अतद्विषयज्ञानेन ..
आत्माविषयकस्याऽत्मज्ञानस्याऽत्माज्ञाननिवर्तकत्वे घटज्ञानस्यापि तन्निवर्तकत्वाऽपादनम्
श्रीमज्जयतीर्थटीका
अथानात्मविषयमपि तद् आत्मज्ञानं निवर्तयेत् हन्त तर्हि घटज्ञानमपि कस्मान्न निवर्तयेत् । अनात्मविषयत्वाविशेषादित्याह–
मूलं
अतद्विषयज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेत ।
आत्माज्ञानमिति शेषः ।
**द्वैतद्युमणिः **
अथ यदि । अनात्मेति पूर्ववदेवार्थः । तदात्मेत्यादि तदिति छेदः । अनात्मेति पूर्ववदेवार्थः । अथवा पूर्वत्रात्र चानात्मविषयेत्यादेरात्मभिन्नविषयकत्वाद्येवार्थः । इदं च वेदान्तजनितविज्ञानस्य धर्मान्तरसाहित्येनाऽत्मविषयकस्याप्यधिष्ठानयाथात्म्यज्ञान-रूपत्वाभावान्न शुद्धस्वरूपमात्ररूपाधिष्ठानारोपितजगद्भ्रमनिवर्तकत्वमिति युक्तिसूचनाय । अत एव १घटादिनाऽपीत्युत्तरत्रापिशब्दः । मूलेऽप्यतद्विषयेत्यत्र नञस्तदा तत्पुरुषो न विषयान्तेन कार्यः ।