१४ दृश्यत्वानुमाने अनैकान्तिकतोपपादनम्

दृश्यत्वानुमाने अनैकान्तिकतोपपादनं

श्रीजयतीर्थभिक्षुविरचितया टीकया

श्रीहुलगि श्रीनाथाचार्यविरचितद्वैतद्युमणिनामिकया टिप्पण्या च समलङ्कृतः

प्रथमसम्पुटस्य द्वितीयो भागः

दृश्यत्वानुमाने अनैकान्तिकतोपपादनम्

**श्रीमज्जयतीर्थटीका **

एवं सामान्यतोऽनुमानानि निरस्य विशेषतो निराचिकीर्षुर्दृश्यत्वानुमानस्य तावद्दोषान्तरमाह–

मूलं

आत्मनोऽपि दृश्यत्वादनैकान्तिकता च

शुक्तिरजतादेः सपक्षस्येव विपक्षस्यात्मनोऽपि दृश्यत्वादनैकान्तिकता साध्य-मिथ्यात्वसम्बन्धनियमाभावश्च दृश्यत्वस्य भवति । अनैकान्तिकश्चोर्ध्वतादिवत्सन्देह-हेतुत्वान्न साध्यं साधयति ।

नन्वात्मनो दृश्यत्वमेव कुत इति चेन् न । ‘आत्मा वा ओ द्रष्टव्यः’ ‘दृश्यते त्वग्य्रया बुद्ध्या सूक्ष्मया’ इत्यादिश्रुतेः ।

**द्वैतद्युमणिः **

॥ दृश्यत्वानुमानस्येति ॥ दृश्यत्वरूपलिङ्गस्येत्यर्थः । तावदिति । जडत्वादिकं क्रमानुसारेण निरसिष्यत इति भावः ॥ साध्यमिथ्यात्वेत्यादि ॥ इदमेक-मेवान्तिके यस्यासावेकान्तिकः न एकान्तिकोऽनेकान्तिकस् तस्य भावोऽनेकान्तिकतेति व्युत्पत्तिलब्धार्थप्रदर्शनपरमिति ज्ञातव्यम् । मतविशेषसिद्धदूषकताबीजं दर्शयति ॥ अनेकान्तिकश्चेति ॥