अनित्यदेशकालसम्बन्धित्वस्य..
तत्त्वमस्यादिवाक्यानामखण्डार्थतासाधकानुमाने दृष्टान्ते साध्यवैकल्योपपादनम्
**श्रीमज्जयतीर्थटीका **
द्वितीयं दृष्टान्तं दूषयति
मूलं
अनित्यदेशकालसम्बन्धित्वस्य सत्त्वान् न सोऽयं देवदत्त इत्याद्युपमा च
इत्यादिवाक्यमुपमा तत्त्वमस्यादिवाक्यस्याखण्डार्थतायामिति शेषः । तदेतद्देश-कालसम्बन्धित्वं हि स इत्यादिपदवाच्योऽर्थः । तच्चास्त्येव देवदत्तादौ प्रमितमिति वाच्यार्थसम्भवान्न सोऽयं देवदत्त इत्यादिवाक्यं लक्षणया देवदत्तादिस्वरूपमात्रपरम् । अतो नैतद्दृष्टान्तेन तत्त्वमस्यादिवाक्यानामखण्डार्थतासिद्धिः ।
**द्वैतद्युमणिः **
इत्याद्युपमा चेत्यत्र इत्यादि उपमा चेति छेदमभिप्रेत्य व्याचष्टे ॥ इत्यादि-वाक्यमिति ॥ अस्त्येवेति ॥ पूर्वकाल इति शेषः । तथा च तदाश्रयत्वं न देवदत्ते बाधितमिति भावः ।