१० प्रकृष्टादिवाक्ये प्रश्नप्रतिवचनयोर्विशिष्टविषयकत्वसमर्थनेनाखण्डार्थत्वभङ्गः

अतः कैर्विशेषणैर्विशिष्ट इति प्रश्ने..

प्रकृष्टादिवाक्ये प्रश्नप्रतिवचनयोर्विशिष्टविषयकत्वसमर्थनेनाखण्डार्थत्वभङ्गः

**श्रीमज्जयतीर्थटीका **

यदि तर्हि प्रश्नपरिहारयोर्न स्वरूपमात्रं विषयः किंविषयौ तावित्यत आह–

मूलं

अतः कैर्विशेषणैर्विशिष्ट इति प्रश्ने प्रकृष्टप्रकाशतद्देशकालादिविशिष्ट एव वाक्यार्थः ।

उपपद्यत इति वाक्यशेषः । तेन प्रश्न इति सप्तम्युपपत्तिः । प्रकृष्टप्रकाश इति भावप्रधानो निर्देशः ।

आदिपदं पूर्वोक्तपक्षद्वयसंग्रहार्थम् । तदयमर्थः । यत एवं चन्द्रादिस्वरूपमात्रे प्रश्नो न युज्यते । अतः कश्चन्द्रः कोऽयमित्यनया वाचोभङ्ग्या कैर्विशेषणैर्विशिष्ट इति विशिष्टविषय एव प्रश्नोऽङ्गीकार्यः । प्रश्ने च विशिष्टविषये सति परिहारवाक्यस्यापि विशिष्ट एवार्थो युज्यते । तत्र प्रकृष्टप्रकाशश्चन्द्र इत्यादिवाक्यं प्रकृष्टप्रकाशत्वाऽदिविशिष्टं चन्द्रादिकं प्रतिपादयति । नक्षत्राऽदिव्यावृत्तिस्त्वर्थलभ्या । सोऽयं देवदत्त इत्यादिवाक्यं कदाचित्तद्देशकालविशिष्टस्यैतद्देशकालवैशिष्ट्यं प्रतिपादयति । एतद्देशकालवैशिष्ट्यस्य सिद्धत्वेऽपि तद्देशकालविशिष्टस्येति विशेषणात् । कदाचिदेतद्देशकालविशिष्टस्य तद्देशकालवैशिष्ट्यम् । ऐक्यं त्वर्थलभ्यम् । कदाचिद्विशिष्टद्वयैक्यञ्चेति ।

एवमेव ‘ब्रह्मविदाप्नोति परम्’ इत्युक्त्या सामान्यतोऽवगतं ब्रह्म कैर्विशेषणै-र्विशिष्टमिति विशेषणविवित्सया पृष्टे ‘सत्यं ज्ञानमनन्तम्’ इति सत्यत्वादिविशिष्टमेव बोध्यते । जीवात्मा च प्रत्यक्षेण सामान्यतोऽवगतो विशेषापेक्षया पृष्टः सिंहो देवदत्त इतिवत् ‘तत्त्वमसि’ इति वाक्येन परमात्मसादृश्यविशिष्टः प्रतिपाद्यते । अभेदस्य प्रमाणबाधितत्वात् ।

**द्वैतद्युमणिः **

॥ वाक्यशेष इति ॥ नन्वस्त्यादिक्रियापदानामुत्सर्गतः प्राप्तत्वात्तद्विहाय किमुपपद्यत इति क्रियापदाध्याहारेणेत्यत आह ॥ तेनेति ॥ उपोपपदपद्लृधातोरुत्तर-वाक्यतात्पर्यप्रमाधीनबोधविषयत्वरूपव्यापारोऽर्थः । तं प्रति अर्थरूपकर्तृद्वारा प्रश्नस्य वैषयिकाधिकरणत्वात् सप्तम्युपपत्तिः । विषयितया प्रश्नवृत्तित्ववत एवार्थस्य सदुत्तरवाक्य-तात्पर्यप्रमाधीनबोधविषयत्वात् । अन्यथा प्रश्नोत्तरवैयधिकरण्यापत्तेः । प्रश्नविषयता परं सामान्यरूपेणेत्यन्यदेतत् । गृहवृत्तित्वविशिष्टचैत्रस्य पाककर्तृत्वेन गेहे पचतीतिवत् । अस्तीतिक्रियायोगाङ्गीकारे तु अर्थनिष्ठकालसम्बन्धात्मकसत्तारूपक्रियां प्रति प्रश्नस्याधि-करणविधया प्रयोजकत्वाभावात्प्रश्नविषयत्वं विनाऽप्यर्थसत्तोपपत्तेर्न कारकत्वगर्भित-मधिकरणत्वं सम्भवति । अतः सप्तम्यनुपपत्तिः स्यादित्युपष्टम्भसङ्गतिः । प्रश्ने विशिष्टविषये सतीत्युत्तरटीका तु उक्तस्य पर्यवसितार्थकथनपरेत्यविरोधः । उक्तवाक्यानुसारात्प्रश्न इत्येतत्सति सप्तम्यन्तमिति उपपद्यत इति क्रियायोगाल्लभ्यत इति टिप्पण्यामुक्तम् । तत्पक्षे विशिष्टविषये सतीत्यस्याप्यध्याहारः कर्तव्य इति ज्ञेयम् ।

॥ भावप्रधान इति ॥ प्रकृष्टप्रकाशपदयोः कर्मधारयाश्रयणेनैवोपपत्तौ प्रकृष्टप्रकाशपदस्य बहुव्रीहित्वमाश्रित्य भावप्रधानत्वोक्तिर्यद्यपि न युक्ता तथापि प्रकृष्टप्रकाशश्चन्द्र इत्यादौ प्रकृष्टप्रकाशादिपदस्य बहुव्रीहिसमासरूपत्वस्यैव बुद्धौ परिवर्तितत्वात्तस्यैव भावप्रधानत्वस्य सर्वत्राप्येतादृशस्थलान्तरेष्वभियुक्तैरङ्गीकृतस्यादरणेनैव निर्वाहे किमपूर्वसमासान्तरोपस्थिति-कल्पनयेत्याशयेनेत्थमभिहितम् ।

बहुव्रीहिसमासे पूर्ववाक्यस्थे यो भावतया प्राप्तः प्रकृष्टप्रकाशस्तत्प्रधानक एव । नान्यपदार्थभूताश्रयविशेषणत्वेन बोधकोऽयं निर्देश इत्यर्थः । तथा च कर्मधारयाश्रणमेव कर्तव्यमिति भावः । एतावदुक्तिस्तु प्रकृष्टप्रकाशस्याप्रस्तुतत्वशङ्कानिरासायेत्यप्याहुः ।

॥ तद्देशेत्यादि ॥ पूर्वोक्तरीत्या ध्वंसप्रागभावावनुसन्धेयौ ॥ अर्थलभ्यमिति ॥ अनुषङ्ग-प्राप्तम् । न मुख्यतात्पर्यविषयीभूतमित्यर्थः । यथाश्रुतं त्वसङ्गतम् । ऐक्यस्य साक्षाच्छब्द-वेद्यत्वस्यैव सत्त्वात् ॥ विशिष्टद्वयैक्यमिति ॥ वस्तुतस्त्वित्यादिना पूर्वप्रदर्शितपक्षे विशिष्ट-पदमाश्रयमात्रपरम् । तद्देशकालसम्बन्धैतद्देशकालसम्बन्धाश्रयैक्यमित्यर्थः ।

अथ ‘कश्चन्द्र इति प्रश्नः स्वरूपमात्रविषयक एवेति उत्तरवाक्यस्यापि तन्मात्रपरत्वमेव युक्तम् । न च स्वरूपमात्रस्य सिद्धत्वात्तत्र प्रश्नानुपपत्तिः । असङ्कीर्णस्वरूपस्यासिद्धत्वा-त्तज्जिज्ञासया प्रश्नोपपत्तेः । न च स्वरूपद्वैविध्यायोगः । ज्ञातेऽपि चन्द्रस्वरूपे अयं चन्द्र इति घटादिभ्यो निष्कृत्य व्यवहारं प्रति विरोधिसंशयविपर्ययहेतुभूताज्ञानस्यानुभवसिद्धत्वेन तादृशाज्ञानविषयत्वाभावोपहितचन्द्रस्वरूपस्यैवासङ्कीर्णचन्द्रस्वरूपपदार्थत्वात् । तथा च चन्द्रस्वरूपविषयकसंशयविपर्ययहेत्वज्ञानविरोधिचन्द्रस्वरूपज्ञानं भवत्विति जिज्ञासामूलकं प्रश्नवाक्यमिति पर्यवसितम् । प्रश्नवाक्यस्थकिंशब्दस्यापि तादृशाज्ञानविषयत्वप्रकारकेच्छा-विषय इत्येवार्थः । अवश्यमित्थमेव वक्तव्यम् । अन्यथा चन्द्रस्वरूपस्य सामान्यतो ज्ञातत्वेन पुनस्तज्ज्ञानसामान्ये इच्छानुदयात् । विषयसिद्धेरिच्छाविरोधित्वात् । न च सामान्यरूपेण ज्ञानस्य सिद्धत्वेऽपि विशेषरूपेण ज्ञानस्यासिद्धत्वात्तत्रेच्छासम्भव इति वाच्यम् । चन्द्रः कश्चन वर्तते । स च सर्वस्माद् व्यावृत्तस्तत्प्रयोजकासाधारणधर्मवानित्येतत् ‘सर्वं जानामि, तत्स्वरूपं विविच्य न जानामि’ इति सर्वानुभवबलाच् चन्द्रासाधारणधर्मतन्निष्ठव्यावृत्त्यादीनां सर्वेषां ज्ञानस्य सिद्धत्वावगमेन तत्रापीच्छायोगात् । उक्तानुभवबलादेवास्मदुक्ताज्ञान-सिद्ध्याऽस्मदभिमतरीत्याश्रयणस्यैवोपपन्नत्वात् । न चासाधारणधर्मस्य सामान्यतो ज्ञातत्वेऽपि विशेषरूपेण तत्र जिज्ञासा युक्तेति युक्तम् । ‘असाधारणधर्मोऽपि कश्चन वशेषरूपेण विशिष्टो भवतीति जानामि’ इत्यनुभवेन तादृशज्ञानस्यापि सिद्धत्वावगमात् । न च ‘चन्द्रनिष्ठविशेष्यतानिरूपितचन्द्रासाधारणधर्मनिष्ठानवच्छिन्नविषयताकज्ञानं भवतु’ इति जिज्ञासा सम्भवति । तादृशज्ञानस्यासिद्धत्वात् । तथा च किंशब्दस्यापि तादृशज्ञान-विषयत्वप्रकारकेच्छाविषय एवार्थोऽस्त्विति वाच्यम् । तथात्वे प्रकृष्टप्रकाश इत्युत्तरवाक्यस्य प्रश्नवैयधिकरण्यापत्तेः । तज्जन्यबोधे प्रकृष्टप्रकाशादिरूपचन्द्रासाधारणधर्माणां प्रकृष्टत्वादि-रूपेणैव भानेन तन्निष्ठप्रकारताया अनवच्छिन्नत्वायोगात् । तथाच प्रश्नस्य स्वरूपमात्र-विषयकत्वे उत्तरवाक्यस्यापि तदावश्यकत्वे तादृशबोधस्य साक्षाज्जनयितुमशक्यतया द्वारतया प्रकृष्टप्रकाशादिकं बोधयित्वा तादृशबोध उत्तरवाक्येन सम्पादनीय इति तत्रैव परमतात्पर्यं युक्तम् । एषैव रीतिः सकललक्षणवाक्यस्थलेष्वावश्यिकीति सर्वलक्षणवाक्यानामखण्डार्थ-कत्वमेव ।

न च संशयहेत्वज्ञाननिवर्तकज्ञानत्वेनैवेच्छाविषयत्वात्तादृशज्ञानमेवोत्तरवाक्येन सम्पाद्यम् । तच्च सप्रकारकमपि भवतीति किं स्वरूपमात्रविषयकबोधाऽग्रहेणेति वाच्यम् । अज्ञानस्य स्वरूपमात्रविषयकत्वस्य पूर्वानुभवबलेन सिद्धत्वेन तन्निवर्तकज्ञानस्यापि स्वरूपमात्र-विषयकस्यैव निवर्तकत्वात् । ज्ञानाज्ञानयोः समानविषयकत्वेनैव निवर्त्यनिवर्तकभावात् । अन्यथा घटज्ञानात् पटाज्ञाननिवृत्तिप्रसङ्गात् । न च समानविषयकत्वेन निवर्तकत्वे घटत्वेन घटज्ञानाद् द्रव्यत्वेन घटाज्ञाननिवृत्तिप्रसङ्गात्समानप्रकारकत्वस्यापि निवेशनीयतया कथं स्वरूपमात्रविषयकज्ञानेनाज्ञाननिवृत्तिरिति वाच्यम् । सप्रकारकाज्ञानस्य सप्रकारकज्ञानेनैव निवृत्तेर्निष्प्रकारकाज्ञानस्य स्वरूपमात्रविषयनिष्प्रकारकज्ञानेनैव निवृत्त्यङ्गीकारात् ।

अथ वा सर्वत्र समानविषयकत्वेनैव ज्ञानाज्ञानयोर्निवर्त्यनिवर्तकता । घटज्ञानं तु घटत्व-विशिष्टविषयकम् । न तु द्रव्यत्वविशिष्टविषयकम् । अतो न द्रव्यत्वविशिष्टविषयकाज्ञानस्य तेन निवृत्तिः । एतेन ‘समानप्रकारकत्वेन निवर्तकत्वे जातिमानिति ज्ञानेनापि घटत्व-प्रकारकाज्ञाननिवृत्तिप्रसङ्गः । अनवच्छिन्नघटत्वनिष्ठप्रकारताशालिज्ञानस्य निवर्तकत्वे‘घटत्व-वानिति घटत्वमात्रप्रकारिका या धीस्तत्प्रकारवान्’ इति ज्ञानस्य निवर्तकत्वानुपपत्तिः’ इति परास्तम् ।

न च तथापि स्वरूपमात्रबोधश्चरमस्तत्कारणीभूतश्चैको बोध इति बोधद्वयाङ्गीकारे गौरवम् । ‘लक्षणवाक्याल्लक्षणमवगत्य चन्द्रस्वरूपमवसितवानस्मि’ इति सर्वानुभवबलेन बोधद्वयस्य प्रामाणिकत्वेन गौरवानवकाशात् । तस्मात्प्रथमानुमाने दृष्टान्ते साध्य-वैकल्याभावः । एवं कोऽयमिति प्रश्नस्यापि स्वरूपमात्रविषयकत्वात् तदुत्तररूपस्य सोऽय-मिति वाक्यस्यापि स्वरूपमात्रपरत्वमिति न द्वितीयानुमानस्यापि दृष्टान्ते साध्यवैकल्यम्’ इति ।

अत्रोच्यते । स्वरूपमात्रविषयकज्ञानस्य केन रूपेणेच्छाविषयत्वम् । किं चन्द्र-स्वरूपविषयकसंशयहेत्वज्ञाननिवर्तकज्ञानत्वेनोत चन्द्रस्वरूपमात्रविषयकाज्ञाननिवर्तक-ज्ञानत्वेनोत चन्द्रव्यवहारहेतुज्ञानत्वेन । नाद्यः । चन्द्रस्वरूपविषयकास्तित्वादिप्रकारक-संशयहेत्वज्ञाननिवर्तकतदस्तित्वप्रकारकज्ञानस्य सिद्धत्वेन तत्साधारणरूपावच्छिन्नस्येच्छा-विषयत्वानुपपत्तेः । न च तत्तत्कालावच्छिन्नस्वनिष्ठसंशयहेत्वज्ञाननिवर्तकज्ञानत्वमिच्छा-विषयतावच्छेदकं भवत्विति वाच्यम् । तत्काले ‘चन्द्रपदवाच्यः किं द्रव्यं गुणो वा देवता वा जडो वा’ इत्यादिसंशयानामपि सत्त्वेन तन्निवर्तकज्ञानस्यापीच्छाविषयत्वप्राप्त्या तन्मूलकं कश्चन्द्र इति प्रश्नं प्रति ‘देवता चन्द्रो द्रव्यं चन्द्रः’ इति वाक्यस्याप्युत्तररूपत्वापत्तेः । तत्कालीनचन्द्रस्वरूपविषयकसंशयसामान्यनिवर्तकं तु न लक्षणवाक्यजन्यज्ञानमपीति तदप्यनुत्तरं स्यात् । न द्वितीयः । चन्द्रस्वरूपमात्रविषयकाज्ञानस्यैवाप्रसिद्ध्या तन्निवर्तक-ज्ञानत्वेन भानायोगात् । न च ‘चन्द्रस्वरूपमात्रं न जानामि’ इति सर्वलोकानुभवात्कथं तस्याप्रसिद्धिरिति वाच्यम् । ‘सामान्यतश्चन्द्रस्वरूपादिकमस्तीत्यवगच्छामि । विशेषत-स्तत्स्वरूपं तदसाधारणधर्मांश्च न जानामि’ इत्येव लोकानुभवात् । ‘नभोमण्डलस्थ-ज्योतिष्ट्वादिरूपसामान्यरूपविशेषरूपादिभिश्चाधिगच्छामि । धर्माद्यनालिङ्गितं शुद्धस्वरूपं नाधिगच्छामि’ इत्यनुभवाभावात् । तादृशज्ञानस्वरूपाङ्गीकाराऽग्रहेऽपि द्रव्यं चन्द्र इति वाक्यस्यापि तदुत्तररूपत्वापत्तेरपरिहारात् । प्रकृष्टप्रकाशादिवाक्येनेव तद्वाक्येनापि तात्पर्यानुपपत्तिज्ञानसहकृतेन शक्त्यैकदेशेन जहदजहल्लक्षणया वा तत्सहकृतया चन्द्रस्वरूप-मात्रबोधसम्भवात् । तात्पर्यानुपपत्तिसहकारवशाच्छब्देनाभिमतस्वरूपबोधे जननीये तत्पदार्थतावच्छेदकातिप्रसक्तेरविरोधित्वात् । अन्यथा चैत्रोच्चारितेन घटमानयेति वाक्येन घटत्वेन चैत्रीयघटव्यक्तेर्बोधाभावप्रसङ्गात् । चन्द्रवृत्त्यसाधारणधर्मभूतचन्द्रत्वचन्द्रपद-वाच्यत्वाद्यवच्छिन्नबोधजनकचन्द्रादिपदसमभिव्याहारेणापि विशेषव्यक्तिपर्यवसानसम्भवाच्च । न च तद्वाक्यस्य तादृशबोधजननशक्तिर्न स्वीक्रियते । तदुत्तरं ‘चन्द्रस्वरूपाज्ञानं नष्टं, द्रव्यत्वमवगत्य चन्द्रस्वरूपमवसितवानस्मि’ इत्यनुभवाभावेन तादृशफलासिद्धेरिति वाच्यम् । ‘द्रव्यत्वं तन्मात्रधर्मः’ इति तद्वाक्यादिनैव भ्राम्यतस्तादृशानुभवस्यापि सत्त्वात् । प्रकृष्ट-प्रकाशकत्वादिकमन्यवृत्तीति भ्राम्यतस्तद्वाक्योत्तरमपि तादृशानुभवाभावेनोक्तवाक्ययो-स्त्वदुक्तवैषम्यायोगात् ।

नन्वस्तु ‘द्रव्यं चन्द्रः’ इत्येतदपि तदुत्तरम् । तादृशानुभवस्य त्वयैवाङ्गीकृतत्वेनेष्टा-पत्तिसम्भवादिति वाच्यम् । तथात्वे ‘कश्चन्द्रः’ इति पृच्छकं प्रत्युक्तस्य ‘द्रव्यं चन्द्रः’ इति वाक्यस्याप्रमाणत्वं ‘प्रकृष्टप्रकाशश्चन्द्रः’ इति वाक्यस्य प्रमाणत्वमिति व्यवस्थायास्तत्त-द्वक्त्रोराप्तत्वानाप्तत्वव्यवस्थायाश्चासिद्धिप्रसङ्गस्यैवापादनीयत्वात् । द्वारीभूतबोधे फलीभूत-बोधे चाबाधितार्थकतायास्त्वन्मतरीत्या वाक्यद्वयेऽपि साम्यात् । न च लक्षणवाक्येन लक्ष्यतावच्छेदकधर्मसमनियतत्वेन तादृशधर्मावगाहिबोधो जायते । स एव च स्वरूपमात्राव-गाहिज्ञानान्तरं प्रति द्वारीभूतः । स च ‘द्रव्यं चन्द्रः’ इति वाक्याधीनो भ्रमः ‘प्रकृष्ट-प्रकाशश्चन्द्रः’ इति वाक्याधीनस्तु प्रमात्मक इति तन्मूलकत्वमेवोक्तव्यवस्थानामिति वाच्यम् । वाक्यजन्यबोधे पदजन्यपदार्थोपस्थितितात्पर्यज्ञानादेरेव सर्वत्र कारणत्वेन क्लृप्ततया तैरेव बोधसम्भवे उक्तबोधस्य कारणत्वे मानाभावात् ।

लक्षणवाक्यस्थल एव तत्कल्पने लक्षणस्यैकविधत्वाभावात्तादृशतादृशनानाविधलक्षण-वाक्याधीनबोधानामेकैकलक्ष्यस्वरूपावगाहिबोधे द्वारत्वेन कारणताकल्पनेन तदुत्तरक्षणे स्वरूपमात्रावगाह्यप्रामाणिकबोधान्तरकल्पने च महागौरवम् । न च स्वरूपमात्रावगाहिबोधः सर्वानुभवसिद्धः । तथात्वे घटादिसविकल्पक एवावयोस्तत्र विवादाभावप्रसङ्गात् । स्वरूपमात्र विषयकाज्ञाननिवृत्त्यन्यथानुपत्त्या तत्कल्प्यत इति न युक्तम् । अवश्यं द्वारत्वेनाङ्गीकरणीय-बोध एव स्वरूपमात्रविषयकाज्ञानं प्रत्यपि निवर्तकत्वस्यैव लाघवेन तदुत्तरं तादृशाज्ञान-निवृत्त्यनुभवादेव कल्पयितुमुचितत्वादननुभूतज्ञानान्तरस्य कल्पने कल्पनागौरवात् । अन्यथोद्बुद्धव्याप्तिसंस्कारसहितधूतवत्ताज्ञानमात्रेणानुमित्यङ्गीकारोऽपि भवतो न सिद्ध्येत् । न च स्वरूपांशेऽधिकावगाहित्वात्कथं तादृशज्ञानेन स्वरूपमात्रविषयकाज्ञानं निवर्तते । समानविषयकत्वाभावादिति वाच्यम् । घटपटाविति समूहालम्बनेन घटाज्ञाननिवृत्तेर्दर्शनेन निवर्तकज्ञाने स्वनिवृर्त्याज्ञानानधिकविषयकत्वस्य सामान्यत एवातन्त्रत्वाभ्युपगमेनानुभवानु-साराच्छक्तिविशेषेणैव निवर्तकत्वस्यावश्यकत्वेन सप्रकारकचन्द्रज्ञान एवोक्तलाघवानुसारेण शक्तिस्वीकारौचित्यात् । शक्तिविशेषादरणं तु त्वयाऽवश्यं वक्तव्यमेव । उक्तमपि । अन्यथा स्वरूपमात्रावगाहिशाब्दबोधानुकूलपदार्थोपस्थित्यादेरपि स्वरूपमात्रविषयकत्वेन तेनाज्ञान-निवृत्त्यापत्तेः ।

चन्द्रपदार्थं विविच्याज्ञानतस्तत्सत्तामात्रं जानतोऽपि ‘स चन्द्र एवैतत्कालवृत्तिः’ इति वाक्यं श्रुतवतः सोऽयं देवदत्त इति वाक्येनेव तेन चन्द्रस्वरूपमात्रावगाहिबोधस्योत्पन्नत्वात्तेन कश्चन्द्र इति प्रश्नहेतुभूताज्ञाननिवृत्त्यापत्तेश्च । लक्षणवाक्यजन्यस्वरूपमात्रबोधस्य च ‘स चन्द्रोऽयम्’ इत्यादिवाक्यनिवर्त्याज्ञाननिवर्तकत्वापत्तेश्च । उक्ताज्ञानयोः स्वरूपमात्रविषय-कत्वात् । न च अप्रकृष्टप्रकाशादिव्यावृत्त्युपलक्षितस्वरूपविषयकमज्ञानं लक्षणवाक्यनिवर्त्यं पूर्वकालवृत्तित्वोपलक्षितस्वरूपप्रतियोगिकभेदाभावोपलक्षितस्वरूपविषयकमज्ञानं च सोऽय-मित्यादिवाक्यनिवर्त्यमित्यज्ञानयोर्वैलक्षण्यान्नैकवाक्यजन्यबोधसमानविषयकत्वमपराज्ञानस्येति नोक्तातिप्रसङ्ग इति वाच्यम् । तदाश्रयव्यक्तिमात्रविषयकत्वस्यैव तदुपलक्षितव्यक्ति-विषयकत्वस्यैतन्मतसिद्धतया तत्रोक्तापत्तेर्युक्तत्वात् । सिद्धान्तलेशकारपक्षे तु दूषणमुत्तरत्र वक्ष्यामः । किञ्च लक्षणवाक्यानां स्वरूपमात्रबोधस्य परमफलत्वाङ्गीकारे जात्यखण्डोपाधि-लक्षणवाक्येन ‘अनवच्छिन्नप्रकारतावन्तो जात्यखण्डोपाधयः’ इत्यनेन समस्तजात्यखण्डो-पाधीनां घटत्वतत्तद्व्यक्तित्वादीनां स्वरूपत उपस्थितौ सत्यां तथा तदधीनस्मरणेन च प्रमेयत्वसामान्यलक्षणाधीनसर्वबोधे तेषां स्वाश्रये स्वरूपतः प्रकारत्वप्राप्त्या विशेषरूपेणैव सर्वव्यक्तिज्ञानवत्त्वप्राप्त्या तादृशलक्षणज्ञानिनः सर्वज्ञतापत्तेः । कथञ्चित्तद्वारणं च तादृश-बोधस्य लक्षणवाक्यजन्यत्वनिश्चयोत्तरमेवेत्यन्योन्याश्रयापत्तेः ।

एवं कश्चन्द्र इति प्रश्नवाक्यप्रयोजकबुभुत्सायाश्चन्द्रस्वरूपेतराविषयकतन्मात्रविषयक-बोधेनैव निवृत्तौ तादृशप्रश्नं श्रुत्वाऽङ्गुल्यैव यदा चन्द्रं प्रदर्शयति तदापि बुभुत्सा निवर्तते इत्यनुभवसिद्धम् । तत्र प्रत्यक्षस्यैव चन्द्रस्वरूपबोधकत्वात्तेन च चन्द्रेतरस्वरूपादेर्विषयी-करणात्तादृशबुभुत्साया निवृत्तिर्न स्यात् । न च प्रत्यक्षेणापि स्वरूपमात्रबोधो जायत इति युक्तम् । चक्षुरादेः स्वव्यवस्थापकगुणपुरस्कारेणैव भासकत्वस्य सर्वसिद्धत्वात् । न चाद्वैत-सिद्ध्यादौ प्रत्यक्षेणापि तत्तेदन्त्वयोर्वैशिष्ट्यबाधग्रहसहितेन देवदत्तस्वरूपमात्रावगाहिबोधो जायत इत्युक्तिरपि युक्ता । प्रमाणाभावात् । स्वाभ्युपगतनिर्वाहार्थमेव सर्वकल्पने चाति-प्रसङ्गात् । तादृशप्रतीत्युत्तरं च ‘सोऽयं देवदत्तः’ इत्यभिलापस्य ‘तत्तेदन्त्वाभ्यां देवदत्त-मभिजानामि’ इत्यनुव्यवसायस्य च विरोधात् । अत्रापि ‘प्रकृष्टप्रकाशवन्तं वर्तुलं चन्द्रं पश्यामि इत्यभिलपनानुव्यवसायविरोधात् । न च स्वरूपमात्रावगाहिज्ञानपूर्वकाले तादृश-धर्माणामुपस्थितत्वात्तादृशानुव्यवसायाभिलपनयोरुपपत्तिरिति वाच्यम् । तृतीयया प्रकार-कत्वबोधनात्तादृशप्रकारकत्वावच्छिन्नदेवदत्तविषयकत्ववत्त्वेन तादृशप्रकाशविशिष्टचन्द्र-विषयकत्ववत्त्वेनैवानुव्यवसायेन विषयीकरणानुभवात् । तस्य पूर्वज्ञानविषयत्वमात्रेण तथाऽनु-व्यवसायाङ्गीकारे पूर्वं घटत्वाद्युपस्थित्यनन्तरपटज्ञानोत्तरं घटं पटत्वेन जानामीत्यनुव्यवसायस्य घटः पट इति व्यवहारस्य चापत्तेः । न च तत्रासंसर्गग्रहसत्त्वान्न तथा ज्ञानादिकं प्रकृते तथाऽस्त्विति ।

द्रव्यत्वं घटश्चेति समूहालम्बनोत्तरमपि द्रव्यत्वेन घटं जानामीत्यनुव्यवसायापत्तेः । पूर्वज्ञानविषयत्वमात्रेण तथाऽङ्गीकारवादिन एकज्ञानविषयत्वे सुतरां तदाकारौचित्यात् । गुरुमतरीत्यादरे तु सर्वत्र तथात्वौचित्येन भ्रमविलोपप्रसङ्गेनानिर्वचनीयस्यैवासिद्धिप्रसङ्गात् । ‘अयं न सः’ इति बाधग्रहसहितेनैव चक्षुषा देवदत्तस्वरूपमात्रावगाहिबोधस्य जातत्वा-त्तत्रासंसर्गग्रहस्यावश्यकतया तत्र ‘तत्तेदन्त्वाभ्यां देवदत्तं जानामि’ इत्यनुव्यवसायस्य ‘सोऽयम्’ इत्यभिलापस्य चानुपपत्तेर्जागरूकत्वाच्च । विशिष्टे विशिष्टभेदग्रहसत्त्वेऽप्युप-लक्षितयोर्भेदग्रहाभावात्तदुपपत्तिरिति न वाच्यम् । तथात्वे तत्तेदन्त्वयोरेकस्मिन्नुपलक्षण-विधयाऽवगाहिनो विशिष्टप्रत्यक्षस्योपपत्तौ किं सर्वानुभवविरुद्धस्वरूपमात्रावगाहिज्ञान-मङ्गीकृत्योक्तकुसृष्ट्यादरेण ।

प्रकृष्टप्रकाशादेश्चन्द्रे बाधग्रहस्य कथमप्यसत्त्वेन तत्र प्रत्यक्षेण स्वरूपमात्रावगाहि-बोधोत्पादनायोगः । न च स्वरूपमात्रविषयकबोधेच्छायाः स्वस्य सत्त्वादेव प्रत्यक्षेण तादृशबोधोत्पत्तिरिति वाच्यम् । विशिष्टप्रत्यक्षजनकसामग्रीसत्त्वेऽपीच्छामात्रबलेनान्यादृश-ज्ञानोत्पत्तावनिष्टरूपस्पर्शगन्धादिविषयाणां तत्प्रत्यक्षजन्यदुःखादीनां च प्रत्यक्षाभाव-प्रसङ्गात् । सर्वेषामपि तदविषयकप्रत्यक्ष एवेच्छासत्त्वात् । प्रत्यक्षस्थले तथात्वाङ्गीकारेऽनुऽनु-मितिस्थले तथात्वं नास्तीत्यत्र विनिगमकाभावाद्वह्न्यविषयकपर्वतमात्रविषयकानुमिताविच्छा-बलाद्बाधबलाद्वा वह्निव्याप्यधूमवत्तापरामर्शात्पर्वतस्वरूपमात्रावगाह्यनुमित्यापत्तिः । न चाऽङ्गुल्या निर्देशस्थले अयं चन्द्र इत्याकारकं वक्त्रभिप्रेतं वाक्यमनुमिमीते श्रोता । तेन चन्द्रस्वरूपमात्रविषयकबोधवान् भवति । तेन च बुसुत्सा निवर्तत इति न प्रत्यक्षस्य तत्र बुभुत्सानिवर्तकत्वप्रसक्तिरिति वाच्यम् । प्रत्यक्षस्य तद्बोधजननद्वारा बुभुत्सानिवर्तकत्वसम्भवे वाक्यकल्पने मानाभावाद्गौरवाच्च । सामान्यतो ‘मदभिप्रेतबोधानुकूलवाक्याभिप्रायवान्’ इति कथञ्चिदनुमितिसम्भवेऽप्यानुपर्वीविशेषावच्छिन्नवाक्याभिप्रायकत्वं प्रत्यङ्गुलीनिर्देशादे-र्व्यभिचारादप्रयोजकत्वाच्चानुपूर्वीविशेषनिर्णयाभावेन तत्र शाब्दबोधोत्पत्तेरसम्भवदुक्ति-कत्वाच्च । न च शाब्दबोधानुत्पत्तौ प्रत्यक्षमात्रेण कथं तदिच्छा निवर्तत इति वाच्यम् । तस्य स्वाज्ञाननिवर्तकबोधमात्र एवेच्छासम्भवेन शाब्दबोध एवेत्यत्र बीजाभावात् ।

एवं स्वरूपमात्रबोधस्यैव कश्चन्द्र इति प्रश्नमूलबुभुत्सानिवर्तकत्वे येन पूर्वं ‘चैत्रत्व-व्याप्यलिङ्गमिदं, मैत्रत्वव्याप्यलिङ्गञ्चेदम्’ इत्यन्यप्रसङ्गे कस्यचिन्मुखाच्छ्रुतं, कालान्तरे च प्रयोजनवशात्तद्ग्रामं गत्वा कश्चैत्र इति कांश्चित्पृच्छत्यपि, तैस्तदुत्तरानुक्तौ स्वयमेव चैत्रं दृष्ट्वा पूर्वश्रुतलिङ्गस्मरणेन चैत्रस्वरूपं निश्चिनोति । अनन्तरं च ‘मैत्रोक्तलिङ्गेन चैत्रस्वरूपमवगत-वानस्मि’ इति व्यवहरति च तत्रागतिरेव । त्वयाऽपि अनुमितेः स्वरूपमात्रविषयकत्वा-नङ्गीकारात् । तथा चोक्तस्थलेषु विशिष्टविषयकबोधेनैव क इत्यादिवाक्यप्रयोजकबुभुत्सादि-वृत्त्यङ्गीकारावश्यकत्वेन तादृशवाक्यप्रयोजकबुभुत्सायां विशिष्टविषयकबोधविषयकत्वा-वश्यकत्वे ‘स्वरूपमवसितवानस्मि’ इति वाक्यस्थस्वरूपपदस्य विशिष्टस्वरूपपरत्वञ्चा-वश्यकमिति सर्वत्र तथैव सम्भवे किमप्रामाणिकबोधान्तरकल्पनादिकुसृष्ट्या ।

ननु न स्वरूपमात्रावगाहिबोधोऽप्रामाणिकः । चन्द्रादावप्रकृष्टप्रकाशत्वादिबुद्धिं प्रति प्रकृष्टप्रकाशाश्रयत्वादिधर्मज्ञानस्य प्रतिबन्धकत्वे तत्राप्रामाण्यग्रहकाले तस्य प्रतिबन्धकत्वा-पत्तिवारणायाप्रामाण्यग्रहानास्कन्दितत्वं निवेश्यम् । एवं तद्व्याप्यवत्ताज्ञानतदवच्छेदकधर्म-दर्शनादीनामपि तन्निवेश्य प्रतिबन्धकत्वान्तराणि कल्पनीयानीति गौरवम् । प्रकृष्टप्रकाशा-श्रयत्वादिज्ञानद्वारकस्वरूपमात्रज्ञानस्य प्रतिबन्धकत्वे तु एकैव प्रतिबन्धकता भवति । तेषु अप्रामाण्यग्रहकाले स्वरूपमात्रावगाहिबोधो न जायते । अप्रामाण्यज्ञानानास्कन्दितानामेव तेषां स्वरूपमात्रावगाहिबोधे द्वारत्वाङ्गीकारेण तादृशस्थले स्वरूपमात्रावगाहिबोधरूप-प्रतिबन्धकस्यैवाभावेन प्रतिबध्यज्ञानोत्पत्तौ बाधकाभावात् । न च तेषामेव स्वरूपबोधं प्रति कारणतायामप्रामाण्यज्ञानानास्कन्दितत्वादिनिवेशांशे साम्यं स्वरूपबोधस्याधिकस्य कल्पना-द्गौरवञ्चेति वाच्यम् । तेषां बोधानां स्वार्थविशिष्टवैशिष्ट्यावगाहिबुद्धित्वावच्छिन्नं प्रति कारणत्वेऽवश्यं कल्पनीये तादृशज्ञानादिजन्यसुखादिसाधारण्यानुरोधेन तदव्यवहितोत्तरत्वस्यैव कार्यतावच्छेदकत्वाङ्गीकारात्स्वरूपमात्रबोधस्यापि तत्कार्यतावच्छेदकाक्रान्ततयैवोपपत्ता-वतिरिक्तकारणत्वाकल्पनादिति चेन्न ।

प्रकृष्टप्रकाशाऽश्रयत्वादिधर्मप्रकारकज्ञानानां सुखदुःखादौ नियमेन परिनिष्ठितकारण-त्वाङ्गीकारे तैः केषाञ्चित्सुखस्य केषाञ्चिद्दुःखस्य चोत्पत्त्यसम्भवापत्तेस्तेषामननुगतरूपेणैव कारणत्वस्यावश्यकतया विशिष्टवैशिष्ट्यबोधनिष्ठकार्यतायास्तत्साधारण्ये बीजाभावेन कारणा- व्यवहितोत्तरत्वस्य गुरोरननुगतस्य च कार्यतावच्छेदककोटौ निवेशायोगेन तद्धर्मविशिष्ट-वैशिष्ट्यावगाहित्वस्यैव कार्यतावच्छेदकतया तस्य त्वदभिमतस्वरूपमात्रबोधेऽसम्भवेन गौरवस्य दुष्परिहरत्वात् ।

किञ्च स्वरूपमात्रविषयकबोधत्वेन प्रकृष्टप्रकाशाभावादिज्ञानं प्रति प्रतिबन्धकत्वं वा ‘चन्द्रः प्रकृष्टप्रकाशः’ इति १ज्ञानद्वारकत्वविशिष्टस्वरूपबोधत्वं वा । नाद्यः । ‘चन्द्रः कलङ्की’ इत्यादिलक्षणवाक्याधीनस्वरूपबोधस्यापि प्रकृष्टप्रकाशाऽश्रयत्वाभावादिग्रहं प्रति प्रतिबन्धकत्वापत्तेः । न द्वितीयः । तद्द्वारकत्वस्य तादृशज्ञानाव्यवहितोत्तरत्वमात्रत्वे प्रकृष्ट-प्रकाशाऽश्रयत्वज्ञानकालीनेन तज्ज्ञानाप्रामाण्यावगाहिलक्षणान्तरज्ञानेन यत्र स्वरूपमात्रबोधो जातस्तस्योक्तप्रकृष्टप्रकाशाऽश्रयत्वाभावज्ञानप्रतिबन्धकत्वापत्तेः । अप्रामाण्यज्ञानाना-स्कन्दिततादृशज्ञानाव्यवहितोत्तरस्वरूपबोधत्वेनैव प्रतिबन्धकत्वस्य प्रकाशाऽश्रयत्वव्याप्यवत्ता- ज्ञानोत्तरस्वरूपबोधे अभावेन तादृशज्ञानाव्यवहितोत्तरत्वविशिष्टस्वरूपबोधत्वेन पृथक्प्रति-बन्धकताया आवश्यकत्वे अप्रामाण्यज्ञानानास्कन्दिततादृशज्ञानत्वेनैव प्रतिबन्धकताया एव युक्तत्वेन तदव्यवहितोत्तरस्वरूपबोधत्वेन प्रतिबन्धकत्वस्यातिगुरुत्वेनासिद्धेः ।

न च प्रकृष्टप्रकाशादिधर्मज्ञानजन्यस्वरूपज्ञानत्वादिनैव प्रतिबन्धकत्वम् । तच्चाप्रामाण्या-ज्ञानानास्कन्दितत्वेन निवेश्यते । तावताऽपि लाघवमक्षुण्णमेव । अनुगताननुगतानेका-प्रामाण्यज्ञानाभावकूटघटितधर्मापेक्षयोक्तरूपस्य लघुत्वे विवादाभावात् । तादृशप्रकाशाऽ-श्रयत्वादिज्ञाननिष्ठविशिष्टवैशिष्ट्यबोधादिसाधारणस्वरूपबोधनिष्ठ१कार्यताकारणतावच्छेदककोटौ तादृशधर्मज्ञान एव तत्तदप्रामाण्यज्ञानाभावकूटं निवेश्यते । अतो नोक्तस्थले दोष इति वाच्यम् । तादृशकार्यकारणभाव एव नास्तीत्युक्तत्वात् । तथात्वे स्वरूपबोधत्वावच्छिन्नस्या-कस्मिकत्वापत्तेः । तस्यासिद्धत्वेन किञ्चित्कार्यत्वेन पूर्वमसिद्धत्वात् । पदार्थोपस्थित्यादेरपि स्वरूपमात्रविषयकस्यासिद्ध्या तत्कार्यत्वे तां प्रति स्वरूपबोधत्वस्यावच्छेदकत्वायोगात् तस्या अपि स्वजन्यसुखदुःखादिसंस्कारादिसाधारण्यानुरोधेन स्वाव्यवहितोत्तरत्वस्यैव कार्यतावच्छेदकत्वौचित्याच्च वाक्यस्यापि स्वाव्यवहितोत्तरत्वावच्छिन्नं प्रत्येव हेतुत्वात् । स्वासाधारणकारणं विना तादृशबोधाङ्गीकारे स्वरूपमात्रविषयकेच्छाकृत्यादिकमप्युक्त-लाघवानुसारात् सिद्ध्येत् । प्रकृष्टप्रकाशादिज्ञानजन्यस्वरूपमात्रविषयकेच्छात्वेन तादृशकृति-त्वेन प्रतिबन्धकत्वम् । तादृशेच्छादिकं प्रत्युक्तज्ञानस्य विशिष्टवैशिष्ट्यधीसाधारणस्वा-व्यवहितोत्तरत्वावच्छिन्नं प्रति जनकत्वमित्यस्यापि वक्तुं शक्यत्वात् । अनयैव दिशा निर्विषयकबोधोऽपि सिद्ध्येदविशेषात् ।

किञ्च यत्र प्रकृष्टप्रकाशाश्रयत्वप्रकारकप्रत्यक्षरूपमनुमितिरूपञ्च तदुत्तरं स्वरूपबोधाभावेन तत्र प्रकृष्टप्रकाशत्वाभावादिज्ञानप्रतिबन्धानुरोधेन तादृशविशिष्टविषयकबोधत्वेनैव प्रतिबन्ध-कत्वावश्यकत्वे त्वदुक्तप्रतिबन्धकत्वासिद्ध्या स्वरूपमात्रविषयकबोधो न सिद्ध्यत्येवेति दिक् ।

स्वरूपमात्रबोधस्य शक्तिविशेषेण प्रतिबन्धकत्वमभ्युपेत्य स्वरूपमात्रविषयकपदार्थोप-स्थितौ सा शक्तिर्न स्वीक्रियते । वाक्यजन्यबोधे एव सा स्वीक्रियत इत्यङ्गीकारे तस्य वादिनः कारणवैलक्षण्यस्यैव ज्ञानवैलक्षण्यनिर्वाहकत्वप्राप्त्या बाह्यार्थभङ्गनिरासाशैव दूरीकृता स्यादित्यादिकमपि ज्ञेयम् । लक्षणवाक्यस्य स्वरूपमात्रबोधकत्वाङ्गीकारे ‘किमसत्’ इति प्रश्नोत्तरभूतस्य सत्तादात्म्यशून्यमसद् इति वाक्यस्य फलीभूतबोधनिष्पादकतया संशया-निवर्तकत्वमेव स्यात् । असत्स्वरूपाप्रसिद्धेः । तथा चानुभवविरोधः । तादृशवाक्येन प्रश्नमूलभूतसंशयादिनिवृत्तेरनुभवसिद्धत्वात् । फलीभूतबोधनिष्पादने चासत्स्वरूपाप्रसिद्ध्या तद्विषयकत्वायोगादितरपदर्थानां तत्र भानानङ्गीकाराच्च तत्र बलान्निर्विषयक एव स बोधः स्यादित्यपि दोषं केचिदुद्भावयन्ति ।

एवं द्रव्यं चन्द्र इति लक्षणवाक्यस्य फलीभूतस्वरूपमात्रबोधस्य प्रमाणत्वेऽपि द्वारीभूत-बोधाप्रामाण्यादेवाप्रमाणत्वे अर्थवादवाक्यानां ‘सोऽरोदीत्’ ‘तदश्रूणि व्यशीर्यन्त, तद्रजत-मभवत्’ इत्यादीनां रजतनिन्दाद्वारा सुवर्णदक्षिणाप्राशस्त्यपराणां प्रजापतिवपोत्खनन-प्रतिपादनद्वारा तूबरपशुप्राशस्त्यपराणाञ्चाप्रामाण्यापत्तेः । द्वारीभूतबोधस्य रुद्ररोदन-प्रजापतिवपोत्खननादिविषयकस्य बाधितत्वेनाप्रमात्वात् । न च तात्पर्यविषयीभूतद्वारीभूत-बोधस्याप्रामाण्यमेव वाक्यस्याप्रामाण्यनियामकम् । उक्तबोधस्तु न तात्पर्यविषय इति वाच्यम् । तस्य श्रुतितात्पर्याविषयत्वे श्रोतृव्युत्पत्तिवशमात्रेण प्रतिभासे रजतनिन्दादेरसिद्ध्या सुवर्णप्राशस्त्याद्यसिद्धिप्रसङ्गात् । अन्यथा तद्वाक्यस्य रजतादिप्राशस्त्यादावपि लक्षणा स्यात् । अग्निमीे इत्यादीनामपि सुवर्णप्राशस्त्यपरत्वं स्याद् अविशेषात् । इहापि चन्द्र-स्वरूपमात्रबोधफलकस्य द्रव्यत्वादौ चन्द्रत्वसमनैयत्यादिबोधस्य तात्पर्याविषयतैव द्वारत्व-मिति वक्तुं शक्यत्वाच्च ।

द्वारीभूततात्पर्यविषयबोधस्याप्रामाण्यस्य वाक्यप्रामाण्यविघातकत्वे नेह नानेति श्रुतीनां ब्रह्मस्वरूपमात्रपरत्वेन पारमार्थिकप्रामाण्यं यदभिमतं तस्याप्यभावप्रसङ्गः । मिथ्यात्वे श्रुते-रवान्तरतात्पर्याङ्गीकारात्तादृशमिथ्यात्वांशे पारमार्थिकप्रामाण्यायोगात् । तदंशे व्यावहारिक-प्रामाण्यं वर्तत इति चेत्किं तावता । फलीभूतबोधांशे यादृशं प्रामाण्यं तादृशप्रामाण्या-भावस्याङ्गीकारात् । प्रकृतेऽपि फलीभूतव्यावहारिकचन्द्रस्वरूपविषयकबोधजनकत्वाद् द्वारीभूतबोधस्य प्रातिभासिकप्रामाण्यवत्त्वाद् उक्तवाक्यस्य प्रकृष्टप्रकाशादिवाक्यवद्व्यावहारिक- प्रामाण्यापादनसम्भवाच्च । प्रातिभासिकविषयकस्य प्रामाण्यं विप्रतिषिद्धमिति चेत्तर्हि व्यावहारिकविषयकस्यापि कुतो न विप्रतिषिद्धम् । विषयीभूते यत्किञ्चित्कालाबाध्य-त्वस्यान्ततो बाध्यत्वस्य च साम्यात् ।

किञ्च प्रातिभासिकविषयकत्वं चेदप्रामाण्यं ‘शुक्तौ प्रतीयमानं रजतं दोषजन्यप्रतीति-विषयीभूतम्’ इति वाक्यस्याप्रामाण्यं स्यात् । न च प्रातिभासिकविधेयकत्वमप्रामाण्यमिति वाच्यम् । प्रत्यक्षे विधेयत्वाभावेनेदं रजतम् इत्यस्याप्रामाण्यानुपपत्तेः । न च मुख्यप्रकारतैव विधेयतेति वाच्यम् । तथात्वे ‘शुक्तौ भासमानरजते दोषजन्यप्रतीतिविषयत्वम्’ इति ज्ञानस्याप्यप्रामाण्यापातात् । प्रकारतायामाधेयतासम्बन्धानवच्छिन्नत्वोपादाने ‘ह्रदे वह्निः’ इत्यादिज्ञानानां भ्रमत्वानुपपत्तिः । ‘ज्ञानं विषयितया प्रातिभासिकवत्’ इति ज्ञानस्य भ्रमत्वापत्तिश्च ।

ननु माऽस्त्वप्रामाण्यभयाद्द्रव्यं चन्द्र इत्यनुत्तरमिति पक्षस् तथापि लक्षणज्ञानेनेतर-व्यावृत्तिधीर्जायते । प्रकृते च द्रव्यत्वस्य व्यभिचारित्वेनेतरव्यावृत्तिधीर्न जायत इति नोत्तरं तथा प्रयुज्यते । प्रकृष्टप्रकाशत्वन्तु तथा भवतीति तल्लक्षणत्वेनोच्यत इति चेन्न ।

स्वरूपमात्रविषयकाज्ञाननिवृत्तिजनकबोधस्यैव वक्तुरिष्टत्वेन लक्षणवाक्यजन्यस्वरूप-बोधस्यैव वक्तुरिष्टत्वेन लक्षणवाक्यजन्यस्वरूपमात्रबोधस्यैव तन्निवर्तकतायास्त्वदभ्युपगतत्वेन च व्यावृत्तिबोधस्याकिञ्चित्करत्वेन तदनिर्वाहकत्वस्योक्तबीजत्वाभावात् । न च स्वरूपमात्र-बोधे व्यावृत्तिबोधो द्वारतयोपयुज्यत इति वाच्यम् । लक्षणवाक्यजन्यशाब्दबोधे स्वसामग्री-बलाज्जायमाने लक्षणज्ञानाधीनव्यावृत्त्यनुमितेः कारणत्वे बीजाभावात् । तथाऽपि तस्य कारणत्वाऽग्रहेऽनुमितिजनकव्याप्तिस्मरणपरामर्शादिभिरनुमित्युत्पत्तिपर्यन्तं पदज्ञानपदार्थोप-स्थित्यादीनां नष्टतया शाब्दायोगः । न चानुमित्यनन्तरं पुनस्तदनुसन्धानाच्छाब्दबोधो-पपत्तिरिति वाच्यम् । तर्हि प्रथमं तद्वाक्याच्छाब्दाजनने लक्षणग्रहस्याप्यभावेनेतरभेदानु-मित्युत्पत्त्ययोगात् ।

प्रथमतो लक्षणमात्रविषयकशाब्दबोधजननाङ्गीकारे प्रथमतो लक्षणवाक्याल्लक्ष्ये लक्षण-प्रकारकबोधस्तदनन्तरं सजातीयविजातीयव्यावृत्तिग्रह इत्यंशे आवयोः सम्प्रतिपत्तिः । तदनन्तरञ्च पुनर्लक्षणवाक्यानुसन्धानस्वरूपमात्रविषयकपदार्थोपस्थित्यादिभिः पुनः स्वरूप-मात्रविषयकशाब्दबोध इत्यंशस्त्वदभ्युपगतस्त्वप्रामाणिकः । तादृशशाब्दबोधादिसत्त्वे ‘पुन-स्तादृशवाक्यमनुसन्धाय चन्द्रस्वरूपं शाब्दयामि’ इति सर्वेषामनुभवप्रसङ्गात् । न च तथा कस्यचिदनुभवः । तथात्वे प्रथमशाब्द इवोक्तपदार्थोपस्थितिशाब्दबोधादावविवादप्रसङ्गात् । न चाननुभूतस्य शाब्दस्य कल्पकं किमप्यस्ति । ज्ञानादीनां ज्ञातैकसत्त्वनियमेन तव नैयायिकादिवत्तस्यातीन्द्रियत्वानङ्गीकारात्तादृशज्ञानमुत्पद्यते चेत्तथाऽनुभूयेतेति तर्कपराहति-प्रसङ्गेन कल्पनाया एवानुत्थानात् । न च स्वरूपमात्रजिज्ञासानिवृत्त्यन्यथाऽनुपपत्तिरेव तत्कल्पिकेति वाच्यम् । तादृशजिज्ञासाभावस्यैव पूर्वमुपपादितत्वात् । न च किंशब्दस्य स्वरूपमात्रविषयकबोध एव शक्तत्वात्तादृशजिज्ञासैव किंशब्दवाच्येति वाच्यम् । तत्रैव मानाभावात् । न च किञ्चिद्धर्मप्रकारकजिज्ञासात्वापेक्षया स्वरूपजिज्ञासात्वस्य लघुत्वा-त्तदवच्छिन्ने शक्तिरिति वाच्यम् । मात्रार्थानन्तर्भावे धर्मप्रकारकजिज्ञासाया वाच्यकोटेर-बहिर्भावः । तन्निवेशे च तवैव गौरवम् ।

किञ्च प्राथमिकबोधेन सा जिज्ञासा निवर्तते न वा । नेतिपक्षेऽनुभवविरोधः । तद्वाक्य-श्रवणोत्तरमुक्तविमर्शात्पूर्वमेव ‘चैत्रवाक्येन मत्पृष्टार्थो ज्ञातः । न पुनस्तज्जिज्ञासा’ इति सर्वानुभवात् । यत्र पुनः श्रुतेऽप्यर्थे पुनः श्रवणेच्छा तत्र पूर्वज्ञाने अप्रामाण्यसंशयादिना श्रुतार्थदार्ढ्यार्थं त्वयाऽपि तथैव वाच्यत्वात् । अन्यथा तादृशवाक्यश्रवणजन्यबोधादि-द्वितीयादिक्षण एव व्यासङ्गादिना व्याप्तिस्मरणाभावादुक्तव्यावृत्त्यनुमितिर्नोत्पन्ना तत्र ‘चैत्रेण मत्पृष्टार्थो नोक्तः’ इति प्रत्ययापत्तेः । जिज्ञासा निवर्तते चेत्सप्रकारकबोधेन निवृत्तत्वात्सा सप्रकारकबोधविषयिण्येव ।

अपि च केनचित् कश्चन्द्र इति केनचित्कीदृशश्चन्द्र इति पृष्टे वक्ता द्वावपि प्रत्येक-दैवोत्तरं वदति प्रकृष्टप्रकाशश्चन्द्र इति, तदा तज्जिज्ञासे निवर्तेते । तदन्यथाऽनुपपत्त्या जिज्ञासाद्वयस्य समानविषयकत्वसिद्धौ कीदृश इति वाक्यस्य प्रकारविशिष्टवस्तुजिज्ञासा-बोधकत्वे विवादाभावात्किंशब्दबोध्यजिज्ञासाऽपि तादृश्येवेति । तथा चोक्तानुभवयुक्ति-सिद्धार्थे शक्यतावच्छेदकलाघवादियुक्तिरकिञ्चित्करी । एकस्यैव वाक्यस्य तात्पर्यभेदादि-कल्पनायाः स्वरूपमात्रबोधकतासिद्ध्युत्तरकालिकत्वेनान्योन्याश्रयात् ।

अथ प्रकृष्टप्रकाशादिवाक्येन लक्षणज्ञानेन तद्द्वारकस्वरूपबोध एव जायते । न तत्र व्यावृत्त्यादिज्ञानापेक्षा । परन्तु तस्य जिज्ञासानिवर्तकत्वेऽप्यनवधारणत्वेनाज्ञानानिवर्तकतया तन्निवर्तनायावधारणात्मकज्ञानमपेक्ष्यते इति तादृशज्ञाने पुनर्लक्षणवाक्यानुसन्धानेन जननीये लक्षणजन्यव्यावृत्तिबोधः सहकारी भवति । तं विनाऽवधारणात्मकत्वानुपपत्तेरिति वाच्यम् । प्रथमज्ञानस्याज्ञानानिवर्तकत्वे तस्यैव जिज्ञासाविषयत्वस्य त्वयोक्तत्वेन तेन जिज्ञासा-निवृत्त्युक्त्ययोगात् । न च तत्स्वरूपयोग्यत्वाज्जिज्ञासानिवर्तकम् । अनवधारणत्वेन फलानुप-धायकत्वात्तादृशज्ञानान्तरमपेक्ष्यत इति वाच्यम् । अनवधारणस्य कदाऽपि फलानुपधाय-कत्वेन स्वरूपयोग्यत्वस्यैवाकल्पनाद् उपधायकज्ञानस्यैवेच्छाविषयत्वाच्च तेन जिज्ञासा-निवृत्त्यनुपपत्तेः ।

किञ्च किमवधारणत्वं नाम यद्भावाभावाभ्यां प्रथमद्वितीयज्ञानयोर्विशेषः । जाति-श्चेत्तादृशजातिसद्भावे मानाभावः । प्रत्यक्षत्वादिना सङ्करात् । तथात्वे प्रथमज्ञाने तादृश-जातिसद्भावे बाधकाभावाच्च । निश्चयत्वञ्चेत् । प्रथमज्ञाने तत्सत्त्वमावश्यकमेव । स्वरूपमात्रावगाहिज्ञाने विरुद्धकोटिद्वयावगाहित्वरूपसंशयत्वप्रसक्तेरभावात् स्वरूपमात्र-ज्ञानेऽपि संशयत्वमङ्गीक्रियत इत्युक्तेरुन्मत्तभाषणाविशेषात् । निश्चितप्रामाण्यकत्वञ्चेत्प्रथम-ज्ञानग्राहकेण साक्षिणा तन्निष्ठप्रामाण्यग्रहणस्यावश्यकत्वेन तत्राप्युक्तावधारणत्वाक्षतेः । न चाप्रामाण्योपस्थितिघटिततद्ग्राहकसामग्री न प्रामाण्यं गृहीतुमीष्ट इति वाच्यम् । स्वरूपमात्र-विषयकत्वेन गृह्यमाणे ज्ञाने सप्रकारकत्वघटिताप्रामाण्यग्रहणस्यायोगात् । घटज्ञाने पटत्व-घटिताप्रामाण्यबुद्धेरिव तस्यानुत्तेजकत्वाच्च । न च तादृशस्वरूपमात्रावगाहिबोधेऽपि स्वस्मिन्नेवोद्देश्यत्वविधेयत्वयोरङ्गीकारात् तादृशविधेयाभाववन्निष्ठोद्देश्यतानिरूपिततन्निष्ठ-विधेयतानिरूपकत्वरूपमप्रामाण्यं तत्र सम्भवतीति तत्सन्देहो युज्यत इति वाच्यम् । एकस्यैव वस्तुनो रूपभेदं विनोद्देश्यत्वविधेरत्वाङ्गीकारे मानाभावात् । सामान्यतः विधेयाभावस्या-प्रामाण्यशरीरनिवेशे सम्बन्धभेदमादाय दोषप्रसक्त्या संसर्गस्यापि तच्छरीरनिवेशे संसर्गानव-गाहिन्युक्तज्ञाने तस्यानुत्तेजकत्वात् । न च तद्भिन्ननिष्ठोद्देश्यतानिरूपिततन्निष्ठविधेयताकत्व-रूपमप्रामाण्यमस्त्विति वाच्यम् । तस्यापि तादात्म्यसम्बन्धावच्छिन्नत्वस्य विधेयतायां निवेशं विनाऽप्रामाण्यरूपत्वायोगात् । अन्यथा घटवद्भूतलमित्यादिज्ञानानामप्यप्रामाण्यापत्तेः ।

ननु नीलो घट इत्यत्र नीलादिनिष्ठविशेषणतानां सम्बन्धानवच्छिन्नत्वमते तद्भिन्ननिष्ठो-द्देश्यतानिरूपिततन्निष्ठसंसर्गानवच्छिन्नविधेयत्वनिरूपकत्वमप्रामाण्यम् । तथा च प्रकृतबोधेऽपि तादृशाप्रामाण्यग्रह एवोत्तेजको भवतु । अत्रापि तादृशोद्देश्यताविधेयताङ्गीकारादिति चेन्न । तादृशविधेयताया अत्राङ्गीकारे तत्साम्यादखण्डार्थकत्वहान्यापत्तेः । तैरपि घटो घट इति वाक्यस्य बोधकत्वाङ्गीकारेण रूपभेदावश्यकतया स्वरूपमात्रस्योद्देश्यविधेयभावायोगात् । तन्मतादरे गुणगुण्यभेदस्य सामानाधिकरण्यप्रत्ययानुरोधादसिद्धेश्च । तादात्म्यविषयकत्वात् । स्वरूपमात्रविषयकाज्ञाने उक्तोद्देश्यत्वविधेयत्वयोः सत्त्वे मानाभावेनोक्तज्ञानस्य तत्समान-विषयकत्वाभावान्मूलाज्ञानस्य च निर्विकल्पनिवर्त्यताया एव सिद्धान्तसिद्धत्वेन शाब्दे विधेयत्वाद्यङ्गीकारे तथात्वायोगेन च सर्वत्र स्वरूपाज्ञानानिवृत्तिप्रसङ्गाच्च ।

ननु बाधितार्थकत्वमेवाप्रामाण्यम् । तच्च स्वरूपमात्रविषयकज्ञानेऽपि सम्भवतीति तच्छङ्का युक्तेति चेन्न । स्वरूपे सत्त्वग्रहं विना तज्जिज्ञासानुदयेन प्रश्नायोगात्तदन्यथाऽनु-पपत्त्या तत्र सत्त्वरूपाबाधितत्वस्य निश्चितत्वेन तादृशस्वरूपमात्रविषयकत्वेन गृह्यमाणे ज्ञाने बाधितविषयकत्वशङ्काया अयोगात् । योगे वा स्वरूपरूपपक्षस्येव तत्र लक्षणरूपहेतोश्च ग्रहासम्भवेन चेतरव्यावृत्त्यनुमितेरप्यनुत्पत्तिप्रसङ्गाच्च । शशविषाणशुक्तिरजतादेरपि स्वेतर-व्यावृत्तत्वेनोक्तलक्षणरूपलिङ्गेन सामान्यतः स्वेतरव्यावृत्त्यनुमित्युत्पत्तावपि बाधितत्वशङ्को-च्छेदाभावेन द्वितीयज्ञानस्यापि तादृशाप्रामाण्यज्ञानानास्कन्दितत्वेनोत्पत्तेरयोगाच्च ।

१नन्वलक्षणेन सामान्यतः स्वेतरभिन्नत्वेनानुमितिर्जायत इति न स्वीक्रियते । स्वेतर-त्वेनेतरपदार्थज्ञानवेलायामेव स्वस्यापि तदितरत्वस्य समानसंविद्वेद्यतयैव सिद्धेरनुमिति-वैयर्थ्यापत्तेः । अपि तूपस्थिततत्तद्रूपावच्छिन्नभेदकूटावगाहिन्येव । एवञ्चोक्तलक्षणज्ञानाधीन-बाध्यव्यावृत्त्यनुमित्या बाध्यत्वशङ्कोच्छेदान्निश्चितप्रामाण्यकत्वरूपानावृतप्रमात्वकं द्वितीयज्ञानं जायत इति वाच्यम् । तर्हि बाध्यभेदानुमितेरेकस्या एव प्रकृते उपयुक्तत्वेन भेदान्तरानु-मितीनामप्रयोजकत्वेन लक्षणस्य तद्व्यभिचारित्वेऽपि बाधकाभावाद् द्रव्यत्वादेर्बाध्यभेदा-व्यभिचारित्वात्तस्य लक्षणत्वेनोक्तापत्तिर्दुर्वा रैव । तत्काले सर्वप्रतियोग्युपस्थित्यभावात्कूटानु-मितेरसम्भवात्कालविशेषघटितकार्यकारणभावाङ्गीकारे च तत्कालीनतादृशस्वरूपबोधे तत्कालोपस्थितनिखिलभेदज्ञानत्वेन कारणत्वेऽननुगमापत्त्या लाघवात्तत्कालव्यक्त्यादेरेव कारणत्वौचित्येन व्यावृत्तिज्ञानस्य कारणत्वासिद्धेश्च । तथात्वेऽपि वा यदा गुणादीना-मेवोपस्थितिस्तत्काले गुणादिभेदग्रहद्वारा द्रव्यत्वज्ञानेन चन्द्रस्वरूपमात्रबोधसम्भवेन लक्षण-त्वेनोक्तौ बाधकाभावाच्च । प्रकृष्टप्रकाशत्वस्य कदाचित्सूर्यादिभेदव्यभिचारित्वेन ग्रहवद्द्रव्य-त्वस्यापि घटादिभेदव्यभिचारित्वग्रहे बाधकाभावाद्व्यभिचारग्रहप्रामाण्याप्रामाण्यरूपवैषम्यस्य प्रकृतेऽकिञ्चित्करत्वात् ।

किञ्च व्यावृत्तिबोधस्य द्वारत्वमपि त्वया वक्तुं न शक्यते । प्रश्नकरणं लक्षणकथनमपि तवायुक्तम् ।‘चन्द्रो नाम कश्चिदस्ति । स चेतरव्यावृत्तोऽसाधारणधर्मवांश्चेति जानामि । परन्तु चन्द्रमेवाहं विजिज्ञासे’ इत्यनुभवबलेन व्यावृत्त्यादीनां सर्वेषां २ज्ञानत्वं व्यवस्थाप्य सिद्धेऽपि स्वरूपमात्रेऽज्ञानात्तन्मात्रजिज्ञासा व्यवस्थापिता त्वया । तथा च लक्षणादीनां सर्वेषां स्वयमेव तेन ज्ञातत्वाद् वक्त्रा तं प्रति तत्कथनस्य तेन व्यावृत्त्याद्यनुमितिसम्पादनस्य चानुपयोगात् । पूर्वं स्वतः सिद्धेन लक्षणज्ञानादिना तस्य व्यावृत्तिज्ञानाभावे वक्त्रा लक्षण-कथनेऽपि व्यावृत्यादिज्ञाने बीजाभावः ।

शाब्दबोधस्यैव तथात्वमसम्भावितम् । वृद्धव्यवहारादिना बालस्येतरव्यावृत्तघटादि-स्वरूपसिद्ध्यादिमूलकतत्पदवाच्यत्वग्रहाद्यसिद्धिप्रसङ्गात् ।

ननु स्वत एव विद्यमानं तत्प्रष्टुश्चन्द्रासाधारणधर्मादिज्ञानं साक्षिरूपमेव । न प्रमाण-जन्यम् । तच्च न तद्विषयकाज्ञाननिवर्तकम् । तद्विषयकाज्ञानानिवृत्तौ च व्यवहाराद्यनिष्पत्ते-स्तदर्थं लक्षणकथनादि युक्तम् । अत एव कदाचित् ‘कश्चन्द्रासाधारणधर्मः’ इत्यपि पृच्छतीति चेन्न । साक्षिज्ञानस्यानुवादादिकं प्रत्यहेतुत्वेन कश्चन्द्रः कोऽसाधारणधर्म इत्यनु-वादस्याप्ययोगेन प्रमाणजन्यसामान्याकारवृत्तेस्तत्रावश्यकत्वात् । अन्यथा सर्वस्याप्यज्ञाना-वच्छेदकतया साक्षिवेद्यत्वाविशेषात् केनापि प्रकारेणादृष्टाश्रुतवस्त्वप्यनूद्य कथं न पच्छेत् । तथा च चन्द्रादिस्वरूपस्यैव सामान्याकारेण ज्ञातत्वावश्यकत्वात्तद्विशेषधर्मस्यापि विशेष-रूपेणाज्ञातत्वाद्विशेषरूपवत्तादृशधर्मविशिष्टचन्द्रस्वरूपज्ञानार्थमेव प्रश्नप्रतिवचनयोरुपपत्तिः ।

न च चन्द्रस्य सामान्याकारेण ज्ञानेऽपि ‘किञ्चिन्निष्ठप्रकारत्वानिरूपितचन्द्रनिष्ठ-विषयताशाली बोधो भवतु’ इतीच्छा जायते । किंशब्दस्यापि तादृशज्ञानविषयकेच्छा-बोधकत्वात्प्रश्न१वाक्यस्यातदर्थकत्वस्य सिद्धत्वात्प्रतिवचनस्यापि तादृशबोधतात्पर्यकत्वं युक्त-मिति वाच्यम् । तादृशबोधस्याननुभूतत्वेन तज्जातीयस्थलान्तरेऽपि स्वरूपमात्रज्ञानत्वेना-ननुभूतत्वेन सर्वस्यापि शब्दस्य सप्रकारबुद्धावेव हेतुतायाः सर्वानुभवसिद्धत्वेन स्वरूपमात्र-व्यवहारा भावात् । स्वरूपमात्रबोधस्य स्वपरव्यवहारानुपयोगेन च तत्रेष्टसाधनताबुद्ध्यभावेन तादृशेच्छाङ्गीकारायोगात् । पूर्वोक्तबाधकबलेन प्रश्नप्रयोजकबुभुत्सायाश्च सप्रकारकज्ञान-विषयत्वस्यैव २सिद्धत्वस्य किंशब्दशक्तिलाघवाकिञ्चित्करत्वस्योक्तत्वाच्च ।

अपि च कीदृश इति प्रश्नानुसाराद्धर्मविशिष्टधर्मिबोधेच्छोभयसम्मता । तस्या एव किं-शब्दबोध्यतासम्भवे अप्रसिद्धेच्छां विना प्रमाणेन परिकल्प्य तत्र किंशब्दशक्यत्वकल्पन-मयुक्तम् । अन्यथा निर्विषयकबोधमप्येकं तद्विषयकेच्छां परिकल्प्य किंशब्दस्य तत्र शक्तिं परिकल्प्य तादृशशब्दघटितप्रश्नानुसारादुत्तरवाक्यस्यापि निर्विषयकबोधजनकत्वमित्यादिकमपि सिद्ध्येत् । अविशेषात् । तर्हि ‘कीदृश’ इति ‘क’ इति वाक्ययोरविशेषेण बोधकत्वप्रसङ्ग इति चेदिष्टमेव । अन्यथा ‘अयं कः’ ‘अयं किंस्वरूपः’ इति स्वरूपप्रश्नेऽपि तव वैलक्षण्यापातात् । परन्तु कीदृशशब्दाद् धर्मप्रकारकजिज्ञासैव प्रतीयते । किंशब्देन तु यथातात्पर्यं सम्बन्धादिप्रकारकजिज्ञासाऽपि प्रतीयत इत्यनयोः कश्चिद्विशेषः । इत्थञ्च व्यावृत्त्यादिज्ञानस्य स्वरूपबोधे द्वारत्वमिति पक्षोऽपि न समञ्जतः ।

यत्तु ‘कदाचिदसत्यत्वादिसंशये सत्यत्वलक्षणज्ञानाधीनं व्यावृत्तिज्ञानं तत्संशयविघटकं भवतीति व्यावृत्तिज्ञानं द्वारमित्युपचर्यते । न तु स्वरूपमात्रावगाहिनि ज्ञाने नियमेन व्यावृत्तिज्ञानापेक्षा’ इत्यद्वैतचन्द्रिकाकारेण पक्षान्तरमुक्तं तत्र पक्षे द्रव्यं चन्द्र इत्युत्तर-वाक्यप्रयोगे न काचिद्बाधकशङ्का ।

यदपि तेनैव स्वसिद्धान्ततयाऽभिहितं ‘लक्षणवाक्यजन्यलक्ष्यस्वरूपमात्रप्रतीत्युत्तरं तत्प्रतीतिविषयत्वोपहितस्वरूपेण लिङ्गविधयाऽर्थापत्तिविधया वेतरव्यावृत्तिधीर्जायते’ इत्यादि पूर्वपक्षग्रन्थव्याख्याऽवसरेऽस्मत्प्रदर्शितप्रमेयं तत्पक्षे ‘द्रव्यं चन्द्रः’ इत्यादेर्लक्षणवाक्यत्वापत्तिः सुलभैव । लक्षणवाक्यजन्यचन्द्रस्वरूपमात्रविषयिणी या वृत्तिस्तद्विषयत्वोपहितचन्द्रस्वरूपेण चन्द्रादिपदजन्यवृत्तिविषयत्वोपहिते चन्द्रे इतरभेदसिद्धेरप्रत्यूहत्वात् ।

शुद्धस्वरूपस्य पक्षत्वानुपपत्त्या तादृशवृत्तिविषयत्वोपहितस्य पक्षत्वे हेतुत्वे च सति शुद्धस्वरूपे भेदासिद्ध्या तदुत्तरमवधारणात्मकस्वरूपमात्रविषयकज्ञानोत्पत्त्ययोगः । प्रश्नविषये भेदानुमित्यजननात्तस्य लक्षणफलत्वायोगः । लक्ष्यत्वेनाभिमत एवेतरभेदानुमितेस्तत्फलत्वात् ।

एवं प्रकृष्टप्रकाशाद्युपलक्षितस्वरूपस्यैव लक्ष्यात्यन्ताभिन्नस्य स्वरूपलक्षणत्वेन भवदभि-मतस्य स्वरूपलक्षणस्य स्वस्मिन् वृत्तित्वायोगेन हेतुत्वाभावाज् ज्ञानविशेषविषयत्वोपहितस्य स्वरूपेण भिन्नाभिन्नत्वात्स्वरूपत्वाभावात्स्वरूपेणेतरभेदासिद्ध्या प्रकृष्टप्रकाशसत्यज्ञानादीनां स्वरूपलक्षणत्वोक्त्ययोगः । अन्यथोक्तोपहितवद् ब्रह्मण्यारोपितजगत्कारणत्वादिभि-स्तादात्म्यापन्नैरितरभेदानुमित्या तेषामपि स्वरूपलक्षणत्वापत्तिः ।

अपि चैतन्मते ‘काकवद्देवदत्तगृहम्’ इत्यस्यापि स्वरूपलक्षणत्वं स्यात् । किमित्यादि-प्रश्नसामान्यस्य स्वरूपमात्रविषयकत्वनियमस्य भवदभ्युपगतत्वात्तादृशप्रश्नानुरोधेन तादृश-वाक्येनापि लक्षणया स्वरूपमात्रबोध उत्पाद्यः । अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यापत्तेः । तथा च तादृशबुद्धिविषयत्वोपहितगृहस्यैवेतरव्यावर्तकत्वप्राप्तेः । न च तद्वाक्यस्य स्वरूप-लक्षणपरत्वमिष्टमेव । समानविभक्तिकपदघटितलक्षणवाक्यसामान्यस्य स्वरूपलक्षणपरत्वा-भ्युपगमादिति वाच्यम् । ‘काकेन देवदत्तगृहमवसितवानस्मि’ इति सर्वानुभवविरोधेनोक्त-कल्पनाया असङ्गतत्वात् ।

अत एव ‘लक्षणांशगतपदशक्तिविशेष्यस्यैव यत्र लक्ष्यत्वं तत्स्वरूपलक्षणमन्यत्र तटस्थलक्षणत्वम्’ इत्यपास्तम् । लक्षणबोधकभागस्थमतुपः सम्बन्ध्यर्थकत्वेन तद्विशेष्यताया अपि गृहेऽनपायात् । ‘जन्माद्यस्य यतः’ इत्यत्र तत्पदाध्याहारस्यावश्यकत्वेन यतो जन्मादि तद् ब्रह्मेति लक्षणवाक्यपर्यवसानात् तत्पदस्य जन्मादिकारणपरामर्शकतया तत्पदार्थविशेष्य-रूपब्रह्मण एव लक्ष्यत्वादुक्तवाक्यस्य समानविभक्तिकत्वाच्चास्य स्वरूपलक्षणत्वप्राप्त्याऽस्य सूत्रस्य तटस्थलक्षणपरत्वोक्तिविरोधाच्च ।

न च लक्षणत्वेनाभिमतधर्मबोधकपदजन्यबोधे विशेष्यांशस्य लक्षणत्वञ्चेत् स्वरूप-लक्षणत्वव्यवहारः । प्रकृते च नैवम् । ‘जन्मादि यतः’ इत्यंशस्यैव जन्मादिकारणत्वरूप-लक्षणबोधकत्वात्तत्र च ब्रह्मणो विशेष्यत्वेनाभानादिति वाच्यम् । तर्हि लक्षणत्वेनाभिमत-ज्ञानत्वानन्दत्वादिधर्मबोधकज्ञानत्वादिपदजन्यबोधे ब्रह्मणो विशेष्यत्वाभावात्सत्यज्ञानादि-वाक्यमपि स्वरूपलक्षणपरं न स्यात् । न च ज्ञानत्वादिकं न लक्षणत्वेनाभिमतम् । किन्तु ज्ञानादिकमेव । तद्बोधकपदे च विशेष्यमेव ब्रह्मेति वाच्यम् । तर्ह्यत्रापि कारणमेव लक्षणम् । न कारणत्वम् । तत्परे च तदित्यध्याहृतपदे ब्रह्म विशेष्यमेवेति सूत्रस्य तटस्थलक्षण-परत्वोक्तिरयुक्तैव । तस्मादद्वैत चन्द्रिकाकारोत्प्रेक्षितपक्षोऽप्ययुक्तः ।

नापि चन्द्रव्यवहारहेतुज्ञानत्वेनेच्छाविषयत्वमिति प्राग्विकल्पितस्तृतीयः पक्षः । चन्द्रमात्र- व्यवहारविवक्षणे तस्याप्रसिद्ध्या पूर्वोक्तरीत्या तत्रेच्छोत्पादायोगात् । चन्द्रव्यवहारविवक्षणे प्रश्नहेतुज्ञानस्यापि तथात्वेन सिद्धत्वात्तत्रेच्छायोगात् । उत्तरवाक्यस्य विशिष्टविषयकत्वेऽपि प्रश्नोत्तरयोर्वैयधिकरण्यायोगाच्च । किञ्च सर्वत्र किंशब्दघटितमेव प्रश्नवाक्यं प्रवर्तत इति न नियमः। ‘इह ज्योतिर्मण्डले चन्द्रस्वरूपं ज्ञातुमिच्छामि । तं वद’ इत्याकारस्यापि दर्शनात् । स्वरूपमात्रबोधस्येच्छाविषयत्वे तत्र स्वरूपपदस्य चन्द्रस्वरूपमात्रे लक्षणाकल्पनाप्रसङ्गः । मन्मते च स्वरूपपदस्यैवेतरव्यावृत्तस्वरूपवाचित्वान्न लक्षणा । न च तत्र ज्ञापकाभावः ।

सर्वव्यावृत्तये यस्मात्स्वशब्दोऽयं प्रयुज्यते ।

इत्यनेन विष्णुतत्त्वनिर्णये आचार्यैः स्वरूपशब्दघटकस्वशब्दस्य सर्वव्यावृत्तिबोधकताया व्यवस्थापितत्वात् । न च ‘चन्द्रस्वरूपमेव ज्ञातुमिच्छामि’ इत्यपि वाक्यं प्रयुंक्ते । तदनु-रोधादितरत्रापि स्वरूपपदं तन्मात्रे लाक्षणिकमस्त्विति वाच्यम् । स्वरूपशब्दस्य व्यावृत्ति-विशिष्टस्वरूपपरत्वेन तद्बोधानुपयुक्तपदार्थस्यैवैवकारेण व्यवच्छेद्यत्वात् । त्वद्रीत्या स्वरूपेतर-सामान्यव्यवच्छेदपरत्वे द्वारतयाऽपि प्रकृष्टप्रकाशबोधकत्वेऽपि अनभिमतबोधकत्वापत्त्योत्तरस्य प्रश्नवैयधिकरण्यापत्तेरित्यलम् ।

अज्ञात एव किंशब्दशक्तिः । तादृशाज्ञाननिवृत्तिश्च स्वरूपज्ञानादेवेति कश्चित् । तदसत् । किं शब्देनाज्ञातमात्रे प्रतिपादितेऽपि श्रोत्रिच्छाया वक्त्रा ज्ञातत्वादनिच्छुं प्रति तद्बोधना-योगादज्ञानमात्रज्ञाने तन्निवृत्तये विशिष्टार्थतात्पर्येण वाक्यप्रयोगे बाधकाभावात् । स्वरूप-मात्रज्ञानस्यैवाज्ञाननिवर्तकत्वे मानाभावाच्चेति । तस्मात्स्वरूपमात्रजिज्ञासाभावाद्विशिष्ट-विषयकजिज्ञासयैव प्रश्न इति स्थिते उत्तरवाक्यस्यापि तथात्वेनाखण्डार्थपरत्वाभावाद्दृष्टान्तस्य साध्यवैकल्योक्तिः सुस्थिरैव ।

सोऽयमित्यादिस्थले प्रतियोग्यंशेऽभासमानधर्मस्थलेऽस्य प्रतियोगितावच्छेदकत्वादिभान-परिकल्पनादिकमाहार्यस्यापि ज्ञानस्य प्रतिबध्यत्वादिकल्पनञ्चाप्रामाणिकमेव ।

यत्तु ‘स्वरूपमात्रबोधेन स्वरूपमात्रविषयकाज्ञाननिवृत्त्या संशयनिवृत्तेस्त्वदीयाहार्य-परिभाषाया अनादरणीयत्वम्’ इति । तदसत् । उत्तरे दत्ते तमर्थं ज्ञात्वाऽपि तस्या-पहासादिना कोपाद्यभिवृद्धये आहार्यसंशयेनैव पुनः पुनः प्रश्नदर्शनेनाहार्यसंशयहेत्वज्ञानादि-निवृत्तेर्वक्तुमशक्यत्वात् ।

केचिदित्युक्तमतेऽपि प्रकृष्टप्रकाशत्वतत्तेदन्त्वादीनां ज्ञानान्तरविषयीभूतानामेव चन्द्र-देवदत्तादिविषयतानिरूपितप्रकारताशालित्वमिति अत्रैव स्वीक्रियते किमन्यत्रापि प्रयोज-नान्तरानुरोधात्स्वीकारः । नाद्यः । वाक्यविशेष एवान्यत्राक्लृप्तस्याङ्गीकारे मानाभावात् । न च समानविभक्तिकपदसमभिव्याहृतकिंशब्दस्य स्वसमभिव्याहृतपदार्थतावच्छेदकतद्व्याप्यरूपो-भय१प्रकारतानिरूपितविषयताशालिबोधेच्छाविषयोऽर्थः । तादृशेच्छायाः प्रष्टुर्विद्यमानत्वा-त्तद्वचनेन तां ज्ञात्वा वक्ता तादृशबोधतात्पर्येण वाक्यं प्रयुंक्त इति तादृशबोध आवश्यक इति वाच्यम् । प्रकृतबोधे प्रकारीभूतधर्मयोर्भानेऽपि बाधकाभावेन बोधस्य तदविषयकत्वे बीजाभावात् ।

न च स्वाविषयीभूततादृशधर्मद्वयप्रकारतानिरूपितविषयताशालिबोध एवेच्छाविषयीभूतः । किंशब्दवाच्यशरीरेऽपि स एव निविष्टः । अतः परिहारवाक्यजन्यबोधस्य तादृशत्व-मपेक्षितमिति वाच्यम् । एतादृशबोधस्यैवेच्छाविषयत्वमित्यत्रापि कल्पकानुपलम्भात् । न चाज्ञानमपि तादृशमिति तस्य निवृत्तये तादृशमेव ज्ञानमपेक्ष्यत इति वाच्यम् । अज्ञानस्यापि स्वाविषयीभूतचन्द्रत्वप्रकाशाश्रयत्वादिनिष्ठप्रकारतानिरूपितचन्द्रनिष्ठविषयताकत्वे मानाभावात् । ‘चन्द्रं न जानामि’ इत्याकारकाज्ञानविषयकप्रतीत्या अज्ञाननिष्ठोक्तविषयकत्वानवगाहनात् । प्रतीत्यन्तरस्य चाभावात् । विना मानं तादृशज्ञानं परिकल्प्येच्छादिकं परिकल्प्य तादृश-बोधाङ्गीकारे शून्यविषयकाज्ञानं निर्विषयकाज्ञानञ्च स्वीकृत्य तन्निवृत्तये तादृशबोधविषय-केच्छां परिकल्प्य तन्मूलकप्रश्नानन्तरं तदुत्तरवाक्येन निर्विषयकशून्यविषयकबोधापत्तेः । तस्येच्छादिसत्त्वेऽपि वाक्यस्य तादृशबोधोत्पादने सामर्थ्याभावात्तादृशबोधो नोत्पद्यते चेत्प्रकृतेऽपि तुल्यम् । त्वदभिमतबोधस्यापि कुत्राप्यक्लृप्तत्वेन तादृशबोधजनकत्वस्याखण्डार्थ-कत्वेनाभिमतवाक्येऽपि सत्त्वे मानाभावात् ।

न द्वितीयः । अन्यत्र तादृशबोधकल्पनेऽपि मानाभावात् । न च बोधो द्विविधः । तद्विशिष्टवैशिष्ट्यावगाही तदुपलक्षितवैशिष्ट्यावगाही च । आद्ये ज्ञाने तस्मिन् प्रकारी-भूतधर्मोऽपि भासते । तद्विना स्वविशेष्यान्वयिन्यन्वयित्वरूपविशेषणत्वासिद्धेः। द्वितीये च तत्राभासमानस्यैव धर्मस्य तन्निष्ठविषयतानिरूपितप्रकारतामात्रं स्वीक्रियत इति अन्यत्रापि तादृशबोधस्य सिद्धत्वात्तत्सामग्य्रादिकं कल्पनीयमित्यखण्डार्थबोधकत्वं तादृशबोधजनकत्व-रूपमेव निरुच्यत इति वाच्यम् । उक्तरीत्यङ्गीकारेऽपि लक्षणवाक्यानां सोऽयं देवदत्त इति वाक्यानाञ्च तादृशबोधजनकत्वनिर्बन्धे कारणाभावात् । विशिष्टवैशिष्ट्यावगाहिबोध-परलक्षणवाक्ये लक्षणवाक्यत्वरूपहेतोर्व्यभिचारस्य दुर्वारत्वात् । प्रष्टुस्तादृशार्थबोध एवेच्छे-त्यत्राज्ञानस्योक्तोपलक्षितवस्तुविषयकत्वमेवेत्यत्र च नियामकाभावाद्विशिष्टविषयकाज्ञान-निवर्तकविशिष्टबोधेच्छामूलकप्रश्नोत्तरीभूतलक्षणवाक्यसम्भवात् ।

न च प्रकृष्टप्रकाशश्चन्द्र इति वाक्येन चन्द्रस्य मुख्यविशेष्यतयैव भानेन लक्षणविशिष्ट-स्यान्यत्र वैशिष्ट्याभानादुक्तविशिष्टवैशिष्ट्यबोधत्वाभावादुपलक्षितविषयत्वसिद्ध्या तत्रोक्त-विषयता आवश्यकीति वाच्यम् । एवं सति चन्द्रत्वाद्युपलक्षितस्याप्यन्यत्र वैशिष्ट्या-नवगाहनादुपलक्षितवैशिष्ट्यावगाहित्वाभावात्त्वदुक्तविषयताऽप्यप्रामाणिकी । न च तद्रूपेण मुख्यतया तदवगाहिज्ञानीयविषयताऽपि भवतीति वाच्यम् । तथात्वे घट इत्याकारक-ज्ञानस्यापि घटत्वोपलक्षितविषयतापत्तेः । इष्टापत्तौ च पूर्वज्ञाने मुख्यतया भासमानघटत्व उक्तज्ञानीयविशेष्यतानिरूपितप्रकारतामात्राङ्गीकारेऽपि घटघटत्वयोः संसर्गाभाने धर्मधर्मि-भावभानायोगाद्घटत्वे १अवृत्तित्वसंशयोच्छेदो घटत्वाऽश्रयव्यक्तावस्तित्वसंशयोच्छेदश् चन्द्रत्व- प्रकाशाऽश्रयत्वयोस्तत्तेदन्त्वयोः सामानाधिकरण्यसंशयोच्छेदो न स्यात् । न स्याच्च घटत्वा-श्रयवस्तुतादृशसामानाधिकरण्यादीनाञ्च सिद्धिः । विरोध्यविषयकस्यापि ज्ञानत्य प्रतिबन्ध-कत्वे तदविषयकस्यापि तत्साधकत्वे सर्वप्रतीतिभिः शून्यस्यैव सिद्ध्यापत्त्याऽतिप्रसङ्गात् । सत्यज्ञानादिवाक्यसाध्यप्रतीतेस्तत्त्वमसीतिवाक्यसाध्यप्रतीतेश्च घट इत्यादिप्रतीत्यविशेषाद् विशिष्टवस्तुन एव तद्बलात्सिद्ध्याऽखण्डवस्त्वसिद्ध्या प्रयासवैफल्याच्च ।

अपि च सोऽयमित्यत्र तत्तेदन्त्वोभयप्रकारतानिरूपितविषयताशालिबोधमात्र-मङ्गीकृत्यैक्यस्य संसर्गताऽनङ्गीकारे नीलो घट इत्यत्रापि तथैव स्यात् । नीलत्वघटत्व-विशिष्टयोरैक्ये नीलत्वघटत्वयोरप्यैक्यापातेन विशिष्टद्वयैक्यायोगात् । तथा चैक्यसंसर्गक-प्रमाया विलोप एव स्यात् । तत्रोपहितयोस्तादात्म्यं संसर्गो नैक्यम् । तस्य कुत्रापि संसर्गत्वं नास्त्येवेति चेन्न । अत्राप्युपलक्षितयोस्तादात्म्यमेव संसर्गतया भासताम् । न च तादात्म्यस्य भेदाभेदनियतत्वात्प्रकृते चोपलक्षितयोः शुद्धाभेदस्यैव सत्त्वेन भेदाभावान्न संसर्गतेति चेन्न । उपहितभेदस्योपाधिभेदरूपत्ववदुपलक्षितभेदस्याप्युपलक्षणभेदरूपत्वमाश्रित्य वा अभेदस्य वास्तवत्वं भेदस्य प्रातिभासिकत्वं संसर्गशरीर इत्युक्तरीतिमाश्रित्य वोपपादनसम्भवात् । अन्यथा तादात्म्येन तत्तोपलक्षितव्याप्यवानयमित्यादिशाब्दादिपरामर्शादुक्ताखण्डार्थाव-गाह्यनुमितिस्वीकारो वा तादृशस्थलेऽनुमितेरलापो वा स्यात् ।

किञ्च विशिष्टस्य वैशिष्ट्यमिति रीत्या जायमानज्ञानस्यापि तद्धर्मविषयकत्वं किमर्थ-मङ्गीकार्यम् । तद्धर्मविशिष्टवैशिष्ट्यावगाहिज्ञानस्थले तत्राभासमानेऽपि धर्मे तन्निष्ठविषयता-निरूपितावच्छेदकताख्यविषयता उपलक्षितस्थले तद्धर्मेऽवच्छेदकतानात्मिकी प्रकारतेत्येता-वतैव वैलक्षण्यस्य सम्भवात् । गन्धवत्त्वरूपलक्षणोपलक्षितपृथिवीस्वरूपमात्रज्ञानान्नील-रूपवत्त्वरूपलक्षणोपलक्षितपृथिवीस्वरूपमात्रावगाहिज्ञानस्य विषयावैलक्षण्येऽपि विषयता-कृतवैलक्षण्येनैव वैलक्षण्यस्य त्वयाऽवश्यमादरणीयतया प्रकृते विषयावैलक्षण्यस्याप्रयोज-कत्वात् । एवञ्चान्यथाख्यातिबलादनिर्वचनीयसिद्धिरप्यपास्ता स्यात् । रजतमिदं साक्षात्करोमीति प्रत्यये विलक्षणविषयतास्वीकारसम्भवाद् बाह्यार्थासिद्धिश्च ।

न च विशिष्टवैशिष्ट्यावगाहिप्रत्यये तद्धर्मस्य धर्म्यंशे भानाभावे स्वविशेष्यान्वय्यन्वयित्व- रूपविशेषणत्वहानिः स्यादिति वाच्यम् । तज्ज्ञानेऽभासमानस्यैव तन्निरूपितप्रकारताया इव तदन्वयिनिरूपितप्रकारताया अपि सम्भवेन तथात्वोपपत्तेः । अवच्छेदकताख्यविषयता-वत्त्वमात्रेणैव वा विशेषणत्वव्यवहारस्योपलक्षणत्वव्यवहारवदुपपत्तेश्च । ‘रक्तत्वविशिष्टदण्डवन्तं जानामि’ इत्यनुव्यवसायेन व्यवसाये रक्तत्वविषयकत्वावगाहनात्तदवश्यं स्वीकार्यमिति चेदिहापि ‘रक्तत्वाऽश्रयदण्डवन्तं पुरुषं जानामि, तदभिन्नमिमं जानामि’ ‘प्रकृष्टप्रकाशवन्तं चन्द्रं जानामि’ इत्यनुभवात्तथात्वं केन वारयितुं शक्यम् । विशिष्टोपलक्षितप्रतीत्योर्वैलक्षण्यं तु प्रागुक्तमेवेति न काऽप्यनुपपत्तिः ।

अपि चैतन्मतेऽखण्डार्थकस्थलीयबोधस्य स्वरूपमात्रावगाहित्वं प्राचीनैरिवाङ्गीकृतमेव । परं तन्निष्ठविषयतायां ज्ञानान्तरीयविषयतानिरूपितत्वद्वयमप्यधिकं कल्प्यम् । तस्य प्रयोजनं तु न दृश्यते । प्रकृष्टप्रकाशश्चन्द्र इति लक्षणवाक्यजन्यबोधस्य कलङ्की चन्द्र इति लक्षण-वाक्यजन्यबोधावैलक्षण्ये तन्निवर्तनीयसंशयनिवर्तकत्वापत्तिः । अत एतदङ्गीकार्यमिति न युक्तम् । तत्तल्लक्षणज्ञानद्वारकबोधे शक्तिविशेषस्यैव कल्पनयोपपत्तेः । त्वया च बोधे शक्ति-रेका विषयतायाञ्च निरूपितत्वद्वयमपि कल्पनीयमिति महागौरवम् । न च ज्ञानस्य शक्ति-मत्त्वेन प्रतिबन्धकत्वं न कल्प्यते । किन्तु तादृशविषयताऽश्रयत्वेनैव । तथा च ज्ञाने शक्त्यकल्पनान्न गौरवावकाश इति वाच्यम् । तथाऽपि ज्ञाने एकशक्तिकल्पनेनैवोपपत्तौ विषयतायां निरूपितत्वद्वयकल्पनाधिक्याद्गौरवमेव ।

किञ्चोक्तविषयतावत्त्वेन प्रतिबन्धकत्वे विषयतात्रयस्य विनिगमनाविरहान्मुख्यपदार्थतया निवेशे तदाश्रयज्ञानव्यक्तित्रयस्यैव पृथक् प्रतिबन्धकत्वापत्तिरिति महागौरवम् । ज्ञानत्रय-मेलनायोगात्पूर्वज्ञान एव धर्मद्वयभानाङ्गीकारे अन्यतरस्यैव धर्मितावच्छेदकत्वे विनिगमका-भावात्कस्यापि धर्मितावच्छेदकत्वाभावे घट इति ज्ञाने क्लृप्तत्वात्पूर्वज्ञानविषयत्वबला-त्प्रकारतामात्रस्य प्राप्त्या निर्धर्मितावच्छेदकत्वात्प्रतिबन्धानुपपत्तिश्च । ज्ञानद्वयस्यैव रूप-भेदात्प्रतिबन्धकत्वद्वयं तु दुर्वारमेव । द्वितीयज्ञानद्वितीयक्षणे प्रथमज्ञाननाशे तृतीयक्षणे प्रतिबद्ध्योत्पत्तिर्ज्ञानद्वयप्रतिबन्धकतापक्षे अवश्यमङ्गीकर्तव्येत्याद्यनुसन्धेयम् । त्वदुक्तरीतौ सम्बन्धभेदनिबन्धनदोषवारणाय सम्बन्धविषयकत्वस्याप्यवश्यवक्तव्यतयाऽखण्डार्थताहा-निश्चेत्यादिदूषणानि बहुतरमूहनीयानि इति न किञ्चिदेतत् । एवमेतानि सर्वाणि दूषणानि सत्यज्ञानादिवाक्यस्थले तत्त्वमसीत्यादिस्थलेऽप्यविशिष्टानि ।

एवं ‘अक्षरधियाम्’ इत्याद्युदाहरणपूर्वकं ब्रह्मणि सर्वव्यावृत्तिबोधनाय गुणोपसंहार-कथनमप्यशुद्धम् । सर्वव्यावृत्तीनां केनाप्यसर्वज्ञेन ज्ञातुमशक्यतया द्वाराभावेन कस्यापि ब्रह्मज्ञानानुदयप्रसङ्गात् । सर्वज्ञस्य तु योगबलादेव सर्वज्ञानवद् ब्रह्मज्ञानसम्भवेन तदीय-शाब्दबोधस्य व्यावृत्तिद्वारकत्वे बीजाभावात् । बाध्यभेदज्ञानस्यैकस्यैवाप्रामाण्यशङ्का-निवृत्त्युपयुक्तत्वेनापेक्षितत्वस्येतरव्यावृत्तिज्ञानस्यानुपयुक्तत्वस्याप्युक्तत्वाच्च । नेति नेति इत्येतद्वाक्यं विना सर्वव्यावृत्तिबोधकस्येतरस्याभावेन तदेकोपसंहारेणैव सर्वसिद्धौ सत्य-ज्ञानादिवाक्यानां सर्वेषां वैयर्थ्याच्च । एवं व्यावृत्तीनां सत्यत्वे तद्वत्त्वेनैव ब्रह्मणोऽ-खण्डत्वभङ्गः । तेषां ब्रह्मस्वरूपत्वेऽप्याधाराधेयभावाभ्युपगमात् । अन्यथा ब्रह्मणि व्यावृत्ति-र्जीवभेदाभाव इत्यादेर्वाङ्मात्रत्वापातात् । मिथ्यात्वे त्वागमस्याप्रामाण्यम् । व्यावहारिक-प्रामाण्यमित्यादिप्रलापस्त्वपाकृत एव पूर्वम् ।

न च सफलत्वाद्व्याकरणवद् भ्रमजनकत्वेऽपि प्रामाण्यम् । सिद्धान्ते मन्त्राणामिव ब्रह्मबुद्धौ व्यक्तिक्रममादायैव सर्वस्योपपादनेन तस्य भ्रमं प्रत्यजनकत्वात् । मतान्तररीत्याऽपि अनुसन्धानविशेषविषयत्वस्य साधुत्वव्याप्यताया एव व्याकरणप्रतिपाद्यतया तदंशे तस्य भ्रमहेतुत्वाभावात् । न च भ्रमात्मकानुसन्धानविधानादप्रामाण्यमिति युक्तम् । निरर्थक-वर्णावलीरूपमन्त्रविशेषस्येष्टसाधनतया जपादिविधायकवाक्यवद् विग्रहवद्देवतानङ्गीकारपक्षे इन्द्रायेति चतुर्थ्यन्तमन्त्रस्यैव वज्रहस्तत्वादिनाऽनुसन्धानविधायकशास्त्रवच्च तत्प्रामाण्योपपत्तेः।

न च तर्हि रुद्ररोदनाद्यर्थवादवाक्यवद् विषं भुंक्ष्वेति वाक्यवच्च भ्रमजनकत्वेऽपि फलीभूतबोधस्य प्रामाण्यात्प्रामाण्यमिति वाच्यम् । पूर्वमितरमोहनादिकारणाद्यनुसारेणा-चिन्त्यशक्तिमद्भिर्देवैः कृतस्यैव रोदनवपोत्खननादेरेवार्थवादवाक्यप्रतिपादितत्वेन भ्रम-जनकत्वाभावात् । तदंशे भ्रमत्वे रजताप्राशस्त्यादौ हेत्वसिद्ध्या तदसिद्ध्यापत्तेः ।

‘नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः ।

अविद्यमानं ध्यायन्तो सर्वे यान्त्यधरं तमः ॥

तस्मात्सत्यार्थतां ब्रूयाद्वेदानामपि सर्वशः ॥’

इत्यादिना वेदस्य सर्वत्र सत्यार्थकताया एवोक्तत्वाच्च ।

‘विषं भुंक्ष्व’ इति वाक्यस्थले तु वक्तुर्न प्रथमतो ‘विषभोजनमिष्टसाधनम्’ इत्याकारबोधे तात्पर्यम् । प्रयोजनाभावात् । अपि तु ‘द्विषदन्नं न भोक्तव्यम्’ इति बोध एव विषादि-पदलक्षणया यथासम्भवं भवत्वित्यत्र । ‘गङ्गायां घोषः’ इत्यत्र तीरपदप्रयोगं विहाय गङ्गापदप्रयोगेण घोषे पावनत्वादिबोध इव विषपदप्रयोगमहिम्ना तत्सादृश्यादिना द्विषदन्नस्य महानिष्टत्वविषयकबोधः पाश्चात्यो भवत्विति तात्पर्येण लाक्षणिकप्रयोगः । कस्यचिद् व्युत्पन्नस्य प्रथमतो विषभोजने इष्टसाधनत्वबोधोदयेऽपि वक्तृतात्पर्यविषयत्वाभावादेव न वाक्यस्य तज्जनकत्वप्रसक्तिः । अन्यथा लक्षणास्थले सर्वत्रानुपपन्नार्थबोधस्य द्वारत्वापातेन सर्वत्रापि बोधद्वयतात्पर्यस्याप्रामाणिकस्य कल्पनापातः । क्वचिदेतादृशवाक्यं शब्दविधया प्रामाण्यरहितं सत् कोपानुमानादिद्वारा फलीभूतबोधोपयोगीति लिङ्गविधयैव प्रमाणम् । उक्तमेतत्कर्मनिर्णये आचार्यैः पक्षद्वयमपि । तस्मात्सत्यत्वज्ञानाद्यवान्तरबोधे व्यावृत्तिबोधे च श्रुतेस्तात्पर्येंऽप्रामाण्यं दुर्वारमेव ।

यदपि सत्यत्वोक्त्याऽसत्यव्यावृत्तिः सिद्ध्यतीति तदप्यशुद्धम् । सत्यताया उपहित-ब्रह्मण्यपि सत्त्वेन तस्यानृततया तद्व्यावर्तकत्वायोगात् । न च तदुपलक्षितस्वरूपस्यैव लक्षणत्वम् । तस्य निर्विशेषे स्वस्मिन् वृत्तित्वायोगात् स्वस्वेतरव्यावृत्तत्वेन ज्ञानं विना पक्षे साध्यव्याप्यत्वेन निश्चयायोगाच्च तन्नियामकत्वायोगात् तदर्थं स्वस्वेतरव्यावृत्तत्वस्य निर्विशेषे ग्रहापेक्षायामात्माश्रयापातेन च किञ्चिदुपहितरूपेणैव तथात्वस्य वाच्यतया स्वरूपलक्षण-त्वायोगस्योक्तत्वात् । व्यावर्तकसंसर्गस्य स्वासमानसत्ताकत्वे स्वस्मिन् व्यावृत्तेरपि स्वसमान-सत्ताकाया असिद्ध्यापत्तेः । अन्यथा शुक्त्यसमसत्ताकरजतत्वसंसर्गेण सेत्स्यमानाया अरजतव्यावृत्तेरपि शुक्तिसमसत्ताकायाः सिद्ध्यापातात् । न चाऽरोपितेन वर्णदैर्ध्येण तदधिक- सत्ताकार्थसिद्धिर्द्दष्टेति वाच्यम् । दैर्ध्यादीनां ध्वनिविशेषव्यङ्ग्यानां वर्णेष्वनारोपितत्वात् । स्वप्नस्थले कामिनीज्ञानजन्यधातूत्सर्गाधीनसुखनिष्ठेतरव्यावृत्तिं प्रत्यपि जन्यतासम्बन्धेन धातू-त्सर्गस्यैव साधकत्वेन तत्राप्युक्तनियमाक्षतेः । क्वचित्तथात्वमपि वर्तत इत्याग्रहकरणेऽपि उक्तव्यावृत्तेरसत्यधर्ममूलकत्वादसत्त्वं क्वाचित्कस्थलवत्सत्त्वमिति सन्देहनिरासाभावापत्तेः । न चेष्टापत्तिः । बाध्यव्यावृत्तिसन्देहस्य बाध्यसन्देह एव पर्यवसन्नत्वाद्ब्रह्मण्यबाध्यत्वनिर्णया-भावात्स्वरूपमात्रविषयकानावृतप्रामाण्यकज्ञानानुदयप्रसङ्गेनोक्तलक्षणवाक्यवैयर्थ्यात् ।

एतेन ब्रह्मणि प्रतीयमाना व्यावृत्तिर्मिथ्यैवास्त्विति पक्षोऽपि परास्तः । मिथ्यात्वग्रहे बाध्यत्वनिश्चयस्योक्तरीत्या सन्देहस्य वाऽनपायात् । अधिकं मिथ्यात्वखण्डनावसरे निरस्तम् । ब्रह्मसंसृष्टव्यावृत्तीनां ब्रह्मरूपत्वाभ्युपगमेन सत्यत्वेऽप्याधाराधेयभावसत्यत्वेऽ-खण्डार्थहानिः । असत्यत्वे व्यावृत्तिमिथ्यात्वपक्षाविशेष एव । एवं १लक्ष्यासमानधर्मोप-देशेनासमानसत्ताकव्यावृत्तिबोधनद्वारा स्वरूपबोधजननेनोपदेशकवाक्यप्रामाण्यञ्चेत्स्वकल्पित-मेव कञ्चिद्धर्ममुक्त्वा षोडशकलपुरुषबोधनेऽपि वाक्यप्रामाण्याहानेः ‘तस्मान्नार्हाम्यनृतं वक्तुम्’ इत्यादिना भारद्वाजस्यानृतभयेन हिरण्यनाभप्रत्याख्यानानुपपत्तिश्चेति । एवमेव ज्ञानादिस्थलेऽप्यूह्यम् ।

एवं नैयायिकैरीश्वरज्ञानस्य सत्यज्ञानानन्तरूपत्वस्याङ्गीकृतत्वाद्विशेषणत्रयोपादानेऽपि स्वाभिमतब्रह्मासिद्धिः। तद्व्यावर्तकविशेषणोपादानेऽपि अन्येन केनचित्तथैव कस्यचिज्जड-स्योत्प्रेक्षायां तद्व्यावृत्तब्रह्मसिद्धये पुनर्विशेषणान्तरोपादानपरम्परापत्तेः । वस्तुतः सत्य-त्वादीनां ब्रह्मण्येव विद्यमानत्वापत्तेर्न२ वस्तुतो ब्रह्मस्वरूपमात्रविषयकज्ञानमेव जायत इत्यङ्गीकारे तावन्मात्रेण स्वरूपमात्रविषयकाज्ञाननिवृत्तिसम्भवादन्योपादानवैयर्थ्यमेव ।

किञ्च सत्यपदशक्तिग्रहो लोकानां यत्र जायते स एव सत्यपदार्थः । स च सत्तादात्म्यवत्येव जायते । यथोक्तं संक्षेपशारीरके

आकाशादौ सत्यता काचिदेका प्रत्यङ्मात्रे सत्यता काचिदन्या ।

तत्सम्पर्कात्सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दश्च तत्र ॥’ इति ।

अम्बरादौ काचिदेकास्वकालाबाध्यत्वरूप सत्यता । प्रत्यङ्रमात्रे ब्रह्ममात्रे काचिदन्या त्रिकालाबाध्यत्वरूपा । तत्सम्पर्कात् त्रिकालाबाध्यवस्तुतादात्म्यात् । तत्र आकाशादौ । अन्या तादृशसत्तादात्म्यवत्त्वरूपा । तत्र तादृशसत्तात्म्यवत्त्वावच्छिन्ने । घटः सन्नित्यादि-व्यवहारेण लोकानां त्रिकालाबाध्यतादात्म्यवत्त्वेनैव घटादीनां प्रतीतेः । प्रथमद्वितीय-सत्यपदार्थादरणं तु ‘सत्यस्य सत्यं, सत्यं चानृतञ्च तत्सत्यमभवत्’ इति श्रौतप्रयोगमात्र-निर्वाहाय । तच्च लक्षणयैव सम्भवति । अनेकशक्तिकल्पने गौरवात् । तथा च सत्यपदस्य ब्रह्मणि शक्तिर्न घटते । अतः सत्तादात्म्यस्य ब्रह्मण्यभावात् । तत्र सत्यपदस्य विशिष्ट-बाधग्रहसहितशक्त्यैव बोध इत्येतदयुक्तम् । किञ्च विशिष्टशक्तपदस्य विशिष्टबाधग्रहसहकृत-विशिष्टशक्त्यैवैकदेशबोधकत्वे घटो जातिमानिति वाक्यं विशिष्टधर्मावच्छिन्नबाधग्रहमात्र-सहकारवशाच्छक्तिभ्रमं लक्षणाग्रहं च विनाऽनवच्छिन्नद्रव्यत्वप्रकारकबोधं जनयेत् । इष्टापत्तौ च प्रश्नोत्तरवैयधिकरण्यादिरूपत्वदीयदूषणादावपीष्टापत्तिसम्भवेन न काऽपि व्यवस्था सिद्ध्येत् । अधिकं शास्त्रारम्भसमर्थनाख्यग्रन्थखण्डनावसरे प्रपञ्चयिष्यामः ।

किञ्च कश्चन्द्र इत्यत्र स्वरूपप्रश्नस्य कण्ठोक्तत्वात्तत्रोत्तरवाक्यमपि स्वरूपपरमस्तु । सत्यज्ञानादिवाक्यस्थले उत्तरस्यानाकांक्षितत्वेनानुपादेयत्वपरिहाराय कस्मिंश्चित्प्रश्नवाक्येऽ-ध्याहर्तव्ये कीदृशं ब्रह्मेत्येव प्रश्नवाक्यमेवाध्याह्रियताम् । उत्तरवाक्यस्य तु मुख्यार्थकत्वमेव सिद्ध्यतु । किं भागत्यागलक्षणया । न चैवम् ‘एकधैवानुद्रष्टव्यम्’ इति श्रुत्याऽखण्ड-स्वरूपविषयकज्ञानस्यैव मोक्षसाधनत्वावगमात् तादृशमेव प्रश्नादिकमध्याहृत्योत्तरं वाक्यं नेयमिति वाच्यम् । एकधैवेति धाल्प्रत्ययबलेन सप्रकारकज्ञानस्यैवावगमात् । न चानेकगुण-प्रकारकज्ञानस्य मोक्षकारणत्वमते एकप्रकारेणैव ज्ञानस्य मोक्षकारणत्वोक्तिविरोधापत्ति-र्दुर्वा रैव । मन्मते च वैशिष्ट्यं तृतीयार्थभूतं दर्शन एवान्वेति । प्रकारश्च धर्मः । ज्ञान-वृत्तिधर्मश्च विषयतासम्बन्धेन विषय एवेति एकमात्रविषयावच्छिन्नत्वं ज्ञाने लभ्यत इति स्वरूपमात्रविषयकत्वमेव पर्यवस्यतीति वाच्यम् । ज्ञाने ज्ञानत्वरूपधर्मस्यावर्जनीयतया त्वदुक्तार्थस्याप्यसम्भावितत्वापत्तेः । विषयितासम्बन्धेन धर्म एवात्र विवक्षित इत्यत्र नियामकाभावात् । एकमेव द्रष्टव्यमित्युक्त्यैव सामञ्जस्ये धाल्प्रत्ययानर्थक्यञ्च । तस्याभि-मतार्थविरोधित्वात् । अतः ‘चैत्रः पूर्वस्मिन् वत्सरे इदानीमप्येकप्रकारोपेत एव वर्तते’ इत्यादीनां प्रचुरव्यवहाराणां विद्यमानत्वात्तद्रीत्या पूर्वापरकालेष्वविरुद्धप्रकारोपतमेव द्रष्टव्यम् । न त्विदानीं सगुणं मायाऽपगमे निर्गुणमित्यादिरूपेणेति तदर्थोपपत्त्या तद्वाक्यस्य साव-काशत्वात् । अस्मदुक्तार्थस्यैव बहुप्रयोगानुसारेण स्वरसत्वाच्च । त्वदुक्तार्थस्य त्वन्यत्राक्लृप्तस्यैव कल्प्यतया हेयत्वात् । उक्ताभिप्रायकव्यवहारस्य कुत्राप्यदर्शनात् । ब्रह्मविदाप्नोति परम् इत्युपक्रमवाक्यस्यासञ्जातविरोधित्वेन मुख्यार्थकत्वे बाधकाभावाद्विशिष्ट-बोध एव पदानां शक्तेरभ्युपगमाच्च ब्रह्मत्वविशिष्टविषयकज्ञानस्यैव मोक्षसाधनत्वावगमात्तदनु-सारेण पूर्णत्वरूपब्रह्मत्वप्रयोजकधर्मविशिष्ट एव प्रश्नस्य उचितत्वेन मन्मतरीत्या सत्यादिपदैर् जगत्स्रष्टृत्वादिप्रतिपादनेन तस्योत्तररूपताया एव युक्तत्वाच्च । सगुणज्ञानस्यैव मोक्षसाधनत्वं तु प्रागेव व्यवस्थापितम् । किञ्च सर्ववेदान्तेषु सगुणमेव प्रतिपादितमित्यप्रसिद्धनिर्गुण-वस्तुपरत्वप्रश्नोत्तरादीनामयुक्तम् ।

ननु कथमेतत् ‘केवलो निर्गुणश्च’ ‘ततो यदुत्तरतरं तदरूपमनामयं य एतद्विदुरमृतास्ते भवन्ति’ ‘यत्तदद्रेश्यमगोत्रमग्राह्यम्’ इत्यादिश्रुतिः ।

‘एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।

ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥’ इत्यादिगीतावाक्यञ्च ।

‘प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।

वचसामात्मसंवेद्यं तज् ज्ञानं ब्रह्मसञ्ज्ञितम् ॥’ इत्यादि

‘न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः ।

अतः स्थूलं हरे रूपं चिन्त्यम् … … …’ । इति च

‘द्वे विद्ये वेदितव्ये’ इति चाथर्वणी श्रुतिः ।

‘परया त्वक्षरप्राप्तिर् ऋग्वेदादिमया परा ।

एतदव्यक्तमजरमचिन्त्यमजमव्ययम् ॥

अनिर्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ।

विभुं सर्वगतं नित्यं भूतयोनिमकारणम् ॥

व्याप्याव्याप्यमतः सर्वं तद्वै पश्यन्ति सूरयः ॥’ इति च विष्णुपुराणम् ।

‘सञ्चिन्तयेद्भगवतश्चरणारविन्दम्’ इति सगुणभजनमुक्त्वा

‘भक्त्या ह्यसङ्गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ।’

इत्यादिभागवतमित्येवमादीनि निर्गुणं स्पष्टमवगमयन्तीति चेन्न । निर्गुणत्वाद्युक्ते-रपाणिपादत्वाद्युक्तेश्च सत्त्वादिगुणराहित्यप्राकृतपाणिपादादिराहित्यपरत्वस्य पूर्वमुपपादि-तत्वात् । स्वर्गे मणिखचितभूप्रदेशोद्यानादिसत्त्वस्य पुराणादिसिद्धत्वात्तत्रत्यानामपि देवा-नामस्मदादिवदध्यक्षसिद्धभूसम्बन्धाभावेन भूसम्बन्धराहित्यस्य पुराणेषूक्तेरिवैतदुक्तेरपि युक्त-त्वाच्च । अन्यथाऽरूपमनामयमिति ब्रह्मणोऽरूपशब्दितस्वरूपाभावोक्त्या ब्रह्मणो निःस्वरूपत्वापत्तेः । त्वदुक्तविष्णुपुराण एवाकारणत्वभूतकारणत्वयोर्व्याप्यत्वाव्याप्यत्वयोश्चै-कस्मिन्नेवोक्त्या स्वव्याहतिप्रसङ्गात् । एतैरपि वाक्यैः किञ्चिद्धर्मपुरस्कारेणैव निर्दिष्टत्वेन त्वदभिमतनिर्गुणवार्ताया अप्ययोगाच्च । न तद्योगेत्यत्र तु स्थूलसूक्ष्मरूपयोर्भेदो नोच्यते । परमात्मात्यन्ताभिन्नानामपि रूपाणां विशेषशक्त्याऽधिकारिविशेषैर्ज्ञेयत्वाज्ञेयत्वादिकमुच्यते । स्थूलपदन्तु मनुष्यदृष्टिगोचररामकृष्णाद्यवताररूपपरम् । अत एव प्रत्यस्तमितभेदमित्यादिना स्वगतभेदराहित्यं विष्णुपुराणस्थभागान्तरे प्रतिपादितम् । अन्यथा

‘स्थूलसूक्ष्मविशेषोऽत्र न क्वचित्परमेश्वरे ।

सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः ॥’ इति गारुडवाक्यस्य

‘कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा ।

न चाणुमात्रं भिन्नानि तथाऽप्यस्मान्विमोहसि ॥’

इत्यादिवाक्यान्तराणां च विरोधापत्तेः । गीतावाक्योदाहरणं त्वशुद्धम् । तत्रत्याक्षर-पदस्य प्रकृतिपरत्वेन त्वदभिमतनिर्गुणपरत्वाभावात् । तथात्वे उत्तरसन्दर्भे तदुपासनानिन्दा-पूर्वकं स्वोपासनाप्राशस्त्यपरत्वप्रतीतिविरोधात् । अधिकं सगुणत्वविचार एव प्रपञ्चितम् ।

एवं ‘योऽयं विज्ञानमय’ इत्यादिजीवस्वरूपप्रतिपादकवाक्यस्याखण्डार्थत्वमपि न सङ्गच्छते । ‘कतमः स आत्मेति’ बृहदारण्यके ‘कतरः स आत्मा’ इत्यैतरेयके प्रश्न-वाक्योपलम्भात् तस्य च धर्मपरत्वस्यैव वक्तव्यत्वात् । अन्यथा ‘बहूनां जातिपरिप्रश्ने डतमच्’ ‘द्वयोरेकतरनिर्धारणे डतरच्’ इति सूत्राभ्यां जातिनिर्धारकप्रश्नविषय एव डतमडतरयोर्विधानात् तस्यासाधुत्वापत्तेः । तथा चोत्तरवाक्यस्य स्वरूपमात्रपरत्वे प्रश्नोत्तर-योर्वैयधिकरण्यापत्तेर्विशिष्टपरत्वस्यैव वक्तव्यत्वात् ।

ननु ‘कतरः स आत्मा’ इत्यैतरेयकवाक्यपूर्वभागस्थवाक्ये ‘कोऽयमात्मा’ इति स्वरूपमात्रप्रश्नसत्त्वात्कतर इत्यस्य जघन्यस्य स्वरूपबोधद्वारीभूतार्थे अवान्तरतात्पर्यस्य सत्त्वेऽपि परमतात्पर्यं न स्वीक्रियते । अत एवोत्तरवाक्ये ‘येन वा पश्यति येन वा श्रुणोति’ इत्यादिना दर्शनादिकं येन चिन्मात्ररूपेण घटितं तद् आत्मरूपमिति निर्णीतम् । न हि दर्शनादिकं किञ्चिद्धर्मविशिष्टात्मघटितं येन तत्प्रतिपाद्यत इति युक्तं स्यात् । एवं कतमः स आत्मेति वाक्यस्य ‘आत्मैवास्य ज्योतिर्भवत्यात्मनैवाऽयं ज्योतिषाऽस्ते’ इत्यादिपूर्व-वाक्योक्तस्वप्ने ज्योतिःशब्देन व्यवहारप्रयोजकत्वेन चिन्मात्ररूपस्योक्तत्वेन मनआदावात्म-स्वरूपत्वविप्रतिपत्तितत्संशयनिरासायोक्तस्य कतम आत्मेत्यादेर्व्यवहारप्रयोजकचिन्मात्र-विषयत्वम् । न हि जातिविशिष्टा चिद्व्यवहारप्रयोजिका । किन्त्वसत्त्वापादकाज्ञाना-भावोपहिता । अत एव ‘स एष नेति नेत्यात्मा’ ‘स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गोह्ययं पुरुष आनन्दोऽजरः’ इति शुद्धात्मानमुक्त्वा ‘अभयं वै ब्रह्म भवति य एवं वेद’ इत्युक्तम् । एवं ‘केनेषितं पतति प्रेषितं मनश्चक्षुः श्रोत्रं क उ देवो युनक्ति’ इत्यादीना-मात्मस्वरूपपरत्वात्तदनुरोधेनात्र प्रत्यययोरविवक्षितार्थकत्वमेवेति चेन्न ।

किंशब्दप्रयोजकबुभुत्साया अपि स्वरूपमात्रविषयकत्वस्य निराकृतत्वेन तदनुरोधादे-तेषामविवक्षितार्थकत्वकल्पानौचित्यात् । अविवक्षितार्थकत्वे तत्प्रयोगस्यैवानर्थक्यप्रसङ्गात् । शुद्धस्वरूपस्य त्वदभिमतस्य दर्शनादिघटकत्वस्य व्यवहारप्रयोजकत्वस्याप्यसम्भवेनाविद्या-द्युपहितरूपेणैव वक्तव्यतया मनोजीवयोरन्यतरनिर्धारकजीवत्वधर्मपुरस्कारेण प्रथमवाक्ये प्रश्न-विषयत्वसम्भवेन प्रत्ययानर्थक्योक्त्यसङ्गतेः । तादृशाज्ञानाभावोपहितचित्येव वृत्त्युपहितचिति ज्ञानत्वादिजातेरिव कस्याश्चिज्जातेः सम्भवेन जातिपरिप्रश्नत्वसम्भवेन तत्रापि प्रत्ययानर्थक्या-दरणमयुक्तमेव । उत्तरवाक्येऽप्यसङ्गत्वादिधर्माणामुक्तत्वात्पुरुषत्वादिधर्माणामप्युक्तत्वेनोप-ष्टम्भोऽप्ययुक्तः । एतद्वाक्ययोः पररीत्या जीवपरत्वमभ्युपगम्येदमुदितम् । वस्तुतो ऽनयोः सिद्धान्ते ईश्वरपरत्वमेवोपवर्णितम् । तदुपवर्णनञ्चेदानीमत्यन्तमनाकांक्षितत्वाद्विस्तरभयाच्च न क्रियते ।

एवं सर्वत्र किंशब्दस्य स्वरूपप्रश्नमात्रबोधकत्वे कर्मकाण्डसगुणवाक्यस्वर्गदेवतादि-प्रतिपादकवेदवाक्यानामौषधादिप्रतिपादकोपवेदवाक्यानाञ्च श्रोतृबुभुत्सां विना प्रवृत्त्ययोगा-च्छ्रोतुश्च तत्स्वरूपज्ञानसत्त्वेन तन्मूलकप्रश्नस्यैव प्रसक्त्या तदनुसारेणाखण्डकर्माखण्डौषधा-खण्डस्वर्गादीनामेव बोधः स्यात् । अतो विशिष्टार्थपरवाक्यस्यैव विलोपप्रसङ्गः ।

न च तत्र बाधकाभावात्प्रकृष्टप्रकाशादिवद्विशेषणानां मानान्तराप्राप्तत्वाच्च वाक्यस्य विशिष्टार्थपरत्वसम्भवात्तदनुगुणमेव प्रश्नवाक्यं कल्पनीयमिति वाच्यम् । इहापि सत्य-ज्ञानादीनां प्रमाणान्तराप्राप्तत्वाद्बाधकाभावाच्च तत्र १तात्पर्यासम्भवेन तादृशप्रश्नवाक्यस्यैव कल्पयितुमुचितत्वात् । न च ‘एकधैवानुद्रष्टव्यम्’ इति शुद्धज्ञानस्य मोक्षहेतुत्वश्रवणेन विशिष्टज्ञानस्य निष्फलत्वेन तत्र तात्पर्यायोगादेकमेवाद्वितीयमित्यादिधर्मनिषेधकश्रुतिबाधाच्च न तत्र तात्पर्यमिति वाच्यम् । श्रुतीनां त्वदुक्तार्थस्य निरस्तत्वात् । ब्रह्मस्वरूपमोक्ष-साधनज्ञानब्रह्मप्राप्तिस्वरूपफलानां पूर्ववाक्योक्तानां स्वरूपजिज्ञासायां निरूपणार्थं प्रवृत्त-मन्त्रवर्णे गुहायामित्यादिना गुहावृत्तित्वादिधर्मोपादानेन तज्ज्ञानस्यैव मोक्षहेतुत्वोक्त्याऽखण्ड-विषयकज्ञानस्य मोक्षसाधनत्वपरतायास्तच्छ्रुतेर्वक्तुमशक्यत्वाच्च । अन्यथा परिच्छेदराहित्य-स्यानन्तपदावान्तरतात्पर्यबलेन सिद्धौ जीवाभेदस्य ब्रह्मणि सिद्ध्या तज्ज्ञापनरूपप्रयोजना-भावेन व्यावर्त्यब्रह्मान्तराभावेन च तद्विशेषणोपादानानर्थक्यस्यैव प्राप्तेः ।

अपि चाजिज्ञासितत्वे ज्ञाननिरूपणस्यानाकांक्षिताभिधानत्वप्राप्त्या तत्स्वरूपजिज्ञासाया आवश्यकत्वेन ज्ञानस्वरूपनिरूपणपरेणैतद्वाक्येनाखण्डस्यैव ज्ञानस्य मोक्षसाधनत्वावगमाद् ब्रह्मविषयकत्वादिमत्त्वे तस्याखण्डत्वहानिप्राप्त्या तदन्यथाऽनुपपत्त्या निर्विषयकमेव ज्ञानं मोक्षसाधनं सिद्ध्यतु । तथा चैकधेति श्रुतिस् तद्बलान्न स्वार्थपरा स्यात् । एतत्सन्निधौ मोक्षरूपफलाश्रवणेन विधिप्रत्ययस्य च तदतिरिक्तेष्टसाधनताबोधकत्वेन दुर्बलत्वात् । न च ब्रह्मविषयकज्ञानस्यैव पूर्वं प्रसक्ततया तस्य निर्विषयकत्वं व्याहतमिति वाच्यम् । तर्हि ब्रह्मपदेन ब्रह्मत्वादिधर्मपुरस्कारेणैव प्रसक्ततया तस्यापि निर्धर्मकत्वादिकथनमपि कुतो न व्याहतम् ।

न च समस्तवस्तुसंसर्गाभावोपलक्षितस्वरूपत्वमेवोत्कर्षः । स एव ब्रह्मत्वमिति वाच्यम् । तर्हि ज्ञानेन सह ब्रह्मणः विषयविषयीभावसंसर्गस्याप्ययोगेन ज्ञाने तद्विषयकत्वस्यापि वक्तु-मशक्यतया ब्रह्मेतराविषयकत्वमेव ज्ञाने ब्रह्मज्ञानत्वं स्यात् । तन्निर्वाहाय ब्रह्मवित्पदस्यापि तादृशज्ञान एव लक्षणापत्त्या ब्रह्मणि तात्पर्याभावादुत्तरवाक्यानामपि तत्र तात्पर्याभावप्राप्त्या निर्विषयकज्ञानेन तादृशमेवाज्ञानं निवर्तत इति प्राप्त्या ज्ञानविषयतया ब्रह्मणोऽङ्गीकारेऽपि प्रयोजनाभावेन शून्यवाद एव तात्पर्यपर्यवसानापत्तेः । तस्माज्ज्ञानमोक्षस्वरूपजिज्ञासाया-मप्यधिकोक्तिवद् ब्रह्मस्वरूपजिज्ञासायामप्यधिकोक्तिसम्भवादधिकार्थबोधनाभावे प्रश्नप्रति-वचनयोः साम्यापातेनाज्ञाननिवर्तकत्वायोगाच्छक्तिविशेषस्योत्तरज्ञानेऽङ्गीकारे वायुसंयोगादिक- मादाय विनिगमकाभावान्मानाभावाच्च तदसम्भवाच्च विशिष्टपरत्वमेव सत्यज्ञानादिवाक्यानां युक्तम् ।

यदप्युक्तं ‘विशिष्टार्थपरवाक्याभावापादनं न युक्तम् । लौकिकफलसाधनाङ्गादीनां वाक्य-तात्पर्याविषयत्वेऽपि प्रमाणान्तरेण सिद्धिसम्भवेऽपि सोमसवनाश्वत्थरमणीयसरोऽरण्यार्ण-वादिनानाविशेषणविशिष्टसत्यलोकादेस्त्रैलोक्यशरीरविशिष्टसगुणसायुज्यादेश्च फलस्य तन्निरूपितसाधनताविशिष्टध्यानादेश्च तद्विषयसगुणब्रह्मणो मनोमयत्वादिनानागुणविशिष्टस्य ‘यन्न दुःखेन सम्भिन्नम्’ इत्याद्युक्तलक्षणस्वर्गस्य तन्निरूपितसाधनतया विशिष्टयागादेश्चा-गमैकसमधिगम्यतया मानान्तरावेद्यतया तत्सिद्ध्यर्थं विशिष्टार्थतात्पर्यस्यावश्यकत्वात्’ इति ।

तन्न । तादृशवाक्यानामनाकांक्षायामेव प्रवृत्त्या विशिष्टार्थतात्पर्यकत्वे ब्रह्मवाक्यस्यापि तथैव सम्भवापत्तेराकांक्षाया आवश्यकत्वे स्वरूपज्ञानं विना तन्निष्ठधर्मजिज्ञासायोगात्स्वरूप-मात्रजिज्ञासायामवश्यवक्तव्यायां तदर्थबोधनार्थं प्रवृत्तैतद्वाक्यैः स्वरूपमत्रस्यावश्यं बोधनीयत्वप्राप्त्या तत्र तात्पर्ये आवश्यके द्वारीभूतार्थेऽपि तात्पर्यकल्पने मानाभावेन विशिष्टार्थासिद्धेस्त्वन्मते आपादनीयत्वादित्यलम् ।

अभिहितान्वयवादनिराकरणं सुधादौ कृतम् । त्वन्मतेऽज्ञानासम्भवोऽपि वक्ष्यते । कार्यान्वितशक्तिपक्षे ज्ञानविधिशेषत्वमेव ब्रह्मवाक्यानामङ्गीकृत्याखण्डार्थकत्वस्य कथञ्चि-दभ्युपगमोऽप्यसङ्गतः । उपासनाविधिशेषतया सगुणासिद्धिवज् ज्ञानविधिशेषत्वेन निर्गुणा-सिद्धिप्रसङ्गात् । उपासनाया अयाथार्थ्यवज् ज्ञानस्याप्ययथार्थत्वेऽपि तत्रेवात्रापि विधि-सम्भवात् । न चायथार्थत्वे अज्ञाननिवर्तकत्वरूपफलजनकत्वायोगः । स्वाप्नशुक्ति-साक्षात्कारेण स्वप्ने तदारोपितरजताज्ञानहेत्वविद्यानिवृत्तिदर्शनात् । न च तत्र तिरोधानमेव नाज्ञाननिवृत्तिः । जागरप्रबोधेनैव सर्वस्यापि निवृत्तिरिति वाच्यम् । तर्हि जाग्रद्रजतहेत्व-ज्ञानस्यापि शुक्तिज्ञानेन १तिरोधानमात्राङ्गीकारे ज्ञानस्याज्ञाननिवर्तकत्वे समानविषयकत्वेनैव निवर्तकत्वमित्यादेरसिद्ध्या तद्बाधकाभावे श्रौतज्ञानस्यायथार्थस्यापि श्रुतिबलादेवाज्ञान-निवर्तकत्वसिद्धौ प्रमात्वस्यानुपयोगात् ।

अस्तु वा ब्रह्मणो ज्ञेयत्वाभावादिश्रुत्यनुग्रहाय विधेर्ज्ञाने सविषयकत्वांशेऽपि तात्पर्या-भावः । तथाच निर्विषयकज्ञानस्य प्रमात्वमपि घटते । बाधितार्थविषयकत्वाभावस्यैव प्रामाण्यरूपत्वाभ्युपगमौचित्यात् । अनुभवविरोधस्य निर्विकल्पकज्ञानाङ्गीकारेऽपि साम्याद् इत्यादीनि बहुतरदूषणान्यूहनीयानि । परमतस्यानन्तदोषदुष्टताया आचार्यैरन्यत्र बहुश उक्तत्वात् । पूर्वोक्तरीत्या प्रश्नोत्तरयोर्वैयधिकरण्यापत्तिरूपप्रतिकूलतर्के निरस्ते न्यायामृतोक्ता-न्यखण्डार्थकत्वाभावसाधकान्यपि सुस्थिराण्येवेत्यखण्डार्थत्वसाधकानुमानानां तद्बाधोऽपि सुस्थिर एवेति ।

यदपि केनचिदर्वाचीनेनोक्तं ‘नन्वखण्डार्थत्वं वेदान्तानामनुपपन्नम् । तद्धि संसर्गा-गोचरप्रमाजनकत्वम् । तच्च न वाक्यस्य युक्तम् । तस्यैकपदार्थेऽपरपदार्थसंसर्गावगाहित्वात् । अन्यथा पदद्वययैयर्थ्यापत्तेरिति चेदत्राहुः । प्रतीतिस्तावद्विशिष्टवैशिष्ट्यागाहिनी उपलक्षित-वैशिष्ट्यावगाहिनी चेति द्विविधा । तत्राद्या विशेषणं विशेष्यं तत्संसर्गञ्चावगाहते । अन्यथा विशेष्यान्वय्यन्वयित्वरूपविशेषणत्वस्यासम्भवप्रसङ्गात् । द्वितीया तूपलक्षिणीभूतधर्मं नाव-गाहते । न चैवम् ‘इदं द्रव्यम्’ इति ज्ञानस्य द्रव्यत्वोपलक्षितावगाहिनो घटत्वाद्युपलक्षिताव-गाहित्वस्याप्यनपायात् ‘अयं घटो न वा’ इति संशयविरोधित्वापत्तिरिति वाच्यम् । तटस्थस्यापि घटत्वादेर्द्रव्यनिष्ठविषयताऽनिरूपकत्वाङ्गीकारेणातिप्रसङ्गवारणसम्भवात् । एवञ्च भेदसंसर्गकप्रत्ययस्थले विशेष्ये विशेषणवैशिष्ट्यभानस्यावश्यकत्वेऽपि सोऽयमित्याद्यत्यन्ता-भेदस्थले धर्मिमात्रस्वरूपस्यैक्यस्य संसर्गतया भानकल्पने मानाभावात्तत्तेदन्तोभयनिरूपित-तदाश्रयनिष्ठविषयताशालित्वमात्रमभ्युपेयते । तावन्मात्रेण चेदन्त्वोपलक्षिते तत्तोपलक्षित-भेदग्रहविरोधित्वमप्रत्यूहम् । तथा चोक्तवाक्यमेवाखण्डार्थं प्रसिद्धम् । एतादृशशाब्दबोधे च विशिष्टपरत्वाभावनिश्चयसहकृता तदिदमादिपदजन्या तत्तादिप्रकारिका धीस्तदुपलक्षितोप-स्थितिर्वा शाब्दबोधप्रयोजकसामान्यकारणजातसमवहिता प्रयोजिकेत्यादिकं शास्त्रारम्भ-समर्थने प्रपञ्चितम् । विशिष्टपरत्वाभावनिश्चयः क्वचिदन्वयानुपपत्त्या क्वचिदन्यथा च । आद्या यथा सोऽयमित्यत्र । तत्र हि तदेतद्देशकालविशिष्टयोस्तदिदन्त्वाभ्यां परामर्शाद्विशिष्टबोध-स्तावन्न सम्भवति । इतरसम्बन्धाभावात् । १विशिष्टातिरेकेण भिन्नकालीनविशेषणा-वच्छिन्नयोर्यौगपद्याभावेनाभेदस्य दूरोत्सारितत्वात् । तत्तेदन्त्वयोरेकस्योपलक्षणत्वमन्यस्य विशेषणत्वमित्यत्र विनिगमकाभावात् । द्वितीयेन यथा । यथा प्रकृष्टप्रकाशश्चन्द्र इत्यत्र । तत्र हि चन्द्रस्वरूपमात्रस्य पृष्टत्वात् तस्यैव प्रतिवक्तव्यतया विशेषणांशे तात्पर्याभावात् ।

यत्तु ‘सोऽयमित्यादौ नोक्तानुपपत्तिस्तच्छब्देन तद्देशकालसम्बन्धध्वंसवतः परापर्शात्’ इति । तदसत् । उक्तध्वंसपरतच्छब्दादिघटितस्थले उक्तानुपपत्तिविरहेऽपि तद्देशकालसम्बन्ध-विशिष्टपरामर्शकतद्घटितोक्तवाक्ये विशिष्टप्रमापकत्वायोगात् । तावन्मात्रेणैवास्मदिष्टसिद्धेः ।

यत्तु प्रकाशश्चन्द्र इत्यादौ न स्वरूपमात्रविषयकः प्रश्नः। प्रागेवावगतत्वात् । किन्तु विशिष्टवैशिष्ट्यविषयक इति । तन्मन्दम् । चन्द्रश्चन्द्रत्वजातिमांश्चन्द्रपदवाच्यश्चन्द्रत्व-विशिष्टस्येतरव्यावृत्तिप्रयोजकधर्मवांश्चेति विशिष्टविषयकनिश्चयवतोऽपि तादृशप्रश्नदर्शनेन त्वन्मतेऽप्यनिस्तारात् ।

अथ किंशब्दस्य जिज्ञासिते शक्तिः । जिज्ञासितत्वञ्चोद्देश्यवाचकपदसमभिव्याहृत-किंशब्दस्थले स्वसमभिव्याहृतपदोपस्थाप्यतावच्छेदकरूपावच्छिन्नोद्देश्यतानिरूपिततादृशधर्म-व्याप्यधर्मावच्छिन्नविधेयताशालिबोधविषयकेच्छाविषयत्वम् । एवञ्चोक्तविधज्ञानानां सिद्ध-त्वेऽपि प्रकृष्टप्रकाशश्चन्द्र इति ज्ञानविशेषस्यासिद्धत्वान्न प्रश्नादिविरोध इति चेन्न । ममापि समानविभक्तिकपदान्तरसमभिव्याहृतकिंशब्दस्य स्वसमभिव्याहृतपदार्थतावच्छेदकतद्व्याप्य-धर्मतदुभयनिरूपिततदाश्रयविषयताशालिबोधविषयकेच्छाविषये शक्तत्वाद् उक्तविधबोधान्त-रस्य सिद्धत्वेऽपि प्रकृष्टप्रकाशत्वादिनिरूपितचन्द्रनिष्ठविषयताशालिबोधस्य प्रागसिद्धत्वेन प्रश्नाद्यनुपपत्तेरभावात् । न चैतादृशविषयताशालिबोधो न भवदाचार्यसम्मत इति वाच्यम् । सिद्धान्तसंग्रहे तृतीयपरिच्छेदे अन्येत्वित्यादिनैतन्मतस्य दीक्षितश्रीचरणैरेव दर्शितत्वात्’ इति ।

परे तु ‘अज्ञाते किंपदस्य शक्तिः । उत्तरञ्चाज्ञाननिवर्तकबोधजनकशब्दः । एवञ्चा-ज्ञाननिवर्तकशक्तेः पूर्वज्ञानेष्वसत्त्वान्न प्रश्नानुपपत्तिः । प्रकृष्टप्रकाशश्चन्द्र इतिवाक्यजन्यबोधे तादृशशक्तेः सत्त्वाच्च न प्रतिवचनानुपपत्तिः’ इति वदन्ति ।

तदपि उक्तैकदेशिमतनिरासेनैव निरस्तम् । अत्रोक्तस्य तटस्थघटत्वनिरूपितत्वस्यापि घटत्वनिष्ठप्रकारतानिरूपितत्वरूपत्वात् । यदि प्रकारताया भासमानवैशिष्ट्यप्रतियोगित्वा-न्यस्या अभावात्तद्रूपत्वे च घटे घटत्ववैशिष्ट्यभानावश्यकत्वप्राप्तौ तज्जातीयबोधजनकत्वेऽप्य-खण्डार्थत्वहानिभयात्साक्षात्तटस्थघटत्वादिनिरूपितत्वमेव ज्ञानान्तरीयघटादिविषयतायां स्वीक्रियते । तदाऽपि पूर्वोक्तसर्वदोषाणां साम्यमेव । परन्तु घटज्ञाने भासमानस्यैव घटत्वादेस्तन्निष्ठविषयतानिरूपकत्वाङ्गीकारेऽपि त्वदभिमतसंसर्गागोचरप्रमाजनकत्वरूपा-खण्डार्थत्वहानेस्तत्र ज्ञानद्वयाङ्गीकारोऽनुचितः । उक्तक्रमेणाङ्गीकारेऽपि बाधकाभावाद्वि-निगमकाभावेन सर्वत्र मानाभावेन च न कस्यापि सिद्धिरिति सुधीभिश्चिन्त्यमिति न किञ्चिदेतत् ।

येषां वाक्यकुठारेणाखण्डोऽखण्डि मयाऽधुना ।

तान् श्रीमध्वजयव्यासराजान् वन्दे निरन्तरम् ॥

एवं नवीनोत्प्रेक्षितपक्षाणामतिनिर्दलतां मन्यमानाः सर्वज्ञकल्पाष्टीकाकाराः शिष्या एव तद्दूषणं स्वोक्तमार्गेण कुर्वन्त्विति बुद्ध्या स्वयं कण्ठत उद्घाट्य तद्दूषणमकुर्वाणाः सत्य-ज्ञानादिवाक्यानां परोक्ताभिप्रायाभावे कोऽभिप्रायस्तेषामिति शिष्याकांक्षायां तदभिप्राय-मुपवर्णयन्ति ॥ एवमित्यादिना ॥ सत्यत्वादिविशिष्टमिति ॥ सत्यत्वादिकञ्च जग-त्स्रष्टृत्वादिरूपमित्यानन्दमयाधिकरणानुव्याख्यानसुधादौ व्यक्तमिति नातिव्याप्तिप्रसक्तिः । तत्त्वमसीत्यादिस्थल उपपादयति ॥ जीवात्मा चेति ॥ सामान्यतोऽवगत इति ॥ चेतनत्वादिरूपसामान्यधर्ममात्रेणेत्यर्थः ॥ विशेषापेक्षयेति ॥ स्वस्मिन्प्रतीयमानगुणेषु मध्ये स्वाभाविकगुणविशेषवत्त्वादिनेत्यर्थः । मुख्यार्थ एव कुतो न स्वीक्रियत इत्यत आह ॥ अभेदस्येति ॥ प्रमाणेति ॥ नाहमिति प्रत्यक्षादिबाधितत्वादित्यर्थः ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तत्वोद्योते अखण्डार्थभङ्गान्तो भागः ॥

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं

तत्त्वोद्योतप्रकरणम्

श्रीजयतीर्थभिक्षुविरचितया टीकया

श्रीहुलगि श्रीनाथाचार्यविरचितद्वैतद्युमणिनामिकया टिप्पण्या च समलङ्कृतम्

द्वितीयो भागः