
ननु प्रथमविशेषणपक्षे तादृशयोग्यत्वानधिकरणवृत्तित्वविशिष्टत्वेनैव लक्षणे निवेशेनैत-द्दोषोद्धारात्ताद्दशयोग्यत्वात्यन्ताभावत्वेन निवेशो व्यर्थः । न च स्वप्रतियोग्यनधिकरण- वृत्तित्वोपलक्षितापरोक्षयोग्यत्वात्यन्ताभावानधिकरणत्वं वक्तव्यम् । अभावस्याधिकरण-स्वरूपत्वपक्षे घटादिस्वरूपभूताभाव एव लक्षणघटक इति नासम्भवः । योग्यत्वप्रतियोगि-कत्वानुपादाने ब्रह्मनिष्ठवेद्यत्वाभावमादायासम्भवः स्यादतस्तन्निवेश इति वाच्यम् । स्वत्वाननुगमात् । वक्ष्यमाणरीत्या ब्रह्मस्वरूपभूताभावाधिकरणाप्रसिद्ध्यैवासम्भवाभावेन योग्यत्वप्रतियोगिकत्ववैयर्थ्थापरिहाराच्च ।
द्वितीयविशेषणपक्षे च व्यावहारिकात्यन्ताभावानधिकरणत्वमात्रमेवालम् । अन्यत्सर्वं व्यर्थम् । अभावस्याधिकरणस्वरूपताया इदानीमादृतत्वेन ब्रह्मान्यमात्रवृत्त्यभावस्य व्याव-हारिकतया तदनधिकरणत्वस्य ब्रह्मण्येव सत्त्वेन कुत्राप्यतिव्याप्त्यभावादिति चेन्न । उक्त-विशेषणयोः परिचायकमात्रतया लक्षणे निवेशाभावेन वैयर्थ्यानवकाशात् । तथा चोक्तात्यन्ताभावस्य यदनधिकरणं तत्त्वस्यैव लक्षणत्वाभ्युपगमात् । ब्रह्मस्वरूपभूतात्यन्ता भावस्याधिकरणाप्रसिद्ध्या तदन्यात्यन्ताभाव एव लक्षणघटकस्तदनधिकरणत्वमात्मन एवेति कस्यापि दोषस्यानवकाशात् ।
अवेद्यत्वञ्च वृत्तिप्रतिबिम्बितचिद्रूपं भग्नावरणचिद्रूपं वा यत्फलं तद्विषयत्वाभावः । तद्विषयत्वञ्च तत्तादात्म्यरूपम् । तच्च घटादिरूपदृश्य एव । न तु चिद्रूपदृशि । ‘घटो भाति’ इत्यस्य भग्नावरणचिद्रूपफलादिविषयत्वमर्थः । जानातिभात्योः सकर्मकत्वाकर्मकत्वानुरोधेन भाधातोर्जानातिसमानार्थत्वाभावेनोक्तार्थकत्वस्य युक्तत्वात् ।
एवञ्च वृत्तिप्रतिबिम्बितचिज्जन्यातिशययोगित्वं वा वृत्त्या तत्प्रतिफलितचिता वा आभिव्यक्ताधिष्ठानचिद्विषयत्वं वा फलव्याप्यत्वम् । तदभाववत्त्वे सति अपरोक्षव्यवहारयोग्य-त्वात्यन्ताभावानधिकरणत्वं स्वप्रकाशत्वं पर्यवसितम् ।
यद्वा चिदविषयत्वे सति स्वरूपवत्त्वं वा तत् । चिद्विषयता च तत्तादात्म्यम् । तच्च चिति नास्त्यस्ति घटादाविति नासम्भवातिव्याप्ती ।
यद्वा स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वम् । यदि च स्वातिरिक्तसंविदपेक्षा स्वव्यवहारे चित्यपीत्यसम्भवः । व्यवहारमात्रे त्वा(स्वस्वा)पादकाज्ञानाभावव्यक्तित्वेन हेतुत्वात्तदुपहित-चितोऽपि हेतुत्वात्तदुपहितायाश् चिद्रूपत्वेऽपि शुद्धचिदन्यत्वादित्युच्यते तदा स्वावच्छिन्न-संविदनपेक्षत्वमेव निवेश्यम् । स्वावच्छिन्नत्वं स्वविषयकत्वम् । तथा चोपहितचितः शुद्धचिदविषयकत्वान्न कोऽपि दोषः । अपरोक्षव्यवहारयोग्यत्वञ्च भ्रमानधीनो योऽपरोक्ष इत्याकारशब्दस्तद्विषयत्वम् ।
‘‘अवेद्यत्वविशिष्टं यदपरोक्षव्यवहारयोग्यत्वं तदुपलक्षितस्वरूपमपि लक्षणं सम्भवति । इत्थञ्च स्वप्रकाशत्वस्य निर्वक्तुं शक्यतया तत एव ब्रह्मणः सिद्धेः प्रमाणेन तत्सिद्धि-रित्येतदयुक्तमेव’’ इति ।
अत्रोच्यते । स्वप्रकाशताया निर्वक्तुमशक्यत्वरूपदूषणस्य दुरुद्धरत्वेन प्रमाणेन तत्सिद्धेरावश्यकत्वात् । तथा हि । यदुक्तमुक्तापरोक्षयोग्यत्वतदत्यन्ताभावानधिकरण-त्वाद्युपलक्षितस्वरूपस्य लक्षणत्वमित्यादि । तदयुक्तम् । कल्पितभेदेनाधाराधेयभावेन स्वरूपस्यैव लक्षणत्वमित्याद्यर्थस्याखण्डार्थभङ्गे निरस्तत्वात् । कल्पितभेदाधिकरणपक्षस्य विशेषव्यवस्थापनावसरे विशेषतो निराकरिष्यमाणत्वाच्च ।
यदपि प्रमाणवृत्तिं विनेत्यादिना मतान्तरोत्थापनं तदतीवाशुद्धम् । स्वप्रकाशत्वस्य व्यवहारकालमात्रवृत्तिधर्मत्वेनेच्छादिवदस्वभावत्वे ब्रह्मणो वस्तुतोऽविद्यादिवदप्रकाशस्वभाव-त्वापत्त्या तदात्मकमोक्षस्यानन्दप्रकाशरूपत्वाभावादपुमर्थतापत्तेः ।
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यत्रयं ब्रह्मरूपमुत्तरं जगतो मतम् ॥
इति पूर्वाचार्योक्तिविरोधश्च । भातीत्युक्तप्रकाशस्यापि त्वयेदानीं नामादितुल्यत्वेनास्वा-भाविकत्वाङ्गीकारात् ।
यदप्यद्वैतसिद्ध्युक्तं विशेषणयोः परिचायकत्वमभ्युपेत्य ‘तथा च’ इत्यनेन पञ्चमलक्षण-स्वरूपवर्णनम् । तत्र वक्तव्यम् । तादृशविशेषणयोः परिचायकत्वे ब्रह्मस्वरूपातिरिक्त-तादृशयोग्यत्वप्रतियोगिकात्यन्ताभावस्य केन रूपेण निवेशः । तादृशयोग्यत्वप्रतियोगि-कात्यन्ताभावत्वेन वा । किं वा ब्रह्मान्यात्यन्ताभावव्यक्तीनां तत्तद्व्यक्तित्वेन निवेशः । नाद्यः । ब्रह्मनिष्ठाया उक्तात्यन्ताभावत्वविशिष्टस्वनिरूपिताधिकरणताया अप्युक्तात्यन्ता-भावाधिकरणतात्वरूपाक्रान्तत्वेन पूर्वोक्तासम्भवादितादवस्थ्यात् । न चोक्तात्यन्ताभाव-त्वोपलक्षिताधिकरणतात्वेनैव निवेशः क्रियते । तदुपलक्षितत्वञ्च तदनवच्छिन्नतदाश्रय-निष्ठनिरूपकताकत्वम् । तादृशाधिकरणता न ब्रह्मणीति वाच्यम् । उक्ताधिकरणताया ब्रह्मण्यसत्त्वेऽत्यन्ताभावस्य ब्रह्मस्वरूपत्वस्यैव बीजताया वक्तव्यतया घटादावपि तद्बीजानपायेन तादृशाधिकरणताया अप्रसिद्ध्याऽसम्भवोऽतिव्याप्तिर्वा स्यात् । यदि च घटादिस्वरूपभूतात्यन्ताभावनिष्ठात्यन्ताभावत्वानवच्छिन्नाभेदत्वाधारतात्वादिधर्मान्तरा-वच्छिन्ना या निरूपकता तन्निरूपकताकाधिकरणताप्युक्ताधिकरणतात्वेन सङ्गृह्यत इति नातिव्याप्तिरित्युच्यते तदा ब्रह्मस्वरूपभूतात्यन्ताभावनिष्ठज्ञानत्वाद्यवच्छिन्ननिरूपकता- काधिकरणता ब्रह्मण्यक्षतैवेत्यसम्भवतादवस्थ्यमेव । न द्वितीयः । ब्रह्मान्यव्यक्त्यात्मका-त्यन्ताभावव्यक्त्यधिकरणत्वाभावकूटनिवेशे अवेद्यत्वांशवैयर्थ्यम् । घटाद्यनेकव्यक्तिवारणाय तदेव निवेश्यत इत्युक्तावप्यपरोक्षव्यवहारयोग्यत्वप्रतियोगिकत्वस्य वैयर्थ्यमेव । तस्यापि परिचायकत्वाङ्गीकारे तस्य परिष्करणादिकं सर्वमनुपयुक्तमेव । घटत्वाभावानधिकरणं यत्तत्व-मित्यादिकमप्युक्तरीत्या लक्षणं सुशकं स्यादिति न किञ्चिदेतत् ।
इत्थञ्चोक्तरीत्या परिष्करणायोगाद्यथोक्तलक्षणस्य न्यायामृतोक्तो योग्यत्वस्य मिथ्यात्वा-नुरोधेन तदत्यन्ताभावस्य ब्रह्मणि सत्त्वात्तदनधिकरणत्वलक्षणस्यासम्भवरूपो दोषो युक्त एवेति तस्य भ्रान्तिमूलकत्वकथनं त्वद्भ्रान्तिमूलकमेव ।
अवेद्यत्वपरिष्करणमप्ययुक्तम् । वृत्तिप्रतिबिम्बितचित्तादात्म्यादेर्घटादावप्रामाणिकत्वेन तच्छून्यताया अक्षततया घटादाववेद्यत्वापरिहारात् । आग्रहादङ्गीकारेऽप्युपहितचित्तादात्म्यस्य शुद्धचित्यक्षततया असम्भव एव । न च तादात्म्यस्य विषयतात्वेनैव निवेशो न तु फलतादात्म्यत्वेन रूपेण । तथा च चित्प्रतियोगिकचिदन्यनिष्ठतादात्म्येष्वेव विषयतात्वरूप-धर्माभ्युपगमान्नासम्भवादिकमिति वाच्यम् । तादात्म्यस्य विषयतारूपतायाः पूर्वमेव निरस्तत्वात् ।
एतेन यद्वेत्यादिनोक्तपरिष्कारा अप्यपास्ताः । चिद्विषयतायाश्चित्यपि दुर्वारत्वात् । अन्यथा तद्व्यवहाराद्यनुपपत्तिप्रसङ्गात् । विषयतासम्बन्धेन व्यवहारे विषयतया ज्ञानस्य हेतुत्वेन क्लृप्तत्वात् । न च वृत्तिरूपज्ञानस्य विषयतया तत्र सत्त्वादेव व्यवहारोपपत्तिः । स्वातिरिक्तसंविदिति लक्षणे स्वावच्छिन्नसंविदिति लक्षणे च चिद्रूपज्ञानस्यैव निवेशेना-सम्भवानवकाशादिति वाच्यम् । वृत्तिरूपज्ञानेनैव तद्व्यवहाराभ्युपगमे धर्मादितुल्यतापत्त्या स्वप्रकाशत्वोक्तेः परिभाषामात्रत्वापातात् ।
अपि च सुखादौ वृत्त्यभावेऽपि ‘अहं सुखी’ इत्यादिव्यवहारदर्शनात्तत्र विषयतासम्बन्धेन चिद्रूपज्ञानस्य कारणतायाः क्लृप्तत्वादत्र वृत्तिरूपज्ञानस्य पुनः कारणतायाः कल्पने गौरवाच्चित एव तत्र विषयतया कारणत्वकल्पनं युक्तम् । एवं सुषुप्त्युत्तरमात्मव्यवहारार्थं सुषुप्तावात्मविषयकवृत्त्यादिकल्पने गौरवादपि चित एव चिद्विषयत्वमावश्यकम् । न चाभेदे विषयविषयिभावरूपसम्बन्धायोगः । उक्तलाघवानुगृहीतयुक्त्या स्वविषयकत्वेनैव सिद्धत्वे त्वदीयतर्काप्रसरात् । उपहितकेवलरूपयोस्तादात्म्यस्य त्वयाऽप्यङ्गीकृतत्वेनोपहितचित्ता- दात्म्यस्य शुद्धचिन्निष्ठस्य विषयतात्वाभ्युपगमेनैव सर्वत्र व्यवहारे एकजातीयकार्य-कारणभावोपपत्तौ घटादिव्यवहारे चित्तादात्म्यस्य चिद्व्यवहारे चासत्त्वापादकाज्ञान-व्यत्तयभावस्य कारणत्वाद्यङ्गीकारस्य निष्प्रयोजनतया गौरवेण हेयत्वात् ।
व्यवहारमात्रेऽसत्त्वापादकाज्ञाननिरूपकत्वव्यक्त्यभावस्यैव तद्व्यक्तित्वेन विशेषणतया हेतुत्वाङ्गीकारे घटादौ पुनर्वृत्तिप्रतिबिम्बितचिदादेस्तादात्म्येन हेतुत्वे मानाभावेन घटादावतिव्याप्तेः । न च घटादौ तादृशाज्ञाननिरूपकत्वाभावस्यावच्छेदकतासम्बन्धेनैव हेतुत्वस्य वक्तव्यतया नैककार्यकारणभावोपपत्तिरिति चित एव तादात्म्येन हेतुत्वं कल्प्यत इति वाच्यम् । विशेषणतासम्बन्धेन तादृशाभावव्यक्तेः कारणत्वस्यावश्यकत्वेऽन्यत्र क्लृप्तत्वात्तादृशाभावस्यैव सम्बन्धभेदेन कारणताद्वयस्य युक्ततया चितः कारणत्वाकल्पनात् । मिथ्यात्वानुमितेरिव चितः स्वविषयकत्वे बाधकाभावेनोक्तकुसृष्टेरनादरणीयत्वाच्च ।
न च मिथ्यात्वानुमितेस्तद्व्यक्तित्वेन विषयतारूपसम्बन्धप्रतियोगित्वम् । ब्रह्मतुच्छान्यत्वेन तदनुयोगित्वम् । नैवं प्रकृते सम्भवतीति वाच्यम् । एकस्मिन्नैकसम्बन्धप्रतियोगित्वानु-योगित्वयोः सत्त्वेनाविरोधस्यावश्यकत्वे तत्र रूपभेदस्याकिञ्चित्करत्वात् । एकावच्छेदेनैकाधि-करणावृत्तित्वरूपविरोधस्यावच्छेदकताया एव पूर्वं निरस्तत्वेनासम्भवात् । चित्यपि विषयता-रूपसम्बन्धप्रतियोगित्वानुयोगित्वयोरुभयोरन्यतरस्य वाऽनवच्छिन्नत्वाभ्युपगमेन चित्त्वसर्व-त्वानन्दत्वादिरूपभेदेनोभयस्य स्वीकारेण वा त्वदुक्तविरोधस्याप्युपपादयितुं शक्यत्वाच्च ।
न च चित एव सर्वत्र विषयतया व्यवहारकारणत्वे तुच्छे चित्तादात्म्यायोगात्तत्रा-न्यस्यावृत्तेरेव कारणत्वस्यावश्यकतया नैककार्यकारणभावो युक्त इति वाच्यम् । असति वृत्तिविषयत्वस्येव चिद्विषयत्वे बाधकाभावात् । वृत्तेराकाराख्या विषयता तुच्छे सम्भवति । चिद्विषयता तादात्म्यरूपा कथं निःस्वरूपे तुच्छे सम्भवतीति चेन्न । विषयतान्तरस्वीकारे घटादावपि तथैव व्यवहारसम्भवे चिद्विषयताया एव तत्राप्रामाणिकत्वापत्त्या घटादावेव स्वप्रकाशलक्षणातिव्याप्तिप्रसङ्गात् ।
अपि च चिदविषयत्वे सति स्वरूपवत्त्वमिति लक्षणावसरे तुच्छस्य तुच्छमेव स्वरूपपिति स्वरूपपदेनातिव्याप्तिपरिहारायोगात् स्वरूपपदस्य सत्त्वेन प्रतीत्यर्हपरत्वं त्वयाऽऽदृतम् । तथा च तुच्छस्वरूपे सत्त्वेन तादात्म्यं चितो माऽस्तु । सदिति व्यवहाराभावात् । तुच्छं ज्ञातमिति व्यवहाराच्चिद्रूपेण तत्तादात्म्ये किं बाधकम् । उक्तरीत्यङ्गीकारे ‘तस्य भासा सर्वमिदं विभाति’ इति श्रुतेरप्यसङ्कोचः कृतो भवति । न च ज्ञातत्वेऽपि भातत्वस्यासत्यभावात् श्रुतिसङ्कोचो युक्त एवेति वाच्यम् । धर्माद्यतीन्द्रियार्थसङ्ग्राहकसर्वपदानुरोधेन व्यवहारप्रयोजक-ज्ञानसम्बन्धस्यैव प्रकृते बाधार्थत्वोपपत्तेः । इत्थञ्चानयैव श्रुत्या चितोऽपि चिद्विषयत्वा-भ्युपगम आवश्यकः । तथा च पूर्वोक्तसर्वलक्षणानामसम्भव एव । असतोऽपि सत्त्वेन प्रतीतेर्व्यवस्थापितत्वात्स्वरूपपदस्योक्तत्वद्व्याख्यानेऽप्यतिव्याप्तिरवर्जनीयैव ।
यदपि ‘स्वावच्छिन्नचिदावरणनाशोपहितचित्तादात्म्यं फलव्याप्यत्वं विवक्षितम् । अन्यथा रूप्यादेरपि शुक्त्याद्यवच्छिन्नावरणाभिभवोपहितचित्तादात्म्येन फलव्याप्यतापत्तेः । एवञ्च घटादेरावरणाभिभवावच्छेदककत्वेनोक्ततादात्म्येऽपि शुद्धब्रह्मणि तदभावेन न तादृशतादात्म्य-रूपफलव्याप्यत्वं ब्रह्मणि’ इति । तदप्यसत् । ‘इदानीं मम घटेऽज्ञानम्’ इति प्रतीत्या सह ‘इदानीं मम ब्रह्मण्यज्ञानम्’ इति प्रतीतेरविशेषोपलम्भेन ब्रह्मण्यज्ञानं प्रत्याश्रयत्वविषय-त्वयोरिवावच्छेदकत्वस्यापि प्रतीतिबलादेवाङ्गीकारे क्षतिविरहात् । न च ‘इदानीं ममाज्ञानं घटे, न पट’ इति प्रतीत्या अज्ञानतदभावयोर्युगपद्विषयीकरणाच्चिति तदुभयविरोधशान्तये क्रमाद्धटपटयोस्तत्तदभावौ प्रत्यवच्छेदकत्वं स्वीक्रियते । प्रकृते तु बीजाभाव इति वाच्यम् । ‘इदानीं ब्रह्मस्वरूपेऽज्ञानं मम, न घट’ इति प्रतीतेरविशेषात् । न च स्ववृत्तिं प्रति स्वस्यावच्छेदकत्वमदृष्टचरमिति वाच्यम् । अन्यथादृष्टस्याप्यत्रैवोक्ताबाधितप्रतीतिबलात्स्वीकारे क्षतिविरहात् । ‘इदानीमेतत्क्षणे घटोत्पत्ति’रिति प्रतीत्यनुरोधेनैकस्यैव कालस्य घटोत्पत्तिं प्रति एतत्कालत्वेनाधिकरणत्वस्यैतत्क्षणत्वेनावच्छेदकताया दृष्टात्वाच्च । न चैकरूपेण नावच्छेदकत्वमधिकरणत्वं च युक्तमिति वाच्यम् । माऽस्तु । ब्रह्मण्युभयोरनवच्छिन्नयोरेव स्वीकारात् । एतत्क्षणे घटोत्पत्तिप्रत्ययान्तरानुरोधेनैतत्क्षणत्वेनाप्युक्तोत्पत्तिं प्रत्यधिकरण-त्वानपायेनोक्तनियमभङ्गाच्च । तथा च ब्रह्मण्युक्तफलव्याप्यत्वं दुर्वारमेवेत्यसम्भवः ।
वस्तुतो ऽज्ञानस्यैव निराकरिष्यमाणत्वादवच्छेदकतायाश्च निरस्तत्वेनोक्तपरिष्का-रोऽसम्भवदुक्तिक एव ।
एतेन ‘फलाव्याप्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वलक्षणं शुक्तिरूप्यसुखादावतिव्याप्तम् । शुक्तिरूप्यादौ स्वाकारवृत्त्या भग्नावरणचित्सम्बन्धरूपफलव्याप्यत्वाभावात् । ‘अपरोक्ष’मिति व्यवहारसत्त्वेन तद्योग्यत्वस्यापि सत्त्वादित्याशङ्क्य प्रमाणजन्यापरोक्षवृत्तिविषयत्वमेव योग्यत्वं विविक्षितम् । शुक्तिरूप्यादावविद्यावृत्तेरङ्गीकारात्सुखादीनां च वृत्तिं विना केवलसाक्षि-भास्यत्वाच्च नातिव्याप्तिः । न च ब्रह्मविषयकवृत्तेरपरोक्षत्वं ब्रह्मविषयाऽऽपरोक्ष्यनिबन्धनमिति तत्र लक्षणसत्त्वाभ्युपगमे सुखादेरपरोक्षस्वभावत्वाद्विद्यमानसुखादिविषयकानुमितिरप्यपरोक्षैवेति तत्रातिव्याप्तितादवस्थ्यमिति वाच्यम् । इन्द्रियजन्यवृत्तिविषयत्वस्य विविक्षितत्वात् । रूपादिहीनस्यापि ब्रह्मणश्चाक्षुषादिवृत्तिविषयत्वाभ्युपगमान्नासम्भवः । यद्वा स्वाभानापादका-ज्ञाननाशकवृत्तिविषयत्वं वा तत्वं ब्रह्मणि चरमवृत्त्या अभानापादकाज्ञाननाशान्नासम्भवः । सुखादेरभानापादकाज्ञानाप्रसिद्ध्या नातिव्याप्तिः’’ इति निरस्तम् ।
अरूपिद्रव्यत्वेन ब्रह्मणश्चक्षुर्गोचरत्वाभावस्य पूर्वमुपपादितत्वेन प्रथमनिरुक्तेरसम्भवात् । अज्ञानभेदादेरप्रामाणिकत्वेन प्रामाणिकत्वाभिमानेऽपि ‘स्वाभानापादकाज्ञानकत्व’मित्ये-तावतैव धर्मादिसुखादिशुक्तिरूप्यादीनां निराससम्भवे इतरांशस्य वैयर्थ्याच्च द्वितीयनिरुक्तेरपि हेयत्वाच्च । न च ‘तादृशाज्ञानकत्वमित्यस्य तत्सम्बन्धित्वमित्यर्थः । स च सम्बन्ध-स्तन्निवर्तकवृत्तिविषयत्वमेवेत्यभिप्रायेण तदुत्कीर्तनम्’ इति वाच्यम् । सम्बन्धत्वेन सामान्यतो निवेशेऽपि दोषाभावेन तद्वैयर्थ्यस्य दुर्वारत्वात् ।
यदपि ‘अपरोक्ष इति शब्दप्रयोगोऽपरोक्षव्यवहारपदेन विवक्षितः’ इत्युक्तमद्वैतसिद्धौ न्यायामृतोक्तस्यापरोक्षव्यवहारनिर्वचनखण्डनरूपदूषणस्य परिहाराय । तत्र वक्तव्यम् । किमुक्ताकारशब्दत्वेन लक्षणे निवेशः कार्य इत्यभिप्रायो वा । तेन रूपेण लक्षणे निवेशाभावेऽपि स्वरूपमात्रस्योक्तिरित्यभिप्रायो वा । नाद्यः । सुखादावपि सर्वजनसिद्धस्य भ्रमानधीनस्यैवापरोक्ष इति शब्दप्रयोगस्य सत्त्वेनातिव्याप्त्यनिस्तारात् । पूर्वोक्तेन्द्रियजन्ये-त्यादिविशेषणपरिचायकत्वं तस्येत्यप्ययुक्तमेव । अतिप्रसक्तेन तेनानतिप्रसक्तपरिचयायोगात् । अतिप्रसक्तस्यापि परिचायकत्वाङ्गीकारे प्रामाणिकत्वादिविशेषणदानस्याभावे ‘अपरोक्ष’
इति व्यवहारमादाय दोषवारणार्थस्याकिञ्चित्करत्वापातात् । अत एव न द्वितीयः ।
वैयर्थ्यस्य स्फुटत्वात् ।
यदि च सुखादावप्यपरोक्षव्यवहारो न प्रामाणिकोऽतो न प्रथमकल्पे दोष इत्याग्रहस्तदा ‘अपरोक्ष’ इति शब्देन वृत्त्या तत्प्रतिफलितचिता चाभिव्यक्ताधिष्ठानचिद्रूपं यत्स्फुरणं तद्विषयत्वावच्छिन्नमेव प्रतीयत इत्युक्तं स्यात् । तथा च तादृशस्फुरणविषयत्वरूपयोग्यत्वस्य ब्रह्मण्यङ्गीकारे फलाव्याप्यत्वरूपविशेषणस्य व्याहतिरिति लक्षणस्वरूपस्यैवाप्रसिद्धिः । न च ‘घटोऽपरोक्ष’ इत्यनेन घटे स्फुरणविषयत्वप्रकारकबोधद्वाराऽखण्डार्थधीर्जायते । तथा चापरोक्षव्यवहारयोग्यत्वं चिति स्फुरणत्वरूपमेवेति न व्याहतिरिति वाच्यम् । उक्तरीत्यङ्गीकारे अपरोक्षपदस्य क्वचित्स्फुरणवाचकत्वं क्वचित्स्फुरणविषयवाचकत्वमित्यङ्गीकारे नानार्थकत्व-कल्पनागौरवप्रसङ्गात् । न च प्रामाणिकं गौरवं न दोषाय । उभयत्रापि ‘घटोऽपरोक्षः’ इत्यादिप्रयोगप्राचुर्यात् ‘साक्षादपरोक्षाद्ब्रह्म’ इति श्रुत्या न शक्तेः प्रमितत्वादिति वाच्यम् । उक्तश्रुतेर्ब्रह्ममात्रवृत्तिस्फुरणत्वावच्छिन्नार्थकत्वे साक्षात्पदानर्थक्यापातात् । न हि नानाशक्तिसत्त्वे एकस्मिन् साक्षात्पदं प्रयुज्यते । तथात्वे ‘सूर्यः साक्षाद्धरिश् चन्द्रस्तु हरिः’ इति प्रयोगप्रसङ्गः । किन्तु ब्रह्म साक्षात्स्फुरणरूपम् । अन्यत्तु तद्विषयतया स्फुरद्रूप-मित्येवार्थो वाच्यः । तथा च लाघवात् स्फुरणत्वावच्छिन्न एवापरोक्षपदशक्तिरन्यत्रामुख्य-वृत्तिरित्येव पर्यवसितम् । तथा च सामान्यतोऽपरोक्षव्यवहारनिवेशे सुखादौ धर्मादावप्यमुख्य-वृत्त्याऽपरोक्षव्यवहारस्य सत्त्वेन तद्विषयीभूतसाक्षिभास्यत्वादिरूपमादायातिव्याप्तिर्दुर्वारैव । शक्तिरूपमुख्यवृत्त्यैवापरोक्षव्यवहारनिवेशे तद्योग्यत्वस्य ब्रह्मण्येव सत्वेनातिव्याप्त्याद्यभावात् फलाव्याप्यत्वरूपावेद्यत्वांशवैयर्थ्यमेव । तत्सत्त्वे तदसत्वे वा स्फुरण एवातिव्याप्तिश्च । स्फुरणे स्फुरणविषयत्वरूपफलव्याप्यत्वाभावादपरोव्यवहारविषयत्वप्रयोजकस्फुरणत्वरूपधर्मसत्त्वाच्च । तस्य विशिष्टचिद्रूपत्वेनालक्ष्यत्वात् ।
यत्तु न्यायामृते उक्तम् । ‘किञ्चापरोक्षव्यवहारयोग्यत्वं न तावत्सर्वान् प्रति । चैत्रस्य ज्ञाने मैत्रं प्रति तदभावात् । नापि ज्ञानं प्रति तस्याव्यवहर्तृत्वात् । नापि ज्ञानाश्रयं प्रति । ज्ञानस्य चितोऽनाश्रयत्वात्’ इति । तस्यायमभिप्रायः । ‘अपरोक्षव्यवहारयोग्यत्वं स्वाभाविकमिदानीमभिप्रेतम् । तच्च चेतनमात्रनिरूपितं चेद् एकस्य ज्ञानवेलायां सर्वान् प्रति व्यवहारः स्यात् । पुरुषभेदेन भेदे चेतनस्य स्वभावत्वानुपपत्तिः । अतो न कञ्चिदप्य-परोक्षव्यवहारयोग्यत्वं नापि ज्ञानं प्रति, ज्ञानाश्रयं प्रति, इति विशेषाभावकूटादपरोक्ष-व्यवहारयोग्यत्वसामान्याभावाल्लक्षणासम्भवः’ इति । इत्थं चाद्वैतसिद्धावेतद्दूषणवाक्यानुवादं कृत्वा व्यवहर्तृविशेषस्य लक्षणे निवेशाभावान्न व्यर्थविशेषणत्वादीति तद्दूषणकरणं भावानव-बोधनिबन्धनमेवेत्यवधेयम् । तस्मात्स्वप्रकाशत्वस्य निर्वक्तुमशक्यत्वात्स्वप्रकाशतया ब्रह्मणः सिद्धिरित्येतदयुक्तमेव ।
एतेन ‘अनुभूतिः स्वप्रकाशा अनुभूतित्वात्’ इति आत्मनः स्वप्रकाशत्वे व्यतिरेक्यनु-मानोपन्यासोऽप्यपोढः । स्वप्रकाशत्वरूपसाध्यस्यैव निर्वक्तुमशक्यत्वेन तदप्रसिद्धेः ।
न च चिदविषयस्वरूपत्वमेव स्वप्रकाशत्वमथवा फलाव्याप्यत्वविशिष्टापरोक्षव्यवहार-योग्यत्वात्यन्ताभावानधिकरणत्वं साध्यम् । तस्य विशिष्टस्य क्वचिदधिकरणेऽसिद्धत्वेन विशिष्टसाध्यप्रकारकाधिकरणविशेषविषयकनिश्चयव्यवहाराद्यभावेऽपि स्वरूपत्वं चिद्विषयत्वा-भावसमानाधिकरणं फलाव्याप्यत्वसमानाधिकरणमपरोक्षव्यवहारयोग्यत्वम् इति निश्चयस्तु स्यात् । सर्वाधिकरणावच्छेदेन तयोः सामानाधिकरण्यसन्देहकाले तदधिकरणघटि-तसामानाधिकरण्यग्रहाभावेऽपि अधिकरणविशेषमनन्तर्भाव्य सामान्यतस्तदुत्पत्तौ बाधका-भावात् । प्रत्यक्षे ग्राह्यसंशयस्य प्रतिबन्धकत्वेन प्रात्यक्षिकनिश्चयायोगेऽपि शब्देन ब्रह्मान्त-र्भावेण साध्यनिश्चयस्यापि सम्भवाच्चेति वाच्यम् । औचित्यावर्जितत्वेन द्वितीयकोटिभानस्य तस्य च विशेषदर्शनादिकं विना निवृत्त्ययोगेन साध्यतावच्छेदकविशिष्टसाध्यस्वरूप-निश्चयायोगात् । कथञ्चिदुत्पत्तावपि तत्राप्रामाण्यसंशयाहितत्वस्यावर्जनीयत्वात् । अन्यथा साध्यपक्षादिप्रत्येकोपस्थितिमात्रेण साध्यवत्पक्षादिज्ञानसम्भवात्तन्मात्रेण प्रवृत्त्यादिसम्भवेना- नुमानप्रामाण्योच्छेदापत्तेः । नन्वस्तु साध्यतवच्छेदकविशिष्टसाध्यस्वरूपांशे संशयात्मिकैव सिद्धिः । विशिष्टबुद्धौ विशेषणतावच्छेदकप्रकारकनिर्णयस्य जनकत्वाभ्युपगमात्संशयात्मक-साध्यप्रसिद्ध्यैव साध्यनिरूपितव्याप्तिज्ञानोत्पत्तौ बाधकाभाव इति चेन्न । तथात्वे साध्यस्वरूपे संशयात्मकपरामर्शस्यैवोत्पत्त्या तेनानुमितेरसिद्ध्योक्तासाध्यप्रसिद्धेरकिञ्चित्कर-त्वापत्तेः । तस्यैवानुमित्युत्पादकत्वाङ्गीकारे विनिगमकाभावात्पक्षहेत्वाद्यंशेऽपि तादृशज्ञाना-दनुमित्यङ्गीकारसम्भवेनासिद्ध्यादीनां दोषतोच्छेदप्रसङ्गात् ।
शब्देन ब्रह्मान्तर्भावेणेत्येतदप्ययुक्तम् । त्वदभिमतस्वप्रकाशत्वबोधकश्रुतेः कस्या अप्यभावात् । इतरशब्देषु प्रामाण्यनिर्णायकाभावेन शब्देन तन्निश्चयायोगात् ।
अथ ‘वेद्यत्वं किञ्चिन्निष्ठाभावप्रतियोगि धर्मत्वात्’ इत्यनुमानेन तत्सिद्धिः स्यात् । वेद्यत्वञ्च चिद्विषयत्वरूपम् । फलाव्याप्यत्वघटितस्वप्रकाशत्वपक्षे तु फलव्याप्यत्व-मपरोक्षव्यवहारयोग्यत्वसमानाधिकरणाभावप्रतियोगीति साध्यमतो विशिष्टसाध्यनिश्चयोऽनु-मानेनैव भवतीति चेन्न । यतोऽत्यन्ताभवाप्रतियोगिता यत्र नास्ति तत्रैव धर्मत्वहेतो-र्व्यभिचारः । सर्वत्रात्यन्ताभावप्रतियोगित्वाङ्गीकारे तस्य केवलान्वयित्वात्तत्रैव व्यभिचारः । ननु सर्वमिथ्यात्ववादिनामत्यन्ताभावप्रतियोगित्वस्यापि स्वात्यन्ताभावसामानाधिकरण्य-रूपमिथ्यात्वानुरोधेनात्यन्ताभावप्रतियोगित्वरूपसाध्यसत्त्वात्कथं व्यभिचारः । न च तर्हि हेतोः साध्याभावसामानाधिकरण्यस्यापि सत्वाद्व्यभिचार इति वाच्यम् । साध्यविरोधि-साध्याभावसामानाधिकरण्यस्यैव व्यभिचारपदार्थत्वेन प्रकृते तदभावादिति चेन्न । अत्यन्ताभावप्रतियोगित्वमात्रसाधने चिद्विषयत्वस्य ब्रह्मणि सत्वेऽप्युक्तसाध्योपपत्त्याऽर्थान्तर- तावारणाय स्वविरोध्यत्यन्ताभावप्रतियोगित्वस्यैव साधनीयतया केवलान्वयिभूतात्यन्ता-भावप्रतियोगित्वे व्यभिचारतादवस्थ्यात् । यद्यत्यन्ताभावप्रतियोगित्वं न केवलान्वयि तर्हि तद्यस्माद्व्यावर्तते तस्य केवलान्वयित्वापत्त्या तत्रोक्तसाध्याभावाद्व्यभिचार एव । न च व्यतिरेकिधर्मत्वमेव हेतुः स्यादिति वाच्यम् । वेद्यत्वस्य केवलान्वयित्ववादिनं प्रत्यसिद्धेः ।
यदप्यद्वैतसिद्धौ ‘वेद्यत्वं विरोध्यत्यन्ताभावप्रतियोगि, अत्यन्ताभावप्रतियोगित्वाद्धटवत्’ इति प्रयोगान्तरमुक्तम् । तदप्येतेनैव परास्तम् । न च वेद्यत्वस्य मिथ्यात्वेनैव हेतुसिद्धिरिति वाच्यम् । एवमपि साध्यशरीरे विरोधित्वमात्रनिवेशे कस्यचिद्विरोधमादायोद्देश्यासिद्धिः । स्वविरोधित्वनिवेशे स्वत्वाननुगमः । चिद्विषयत्वविरोधनिवेशे विशिष्टसाध्याप्रसिद्धिः । अतः स्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वप्रतियोगित्वैतदुभयसम्बन्धेनात्यन्ताभाव एव साध्यत्वे-नाभिमत इत्यद्वैतचन्द्रिकायामुक्तत्वेन केवलान्वयिभूतवृत्तिविषयत्वादौ व्यभिचारात् । मिथ्यात्वेनैव तत्रोक्तहेतुसत्वात् । न च तेषां पक्षसमत्वमिति वाच्यम् । वृत्तिविषयत्वस्य शुद्धेऽप्यङ्गीकारेण निश्चितसाध्याभाववत्त्वात् । अनुकूलतर्काभावेन पक्षसमान्तर्भावेणापि सन्दिग्धव्यभिचारस्य दोषत्वाच्च । एवमपरोक्षव्यवहारयोग्यनिष्ठात्यन्ताभावप्रतियोगित्वसाधक- हेतूनामपि व्यभिचारादयोऽनुसन्धेयाः ।
ननु माऽस्तूक्तानुमानैः साध्यप्रसिद्धिस्तथाऽप्ययं घट एतद्धटान्यत्वसामानाधिकरण्य-विशिष्टवेद्यत्वाभाववद्भिन्नः पदार्थत्वाद्धटान्तरवदिति महाविद्यया तु भविष्यति । एतद्धटान्यत्वरूपविशेषणाभावप्रयुक्तविशिष्टाभाववानेतद्धट एव । तदन्यत्वं घटान्तर इति क्रमेण पक्षातिरिक्तेषु सर्वत्र साध्यनिर्वाहः । पक्षीभूतैतद्धटे साध्यसत्वे स्वभेदमादाय न निर्वहत्यतस्तादृशवेद्यत्वरूपविशेष्याभावप्रयुक्तविशिष्टाभाववद्वस्त्वन्तरभेदमादाय साध्यपर्यवसाने सति चिद्विषयत्वरूपवेद्यत्वाभावस्वरूपत्वरूपस्वप्रकाशत्वात्मकसाध्यप्रसिद्धिः । फलव्याप्यत्व-घटितस्वप्रकाशत्वप्रसिद्धिर्यद्यपेक्षिता तदा फलव्याप्यत्वरूपवेद्यत्व(त्वाभाव)घटितविशिष्टाभाव एवोक्तानुमाने निवेश्यः । परन्तूक्तविशिष्टाभावेऽपरोक्षयोग्यत्वसामानाधिकरण्यवैशिष्ट्यं निवेश्य तद्भेदः साध्यत्वेनादरणीयः । अन्यथा फलव्याप्यत्वात्मकवेद्यत्वरूपविशेष्याभावप्रयुक्त-विशिष्टाभाववद्धर्मादिभेदमादाय पक्षे साध्यपर्यवसानसम्भवेन फलाव्याप्यत्वविशिष्टापरोक्ष-व्यवहारयोग्यत्वरूपविशिष्टस्वप्रकाशत्वाप्रसिद्ध्योद्देश्यासिद्धिप्रसङ्गात् । साध्यीभूतभेदे प्रति-योग्यवृत्तित्वं निवेश्यम् । तेनोभयादिभेदमादाय पक्षे साध्यपर्यवसानेऽर्थान्तरादिवारणाय तादृशविशिष्टाभाववत्वावच्छिन्नप्रतियोगिताकभेदनिवेशे बाध इत्यस्यानवकाश इति चेन्न । एतद्धटएतद्धटत्वविशिष्टवेद्यत्वाभावावच्छिन्नप्रतियोगिताकभेदाभाववान् पदार्थत्वात्पटवदि- त्याभासमाम्यात् । एतद्धटत्वविशिष्टवेद्यत्वाभावो विशेषणाभावप्रयुक्त एतद्धटातिरिक्तेषु सर्वेषु वर्तते । तदवच्छिन्नप्रतियोगिताकभेद एतद्धट एव वर्तते । तदभावोऽप्युक्तमहाविद्यया सिद्ध्येत् । तत्पर्यवसानाय चैतद्धटे एतद्धटत्वाभावो वा वेद्यत्वाभावो वा विनिगमका-भावादुभयं वा स्यात् । न च तद्युक्तमत एतस्याप्रयोजकत्वाद्यथाभासत्वं तथा प्रकृतस्या-पीत्यापादकतात्पर्यात् । अत एवैतद्धटत्वे सतीत्येव न्यायामृतपाठं धृत्वा तरङ्गिण्यामा-भासमाम्यमेव व्याख्यातम् । न च ‘इति प्रकरणसमत्वात्’ इति न्यायामृतोक्तविरोधः । तरङ्गिणीकृन्मत ‘इति समत्वात्’ इत्येव न्यायामृतपाठस्याभिमतत्वात् ।
औतचन्द्रिकायां तु ‘अयं घट एतद्धटान्यत्वे सति वेद्यत्वानधिकरणान्यत्वानधिकरणं पदार्थत्वादिति प्रकरणसमत्वात्’ इत्येव पाठ इत्युक्त्वा प्रकृतसाध्याभावसाधकसत्प्रति-पक्षोऽयम् । न च पदार्थत्वहेतोः पटादौ व्यभिचारः । पदार्थत्वादित्यस्यैतद्धटत्वादि-त्यर्थकत्वेनास्य व्यतिरेकिहेतुत्वात् । पदार्थत्वादित्यस्य यथाश्रुतार्थकत्वे तु एतद्धटत्वे सतीति साध्यकोटौ पूरणीयम् । तथा चैतद्धटत्वसामानाधिकरण्यविशिष्टं यत्पूर्वानुमानसाध्यं तदभाव एव पदार्थत्वेन साध्यः । पक्षीभूतघट एतद्धटत्वविशिष्टपूर्वोक्तसाध्याभावो न विशेषणीभूतै-तद्धटत्वाभावमादाय पर्यवस्यति । किन्तु विशेष्यीभूतपूर्वोक्तसाध्याभावमादाय पर्यवस्य-तीत्युक्तहेतोः प्रकरणसमत्वमित्युक्त्वा तरङ्गिणीकृतां प्रकरणसमत्वादित्यस्यालग्नतेत्युक्त्वा साधु प्रकटितं स्वमौढ्यमिति प्रलपितम् ।
तदशुद्धम् । तरङ्गिणीकृतां समत्वादित्येव पाठाभिमतेः । प्रथमव्याख्याने पदार्थत्वादि-त्यस्यैतद्धटत्वादिति व्याख्यायाः सर्वोपहासास्पदत्वात् । तथैव ग्रन्थकृदनुक्तौ बीजाभावात् । सद्धेतुसामान्ये पक्षमात्रवृत्तिधर्मस्य केवलव्यतिरेकितया सत्प्रतिपक्षत्वस्यानुकूलतर्काभावे सर्वसिद्धतया तदुक्तनिर्विशेषचमत्कारानाधायकत्वाच्च । द्वितीयव्याख्यानमप्ययुक्तम् । तथात्वे व्यभिचारादिपरिहारायावश्यं साध्यकोटौ निवेशनीयांशमनुक्त्वाऽनुपयुक्तांशकथने ग्रन्थकृतामप्रे- क्षावत्त्वप्रसङ्गात् । तस्मात्तरङ्गिण्यभिमतपाठ एव युक्त इति तवैव मौढ्यं जानीहीति दिक् ।
न चानुकूलतर्कसद्भावान्नाभाससाम्यमिति वाच्यम् । पक्षे उक्तसाध्यानङ्गीकारे कस्य-चिदनिष्टस्याभावेनानुकूलतर्कानुत्थानात् ।
केचित्तु ‘इति प्रकरणसमत्वात्’ इत्येवास्तु न्यायामृतपाठः । तथाऽपि तरङ्गिण्या नालग्नार्थकत्वम् । इत्यनया रीत्या प्रकरणेन प्रकृष्टतयाऽनुमानान्तरकरणेन समत्वाद्भवदनु-मानस्येति शेषः । प्रकरणपरं वा प्रकृष्टकृतिविषयानुमानान्तरपदम् । तथा चाभासमाम्य एव पर्यवस्यतीत्याहुः ।
परे तु ‘एतद्धटत्वे सतीत्यस्यैतद्धटत्वतादात्म्यवत्वे सतीत्यर्थः । चित्येतद्धटत्वस्यैतद्धटा-वच्छेदेनैवारोपितत्वात्तादृशमाध्यासिकतादात्म्यं चित्येतद्धटे चैतद्धटत्वस्य वर्तत इति परेषां मतम् । तथा चैतद्धटत्वप्रतियोगिकतादात्म्यविशिष्टवेद्यत्वस्य यस्तेन रूपेणाभावस्तद-वच्छिन्नप्रतियोगिकभेदवन्निष्ठप्रतियोगिताकभेदः साध्यः । द्वित्वाद्यवच्छिन्नभेदमादायार्थान्त- रादिवारणाय साध्यीभूतभेदे तद्वारकविशेषणं देयम् । पटादिरूपदृष्टान्ते विशिष्टवेद्यत्वा-भाववत्पटादिभिन्नो यः पक्षीभूतैतद्धटस्तद्भेदमादायैव साध्यं निर्वहति । पक्षीभूतघटे तु स्वभेदमादाय साध्यपर्यवसानायोगात् । साध्यीभूतभेदप्रतियोगी एतद्धटान्यः कश्चिदनुसर्तव्यः । स च न पटादिरूपश्चिदन्यः । तस्यैतद्धटत्वप्रतियोगिकतादात्म्यरूपविशेषणाभावप्रयुक्त-विशिष्टवेद्यत्वाभावरूपप्रतियोगितावच्छेदकाक्रान्तत्वात् । न च प्रमेयमेतद्धटत्वमिति प्रतीति-सिद्धमेतद्धटत्वतादात्म्यमेतद्धटत्वरूपप्रमेयादावप्यस्तीत्यतस्तत्र विशिष्टवेद्यत्वाभावरूपप्रति-योगितावाच्छेदकं नास्त्येवेति वाच्यम् । उक्तप्रतीतिसिद्धैतद्धटत्वतादात्म्यविलक्षणस्या-ध्यासिकातादात्म्यस्यैव निवेश्यत्वात् । तस्य चिदेतद्धटयोरेव सत्त्वात् । वैलक्षण्ये मानाभाव इत्युक्तौ तु चिदेतद्धटैतदन्यतरनिष्ठं यदेतद्धटत्वतादात्म्यं तद्विशिष्टवेद्यत्वाभावेत्यादिक्रमेणैव साध्यं परिष्कर्तव्यम् । तादात्म्य एतद्धटत्वप्रतियोगिकत्वं साध्यशरीर उपरञ्जकविशेषणम् । यद्वैतद्घटत्वप्रतियोगिकत्वं साध्यशरीरप्रविष्टतादात्म्ये न निवेश्यम् । किन्तूक्तान्यतरत्वेनैव तल्लाभायैवैतद्धटत्वे सतीत्युक्तम् । तथा च चिदन्यस्य पटादेर्विशिष्टवेद्यत्वाभावरूप- प्रतियोगितावच्छेदकवतस्तदवच्छिन्नप्रतियोगिकभेदायोगात् । चिति तादृशविशिष्टाभावरूप-प्रतियोगितावच्छेदकाभावप्रयुक्तस्तदवच्छिन्नभेदो वाच्यः । स च विशिष्टवेद्यत्वरूपप्रतियोगिनं विना न निर्वहतीति चिति विशिष्टवेद्यत्वसत्वपर्यवसाने पूर्वानुमानीयपर्यवसितसाध्यस्य
चिति वेद्यत्वाभावस्य सिद्ध्ययोगादस्य प्रतिपक्षानुमानत्वेन पूर्वानुमानस्य प्रकरण-समत्वोक्तिर्युक्तैव’ इति प्राहुः ।
अन्ये तु ‘एतद्धटत्वपदं यथाश्रुतार्थकमेव । परं त्वेतद्धटत्वसामानाधिकरण्य-विशिष्टवेद्यत्वाभाववत्प्रतियोगिकभेदात्यन्ताभावस्य साध्यत्व एवोक्तानुमानवाक्यतात्पर्यम् । दृष्टान्ते पटादौ तादृशविशिष्टाभाववद्यत्स्वं तत्प्रतियोगिकभेदात्यन्ताभावं तादृशविशिष्टवेद्यत्वा-भाववत्त्वावच्छिन्नप्रतियोगिताकभेदात्यन्ताभावं चादाय साध्यमुपपादनीयम् । पक्षीभूतैतद्धटे च नैतद्भेदात्यन्ताभावमादाय साध्यं पर्यवस्यति । एतद्धटे पटादिव्यक्तीनां भेदस्योक्तसामान्य-धर्मावच्छिन्नभेदस्य चोभयमतसिद्धत्वात् । किन्तु पूर्वानुमानसाध्यीभूतभेदस्यैवाभावं तादृशभेदस्य चित्प्रतियोगिकत्वमभ्युपेत्य परेण पक्षे तदुपपादनात् । तथा च एतद्धटत्व-विशिष्टवेद्यत्वाभाववच्चित्प्रतियोगिकत्वस्य प्राप्त्या प्रतिपक्षानुमानसाध्यीभूतात्यन्ताभावप्रति-योगित्वस्य बलादापत्तेः । अप्रामाणिकप्रतियोगिकाभाववादीनां पराङ्गीकारमात्रेण तस्य प्रतियोगितयोपादानसम्भवान्न तत्सिद्ध्यसिद्धिभ्यां व्याघातप्रसक्तिः । तथा चोक्तानुमानस्य पूर्वानुमानेन कण्ठत एवोपात्तसाध्यस्याभावसाध्यकत्वात् प्रकरणसमत्वोक्तिर्युक्तैव’ इति वदन्ति । तच्चिन्त्यम् । एतद्धटान्यप्रतियोगिकभेदाभावमात्रसाधनेऽप्युक्तरीतिसम्भवाद्विशिष्टा-भावादिघटितत्वानुसरणस्य व्यर्थत्वापातात् । साध्याभावत्वेन तदसिद्धेस्तवापि साम्यात् । वस्तुतश्चित्प्रतियोगिकभेदस्यैव पूर्वानुमानसाध्यतया तदभावमादायाप्येतदनुमानपर्यवसाना- योगाच्च । तस्मात्पूर्वोक्ताऽप्रसिद्धिर्दुर्वारा ।
पक्षीभूतानुभूतिरपि वृत्तिर्वा वृत्त्युपहितचिद्वा शुद्धचिद्वा । नाद्यः । वृत्तेर्जडत्वेन प्रकाशतायास्त्वदनभ्युपगतत्वेन बाधापसिद्धान्तयोरापत्तेः । अत एव न द्वितीयः । उपहितस्यापि मिथ्यात्वेन वृत्तितुल्यत्वात् । न चोपहितकेवलयोस्तादात्म्याच्छुद्धचिति स्वप्रकाशत्वं सिद्ध्यतीति वाच्यम् । तथात्वे उपहितवृत्तिमिथ्यात्वजडत्वादीनामपि शुद्धे सिद्धिप्रसङ्गात् । उपहितस्यापि स्वप्रकाशत्वापत्तेश्च । शुद्धचित्यारोपितत्वेन तत्तादात्म्यात्तस्य स्वप्रकाशत्वाङ्गीकारे घटस्यापि तदङ्गीकारापत्तेः । उपहितकेवलतादात्म्यवैलक्षण्ये माना-भावात् । न तृतीयः । तस्य सविषयकत्वाद्ययोगेन ज्ञानस्वरूपताया एव पूर्वनिरस्तत्वेनानु-भूतित्वस्य सुतरामयोगात् । शुद्धचित एकत्वेनानुभूतित्वजात्यसिद्धेश्च । वृत्त्युपहितचितां बहुत्वात्तत्रैवानुभूतित्वमभ्युपगम्य शुद्धचिति तदभ्युपगमस्त्वयुक्त एव । अतोऽसिद्धिर्दुर्वारा । चितोऽपि चिद्विषयतायाः पूर्वं समर्थितत्वेन तदविषयत्वघटितसाध्यस्य बाध एव । फलव्याप्यत्वादेरप्रामाणिकतया तदभावघटितसाध्यस्य घटादाविवात्मन्यपि मयाऽभ्युपगतत्वेन सिद्धसाधनात् । न च स्वस्य स्वविषयत्वं कुत्राप्यदृष्टचरं कथमुपपाद्यत इति शङ्क्यम् । मिथ्यात्वानुमित्यादिदृष्टान्तस्योक्तत्वात् । न चानुमित्यादेर्न स्वविषयत्वम् । सर्वत्वावच्छेदेन कस्याञ्चिद्व्यक्तौ मिथ्यात्वावगाहित्वम् । तावतैव मिथ्यात्वावच्छेदकत्वेन गृहीतस्यैतद्व्यक्तौ गृहीतत्वेनैतद्व्यक्तौ मिथ्यात्वसंशयानुपपत्त्याऽनुमितेः स्वविषयकत्वोपचार एवेति वाच्यम् । तद्धर्मिकमिथ्यात्वसंशयं प्रति परम्परया विघटकत्वेन तद्विषयकत्वोपचारे धर्मिज्ञानादि-विघटनद्वारा घटादिसंशयविघटकज्ञानस्यापि घटादिविषयकत्वव्यवहारापत्तेः । सर्वादिविषय-कानुमित्यादौ स्वस्याविषयत्वमन्यस्यैव विषयत्वमित्यत्र विनिगमकाभावाच्च । न च स्वस्मिन् स्वसम्बन्धायोग एव विनिगमक इति वाच्यम् । घटाभावे घटो नास्तीति प्रतीतिबलेन घटाभावे स्वाधारत्वादिसम्बन्धसिद्ध्योक्तनियमासिद्धेः । सर्वमिथ्यात्वबोधकश्रुत्यादीनां स्वविषयकत्वाभावे तद्व्यक्तिमात्रमिथ्यात्वबोधकश्रुत्यन्तरानुपलम्भेन तन्मिथ्यात्वासिद्धि-प्रसङ्गाच्च । न हि तद्धर्मिकसंशयानुत्पत्तिमात्रं तत्सिद्धिपदार्थः । ह्रदादौ सामग््रयभावेन वह्निसंशयाभावमात्रेण वह्निसिद्धिप्रसङ्गात् । न च मिथ्यात्वबोधकश्रुतीनां बहुत्वाद्वाक्यान्तरेणै-तद्वाक्यमिथ्यात्वमेतद्वाक्येन तद्वाक्यमिथ्यात्वं सिद्ध्यतीति वाच्यम् । तर्हि तद्वाक्यस्थपदस्य तद्वाक्यान्यपरत्वमेतद्वाक्यस्थस्यैतद्वाक्यान्यसर्वपरत्वं वाच्यम् । बोधश्च यदि स्वान्य-घटितरूपेण तदा विशेषणतया स्वविषयकत्वं स्वस्यागतमेव । वृथा लक्षणापत्तिश्च । यदि च सर्वत्वदृश्यत्वादिरूपेणैतद्वाक्यं विहायान्या व्यक्तयो भासन्ते । यदि च तत्तद्व्यक्तित्वादिना, यदि चैतद्वाक्यातिरिक्तनिखिलवृत्त्येतद्वाक्याघटितकिञ्चिद्रूपेण वा भानमित्युच्यते विनाप्रमाणं, तदोभयसिद्धमिथ्यात्वकशुक्तिरूप्यादय एव बोध्यन्ते न जगदित्यपि वक्तुं शक्यत्वेन प्रपञ्चमिथ्यात्वस्यैवासिद्धिप्रसङ्गः । श्रुतिसङ्कोचो लक्षणाप्रसङ्गोऽनुभवविरुद्धरूपान्तरभान-कल्पनापत्तिः । तद्वाक्यजन्यबोधोत्तरमेव प्रमाणान्तरजन्यप्रतिसन्धानं विनैवेदमपि वाक्यं मिथ्येति व्यवहारानुपपत्तिश्च । रूपभेदोपहितयोर्विषयविषयिभावाङ्गीकारपक्षस्योत्तरं तु प्रागेव दत्तम् । वस्तुतस्त्वित्यादिना त्वया मिथ्यात्वानुमानादीनां सर्वथा स्वविषयकत्वाभावस्या-भिहितत्वेन तत्पक्षस्यैवेदानीं दूषितत्वात् । तस्मात्स्वस्य स्वविषयत्वे बाधकाभावापूर्वोक्तरीत्या चितोऽप्युपहितचिद्रूप्रज्ञानतादात्म्यरूपतद्विषयत्वानपायात्तादात्म्यवैलक्षण्यस्य निराकृतत्वा-त्तदभावरूपस्वप्रकाशत्वसाधकानुमानं बाधितमेव ।
यत्तु ‘शुद्धचिदेव ज्ञानोपहितचित्’ इति तत्तुच्छम् । शुद्धचित्सम्बन्धमात्रेण व्यवहारादि-कार्यस्य कुत्राप्यदर्शने तस्य ज्ञानत्वोक्तेः साहसत्वात् ।
अपि च प्रतिकूलतर्कपराहतं स्वप्रकाशत्वानुमानम् । आत्मनो वेद्यत्वाभावे तत्सिद्धेरेवा-भावप्रसङ्गात् । इति तर्कोत्थानात् । न च प्रमाणवेद्यत्वाभावेऽपि स्वत एव तत्सिद्धिरस्त्विति वाच्यम् । शशविषाणादेरपि सिद्धेरेव प्रसङ्गात् । न चासत्वापादकाज्ञाननिरूपकत्वा-भावोपहितचित ग्राहकप्रमाणं तदभावादेव शशविषाणादावस्तीति व्यवहारादिरूपतत्सिद्ध्यभाव इति वाच्यम् । पूर्णानन्दरूप चिद्रूपे च तदभावात्तत्रापि तदभावापातात् । न च चिद्रूपेऽस्तित्वव्यवहारो वृत्तिं विनैव पूर्णानन्दरूपे च वेदान्तवाक्यजन्यवृत्तिविषयतामात्रेण तत्सम्भवतीति वाच्यम् । चिद्रूपवदेव शशविषाणादावपि प्रसङ्गात् । वृत्तिं विनैव तथात्वाङ्गीकारे चिद्रूपे कस्याप्यस्तित्वसंशयाभावप्रसङ्गश्च । तर्हि तत्रापि वृत्तिविषयतास्त्विति चेत्तर्ह्यागतं चिद्विषयत्वम् । धर्माद्यतीन्द्रियवस्तुग्राहकत्वस्य सर्वत्रानुगतकारणत्वेन त्वदभ्युप-गततत्तदसत्त्वापादकाज्ञाननिरूपकत्वाभावसम्पादकत्वस्य च परोक्षवृत्त्यवच्छिन्नचित एव वक्तव्यतया प्रकृतेऽपि तदावश्यकत्वात् । न च चिद्विषयत्वविषयव्यवहारे तत्रापि चिद्विषयत्वं न प्रयोजकम् । आत्माश्रयानवस्थाद्यापातात् । अतः स्वयमेवेति वक्तव्यम् । अतो ऽननुगमावश्यकत्वे चित्यपि तद्विनैव व्यवहारादिकमस्त्विति वाच्यम् । तद्वदत्र बाधका-भावात् । यदा व्यवहारस्तदैव वृत्त्यन्तरावच्छिन्नचिद्विषयत्वाभ्युपगमाद्धटाभावादिवत्स्व-वृत्तित्वाभ्युपगमेन वा सर्वसामञ्जस्ये कारणाननुगमे बीजाभावात् । अन्यथा धर्मादावपि वृत्तिविषयतामात्रेण व्यवहारोपपत्तौ वृत्त्यवच्छिन्नचिद्विषयत्वे मानाभावेन तेषामप्युक्तस्व-प्रकाशत्वाऽपत्तेः । न च चितः स्वविषयकत्वे स्वं स्वं विषयीकरोतीति स्यात् । तथा चैकस्यां क्रियायां कर्तृत्वकर्मत्वे विरुद्धे आपद्येतामिति वाच्यम् । ‘तदात्मानमेवावेत्’ इति श्रुत्यैकस्थैव ब्रह्मणः कर्तृत्वकर्मत्वयोः स्वरूपभूतवेदनक्रियात्वस्याभिहितत्वात् । ‘चैत्रः स्वं पुष्णात्य-लङ्करोति’ इत्यादावेकस्यैव कर्तृत्वकर्मत्वयोर्दर्शनाच्च । कथञ्चित्तत्र भेदोपपादनस्य निष्प्रमाण-त्वात् । इहापि तथोपपादनसम्भवात् । तावताऽपि स्वप्रकाशत्वलक्षणे घटादि-
धर्मादिग्राहकोपहितचितां चित्त्वेनैव निविष्टतया चिति यथाकथञ्चिद्विषयत्वमात्रेणा-सम्भवापत्तेर्दुर्वारत्वात् ।
यदप्यनुभूतित्वस्य वृत्त्युपहितचित्येव सत्त्वेनोपहितधर्माणां शुद्धेऽनङ्गीकारे असिद्धि-रित्याशयेन चिदन्याविशेष्यिका या धीस्तद्विशेष्यत्वमिति हेतुपरिष्करणं, तदप्यशुद्धम् । उक्तरीत्या घटादावपि साधनसम्भवेनाभाससाम्यात् । ननु चिद्विषयत्वं यदि चिति स्यात्तदा तत्वज्ञाननाश्यतावच्छेदकं न स्यादिति अनुकूलतर्कसद्भावाद्वैषम्यमिति वाच्यम् । चिद्विषयत्वं तत्वज्ञाननाश्यतावच्छेदकमित्यत्र प्रमाणाभावेन तर्कस्येष्टापत्तिदूषितत्वात् । अत्रायं पुरुषः स्वयं ज्योतिर्भवतीति श्रुतिरप्यात्मनो भवदभिमतस्वप्रकाशत्वं न प्रमापयति । स्वयं ज्योतिर्यस्येति विग्रहवाक्यघटकषष्ठ्या विषयत्वबोधनेन स्वविषयकज्ञानात्मकत्वस्यैव लाभात् । न च स्वयं दास इत्यनेन यथा स्वान्यदासशून्यत्वं बोध्यते स्वस्य स्वदासताया बाधितत्वात् । तद्वदिहापि स्वान्यज्ज्योतिःशून्यत्वमेव बोध्यतामिति वाच्यम् । दासपदस्य स्वभिन्नत्व-घटितार्थकत्वे मानाभावाद्गौरवाच्च परिचारकमात्रार्थकतया चैत्रः स्वयमेव स्वं परिचरतीत्यादि-व्यवहारदर्शनात्कर्तृकर्मत्वयोर्विरोधे मानाभावाच्च । स्वाभिन्नपरिचारकपरिचार्यत्वस्यैव बोधनेन दृष्टान्तासिद्धेः । स्वान्यापरिचार्यत्वमात्रबोधने घटोऽपि स्वयं दास इति व्यवहारापत्तेः । त्वद्रीत्या ज्योतिःशब्दस्य स्वनिष्ठव्यवहारविरोध्यप्रकाशविरोध्यर्थकत्वाङ्गीकारेऽपि स्वं स्वनिष्ठव्यवहारविरोध्यप्रकाशविरोधीत्यर्थो वा यथाश्रुताद्वैतसिद्धिरीत्या स्वान्यत्वगर्भितस्व-सजातीयप्रकाशाप्रकाश्यप्रकाशत्वरूपार्थो वा तद्वाक्येन बोध्यताम् । तावता चिद्विषयत्वा-भावफलव्याप्यत्वाभावघटितभवदुक्तस्वप्रकाशत्वे श्रुतिरप्रमाणमेव । उक्तार्थद्वयस्य स्वविषय-कत्वेनाप्युपपत्तेः । न च स्वविषयकत्वे उक्तार्थद्वयानुसरणवैयर्थ्यापत्त्या तथा न पर्यवस्यतीति वाच्यम् । सुषुप्तिकाले स्वेन स्वप्रकाशेऽप्यन्येनापि प्रकाशोऽस्त्विति शङ्कापरिहाराय तथोक्तिसम्भवात् । स्वविषयकत्वाभावसिद्ध्यनन्तरमेव श्रुतेस्त्वदभिमतार्थकत्वस्य कल्पनीयत-याऽयोन्याश्रयेण त्वदभिमतार्थासिद्धेश्च । एतत्सर्वं तुष्यत्विति न्यायेन ‘योऽयं विज्ञानमय’ इत्यादेः पररीत्या जीवपरत्वमभ्युपेत्योक्तम् । वस्तुत एतत्प्रकरणेन परमात्मैव जीवस्य सुषुप्तौ ज्ञानसाधनत्वेनोच्यत इति बृहद्भाष्ये निरूपितम् । तथाहि ‘आत्मैवास्य ज्योतिः’ इति वाक्ये आत्मपदं परमात्मपरम् ।
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात्तैर्नैवाऽप्ता गुणपूर्णता ॥
इत्यादिप्रमाणैस्तस्य परमात्ममुख्यवाचित्वेन सिद्धत्वात् । प्रकृते जीवपरत्वे कतमः स आत्मेत्युत्तरत्र प्रश्नानुपपत्तेः । जीवस्य जनकेन निश्चितत्वात् । अन्यथा किंज्योतिरयं पुरुष इति प्रश्नवाक्ये ‘अयं पुरुषः’ इति तदनुवादानुपपत्तिः । नन्वेवं तर्हि ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः समानः सन्नुभौ लोकौ सञ्चरति मृत्यो रूपाणि पश्यति भयानि पश्यन्’ इत्याद्युत्तरवाक्यानुपपत्तिः । परमात्मनि तदुक्तधर्माणां बाधादिति चेन्न । जीवनिष्ठभयदर्शनादेरपि परमात्माधीनत्वेन वा तेषामन्तर्णीतणिच्कत्वेन सञ्चरतीत्यस्य सञ्चारयतीत्यर्थकत्वेन वोपपत्तेः । न चोक्तार्थकत्वे मानाभावः । जीवपरत्वे प्रश्नानुपपत्त्या परमात्मपरत्वसिद्धावुक्तार्थस्यावश्यमनुसरणीयत्वात् । भाष्ये ‘कृत्वा विवाहन्तु कुरुप्रवीराः’ इत्याद्युदाहृत्यान्तर्णीतणिच्त्वस्योपपादितत्वाच्च । ‘स बद्धः स दुःखी स बन्धयति स दुःखयति सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति’ इत्यादिकया माण्डूकभाष्यो-दाहृतश्रुत्या, तत्रैवोदाहृतया
स्वतन्त्रे कर्तृशब्दः स्यात्प्राज्ञस्यावेदनं यथा ।
सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥
इति ब्रह्माण्डस्मृत्या चैतादृशशब्दानामुक्तगतिद्वयस्य दर्शितत्वाच्च । एतदभिप्रायेणैव
त्वं स्त्री त्वं पुमान् त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो वञ्चसि दण्डेन त्वं जातोसि विश्वतो मुखः ॥
इत्यादिश्रुतिसम्भवाच्च । जीवपरत्व उत्तरत्रैतद्विषयत्वेनोदाहृतस्य
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकसीति ।
शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एकहंसः ॥
इत्यादेरनुपपत्तेश्च । शारीरं जीवं स्वप्नावस्थया संयोज्य स्वयमसुप्तः सन् सुप्तानन्यान् जीवान्पश्यति । शुक्रं शोकरत्युभयोपेतजीवमादाय पुनः स्थानं जाग्रदाख्यमेतीति ब्रह्मधर्मोक्तेः । एवं ‘समानः सन्नुभौ लोकौ’ इत्युक्तसमानत्वस्य ‘विज्ञानमयः’ इत्युक्तविज्ञानप्रचुरत्वस्य च जीवपरत्वेऽयोगाच्च । न च शारीरं शरीरं स्वप्नेन स्वप्नावस्थयाऽभिहत्य निश्चेष्टीकृत्या-सुप्तोऽपरिलुप्तज्ञानरूपः सुप्तान् वासनारूपसूक्ष्मविषयानभिचाकसीति प्रकाशयति शुक्रमिन्द्रियगणमादाय स्थानं तत्तद्गोलकमेतीत्यर्थो जीवविषयत्वे सङ्गच्छत इति वाच्यम् । शारीरपदस्य स्वार्थिकाणन्तत्वापत्तेः । जीवस्य स्वप्नकाले सर्वथा बहिर्विषयककृत्याद्यभावेन शरीरनिश्चेष्टीकरणकर्तृत्वोक्तेरसङ्गतेश्च । स्वप्नकालेऽपि शरीरे परिवर्तनादिव्यापारसत्त्वेन शरीरचेष्टाभावस्यायोगाच्च । शुक्रपदस्येन्द्रियगणवाचकत्वस्य जीवेन सहेन्द्रियगणस्य सुषुप्तिकाले गमनागमनयोरप्रामाणिकत्वात्तथा जाग्रत्काले जीवस्य तत्तदिन्द्रियगोलकीभूतश्रोत्रप्राणादि-गमनस्याप्यप्रामाणिकत्वाच्च श्रुतेस्तदर्थकत्ववर्णनायोगाच्च ।
यत्तूक्तं ‘ईशपरत्वे एतीत्यस्यागमयतीति णिजध्याहारापत्तिः’ इति तदशुद्धम् । मन्त्रस्थैतीत्यस्य यथाश्रुतार्थस्यैवाङ्गीकृतत्वेन णिजध्याहाराभावात् ।
यदपि ‘उक्तमात्मैवास्य ज्योतिरिति वाक्यस्य परमात्मपरत्वमयुक्तम् । आदित्यादेरिव परमात्मनोऽसाधारणहेतुत्वाभावात् । निद्राधातुवैषम्याद्यसाधारणहेत्वन्तरसत्त्वेनैवकारेण तद्व्यव-च्छेदासङ्गतेः । अस्मन्मते च स्वाप्नव्यवहारविरोध्यप्रकाशविरोधी साक्ष्येव भवतीति नानुपपत्तिः । ज्योतिःपदञ्च स्वनिष्ठव्यवहारविरोध्यप्रकाशविरोधिपरम्’ इति प्रलपितम् ।
तत्तुच्छम् । भगवद्रूपविशेषस्य शरीरस्थस्याधारणहेतुत्वात् । निद्राधातुवैषम्यादेरिन्द्रियाणां स्वव्यापारोपरम एव कथञ्चित्प्रयोजकत्वेन स्वाप्नव्यवहारे तद्धेतुत्वे बीजाभावात् । एवकारस्य पूर्वोक्तादित्यादिमात्रव्यवच्छेदपरत्वमात्रसम्भवाच्च । अन्यथाऽऽदित्येनैवायं ज्योतिषास्ते चन्द्रमसैवायं ज्योतिषास्त इत्यादौ तवाप्यगतिप्रसङ्गात् । चक्षुरादेर्गृहान्तर्वृत्त्यन्धकारादि-विरोधिदीपादीनामपेक्षितत्वात्साक्षिणोऽप्रकाशविरोधित्वं त्वसङ्गतम् । अप्रकाशपदेनाज्ञानग्रहणे प्रमाणवृत्तेरेव तन्निरासकत्वेन साक्षिणस्तन्निरासकत्वाभावादसङ्गतिः । बाह्यतमोग्रहणेऽप्ये-वमेव । अन्धकार एव सुप्तत्वात् । स्वप्नान्धकारं प्रति साक्षिणः साधकत्वात्स्वप्नालोका-देरपेक्षितत्वाच्च । प्रलपितार्थस्यात्यन्तासम्भवदुक्तिकत्वादस्मदर्थस्य चाबाधितत्वाच्च न किञ्चिदेतत् ।
एवं श्रुत्यादीनां भवदुक्तस्वप्रकाशत्वे प्रामाण्याभावेन श्रुत्यनुग्रहाभावाद्विवरणाद्युक्तानु-मानादीनि प्रतिपक्षाप्रयोजकत्वादिदूषणग्रस्ततया सुज्ञेयानीति ग्रन्थगौरवभयान्न पृथक्तानि दूष्यन्त इत्यलम् ।
इत्थञ्च पररीत्या पराभिमतस्वप्रकाशत्वे मानाभावाज्जीवस्य तथात्वेऽपि वा जीवाद्भिन्न-ब्रह्मणः सिद्धेः प्रमाणं विनाऽयोगात् । तदभेदे वा तदसत्वव्यावृत्तिफलकप्रमाणवृत्तेरपेक्षि-तत्वाच्च साधूक्तं दुर्घटमपि ब्रह्म प्रमाणात्सत्यमेवाङ्गीक्रियत इति ॥ तेनेति ॥ अङ्गीकरणेनेत्यर्थः ।