१४ श्रुत्या प्रपञ्चसत्यत्वसमर्थनम्

विश्वं सत्यं मघवाना ..

श्रुत्या प्रपञ्चसत्यत्वसमर्थनम्

मूलं

विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।

**श्रीमज्जयतीर्थटीका **

हे मघवानौ धनादिमन्तौ इन्द्राबृहस्पती । युवयोर्विश्वं सत्यमेव । न केवलमहमेवं प्रतिपन्नः । किं तु आपोऽपि वां सत्यजगत्सर्जनादिकं कर्म जानन्तीति द्विरूपं परमेश्वरं प्रत्युच्यते ।

मूलं

प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।

नु इदानीमस्य महतस्सत्यस्य परमेश्वरस्य महान्ति सत्यानि १कर्माणि प्रावोचमेव । कर्मणां सत्यत्वं विषयसत्यतामन्तरेण नोपपद्यत इति विश्वसत्यतासिद्धिः ।

मूलं

सत्यस्सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ।

सः जगत्सृष्ट्यादिलक्षणः । अस्य परमेश्वरस्य महिमा सत्यः । तं विप्रप्रधानेषु यज्ञेषु शवः सुखमुद्दिश्य स्तौमि ।

मूलं

***कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोऽर्थान् ***

व्यदधाच्छाश्वतीभ्यस्समाभ्यः । इत्यादिश्रुतिभिश्च

कविः सर्वज्ञः । मनसामीष्ट इति मनीषी । परिभवति सर्वानिति परिभू-स्सर्वोत्तमः । स्वयमेव भवतीति स्वयम्भूः स्वतन्त्रः परमेश्वरः । शाश्वतीभ्यस्समाभ्यः सर्वदा । अर्थान् महदादीन् । याथातथ्यत एव व्यदधात् । न तु मिथ्याभूतान् ।

इत्येवं श्रुतिस्मृतिभिः प्रपञ्चस्य सत्यतावगमात् तदनिर्वाच्यतापराणां वाक्या-नामर्थान्तरपरत्वस्यैव युक्तत्वान् नागमोऽनिर्वचनीये मानमिति स्थितम् ।

**द्वैतद्युमणिः **

॥ धनादिमन्ताविति ॥ तस्य मघस्य धननामत्वादिति भावः । आदिपदेन कर्मनिर्णयोक्तरीत्या यश आद्युपग्रहः ॥ इन्द्राबृहस्पती इति ॥ तयोरुत्तरार्धे ‘अच्छेन्द्रा-ब्रह्मणस्पती’ इति प्रस्तुतत्वादिति भावः ।

बृहस्पतिः पुरोधाश्च ब्रह्मा च ब्रह्मणस्पतिः ।

इति वचनाद्ब्रह्मणस्पतिरित्यस्य बृहस्पतिरिति व्याख्या । इदित्यस्यार्थ एवेति । आपोऽपीति कर्माभिमानिन इत्यर्थः । अप्शब्दस्य कर्मपरतया ईशावास्याभाष्ये व्याख्यात-त्वात् ॥ सत्यानीति ॥ श्रुतौ सत्या इति शसोऽडादेशः पूर्वसवर्णो वेति भावः ॥ प्रावोचमेवेति ॥ घशब्दोऽवधारणे । श्रुतौ प्रेत्येतद्वोचमित्यनेन सम्बध्यते । छन्दसि परे व्यवहिताश्चेति स्मरणात् । अडभावश् छान्दस इति प्रावोचमित्युक्तमिति ध्येयम् । ननु कर्मणां सत्यत्वेऽपि जगत्सत्यत्वस्य किमायातमित्यत आह ॥ कर्मणामिति ॥ विषयेति ॥ विषयस्य मिथ्यात्वे तस्य कृतिकर्मत्वानुपपत्त्या तत्कर्मकत्ववद्व्यापाररूपकृतिरप्यसत्या स्यादिति भावः। तथा चाऽविद्यकस्य कृतिविषयत्वायोगात्कृतिविषयत्वेन जगत्सत्यतासिद्धिरिति श्रुतावुपपत्ति-रुक्ता भवति । पूर्वश्रुतौ ये कर्मसाक्षिणो देवास्तैरपि प्रमितस्वसर्जकत्वरूपोपपत्तिरभिहितेति ध्येयम् । वचनव्यत्ययमादृत्य विप्रराज्ये विप्रप्रधानकेष्वित्युक्तम् । शव इति धृत्वा सुखमिति व्याख्या । प्रतियोगे द्वितीया । सुखोद्देश्यकत्वेन स्तोत्रस्यैतद्व्यावर्तकरूपलक्षणं भवतीत्याशयेन फलितमाह ॥ उद्दिश्येति ॥ अनेन स्वोक्तार्थसाक्षितया ब्राह्मणप्रमितत्वरूपलिङ्गोक्त्या फलोक्त्या च सत्यत्वे तात्पर्यमवसीयते ॥ मनसामीष्ट इति ॥ मनश्शब्दस् तत्स्थितेच्छा-विषयपरः । तथा च स्वाभिमतानामिति यावत् । ईष्टे समर्थः । अधीगर्थदयेशां कर्मणीति मनसामिति षष्ठीति ध्येयम् । समाभ्य इति ल्यब्लोपे पञ्चमी । समा अनुसृत्येत्यर्थः ॥ याथातथ्यत इति ॥ ‘यथार्थं तु यथातथम्’ इत्यमरोक्तेर् यथातथपदं यथार्थवाचि । भावे ष्यञ् । तृतीयार्थे तसिः । तृतीया वैशिष्ट्ये । तथा च याथार्थ्ययुक्तानकरोदित्यर्थः । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च’ ‘सत्यस्य सत्यम्’ इत्यादिवचनैः स्वभावस्यापि ईशाधीनत्वावभमाज् जगत्स्वभावत्वेऽपि याथार्थ्यस्य तद्विशिष्टत्वेन जगत्करणं युक्तमिति भावः । एवेत्यस्य व्यवच्छेद्यमाह ॥ न मिथ्याभूतानिति ॥

नन्ववधारणस्य श्रुतावभावात्कुतस्तत्पूरणेन व्याख्यानमिति चेन्न । अस्य विशेषण-सामर्थ्यलब्धार्थप्रदर्शनपरत्वेन पूरणाकरणात् । तथा हि, सत्योत्पादने सार्वज्ञ्यमपेक्षितम् । तस्य भोगयोग्यतया तन्निर्माणार्थं भोक्तृजीवतत्प्रयोजकादृष्यतदुचितदेशकालादिसर्वपदार्थ-ज्ञानस्य साक्षात्काररूपस्य निश्चितप्रामाण्यकस्यापेक्षितत्वात् । अनुमित्याद्यात्मकत्वे लिङ्गादिप्रतिसन्धानविलम्बेन कर्मविशेषादिज्ञानानुदयेन तत्काले स्वापेक्षितकार्यजनकत्वायोगेन द्वितीयविशेषणस्य स्वाभीष्टकरणसामर्थ्यस्याभावप्रसङ्गात् । तथा च प्रथमविशेषण-सामर्थ्याद्द्वितीयविशेषणसिद्धिरित्यनन्तरं तदुक्तिः । ननु

ब्रह्मादिसर्वजगतां प्रकृत्या मनसोऽपि च ।

ईशितृत्वान्मनीषी सः …… … … ॥

इति ईशावास्यभाष्यविरोध इति चेन्न । तत्राप्युक्तोपयोग्यधिकार्थलाभाय यथाश्रुतार्थम-विहायैवार्थान्तराङ्गीर्कारे बाधकाभावेन प्रकृते तदनुसरणे विरोधाभावात् । इदमपि सत्यत्व-स्यैवोपपादकम् । सत्यार्थकरणसामर्थ्याभावे हि मायिकवज्जगद्रञ्जनादिना स्वोदरभरणार्थं सृजेत् । मिथ्याभूतानां साक्षात्स्वपरानुपयोगित्वात् । अन्यथैन्द्रजालिकस्य स्वोदरभरणार्थं भिक्षाटनादौ प्रवृत्तिर्न स्यात् । अविद्याबलादेव सार्वज्ञ्यस्य वक्तव्यतया तदीयविक्षेपशक्ति-बलात्तदाकारप्रतिभास ईश्वरस्य भवतीत्याशङ्कापरिहाराय परिभूरिति । तथा च सर्वपरिभाव-कत्वादविद्यारूपदोषं कथं सहेतेत्युक्तं भवति । ननु स्वस्य सार्वज्ञ्यादिसम्पादकत्वात्तस्या गुणत्वेन तन्निरासो न क्रियत इति चेन्न । तत्सम्बन्धं विना स्वस्यासार्वज्ञ्यनिरासकत्वाभावे सर्वपरिभावकत्वेन सर्वोत्तमत्वानुपपत्तेः । नन्वेतादृशगुणाः कस्यचिदनुग्रहादिना साध्याश्चेत्कथं सर्वपरिभावकत्वेन सर्वोत्तमत्वमित्यतः स्वयम्भूरिति स्वातन्त्र्यमुक्तम् । इदं सत्यतोपपादकमपि भवति । अचिन्त्यशक्तिरूपैतदुपपाद्यपरमैश्वर्यवत्त्वेन दुर्घटतया प्रतीयमानस्य जगत उत्पाद-कत्वस्य सम्भवादित्याशयेन परमेश्वर इति तल्लब्दार्थ उक्तः । मायिकसर्जने मायासाधना-देरेवापेक्षितत्वेन स्वातन्त्र्यादिगुणानामनुपयोगः । सार्वज्ञ्यादेर्मायिकत्वे स्वयम्भूत्वानुपपत्तिः । स्वयमिति विशेषोक्तिबलेनान्यनैरपेक्ष्येण सार्वज्ञ्यादिगुणवत्तया स्थितिरूपभवनस्योक्तेः । समाभ्य इत्यनेनापि सत्यता लभ्यते । सत्यभूतकारणादिद्वारा कार्योत्पादने विलम्बस्या-पेक्षितत्वात् । मिथ्याभूतस्य तु मायामात्राधीनत्वेन विलम्बे बीजाभावात् । परमार्थ-बोधकवस्त्वादिशब्दपर्यायार्थशब्देनापि महदादीनां सत्यता लभ्यते । अत एवार्थशब्देनैव सत्यतालाभात्तदीयस्वभावभूतमपि याथार्थ्यमीशाधीनमिति बोधनाय टीकायां याथातथ्यतो व्यदधादिति क्रियया सह योजितम् । न त्वर्थेष्वन्वयसूचनाय यथार्थानर्थानित्याद्युक्तम् । अर्थपदस्य परमार्थपरत्वं ‘अर्थस्वरूपं भ्राम्यन्ते’ इत्यादौ परेणाप्यङ्गीकृतमिति । एतेन ‘सत्यत्वपक्षे विशेषणानुपयोगः । स्वोक्तार्थे तदुपयोगः’ इत्यद्वैतचन्द्रिकोक्तिरनादर्तव्यैव । त्वदुक्तार्थे विशेषक्षणानुपयोगस्याऽधुनिकोक्तनिरासावसरे दर्शयिष्यमाणत्वात् । मूले आदिपदेन ‘यच्चिकेत सत्यमित्तन्न मोघं’ ‘सत्यमेनमनु विश्वे मदन्ति’ इत्यादीनामन्यत्राचार्योदाहृतानां ग्रहणम् । स्फुटत्वाट्टीकायां तदनुक्तिरिति द्रष्टव्यम् । उक्तमूलवाक्यस्य केन सहैकवाक्यत्व-मित्याकाङ्क्षापूरणाय विशिष्टार्थमुपसंहरति ॥ एवमित्यादिना ॥

यदत्र केनचिदुक्तं, मिथ्यात्वानुमानस्य श्रुतिबाधमाशङ्ग्याद्वैतसिद्ध्यद्वैतचन्द्रिकाद्युक्त-मुक्तम् । ‘ननु प्रत्यक्षबाधाभावेऽपि श्रुत्यैव बाधोस्तु । तथा हि

विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।

अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥

इति ऋक्संहिताद्वितीयाष्टकवाक्येन देवप्रमितत्वरूपतात्पर्यलिङ्गसहितेन सत्यतावगमा-दिति चेन्न । तत्र हि विश्वं सत्यमिति वाक्येन विश्वपरमार्थत्वाबोधनात् । तथा हि । हे इन्द्रब्रह्मणस्पती भवन्तौ मघवन्तौ धनवन्तौ मघमिति धननामसु पाठात् । विश्वं सर्वम् । सत्यं सद्भावत्वात् फलावश्यम्भावित्वाद्वा कर्म । युवयोरिद् युवयोरेव । युवामेवोद्दिश्य सर्वाण्यनुष्ठेयानीत्यर्थः । आपो व्यापनशीला देवताः । च नेत्येतन्निपातद्वयम् । ‘ न हि देवो न मर्त्यो महस्तव क्रतुं परः’ इत्यादौ महेतिशब्दवत् ‘ददाति मह्यं यादुरी’ इत्यादौ यादुरीत्यादिवदैकपद्यमध्यापकसम्प्रदायसिद्धम् । युवयोर्व्रतं सकलं कर्म च न प्रमिनन्ति न हिंसन्ति । मी हिंसायां क्र्यादिः । किं तु अनुमोदन्त इति यावत् । नोऽस्माकम् । हविर्दध्यादिकम् । अन्नं च पुरोडाशादि । अच्छा अभिलक्ष्य । वाजिना वेगवन्तावश्वाविव । युजा युक्तौ । आ जिगातमागच्छतेत्येतत्परत्वेन स्तुतिपरस्यैतद्वाक्यस्य विश्वसत्यत्वे तात्पर्याभावात् ।

शाक्मना शाकोऽरुणः सुपर्ण आ यो महः शूरः सनादनीः ।

यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोऽत दाता ॥

इत्यपीन्द्रस्तुतिपरतया न विश्वसत्यत्वतात्पर्यवती । तथा हि, शाक्मना शक्म एव शाक्म तेन शाक्मना बलेन । शाकः स्वशक्त्यैव कर्तुं शक्तः । अरुणः सुपर्णः कश्चिच्छोभनपर्णः पक्षी । आ गच्छतीत्यध्याहार उपसर्गश्रुतेः । यो महो महान् । शूरः विक्रान्तः । सनात् पुराणः । अनीर् अनीडः नीडास्वीकर्ता । न हीन्द्रोऽग्निवत् कुत्र-चिद्विद्यते नीडं करोतीति एकः सुपर्ण इत्यादिरूपकेणेन्द्रमाह । स इन्द्र इदमिदानीं कर्तव्यमिति यज्जानाति तत्सत्यमित् सफलमेव । न मोघं न विफलम् । स्पार्हं स्पृहणीयं वसु धनं जेता जयति शत्रुभ्यः सकाशात् । उत अपि दाता ददाति स्तोतृभ्यः । जेता दातेति तृन्नन्तेन न लोकेत्यादिना षष्ठीप्रतिषेधः । न च विश्वं सत्यमित्यादौ सत्यशब्दस्या-प्रसिद्धार्थता । ‘यो वै धर्मः सत्यं वै तत् । तस्माद्धर्मं वदन्तमाहुः सत्यं वदतीति’ इति श्रुतौ धर्मशब्दस्य सत्यशब्दसमानार्थकत्वोक्तेः । न च वैदिकलौकिकप्रसिद्धिभ्यां सत्यशब्दस्य परमार्थपरतैव युक्तेति वाच्यम् । अन्यपरवाक्ये प्रमाणान्तरविरुद्धार्थपरताया अयुक्तत्वात् । उपक्रमादिसमग्रतात्पर्यलिङ्गसचिवस्याद्वैतवाक्यस्यैव प्राबल्यात् । एवं

प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्

इत्यत्रापि सत्यपदं सफलपरमेव । सत्यसङ्कल्प इत्यादौ तत्प्रयोगात् ।

‘सत्यः सो अस्य महिमा’ इत्यादावपि महिमशब्दस्य ‘स्वे महिमि्न प्रतिष्ठितः’ इत्यादाविव परमानन्दरूपस्वरूपमहिमपरत्वात्तथात्वे परमार्थत्वरूपसत्यत्वं विवक्षितुं शक्यम् । महिमशब्दस्य जगत्सृष्ट्यादिपरत्वे तु सत्यपदं सफलपरमेव ।

कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य

इत्यत्र यतः कविः क्रान्तमतीतं सर्वं दृष्टवान् यतश्च मनीषी मनसा ईष्टे ऊहापोहकुशलः यतश्च पूर्वसृष्टिविरुद्धसृष्टिमिच्छतामसुराणां परिभवसमर्थः यतश्च स्वयमन्यनैरपेक्ष्येण पूर्वसृष्ट-प्रकारेण जगद्भावनसमर्थस्ततो हेतोर्याथातथ्यतः यादृशतादृशभावं प्रतिसन्धाय व्यदधा-दित्यर्थः । परमते तु तथागत इत्यादौ तथाशब्दस्यैव सत्यार्थताया अमरटीकादावुक्ततया यथाशब्दस्य तद्धितस्य च वैयर्थ्यं स्यादित्यन्यत्र विस्तर इति ।

तदयुक्तम् । सत्यशब्दस्य कर्मपरताया अप्रसिद्धत्वेनाबाध्य एव बहुप्रसिद्ध्या शक्तिमत्त्वेन च तदर्थकताया एव युक्तत्वात् । एवं विश्वशब्दस्य जगत्येव प्रसिद्धत्वेन कर्मत्वसमनियत-सर्वत्वावच्छिन्नपरत्वमप्ययुक्तम् । न च सत्यपदस्य धर्मपरत्वमुदाहृतश्रुतिसिद्धमिति मुख्यं तत्रापीति वाच्यम् । सदसत्पदस्थले पञ्चमहाभूतेषु तत्प्रयोगस्य श्रुतिसिद्धस्य ‘लक्षणयाऽपि सम्भवात्’ इति त्वयैव भाषितत्वेन तद्रीतेरत्रापि वक्तुं शक्यत्वात् ।

मह्यं ददाति यादुरीत्यादौ दुरी आदरवती या इति व्याख्यानमध्यापकसम्प्रदायसिद्धं यादुरीत्यैकपद्यं परित्यज्य कृतं यदि ऋष्यादिमतेन वा पुराणादिप्रमाणानुसारेण वा प्रवृत्तं तदा तत्रोभयोस्तुल्यबलत्वात् तत्र षोडशिग्रहणवद् उभयमपि विकल्पेन युक्तम् । यदि त्वादृशस्यैव कस्यचिद्ग्रन्थकृतः स्वेच्चानुसारेण व्याख्यानं तदा तदप्ययुक्तमेव पूर्वप्रदर्शितातिप्रसङ्गात् । इत्थं च चनेत्यत्र भिन्नपदत्वमाश्रित्य व्याख्यानमशुद्धमेव । भवदुक्तरीतावपि आपश्चन आपोऽपि व्रतं कर्म वां भवदुद्देश्यकं जानन्तीत्यर्थसम्भवे भिन्नपदत्वस्य प्रमिनन्तीत्यस्यानुशिष्टत्वेऽपि तत्र प्रयोगाप्राचुर्येणाप्रसिद्धहिंसार्थकतया व्याख्यानस्यायुक्तत्वात् ।

नन्वद्वैतचन्द्रिकाच्छाययैतद्वाक्यस्य देवसम्बन्धिजगत्सत्यत्वाभावपरताया औतसिद्धि-कृदभिप्रेतत्वावगमात्तत्र भिन्नपदाश्रयणं तस्य युक्तम् । ततस्तदनुसार्यस्मद्व्याख्यानमपीदं युक्त-मिति चेन्न । यादृशव्याख्याने भिन्नपदत्वमावश्यकं तादृशव्याख्यानं कण्ठतोऽप्रदर्श्य यत्र तद-नावश्यकत्वं तादृशव्याख्याने भिन्नपदाद्याश्रवणस्याद्वैतसिद्धिकृत एवायुक्तत्वेन तदनुसारित्व-द्व्याख्यानस्य सुतरामयुक्तत्वात् ।

एवं यच्चिकेतेत्यत्र यत्कर्तव्यतया जानातीत्यङ्गीकारे कर्तव्यत्वेनेति पदाध्याहारप्रसङ्गः सत्यपदस्य फलाविसंवादिरूपलाक्षणिकार्थप्रसङ्गश्च स्यात् । तदपेक्षया यच्चिकेत जानाति तत्सत्यमबाध्यमित्यर्थ एव युक्तः । अध्याहाराभावात् सत्यपदप्रसिद्धार्थात्यागात् । अबाधित-ज्ञानवत्त्वरूपोत्कर्षलाभाच्च । न च सत्यसङ्कल्प इत्यादौ सफलेऽपि सत्यपदं प्रयुक्तमिति वाच्यम् । एवमपि क्वचिदेव तस्य प्रयुक्तत्वेन लक्षणयाऽपि तस्य सम्भवेनाप्रसिद्धत्वेन तस्य मुख्यार्थत्वायोगात् ।

एवं ‘सत्यः सो अस्य महिमा’ इत्यादौ महिमपदं विनिगमकाभावादानन्दादिवज्जग-त्कर्तृत्वादिपरमपि । ‘जन्माद्यस्य यतः’ इति भगवता सूत्रकारेण तस्य ब्रह्मलक्षणत्वेनाभि-धानात् । प्रसिद्धानामेव लक्षणत्वात् । अत्र च सो इत्यनेन प्रसिद्धार्थकेन तेषां तदुपपाद्य-पूर्णानन्दादिलक्षणानाञ्च ग्रहणात् । तथा च सत्यपदमप्यबाध्यार्थकमेव । स्वरूपानन्दादाववश्यं त्वयाऽनुसर्तव्यत्वात् ।

‘वस्तुतः ‘सत्यसङ्कल्पः’ इत्यत्रापि सत्यपदमबाध्यार्थकमेव । सङ्कल्पस्य तद्विषय-कत्वात् । सत्यस्य सङ्कल्प इति षष्ठीतत्पुरुषाभिप्रायेण विषयविषयिणोरभेदोपचारेण कर्मधारय-विवक्षया वा तत्प्रयोगः । यथार्थज्ञानं मिथ्याज्ञानमिति प्रयोगवत् । सङ्कल्पविषयस्य परम्परया तत्साध्यता विनाऽबाधितत्वं न निर्वहतीति तस्य सफलत्वमर्थतोऽधिगम्यते । अन्यथा मिथ्यासङ्कल्प इति व्यवहारानुसारेण मिथ्यैष व्यवसायश्चेत्यादिप्रयोगाद् बाध्यार्थकत्वसम-कक्षतया वैयर्थ्यार्थकत्वस्य प्राप्त्या मिथ्यादिपदेन पुराणादौ जगतो मिथ्यात्वमुच्यते’ इति त्वदभ्युपगमोऽनुपपन्नः स्यात् । किं च पूर्वश्रुत्योः कथंचित् त्वदुक्तोऽर्थो ऽस्मन्मतरीत्या वक्तुं शक्यते । त्वन्मते त्वयुक्त एव । इन्द्रबृहस्पतिरूपदेवताद्वयस्यैव गृहीतत्वेन तयोरपि जीवत्वेनाविशेषात्सर्वकर्मणां तदुद्देश्यकत्वस्य, कर्तव्यत्वेन तदीयज्ञानसामान्ये साफल्यस्य च बाधितत्वात् । न चैतद्यथायोग्यं ग्राह्यमिति वाच्यम् । विश्वपदवैयर्थ्यापत्तेः । यच्चिकेत सत्य-मिदित्य वधारणसाहित्येन सामान्योक्तिपूर्वकं न मोघमिति वैफल्यव्यवच्छेदानुपपत्तेश्च । न च स्तुतौ तात्पर्यान्न वास्तवत्वचिन्ताऽवसर इति वाच्यम् । उक्तवाक्ययोः सर्वस्वाभिधेयत्यागेन देवताप्राशस्त्यमात्रलाक्षणिकत्वापत्तेः । ॐमिति चेत् । तस्य सत्यशब्दस्याबाधितार्थ-कत्वेऽप्युक्तक्रमसम्भवेन म्लेञ्छगुरूक्तब्राह्मणाचारविरुद्धाचारकर्तव्यतावदस्मदुक्तार्थविरुद्धत्व-मात्रेण त्वदुक्तार्थस्योपादेयत्वापातात् ।

एतेन लौकिकवैदिकप्रसिद्ध्यनुरोधेन सत्यशब्दस्याबाधितार्थकत्वमस्त्वित्याशङ्क्य ‘अन्य-परवाक्ये प्रमाणान्तरबाधितसत्यार्थकत्वमयुक्तम् । उपक्रमादिसचिवाद्वैतश्रुतिप्राबल्येन विश्व-सत्यतायास्तद्विरुद्धत्वात्’ इति समाधानाभिधानमप्ययुक्तम् । त्वदुक्तार्थकत्वेऽपि प्रमाणान्तर-विरोधस्य दर्शितत्वात् । मिथत्यात्वप्रतिपादकश्रुतेरेवाभावस्य वाचारम्भणादिवाक्यार्थ-प्रतिपादनेन दर्शनीयतया तत्प्राबल्यस्य कफोणिगुडायितत्वाच्च । न चेन्द्रादयोऽपि न जीवा इति वाच्यम् । तथात्वेऽनेकेश्वरापातेन जगद्विलयापातात् । तेषां जीवत्वेनास्मदविशेषस्य त्वद्भाष्ये शतश उक्तत्वाच्च ।

यदपीशावास्यश्रुतिव्याख्याने कविः क्रान्तमतीतं सर्वं दृष्टवानिति कविशब्दव्याख्यानं तदनागतवर्तमानरूपाशेषार्थविषयकज्ञानालाभेन कविशब्दमुख्यार्थत्यागाच्च हेयम् ।

यदपि मनीषीत्यस्य ऊहापोहकुशल इति व्याख्यानं तदत्यन्ताशुद्धम् । तस्यानुमिति-तर्कादिरूपस्य साक्षाज्जगद्द्रष्टरि ‘यः सर्वज्ञः स सर्ववित्’ इत्यादिश्रुतिसिद्धे परमेश्वरेऽसम्भवात् ।

परिभूरिति सामान्यत उक्त्या सर्वोत्तमत्वलाभेन तं विहायासुरपराभावकत्वमात्रार्थकत्व-कथनानौचित्यम् ।

यदपि स्वयम्भूरित्यस्यान्यनैरपेक्ष्येण जगद्भावनसमर्थ इति स्वातन्त्र्यार्थकत्वपरित्यागेन व्याख्यानं तण्णिजर्थस्य अधिकस्य निवेशादश्रुतस्य जगतः सम्बन्धाच्च स्वेच्छयोक्तार्थकरणे क्लिष्टम् । स्वयमेव भवतीति व्युत्पत्त्याऽन्यनैरपेक्ष्येण सत्तारूपस्वातन्त्र्यलाभेन तदेव युक्तम् ।

यदपि याथातथ्यत इत्यस्य ‘यादृशतादृशभावं प्रतिसन्धाय’ इति व्याख्यानं, तत्र वक्तव्यम् । किं यथा तथा इति समुदायात् ष्यञ्, किं तथापदमात्रात्, किं वा यथातथ इति समासात् । नाद्यः । यथापदस्य सादृश्यार्थकत्वेन तथापदस्याऽपि तदुपस्थापितसादृश्यादि-रूपप्रकारपरामर्शितया तदुभयार्थयोर्भिन्नवाक्ययोरेव ‘यथा घटस्तथा पटः’ इत्यादौ निविष्टत्वेनैकार्थीभावरूपसामर्थ्याभावेन समासानुपपत्त्या तदुभयघटितस्य प्रातिपदिकत्वा-भावेन ष्यञोऽनुपपत्तेः । न द्वितीयः । यथापदस्य वृद्ध्यभावप्रसङ्गात् । तथापदस्यैव तद्भावप्रसङ्गाच्च । यादृशतादृशभावरूपार्थस्याप्राप्तेश्च । नापि यथातथ इति प्रातिपदिकात् । यथापदस्य सादृश्यार्थकत्वे अव्ययीभावस्य ‘यथाऽसादृश्ये’ इत्यनेन निषिद्धत्वा-त्समासान्तरस्याप्राप्तेः सुप्सुपेति कथञ्चित्समासे वक्तव्ये यथार्थवाचियथातथपदस्य कोशादि-सिद्धत्वात् तदर्थकत्वे समासोस्तु । न तु अन्यार्थे । घटस्य यादृशः प्रकारस् तादृशप्रकारोपेतः पट इत्यर्थे घटस्य यथा तथा पट इत्यप्रयोगात् । न हि हासकर्तृत्वं निमित्तीकृत्य तत्र निरुक्तौ वर्णागमादिना निष्पन्नस्य हंसवाचिहंसशब्दस्य हासकर्तृत्वादियोगलभ्यार्थमादायान्यत्र वर्णागमादिना तादृशरूपमुपपद्यते । किञ्च यादृशतादृशभावमिति व्याख्याने केषामित्या-काङ्क्षायां पूर्वकल्पीयपदार्थानामित्यध्याहारप्रसङ्गः । अध्याहारेऽपि पूर्वसृष्टानां पदार्थानां यथातथाभावं प्रतिसन्धायेति औतचन्द्रिकोक्तस्य, यादृशतादृशभावमिति त्वदुक्तस्य च कथमनेन लाभः । तथात्वे यथातथापदयोः परस्परमनन्वितार्थत्वेनासमर्थसमासत्वापत्तेः ।

औतसिद्धिकारस्तु दूषणार्थं न्यायामृतानुवादावसरे तदनुदाहृतामेव यथातथार्था-न्व्यधादिति श्रुतिमुदाहृत्य पूर्वसृष्टिप्रकारेण सर्जनसमर्थ इति व्याख्यातवान् । तस्यान्यथानु-वादरूपदोषः स्फुट एव । यदपि तद्व्याख्याने उक्तशङ्कापरिहारायार्थतौल्येन श्रुत्यन्तरमेवो-दाहृतमित्यभिहितम् । तदपि न सम्यक् । उपस्थितवाक्यं याथातथ्यत इत्यादेरुपपादन-साकाङ्क्षं विहाय तदुपपादनमकृत्वा श्रुत्यन्तरग्रहणे बीजाभावात् । तस्मान्न्यायामृतवाक्ये तस्य भ्रान्तिरेव । नापि तद्व्याख्यानोक्तमपि युक्तम् । तादृशश्रुतेरनुपलम्भात् ।

यदपि मन्मते यथापदस्य वैयर्थ्यकथनं तथा तद्धितस्यापि तदत्यन्तमसङ्गतम् । यथार्थ-वाच्युक्तशब्दशरीरे तद्वाचियथाशब्दस्याप्रविष्टत्वात् । अन्यथा मापतिशब्दादिघटितत्वेन लोके रमापत्यादिशब्दानामप्रयोगप्रसङ्गात् । न च तथा सत्यस्मदुक्तरीत्या सर्वसार्थक्येनार्थान्तरे श्रुतेर्यथार्थबोधकत्वतात्पर्ये स्वल्पाक्षरघटितपदोपादानं विशिष्टप्रयोगेऽप्यावश्यकं विहाय श्रुतावधिकोपादानं निर्बीजमिति दूषणवाक्यतात्पर्यमिति वाच्यम् । यथार्थार्थकत्वे कस्यापि वैयर्थ्याभावेन सर्वानुपूर्व्या अपि सफलत्वात् । अन्यथा सत्यं ज्ञानमित्यत्र सत्यपद-शरीरनिविष्टेन सद् इत्यंशेनैव यथार्थवस्तुबोधनसम्भवे यमित्यस्य वैयर्थ्यापातेन सत् शुभं यापयतीत्यादिरीत्याऽर्थस्य प्राप्त्या ब्रह्मणः सत्ता न सिध्येत् । एवं ‘त्वमहमस्मि भगवो देवते’ इत्यादौ ‘अथ योऽन्यां देवतामुपास्ते’ इत्यत्र च देवतापदस्य देवार्थकत्वं न स्यात् । देवपदेनैव तद्बोधने ते तामित्यनयोर्वैयर्थ्यप्रसङ्गात् । उक्तदोषेणैवार्थान्तरस्य कथञ्चित्कर्तव्यता-पाताच्च । तस्मादुक्तरीत्या दूषणाभिधानमसङ्गतमेव । तद्धितस्तु भावार्थकतया सार्थकः । तदुपपादितं व्याख्यानावसर एवेति न तद्वैयर्थ्यशङ्कापीति न किञ्चिदेतदित्यन्यत्र विस्तरः ।

ननु सत्यत्वश्रुतयोऽनुवादिका एव । अतः कथं ताभिः सत्यत्वं सिद्ध्यतीति चेन्मैवम् । सत्यत्वस्य त्रिकालाबाध्यत्वरूपस्य प्रत्यक्षेणागृहीतत्वे तद्ग्राहकतया श्रुतीनामनुवादकत्वा-योगात् । ननूपक्रमादितात्पर्यलिङ्गोपेताद्वैतश्रुतिविरोधान्न तत्तात्पर्यकत्वं युक्तमिति वाच्यम् । श्रुत्यर्थविचारप्रवृत्तस्योक्तरीत्या विरोधस्फूर्तौ मिथ्यात्वश्रुतिप्राबल्यग्रहस्यैवानुदयात् । न चोप-क्रमादिभिः स्वार्थतात्पर्येऽवधृते तात्पर्यवद्वाक्यबोध्यनिषेधप्रतियोगिसमर्पकतयाऽर्थक्रिया-कारित्वादिलिङ्गाभासादिप्राप्तसत्त्वानुवादकत्वेन तच्छेषत्वनिश्चय इति वाच्यम् । निर्णीतार्थकानां स्वलूपक्रमादीनां प्रकरणतात्पर्यनिश्चायकत्वं वाच्यम् । तदेव न घटते । द्वितीयवस्तुसामान्यनिषेधे स्वस्यापि मिथ्यात्वप्राप्त्या बोधकत्वं न स्यादित्युपपत्तिविरोधे प्राप्ते तस्यानिर्वचनीयत्व-रूपतृतीयप्रकारसिद्धेः प्रागपरिहार्यतया तस्य च प्रत्यक्षस्वार्थानुमितिभ्याम् असम्भवस्य स्फुटं निरवकाशतया तद्बोधकागमाभावस्य च प्रदर्शितत्वेन प्रेक्षावतां तैस्तत्सिद्ध्यभावात् । उक्त-वाक्यार्थानुपपत्त्यैव तत्कल्पनस्य तदर्थावधारणोत्तरकालिकस्येतरेतराश्रयेण प्रेक्षावतां दुर्घट-त्वात् । अतः सत्यत्वबोधकागमैः स्वार्थबोधनकाले तादृशागमप्राबल्यमूलकविरोधानुपस्थित्या एतेषां प्रत्यक्षानुमानादिविरोधव्याहत्याद्यभावेन स्वर्गकामादिवाक्यवत् स्वार्थनिश्चायकत्वान् निर्णीतार्थकैतद्विरोधेनाद्वैतागमानामेतदविरोध्यर्थान्तरपरत्वस्यावश्यकत्वात् ।

न च स्तुतिपरवाक्यस्थसत्यादिशब्दैर्विश्वसत्यता न सिद्ध्यतीति वाच्यम् । किमत्र स्तुतिपरवाक्यघटकपदानां प्रसिद्धार्थकत्वाभाव इति नियम इति सत्यपदस्य प्रसिद्धार्थकत्वा-भावेन कथञ्चिदन्यार्थपरत्वम् । किं वा प्रसिद्धार्थकत्वेऽपि तद्वाक्यस्य तत्र तात्पर्याभावात् । नाद्यः । येनाश्रुतं श्रुतं भवतीत्यादिषु सर्वत्रार्थवादवाक्येषु विद्यमानपदानामपि प्रसिद्धार्थ-त्यागेनात्यन्ताप्रसिद्धार्थकत्वापातात् । न द्वितीयः । तात्पर्याभावो नाम सर्वथा तत्प्रमानुकूल शक्तिरूपतात्पर्याभावो वा प्रधान्येन तत्प्रतिपत्त्यनुकूलशक्तिरूपतात्पर्याभावो वा । नाद्यः । तादृशवाक्येन तादृशप्रमोदयस्यानुभवसिद्धत्वात् । अन्यथा तद्बोधकपदानामनुपयोगेनाभाव-प्रसङ्गात् । विशिष्टवाक्यं देवताप्राशस्त्यलक्षकमिति न तेन जगति सत्यतासिद्धिरिति चेत् । तर्ह्यर्थवादवाक्यस्यापि प्राशस्त्यलक्षकतया तद्वाक्याधीनावान्तरबोधविषयस्याप्यसिद्ध्या राम-रावणादिसर्वस्वरूपाणामपलापापत्तेः । न चैतद्युक्तम् । भूतार्थवादेभ्योऽप्यबाधितार्थसिद्धे-स्त्वयाऽप्यङ्गीकृतत्वात् । न च जगत्सत्यत्वमपि भिन्नत्वादितर्कविरोधेन मिथ्यात्वानुमान-विरोधेन च बाधितमिति प्रेक्षावतां तन्न सिद्ध्यतीति वाच्यम् । श्रुतीनामिवैषामपि स्वव्याहत्यादिनोत्थातुमशक्यतयेतरबाधनाक्षमत्वात् । ननु श्रुत्यनुमाने परस्परसाहित्येन मिथ्यात्वं निश्चाययती सत्यत्वं बाधिष्यत इति चेन्न । प्रसिद्धप्रकारैर् व्याहतिपरिहारोपाया-भावेनानिर्वचनीयत्वस्य तृतीयप्रकारस्य श्रुत्यनुमानाधीननिर्णयोत्तरसिद्धिकस्य व्याहति-परिहाराक्षमत्वेनोक्तानुमानसचिवश्रुतिभिरपि तदर्थत्वेन मिथ्यात्वानिश्चयात् । अन्यथा ‘प्रजापतिरात्मनो वपामुदखिदत्’ ‘अन्धो मणिमविन्दत’ इत्यादीनां स्वानुकूलपुरुषमति-मल्पितयुक्तिसहितानां स्वार्थनिश्चायकत्वप्रसङ्गात् । नापि मुख्यतया तत्प्रमापकत्वं नास्तीति द्वितीयः पक्षः । मुख्यतया तत्प्रतिपादकत्वाभावेऽपि स्रुक्स्रुवाहवनीयादीनामिव प्रतिपाद्यता-मात्रेण तत्सिद्धिसम्भवात् । न च तेषामिवोपयोगाभावान् नास्य सिद्धिरिति वाच्यम् । प्रमितार्थस्योपयोगाभावेनापह्नोतुमशक्यत्वात् । अन्यथा प्रत्यक्षसिद्धोदासीनानिष्टासिद्धि-प्रसङ्गात् । जगतः सत्यत्वे तत्कर्तुरैन्द्रजालिकादिव्यावृत्तनैजशक्तिसिद्ध्या उत्कृष्टत्वसिद्धा-वुपयोगस्यापि सत्त्वाच्च । न च देवताप्रीत्यर्थं स्तुतिः क्रियते । सा चाविद्यमानगुणकथनेनापि भवतीति किमर्थं वास्तवोत्कर्षसिद्ध्यर्थं; तदुक्तिरिति वाच्यम् । अज्ञानां स्वाविद्यमानगुणकथने स्वस्मिन्नुत्कर्षभ्रमेण स्तावके प्रीतिसम्भवेऽपि सर्वज्ञकल्पानां देवानां स्वाविद्यमानगुण-कथनेनोत्कर्षभ्रमाद्ययोगेन प्रीत्युत्पादायोगात् । प्रत्युतासूयोत्पत्तेरेव प्रसङ्गाच्च । दृश्यन्ते हि लोके महापुरुषा अविद्यमानस्वगुणकथनविद्वेषिणः । अत एवोक्तं विराटपर्वणि

असूयन्ति हि राजानो जनाननृतवादिनः ।

तथैव चावमन्यन्ते नरान् पण्डितमानिनः ॥ इति ।

पामरा अपि स्वासम्भावितगुणवक्तरि अपहासकर्ताऽयमिति विद्विषन्त्येव । नानुरज्यन्ते । तस्मात्सत्यस्तवस्यैव युक्तत्वात् स्तावकवाक्येनापि जगत्सत्यत्वसिद्धिर्भवत्येव । अस्तावक-सत्त्वबोधकैर्वाक्यैः ‘सत्यं भिदा’ ‘तस्योपनिषत्सत्यस्य सत्यं’ इत्यादिभिः ‘अनाद्यनन्तं जगदेतत्’ इत्यादिभिश्च तत्सिद्धिरप्रत्यूहैव । अत्राप्यनन्तत्वकथनेन न चान्यथेत्याद्युत्तरार्धेन बाधाभावप्रतिपादनेनाबाध्यत्वरूपसत्यत्वस्यैवोक्तेः ।

न च सत्यत्वस्य प्रत्यक्षाग्राह्यत्वमते तदवच्छिन्ने कथं शक्तिग्रहः येन शाब्दबोधे तद्भासेतेति वाच्यम् । सत्यं ज्ञानमित्यादावप्यखण्डार्थद्वारीभूतसत्यत्वभानाभावप्रसङ्गेन तदनु-पपत्तेस्तवापि तुल्यत्वात् । अतीन्द्रियगुरुत्वाद्यवच्छिन्नवाचिगुर्वादिपदानामिव कथञ्चित्पूर्व-व्यवहारानुरोथेन शक्तिग्रह इति समाधानस्यापि तुल्यत्वाच्च । न च सन्घट इत्यादिप्रत्यक्षे अबाध्यब्रह्मतादात्म्यभाने ब्रह्मांशे अबाध्यत्वं भासत इति तदवच्छिन्ने शक्तिग्रहः सम्भवतीति वाच्यम् । लौकिकप्रतीतेरावयोर्मतेन नियन्तुमशक्यत्वेन घटादावबाध्यतादात्म्यविषयकत्व-मबाध्यत्वविषयकत्वं वाऽस्तु । उभयथाऽप्यबाध्यत्वविशिष्टविषयकप्रत्ययस्याऽवश्यकत्वेन ममापि शक्तिग्रहसम्भवात् । घटसत्त्वग्रहे बाधकरूपयोग्यानुपलब्ध्यनुपपत्तिरूपबाधकस्य ब्रह्मणि तद्ग्रहेऽपि तुल्यत्वेन सन् घट इत्यादिप्रतीतेरबाध्यत्वांशेऽसाक्षात्कारत्वस्यानुपलब्धत्वस्य वा वक्तुमशक्यत्वाच्च । तदुपहितस्य र्मिथ्यात्वेन स्वतः स्फुरणायोगात् ।

स्यादेतत् । एकमेवाद्वितीयमित्यादिका श्रुतिरपौरुषेयत्वेनोपक्रमस्थत्वादिना च प्राबल्येन गृह्यमाणा स्वस्य मुख्यार्थत्वसिद्धिनिर्वाहायोपस्थितमपि युक्तिविरोधमवधूय द्वितीयसामान्या-भावमेव बोधयति । न तु सजातीयद्वितीयराहित्यादिकम् । मुख्यार्थत्यागप्रसङ्गात् । तथा च यद्यज् ज्ञेयं तत्तत्सत्त्वासत्त्वान्यतरप्रकारोपेतं यत्त्रैकालिकनिषेधप्रतियोगि तन्नार्थक्रियाकारीति व्याप्तिज्ञानप्रामाण्ये श्रुतेर्मुख्यार्थकत्वानुपपत्तिरूपबाधकतर्केण तादृशव्याप्तिज्ञाने प्रामाण्याभाव-निश्चयो वा, श्रुतेर्मुख्यार्थत्वं त्याज्यं वा तादृशनियमग्रहप्रमात्वं त्याज्यं वेति सन्देहे वा तादृशव्याप्तिग्रहमूलकतर्कानुत्थानात्सत्यत्वश्रुतीनामप्यन्यपरवाक्यप्रविष्टानां दौर्बल्यग्रहेण तद्विरोधिज्ञानस्याकिञ्चित्करत्वेनाद्वितीयादिश्रुतिभिर्मिथ्यात्वग्रहो जायते । तदनन्तरभाविनी तृतीयप्रकारादिकल्पना सर्वापि फलमुखत्वान्न गौरवसम्पादिकेति तादृशनिश्चिर्थाद्वैतश्रुति-विरोधान्न सत्यत्वश्रुतीनां स्वार्थपरत्वमिति ।

तदेतदसत् । श्रुतेर्मुख्यार्थत्वलाभमात्रनिर्वाहाय निश्चिताव्यभिचारकनियमग्रहाप्रामाण्य-ग्रहोत्पत्तौ आदित्यो यूप इत्यादिश्रुतिमुख्यार्थलाभानुरोधेनादित्ययूपयोर्भेदावगाहिप्रत्यक्ष-प्रामाण्यसंशयादिनादित्ययूपयोरभेदस्य श्रुत्यर्थतामङ्गीकृत्य तदुपपादकाप्रामाणिकपरम्परा कल्पनीया स्यात् । न च प्रधानवाक्यस्यैवं रीतिरिति वाच्यम् । श्रुतित्वापौरुषेयत्वादिसाम्ये प्रधानवाक्यस्थानि पदानि प्रबलप्रमाणान्तरविरोधव्याहत्यादिसद्भावेऽपि यथाश्रुतार्थकान्येव । अप्रधानवाक्यानि तु प्रमाणान्तरविरोधाभावे मुख्यार्थानि । अन्यथा तु नेत्यत्र त्वद्वचनातिरिक्तनियामकाभावात् । किं च किमिदं प्राधान्यम् । किमनुष्ठेयविधायकत्व-मुतानन्यशेषत्वम् उत सप्रयोजनार्थावगमकत्वमुत प्रकरणादौ पठितत्वम् । नाद्यः । अद्वितीयादि श्रुतेर्विधायकत्वाभावात् । सोमेन यजेतेत्यत्र सोमपदस्य प्रमाणविरोधपरिहाराय सोम-वल्लाक्षणिकत्वाभावप्रसङ्गाच्च । अत एव न द्वितीयः । उक्तविधिवाक्यस्यानन्यशेषत्वात् । एकमेवाद्वितीयमित्यादिश्रुतीनां तत्पदार्थशोधकानां महावाक्यशेषत्वेनोक्तप्राधान्याभावाच्च । नापि तृतीयः स्वाध्यायाध्ययनविधिना सर्वेषामपि वाक्यानां प्रयोजनवदर्थावबोधकत्वस्य दर्शितत्वेन तस्याव्यावर्तकत्वात् । नापि चतुर्थः । ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इत्यस्यावान्तरप्रकणणादिस्थत्वेन कथञ्चितत्सम्भवेऽपि नेह नानेत्यादेस्तथात्वाभावात् । ‘असद्वा इदमग्र आसीत्’ इति वाक्यस्याप्यवान्तरप्रकणणादिस्थत्वस्य सत्त्वेनास्यापि व्याहतिमवधूय यथाश्रुतार्थकत्वप्रसङ्गाच्च । न च तत्प्रमानुकूलशक्तिरेव तत्परत्वमिति वाच्यम् । व्याहतार्थकत्वशङ्कानिरासात्प्राक् द्वितीयसामान्याभावप्रमानुकूलशक्तिमत्वग्रहा-सम्भवात् । सामान्यतः प्रमानुकूलशक्तिमत्त्वग्रहस्य पूर्वोक्तनियमग्रहाप्रामाण्यनिश्चयाहेतुत्वात् । सजातीयद्वितीयराहित्यार्थकत्वेनापि तन्निर्वाहात् । न च बहुश एकप्रकरणे स्थानभेदेन वा पठितानाम् एकजातीयतया प्रतीयमानानां मुखतः प्रतीयमानार्थं विहायान्यार्थल्पने बहुबाधप्राप्त्या तस्यान्यायतया तत्परिहाराय वाक्यप्रामाण्यघटकाज्ञातत्वनिर्वाहकापूर्ववत्त्वेन च द्वितीयसामान्यप्रतिषेधप्रमानुकूलशक्तिमत्त्वनिश्चयो युज्यत इति वाच्यम् । बहूनामपि वाक्यानां व्याहतिसाम्ये तद्बोधे प्रमात्वावधारणोपायाभावेन तदनुकूलशक्तेरपि दुर्ग्रहत्वस्या-परिहार्यत्वेन वाक्यबहुत्वस्याकिञ्चित्करत्वात् । प्रमाणान्तरविरोधाभाव एवापूर्वतायाः प्राबल्य-हेतुत्वात् । अन्यथा बाधितहेतुशतैर्विप्रलम्भकवाक्यशतैरर्थसिद्धिःस्यात् । ननु तानि न निर्दोषाणि । उक्तवाक्यानि त्वपौरुषेयतया निर्दोषाणीति चेत् किं तावता । न हि निर्दोष-वाक्यत्वं श्रुतित्वं प्रधानवाक्यत्वं वा आपाततः प्रतीयमानार्थकत्वव्याप्यम् । व्यभिचार-स्योक्तत्वात् । किन्तु प्रामाण्यव्याप्यम् । तच्चास्मदुक्तरीत्या घटत एव ।

किं चैवं सति ‘नेह नानास्ति किञ्चन’ ‘नेति नेति’ ‘असद्वा इदमग्र आसीत्’ इति बहुवाक्यानुसारात् शून्यतात्पर्यं वेदानां सिद्ध्येत् । तथात्वे इह निरूपितेषु ब्रह्मप्रपञ्चात्मकेषु नाना आनन्दरूपत्वस्वप्रकाशरूपत्वतद्विरुद्धानानन्दादिरूपत्वादिरूपविलक्षणप्रकारोपेतं किमपि ब्रह्मप्रपञ्चात्मकं नास्तीत्यर्थः । नानेत्युक्त्यैव पूर्तौ उक्तार्थे तात्पर्यलाभार्थं सङ्कोचनिरासाय किञ्चनेत्युक्तिः । ब्रह्मणि प्रपञ्चमात्रनिषेधेऽल्पार्थकत्वेन वाक्यस्थकिञ्चनपदस्य ब्रह्मातिरिक्तबोधकत्वप्राप्त्या सङ्कोचप्रसङ्गश्च । नेति नेतीतिद्विरुक्तिबलात्सर्वप्रकारनिषेधलाभे सत्यज्ञानादिस्वरूपभेदलाभेन निःस्वरूपत्वरूपशून्यतायाः प्राप्तत्वात् । अन्यथा सत्यादि-स्वरूपत्वानिषेधे नेति नेतीत्यस्य सङ्कोचप्राप्तेर्द्विरुक्तिवैयर्थ्याच्च । ब्रह्मप्रतिपादकानि वाक्या-न्युक्तवाक्येन निषेधार्थं सुषुप्त्यादिसिद्धाद्वितीयब्रह्मानुवादीन्येव । सर्वस्यारोपितसद्रूपत्वेन व्यवहारोपपत्तौ कस्यचित्सत्स्वभावत्वकल्पने गौरवप्रसङ्गात् । न च ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इतितन्मतनिन्दानुपपत्तिः । एतत्प्रकरणस्य ब्रह्मवादानुवादकतया ब्रह्मवादिभिरेव तस्य निन्दितत्वेन तन्निन्दायाः श्रुत्यनभिमतत्वात् । सर्वस्यापि निषेधे अधिष्ठानं विना भ्रमानुपपत्तिनिःसाक्षिकबाधानुपपत्तिरूपयुक्तिविरोधान्न श्रुतिस्तत्तात्पर्यकेति वाच्यम् । उक्तप्रकारेण शून्यतात्पर्यकश्रुतिमुख्यार्थत्वानुरोधेन ‘यो भ्रमः स साधिष्ठानः’ ‘यो बाधः स ससाक्षिकः’ इति नियमग्रहाप्रामाण्यबुद्ध्युदयेन युक्तिबाधाभावेन शून्यवाक्यार्थनिर्णयानन्तरं फलानुसारेण तन्निर्वाहकसर्वकल्पनापातात् । शून्यतात्पर्यकत्वे अपूर्वतारूपप्राबल्यबीजस्य सत्त्वाच्च ।

ननु निष्प्रयोजनत्वापातान्न शून्ये तात्पर्यं श्रुतेः । ‘ग्लावाणः प्लवन्ति’ इति श्रुतेरिवेति चेन्न । अद्वितीयाखण्डब्रह्मतात्पर्यकत्वेऽपि साम्यात् । न चात्मनो निष्प्रपञ्चतयाऽवस्थानं सुषुप्तौ पुरुषार्थतया दृष्टमिति तदर्थं तत्प्रतिपादनमिति वाच्यम् । नितान्तदुःखाकुलितस्य गलग्रहादिना स्वाभावरूपमरणस्यापि इष्टत्वदर्शनेन स्वरूपाभावरूपशून्यतायाः पुरुषार्थत्वान-पायात् । न च सा देहत्यागेच्छैव न स्वाभावेच्छा । कदापि ‘मा न भूवं भूयासम्’ इति सर्वेषां स्वरूपाभावे द्वेषपूर्वकं स्वरूपेच्छा दृश्यत इति वाच्यम् । देहात्मभेदस्य प्रत्यक्षसिद्धत्वे चार्वाकादीनां देहभिन्नात्मनि विवादायोगाद्देहात्मभ्रम एव लोकानामिति त्वया व्यवस्थापित-त्वेनात्मसत्तापूर्वकं देहत्यागेच्छायास् त्वया वक्तुमशक्यत्वात् । कदापि न स्त्रीपुत्रादिभिर्वियुक्तो भूयासम् । किं तु तद्विशिष्ट एव भूयासमित्यद्वितीयस्वरूपद्वेषपूर्वकं सद्वितीयस्वरूपेच्छाया दर्शनाच्च । न च सा अविवेकिनामेव सोपाधिकस्वरूपविषयिणीति वाच्यम् । भवदिच्छाया अपि तथात्वस्य वक्तुं शक्यत्वात् । न च स्वरूपाभावस्येष्टत्वे लोके मरणे द्वेषो न स्यादिति वाच्यम् । निष्प्रपञ्चतायाः पुरुषार्थत्वे मूर्छायां स्वकुटुम्बहान्यादावपि द्वेषो न स्यादिति समम् । न चात्यन्तिकनिष्प्रपञ्चता पुरुषार्थ एव । मूर्च्छा तु न तथेति वाच्यम् । मरणेऽप्या-रोपितस्वरूपान्तरसत्त्वेन नात्यन्तिकस्वरूपाभाव इति समम् । तर्ह्यात्यन्तिकस्वरूपाभावरूप-मोक्षस्य पुरुषार्थत्वेन मरणेच्छोदाहरणं न युक्तमिति चेत् तर्ह्यात्यन्तिकनिष्प्रपञ्चता न सुषुप्तौ कर्माज्ञानादीनां विद्यमानत्वादिति सुषुप्तीच्छापि नोदाहरणमिति समम् । न च सुखाविषय-कत्वान्न स्वाभावेच्छा सम्भवतीति वाच्यम् । निष्प्रपञ्चतेच्छायामपि तुल्यत्वात् । सुखाभि-व्यक्तिहेतुत्वात्तदुपपत्तिरिति चेद् दुःखाभावसाधनत्वाद्दुःखसाधनप्रतियोगिकत्वात्तथेत्यत्रापि समम् । स्वाभाविकसम्बन्धित्वेनेयं पुरुषार्थः स्यादिति चेद् ब्रह्मस्वरूपस्याखण्डत्वे आनन्दस्यापि तथात्वमिति समम् । स्वयमेव स पुमर्थश्चेदयमपि तथाऽस्तु । विषयविषयि-भावसम्बन्धाभावेप्यनावृतत्वस्यात्रापि वक्तुं शक्यत्वात् । तस्माच्छून्यतात्पर्यावधारणे सर्वोऽपि दोषो ब्रह्मवाद इवोद्धर्तुं शक्य इति शून्यवादाद्बिभ्यता ‘प्रमाणान्तरविरोधव्याहत्याद्यभाव एव वाक्यस्वारस्यापूर्वतादिकं वाक्यतात्पर्यावधारणहेतुः । न तु वाक्यस्वारस्यमात्रदृष्ट्या क्लृप्त-प्रमाणबाधनादिना बहुतरं कल्पनीयं गौरवात्’ इति वक्तव्यम् । तत्सर्वमविशिष्टं त्वन्मतेऽपीति कथमद्वैततात्पर्यावधारणम् । कथञ्च सत्यत्वश्रुतीनां स्वार्थप्रच्युतिरिति त्वमेव चिरं विभावय । भगवति यथा युगपदणुत्वमहत्त्वप्रतिपादकश्रुतीनाम् अव्याहतार्थकत्वं तथोपपादितं सुधायाम् । अत्रापि मय्यनन्तगुण इत्यादिमूलटीकाव्याख्यावसरे विशदीकरिष्यत इति न तत्प्रतिबन्दिरपि ।

इदं सर्वं परमते वाक्यस्य मिथ्यात्वबोधकत्वं यथाश्रुतरीत्या वर्तत इत्यभ्युपेत्योक्तम् । वस्तुतः पदानां मिथ्यात्वबोधकत्वमेव नास्ति कुतस्तत्तात्पर्यकत्वमिति वाचारम्भणश्रुति-व्याख्यानावसरे विवेचयिष्यते ।

अपि चाद्वैतश्रुतीनां तत्र परमतात्पर्यसत्त्वात्तद्विरोधेन सत्यत्वप्रतिपादकश्रुतीनां स्वार्थ-तात्पर्याभावो वा तासां तत्रावान्तरतात्पर्यसत्त्वात् । नाद्यः । तासामखण्डार्थे परमतात्पर्या-भ्युपगमात् । न द्वितीयः । जगत्सत्यत्वप्रतिपादिकानामपि श्रुतीनां तत्सत्यत्वप्रतिपादनद्वारा तत्कर्तूत्कर्षे महातात्पर्यवतीनाम् औतश्रुतिसाम्येन बाध्यबाधकभावायोगात् । न ह्यखण्डार्थ-बोधद्वारीभूतबोधतात्पर्यकश्रुतीनामेव प्राबल्यम् । नोत्कर्षबोधद्वारीभूतबोधपराणामित्यत्र राज्ञामाज्ञास्ति ।

अपि चाखण्डार्थबोधस्य सप्रयोजनत्वे सत्यजगत्कर्तृत्वादिपारमेश्वरधर्मप्रतिपादिका अपि श्रुतयस्तद्द्वारा अखण्डार्थबोधकाः स्युः । तथा च तासामद्वैतश्रुतिसाम्यमेव । सत्यजगत्कर्तृ-त्वादिधर्मबोधः कथमखण्डार्थप्रमाद्वारभूतः स्यादिति चेत् । वेदानामखण्डार्थतात्पर्यग्राहक-मानानुसारेण तस्मिन्नवधृते प्रकृष्टप्रकाशादिवाक्यानामिव सत्यभूतधर्मप्रतिपादनेनापि तत्सम्भवात् । ननु तर्ह्यखण्डार्थसिद्धिर्न स्यादिति चेत् केयं सिद्धिः । ज्ञानं चेत्तदुत्पत्तिप्रकार उक्त एव । तन्निष्ठप्रपञ्चमिथ्यात्वासिद्धिश्चेदिष्टापत्तिः । ननु जगत्सत्यत्वेऽखण्डार्थबोधस्य निष्प्रयोजनत्वं स्यात् । सत्यस्यानिवृत्तिदर्शनादिति चेन्मिथ्यात्वेऽपि तुल्यम् । तादृशानां शुक्तिरजतशशविषाणादीनां नष्टमिति प्रत्ययाभावेन नाशादर्शनात् । ननु तादृशबाधग्रहे जगदप्रतीतिरेव निवृत्तिरिति चेत् । सप्रयोजनत्त्वश्रुतिप्रामाण्यादन्धादीनामिव नैयायिकाभिमत-मुक्तात्मनामिव च विद्यमानजगतोऽप्यदर्शनसम्भवात् । न च सत्यत्वमिथ्यात्वोभयश्रुतीनाम-खण्डार्थद्वारत्वेऽवान्तरतात्पर्यानुरोधादुभयसिद्धौ वस्तुनि विकल्पापत्तिरिति वाच्यम् । एत-द्दोषस्य तवापि तुल्यत्वात् । अर्थक्रियाकारित्वाद्यनुरोधाय मिथ्यात्वश्रुतीनामेव स्तुत्यर्थतया

अवान्तरबोधविषयीभूतार्थे वपोत्खननवाक्यादीनामिव तात्पर्याभावस्य वक्तुं युक्तत्वाच्चेत्यलम् ।

तथा च श्रुतीनां प्रत्यक्षागृहीतसत्त्वपरत्वे औतसिद्धिकृदुक्ताः ‘क्रियासमभिव्याहारेण श्रुतीनां षड्विधतात्पर्यलिङ्गोपेतानां प्राबल्यात्सत्यत्वप्रतिपादिकानां तदविरोधिव्यावहारिक-सत्यपरत्वं वा विशेषतोऽपि देवसम्बन्धिजगतः सत्यत्वादिना निषेधायानुवादकत्वं वा स्तुतिपरत्वं वा अस्तु । श्रुतीनामपि व्यावहारिकप्रामाण्यमस्तु । सत्यकामत्वादिप्रतिपादिका अपि सगुणपरश्रुतयोऽपूर्वार्थका अपि स्वार्थतात्पर्यवदद्वैतश्रुतिविरोधेनैव न स्वार्थपराः । जगत्सत्त्वपराः श्रुतयोऽध्यासे सामानाधिकरण्यपरतया योज्याः’ इत्यादयः प्रत्युक्ताः । तात्पर्यस्यैव दूषितत्वात् । व्यावहारिकप्रामाण्याध्याससामानाधिकरण्यादेरद्याप्यसिद्धत्वा-द्दूष्यत्वाच्च ।

घटादिविश्वसत्यत्वस्य प्रत्यक्षसिद्धत्वेऽपि श्रुतेर्नानुवादकत्वम् । धर्माद्यंशे प्रत्यक्षेणा-प्राप्तत्वात् । तथा च विश्वत्वावच्छेदेन सत्त्वसिद्धिसम्पादकत्वान्न श्रुतेर्वैयर्थ्यम् ।

ननु विश्वत्वं नाम नानुगतधर्मोऽस्ति येन तदवच्छेदेन श्रुतेस्तद्बोधकत्वं स्यात् । न च तावन्मात्रवृत्तिव्यासज्यवृत्तिधर्म एवानुगत इति वाच्यम् । तदवच्छिन्ने सत्त्वादिबोधस्य स्वरूपतो १घटत्वादिधर्मितावच्छेदकतदभावसंशयनिवर्तकत्वानुपपत्तेः । अनुभवसिद्धा च संशयनिवृत्तिः । न च घटत्वपटत्वाद्यवच्छिन्नोपस्थापकमेव विश्वसर्वादिपदम् । तथा च धर्मत्वावच्छिन्ने सत्यताबोधकत्वं युक्तमिति वाच्यम् । तथा सति घटत्वाद्यवच्छिन्ने अनुवाद-कत्वं धर्मत्वाद्यवच्छिन्ने विधायकत्वमिति विरुद्धद्वयापातात् ।

अपि च परमाण्वादौ धर्मादावप्यर्थक्रियाकारित्वादिलिङ्गेन सत्यताया गृहीतत्वादनु-वादकत्वं दुर्वारम् । न च धर्मादिस्वरूपस्यागमेतरेणाप्राप्तेरागमोपजीवने च स्वानुपजीवि-प्रमाणप्राप्तार्थबोधकत्वरूपमनुवादकत्वमागमस्य नास्त्येवेति वाच्यम् । धर्मादिस्वरूपांशे आगमोपजीवनेऽपि तत्सत्यत्वांशे आगमानुपजीवनात्तादृशानुमानप्राप्तविश्वसत्वत्वबोधक-श्रुतीनामनुवादकत्वमेव ।

अपि च धर्मादिस्वरूपबोधकश्रुतिभिरेव तत्सत्ता सिद्ध्यति । तज्जन्यबोधे सत्त्वघटित-प्रामाण्यस्य ज्ञानग्राहकेण गृहीतत्वात् । न ह्यावयोर्मते प्रामाण्यस्वतस्त्वे विप्रतिपत्तिः । तथा च ताभिरेवानुवादकत्वं विश्वसत्यत्वप्रतिपादकश्रुतीनां नेह नानेति प्रतिषेधार्थम् । न तु विश्वसत्यत्वविधानार्थम् । विश्वसत्यतां विना कस्याप्यनुपपत्त्यभावात् ।

किं चाखण्डात्मसाक्षात्कारस्य मोक्षहेतुत्वमभिधीयते ‘एकधैवानुद्रष्टव्यं’ ‘तमेवं विदि-त्वाऽतिमृत्युमेति’ ‘प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते’ ‘स आत्मा स विज्ञेयः’ इत्यादौ ।

अत एव ‘यदि षड्विधतात्पर्योपेतत्वेनाद्वैतश्रुतिप्राबल्यात्प्रत्यक्षादिविरोधं द्वैतसत्यत्वादि श्रुतिविरोधं चावधूयाद्वैतश्रुतिः स्वार्थमवबोधयति तर्हि तत्त्वमस्यहं ब्रह्मास्मीत्यादिरपि विशिष्टाद्वैतमेव बोधयतु । नेह नानेति श्रुतिरपि प्रपञ्चनिषेधबोधमात्रेण पर्यवसन्ना स्यात् । न तु तत्रानुपपत्तिज्ञानसाहित्येन तद्द्वारकाखण्डार्थबोधेन । अनुपपत्तिरूपतर्कस्यापि स्वतात्पर्य-बलेनाकिञ्चित्करीकरणात् । किञ्च ‘एकमेवाद्वितीयं’ ‘स आत्मा तत्त्वमसि’ ‘ऐतदात्म्यमिदं सर्वं’ ‘तत्सत्यम्’ इत्यादिरूपेण बहुवारमभ्यासस्थले यदि स्वतन्त्रद्वितीयादिराहित्यमर्थः स्यात् तर्हि बहुस्थलेषु मुख्यार्थत्यागापत्तिरिति तर्कोत्थापकतया खल्वभ्यासस्य तात्पर्य-ग्राहकत्वम् । तत्रापि यदि अन्ततोऽखण्डार्थलक्षणा तर्हि किमपराद्धं सजातीयद्वितीयादि-रहितलक्षणया । कस्यचित्पदस्य बोधद्वयतात्पर्याद्यभावेन लाघवात् ।

एक एवाद्वितीयोऽसावश्वमेधः क्रतूत्तमः ।

इति भारतादौ ‘एको रुद्रो न द्वितीयोऽवतस्थे’ इति सगुणवाक्यादावखण्डार्थ-बोधकत्वाभावेऽपि उक्तलक्षणादर्शनेन तादृशलौकिकव्यवहारदर्शनेन तादृशलक्षणाया निरूढत्वेन शक्तितुल्यतया तस्या एव युक्तत्वाच्च’ इत्यपास्तम् ।

उदाहृतश्रुतिभिरखण्डार्थबोधस्यैव मोक्षहेतुतावगमेन प्रामाण्यशरीरस्यानधिगताबाधित-सप्रयोजनार्थावगमकत्वरूपतया तन्निर्वाहाय बोधद्वयेऽपि तात्पर्यस्योररीकरणात् तत्राऽद्यबोध-स्याभ्यासानुसाराद् द्वितीयस्य फलानुसाराद् आद्यस्य व्यावहारिकं प्रामाण्यं, अन्त्यस्य तु तात्विकं प्रामाण्यम् । इत्थं च मोक्षोपयोगिज्ञानविषयत्वाभावाज्ज्ञातत्वेऽपि न विश्वसत्यत्वे श्रुतितात्पर्यम् । अत एवापूर्वत्वसफलत्वोपपत्तीनां क्रमेण प्रामाण्यशरीरनिविष्टानधिगतत्व-सप्रयोजनत्वाबाधितत्वनिर्वाहकतया तात्पर्यलिङ्गत्वम् । नैकैकस्य ।

अत एव ‘देवप्रमितत्वाद्युपपत्तिबलात्सत्यत्वश्रुतिः स्वार्थपरा’ इति प्रत्युक्तम् ।

एतेन ‘अपौरुषेयश्रुतेः सादिप्रत्यक्षापेक्षाविरहेण निरपेक्षानुवादित्वेन दैवात्तत्संवादेऽपि न दोषः । देवताधिकरणे त्वत्सिद्धान्तरीत्या मानान्तराविरुद्धदेवताविग्रहसिद्धेर् यः कुक्षिसोम-पातम इत्याद्यन्यार्थकमन्त्रार्थवादादेरिव सत्यताया अपि सिद्धिः’ इति प्रत्युक्तम् । निरपेक्ष-त्वेऽपि प्रयोजनविरहेण तत्र तात्पर्यायोगात् । प्रबलाद्वैतश्रुतिविरोधेन देवताधिकरणन्याया-नवताराच्च’ इति चेत् ।

अत्रोच्यते । विश्वत्वं नाम सर्वजगन्निष्ठव्यासज्यवृत्तिधर्मविशेष एव । तदवच्छेदेन सत्यत्वबोधने तदवच्छेदकत्वेन गृहीततादृशधर्मस्य घटत्वाद्यवच्छिन्ने ज्ञानात्सत्यत्वसंशयो न भवति । एवं धर्मान्तरस्यापि ज्ञाने । न च घटत्वावच्छिन्ने तादृशधर्माग्रहदशायां विश्वं सत्यमित्यादिवाक्यजन्यबुद्धेर्घटादि-धर्मिकतादृशसंशयविरोधित्वमनुभवसिद्धं न स्यादिति वाच्यम् । तादृशधर्माग्रहदशायामिष्टत्वात् । अन्यथा विश्वादिपदं तदादिपदवद् बुद्धिविषयता-वच्छेदकावच्छिन्नोपस्थापकमित्यङ्गीकारे सर्वं प्रमेयं विश्वं प्रमेयमित्यादिवाक्यैर् यावन्तो घटत्वपटत्वादयः स्वरूपतोऽस्वरूपतो वा तत्तदवच्छिन्ननिखिलविषयकबुद्धिरेव नियमेन जायते वा कतिपयधर्मावच्छिन्नविषयिणी वा । आद्ये सर्वपदाधीनबुद्धिप्राक्काले सर्वेषामतीता-नागतव्यक्तीनां तद्व्यक्तित्वादिनाऽप्युपस्थितेस्तेषां तत्कालीनशक्तिग्रहोपयोगिबुद्धिविषयता-वच्छेदकत्वनिर्वाहायावश्यकतया वाक्यजन्यबोधस्याप्यावश्यकतादृशत्वकतया सर्वेषां विशेष-रूपेण ज्ञातत्वात्सार्वज्ञ्यापत्तिः । न चेष्टापत्तिः । तदुत्तरं स्वरूपतस्तदवच्छिन्नगोचर-व्यवहारापत्तेः । सर्वपदजन्यबोधात्प्राक् तावद्धर्मावच्छिन्नोपस्थापकसामग्य्रभावेन शक्ति-ग्रहासम्भवाच्च । न द्वितीयः । तदादिपदघटितवाक्यवत् सर्वः कपालजन्य एतत्कपालजन्य इति वाक्येन घटमात्रे तद्धटमात्रे वा तादृशविधेयावगाहिबोधापत्तेः । एकद्विमात्रबोध-मात्रनिर्वाहाय सर्वपदघटितवाक्यस्य कुत्राप्यप्रयुज्यमानतयेष्टापत्तेः कर्तुमशक्यत्वात् । न च धर्मत्रयमारभ्यैव सर्वपदस्य बोधकत्वम् । तन्निर्वाहाय किञ्चिन्नियामकं कल्प्यत इति वाच्यम् । तथा सति पृथिव्यादिचतुष्टयमात्रबोधाय प्रयुज्यमानं सर्वं स्पर्शवदिति वाक्यं प्रमाणं स्यात् । न हि कश्चित्तथा प्रयुङ्क्ते । तथा प्रयोगाङ्गीकारे त्वत्पक्षे मुख्यार्थकत्वं दुर्वारम् । मन्मते विशेष्यवाचकपदासमभिव्याहृतसर्वपदस्य केवलान्वयिव्यासज्यवृत्तिधर्मावच्छिन्नबोधकत्वाद् अन्यत्र तु विशेष्यतावच्छेदकव्यापकव्यासज्यवृत्तिधर्मावच्छिन्नबोधकत्वादुक्तप्रयोगो नास्त्येव । अस्ति चेत् कथञ्चित्तन्मात्रवृत्तिव्यासज्यवृत्तिधर्मावच्छिन्नलाक्षणिकतया वा तादृशविशेष्य-वाचकपदाध्याहारेण वा निर्वाह्य इति तादृशप्रयोगस्यामुख्यत्वं सर्वसम्मतं सङ्गच्छते । अत एव सर्वेभ्यो दर्शपौर्णमासाविति वाक्ये सर्वपदं प्रक्रान्तपशुत्वपुत्रत्वाद्यन्यतमरूपावच्छिन्नत्व-व्यापकव्यासज्यवृत्तिधर्मावच्छिन्नपरम् । एतेभ्य इति विशेष्यपदं वा स्फुटत्वाच्छ्रुतावनुक्तमपि बोद्धॄणां प्रतीयते । न हि तत्र सर्वपदमसङ्कुचितार्थकमिति कस्यापि प्रेक्षावतः प्रत्ययः । त्वन्मते तु मुख्यार्थात्यागेन सङ्कुचितत्वानुपपत्तेः । न च सर्वपदस्य मुख्यार्थकत्वेऽपि तस्य सर्वबोधकत्वात्तेन सर्वेषामबोधेन सङ्कुचितत्वव्यवहार इति वाच्यम् । घटादिमात्रबोधकतदादि-पदस्थलेऽपि तादृशव्यवहारापत्तेः । अनन्तानन्तनिखिलरूपेण विशिष्टतत्तद्वस्तुबोधस्य कस्या-प्यनुदयेनासङ्कुचितार्थकसर्वपदप्रयोगस्यैव लोकेऽलीकत्वापत्तेः । सर्वं प्रमेयं परमार्थमित्याकारा या प्रमा तदवच्छिन्नभेदस्यैव मिथ्यात्वनिरुक्तौ त्वया निविष्टताया उक्तत्वेन तच्छब्दोल्लेख्य-बुद्धेर् घटत्वपटत्वाद्यवच्छिन्ने परमार्थत्वावगाहित्वप्राप्त्या तस्य प्रमात्वोक्तेरसङ्गतेश्च । तादृशधियो ब्रह्मत्वमात्रावच्छिन्नमात्रविषयत्वे धर्मत्रयादिबोधकत्वं न त्वेकद्व्यादिबोधकत्व-मिति नियमभङ्गः । तत्त्यागेऽपि सिद्धसाधनता । ब्रह्ममात्रविषयकबुद्ध्यवच्छिन्नभेदस्य जगति त्वया मयाप्यङ्गीकृतत्वात् ।

न च सर्वेभ्य इत्यत्र विशेष्यपदाध्याहारे कथं सङ्कुचितार्थत्वम् । शक्त्या स्वार्थात्यागादिति वाच्यम् । शुद्धस्य केवलान्वयिधर्मत्वावच्छिन्नबोधकतया विशेष्यसमभिव्याहारे तत्त्यागेन विशेष्यतावच्छेदकव्यापकसर्वत्वमात्रबोधकत्वेन तथा व्यवहारोपपत्तेः । न च तादृशसर्वत्वस्य जन्यतानवच्छेदकतया पशुत्वादेश्च तदर्थतानवच्छेदकतया कथं तदवच्छिन्ननिरूपितकारणता यागे प्रतीयेत । तां विना कथं तदनुष्ठाने प्रवृत्तिरिति वाच्यम् । तदुपलक्षितनिरूपित-कारणताया एव तत्र प्रतीयमानत्वात् । अन्यथा पशुत्वादेस्तदजन्यपशुपुत्रादिसाधारणतया जन्यतानवच्छेदकत्वेन तवाप्यगतेः । न च पश्वादिनिरूपितप्रत्येककारणत्वाबोधेन तादृश-सर्वत्वाश्रयनिरूपितैककारणताबोधेन विधेयभेदाभावाद्विधेयभेदमाशङ्क्यैकपदोपात्तत्वरूप-समाधानस्य वार्तिककृदुक्तस्यासङ्गतिरिति वाच्यम् । वाक्यानां फलीभूतबोध एव पर्यवसितत्वेन तादृशबोधेऽनुष्ठानोपयोगिपश्वादिवृत्तिवैजात्यावच्छिन्नकार्यतानिरूपितकारणता-भानस्व तव ममाप्यावश्यकतया तमादायैव शङ्काया एकपदोपात्तत्वेन समूहालम्बनशाब्द-जनकत्वरूपदोषाभाववत्त्वरूपसमाधानस्य च सङ्गतेः ।

किञ्च भवन्मतेऽपि सर्वपदस्योपस्थितकतिपयरूपावच्छिन्नबोधकत्वे यत्र सर्वं सत्यमिति वाक्येन यादृशरूपावच्छिन्नानां बुद्धिस्थता तत्रैव सत्यत्वग्रहोदयेन तदन्यरूपावच्छिन्ने सत्यत्वादिसंशयानिवृत्तिस्तादृशवाक्यजन्यबोधोत्तरमिष्टैवेति, ममापि तत्र विश्वत्वाग्रहकाले तादृशसंशयाङ्गीकारे किं बाधकम् । परं तु तादृशकेवलान्वयिसर्वत्वग्रहः सर्वरूपावच्छिन्नेषु सर्वदा वर्तत एव । अत्यन्ताभावाप्रतियोगिव्यासज्यवृत्तिधर्मत्वेनैव तत्पदार्थतावच्छेदकत्वात् । न तु तत्तद्धर्मावच्छिन्नसमुदायत्वेन । असर्वज्ञदुर्ज्ञेयत्वप्रसङ्गात् । नापि व्यासज्यवृत्तिधर्मत्वेन । द्वित्वत्रित्वादीनामव्यावृत्तेः । तथा च तादृशसंशयः प्रायो न भवत्येव । तवैव परं स दुर्वारः ।

अपि च सर्वा पृथवी गन्धवतीत्यादिवाक्येन घटत्वावच्छिन्नपृथिवी गन्धवती पटत्वा-वच्छिन्नपृथिवी गन्धवतीति बोधस्त्वयाङ्गीकार्यः । तथा च घटत्वसामानाधिकरण्येन गन्धाव-गाहित्वात्तत्सामानाधिकरण्येन संशयानिवृत्तिप्रसङ्गः । मन्मते तु गन्धव्याप्यत्वेन गृहीतसर्वत्व-वत्पृथिवीत्वस्य घटे ग्रहादेव तत्संशयानुदयः । घटे पृथिवीत्वाग्रहकाले तादृशवाक्यस्य तत्संशयानिवर्तकतायास्तवापि सम्मतत्वात् । तस्माद्विश्वत्वरूपैकधर्मावच्छेदेन सत्यत्व-बोधकत्वे न काचिदनुपपत्तिः ।

यदपि विश्वपदस्य घटत्वादिरूपेण बोधकत्वपक्षे ‘घटादौ परमाण्वादौ च सत्त्वबोधने घटाद्यंशेऽनुवादकत्वमन्यांशे विधायकत्वं स्यात्’ इत्यभिहितं तत्तुच्छम् । स्वमतेऽपि नेह नानेति नेति नेतीत्यादिश्रुत्या शुक्तिरजतादेर् ब्रह्मण्यारोपितक्षणिकत्वादेर्मिथ्यात्वबोधने तदंशे सिद्धत्वेनानुवादकत्वमितरांशे विधायकत्वमित्युक्तदोषसाम्यात् । न च तासां श्रुतीनां तात्पर्यबलात्सिद्धार्थं विहायासिद्धार्थबोधकत्वं यद्वा प्रपञ्चसत्त्वमात्रनिषेधकत्वम् । तेनैव तन्मिथ्यात्वसिद्धौ घटादीनां मिथ्यात्वबोधने तात्पर्याकल्पनात् । अतो नानुवादकत्वमिति वाच्यम् । अस्या अपि श्रुतेः सिद्धघटाद्यंशं विहायासिद्धपरमाण्वाद्यंशे एव सत्यत्वबोध-कत्वाङ्गीकारात् । विश्व एव सत्यत्वबोधनेन सर्वसत्त्वसिद्धौ विशिष्यापि घटादौ परमाण्वा-दावपि तद्बोधने तात्पर्याकल्पनादिति साम्यात् । न च धर्मादावनुमानादिना सत्त्वप्राप्तिर-स्तीति वाच्यम् । प्रपञ्चमिथ्यात्वस्यापि दृश्यत्वानुमानादिना ब्रह्मसत्यत्वस्यापि भ्रमा-धिष्ठानत्वबाधावधित्वादिलिङ्गेन प्राप्तत्वेन तन्मिथ्यात्वसत्यत्वश्रुतीनामप्यनुवादकत्वप्रसङ्गात् ।

श्रुतिसाहित्यं विना मिथ्यात्वसत्यत्वे न सिद्ध्यतः । अनुमानस्य दुष्टत्वात् ।

‘‘उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचौ’’ ।

इत्यक्तेः । तत्साहित्ये तु स्वापजीवकेन न स्वस्यानुवादकत्वमिति चेत् समं धर्मादि-सत्त्वानुमानस्येति न तत्सत्त्वश्रुतेरनुवादकत्वम् ।

यच्च ‘अनुमानेन ब्रह्मसत्त्वसिद्धावपि न तद्द्वारकाखण्डार्थबोधकत्वमनुमानस्य । तत्सत्य-मिति श्रुतेश्च तद्द्वारकाखण्डार्थबोधकत्वान्नानुवादकत्वम्’ इति । तत्तुच्छम् । सत्यत्वांशे अनुवादकत्वापरिहारात् । धर्मादिसत्त्वश्रुतेरपि तथा वक्तुं शक्यत्वाच्च । अनुमित्यभिलापक-ब्रह्म सत्यमिति शब्देन तात्पर्यवशादखण्डार्थबोधसम्भवेन अखण्डार्थस्यापि सिद्धेत्वेनानु-वादकत्वापरिहाराच्च । न च श्रुतिजन्यबोध एवाज्ञाननिवर्तको न लौकिकवाक्याधीनः । अतोऽज्ञाननिवर्तकबोधजनकत्वान् न श्रुतेरनुवादकत्वमिति वाच्यम् । विश्वसत्यत्वश्रुतेरपि तथैवेत्यवेहि । न च जडे नाज्ञानमिति वाच्यम् । धर्मं न जानामीत्यनुभवेन तत्रापि तस्या-वश्यकत्वात् । न च धर्मस्वरूपबोधकैरेव तत्सत्यत्वावगमात्तेनास्यानुवादकत्वम् । अन्यथा सत्त्वघटितप्रामाण्यस्य स्वतस्त्वं न स्यादिति वाच्यम् । त्रिकालाबाध्यत्वस्येव व्यवहारकाला-बाध्यत्वस्यापि प्रत्यक्षेणानुपलब्ध्या वा गृहीतुमशक्यत्वस्व त्वन्न्यायेन सिद्धतया तद्धटितस्य प्रामाण्यस्य स्वतो ग्राह्यत्वस्य वक्तुमशक्यत्वात् । अज्ञातमिथ्यात्वकघटविषयकत्व-रूपप्रामाण्यग्रहस्यैव प्रवृत्त्युपयोगितायास्त्वयोक्तत्वाच्च ।

अपि च धर्माद्यंशेऽपि त्रिकालाबाध्यत्वघटितप्रामाण्यं धर्मादिस्वरूपबोधकश्रुतिजन्य-बोधनिष्ठं चेत्सिद्धं नः समीहितम् । तेनैव धर्मादीनां पारमार्थिकसत्त्वसिद्ध्या मिथ्यात्व-श्रुतेर्बाधः । व्यावहारिकसत्त्वं घटकं चेत् तदगृहीतपारमार्थिकसत्त्वावगाहिन्या विश्वं सत्य-मित्यादिश्रुतेः कथमनुवादकत्वम् । अपि च ब्रह्मस्वरूपबोधकब्रह्मादिपदजन्यबोधे तत्सत्त्व-विषयकत्वभावात् तत्सत्यमित्यादिश्रुतेरनुवादकत्वं दुर्वारमेव ।

यदपि ‘जगत्सत्यत्वादिज्ञानस्य निष्प्रयोजनत्वम् । तत्सत्यतां विना कस्याप्यर्थस्यानु-पपत्त्यभावात्’ इति तदपि न । तां विना तत्प्रेरकत्वादिभगवद्गुणानां सत्यत्वासिद्ध्या मिथ्याज्ञानस्यानर्थहेतुत्वेन तादृशगुणविशिष्टभगवज्ज्ञाने मोक्षहेतुत्वस्य श्रुत्युक्तस्यानुपपत्तेः सत्त्वात् । तथा हि श्वेताश्वतरश्रुतिः

पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्तेनामृतत्वमेति । इति ।

जुष्ट इति तृतीयायाः सुपां सुलुगिति स्वादेशः । जुषी प्रीतिसेवनयोरिति धातोः स्व-सेवितेन तेन परमात्मना तत्प्रसादद्वाराऽमृतत्वमेतीत्यर्थः । यद्वा मत्वा ज्ञात्वा साक्षात्कृत्य वा । तेन साक्षात्कारेण साक्षात्कृतपरमात्मना वा । जुष्टः प्रीतस्तुष्टः । प्रारब्धकर्माद्यप-गमेनोत्तरत्रालेपेनेत्यर्थः ।

ननु तद्वक्यस्य तत्वमतेः प्राक् प्रेरकत्वेन पृथक्त्वेन चोपलभ्यमानमात्मानमखण्डस्वरूपं ज्ञात्वेत्यर्थः । एकधैवानुद्रष्टव्यमिति कैवल्यरूपपारिभाषिकैकत्वावच्छिन्नवाच्येकशब्दोत्तरं धाल्प्रत्ययान्तशब्दघटितया श्रुत्या शुद्धात्मज्ञानस्यैव मोक्षहेतुत्वावगमात् । यद्वा प्रेरकत्वादि-गुणविशिष्टं ज्ञात्वेत्यर्थः । सगुणज्ञानस्य मोक्षं प्रति परम्परोपयोगस्य मयाप्यङ्गीकृतत्वात् । अत एव जुष्ट इत्युक्तम् । तेन प्रेरकत्वादिगुणवत्तया ज्ञातेन परमात्मना जुष्टः ब्रह्मलोकप्रापणादिना प्रीतस् तत्समाप्त्यनन्तरममृतत्वमेतीत्यर्थः । तथा च तस्य ब्रह्मलोकादिहेतुत्वमेव श्रूयते । तथोत्तरत्रापि

उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च ।

अत्राऽन्तरं वेदविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥

तदिवात्मत्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ।

यदात्मतत्वेन तु ब्रह्मतत्वं दीपोपमेनेह युक्तः प्रपश्येत् ॥

इत्युत्तरवाक्यैरभेद एवोच्यते ।

श्रुत्यर्थस्तु, प्रेरितारं मत्वा मुच्यत इति यदुक्तं तदुद्गीतमात्रम् । न तु मुक्तेः साक्षात्कारण-बोधकम् । परमं शुद्धं तु ब्रह्म वेदविदो विदित्वा वेदान्तवाक्यस्य तात्पर्यज्ञानद्वारा निश्चित्य साक्षात्कृत्य शुद्धब्रह्मणि लीना उपाधिमात्रोच्छेदेन शुद्धब्रह्मणैकीभूता योनिमुक्ता जन्महीना भवन्तीति साक्षान्मुक्तिकारणोक्तिरित्यर्थः । कीदृशं परमं तत्राह । तस्मिन्परमे त्रयं स्थूलसूक्ष्मपञ्चीकृतभूतानि स्वप्रतिष्ठम् अनादि अक्षरम् अव्याकृतं चेत्येतानि सन्ति । अत्र एतेषु आन्तरम् अधिष्ठानम् । श्वेताश्वतरीयोक्तवाक्यं प्रथमाध्याये । तदिवात्मत्वमिति वाक्यं द्वितीयाध्यायस्थम् ।

युक्तस् त्रिरुन्नतमित्यादिना पूर्वोक्तयोगविशिष्टः सन् । दीपोपमेन स्वप्रकाशेन येनात्मन-स्तत्वेनानारोपितरूपेणाभिन्नं ब्रह्मणस्तत्वं प्रपश्येत् तत्तु तदखण्डमेव प्रकर्षेण श्रवणाद्युत्तरं सम्यग्वेदान्तवाक्येन ईक्षित्वा एको द्वितीयशून्यः कृतार्थः भवति तदेव ब्रह्म प्राप्नोति भू प्राप्तविति स्मृतेरिति । तथा चाखण्डात्मज्ञानस्यैव मोक्षहेतुत्वमनया श्रुत्योच्यता इति चेन्न ।

मतेः पूर्वं पृथक्त्वेन ज्ञातमित्याद्यव्याख्यानस्य श्रौताक्षरासंस्पर्शिनो हेयतायाः स्फुट-त्वात् । पृथगात्मानमित्यस्य द्वितीयव्याख्यानमस्तु नाम । तथाप्युद्गीतमित्यादेस्त्वदुक्तोऽ-र्थोऽसङ्गत एव । तथा च पृथगात्मानमित्यनेन भेदज्ञानेनामृतत्वप्राप्तेरन्तत उक्तावपि तस्य तत्कारणत्वं सिद्ध्यत्येव । एतदन्यथासिद्धिनिर्वाहकस्य मध्ये कारणान्तरस्याखण्ड-साक्षात्कारादेरङ्गीकारे मानाभावात् ।

ननूद्गीतमेतदित्यादेः कुतो नोक्तार्थ इति चेन्न । यत उद्गीतमित्यस्योद्गीतमात्रमित्यर्थ-कल्पनेऽश्रुतकल्पनमात्रान्तर्भावः । प्रेरकत्वपृथक्त्वज्ञानस्य मोक्षहेतुत्वं स्वयमेवाभिधाय पुन-स्तन्निषेधे व्याहतिप्रसङ्गात् । न च ब्रह्मलोकप्राप्त्यादिरूपफलमेवोच्यत इति वाच्यम् । तथा सति जुष्टो भवतीत्येव वक्तव्यं स्यात् । न तु तेनामृतत्वमेतीति । अनुपयोगात् । वस्तुतस्तस्यैव मुख्यतया फलत्वप्रतीतेश्च । न च परम्परया तत्फलमिति वाच्यम् । तावतापि भेदज्ञानादेः सप्रयोजनत्वप्राप्त्या व्रीह्यवघातप्रोक्षणादिवाक्यवज् जगत्सत्यत्वादिप्रतिपादक-वाक्यानां स्वार्थे तात्पर्यानुपायान् न चेदं न स्वमतम् । किं त्वन्यमतमेवानूद्यत इति वाच्यम् । सादिमतानामनादिश्रुत्या अनुवादानौचित्यस्य त्वयैव भाषितत्वात् ।

श्रुतिप्राप्तस्यैव श्रुत्या निषेधे श्रुत्योरेव व्याहतिप्रसङ्गः । श्रुतितात्पर्याज्ञानप्राप्तं निषिद्ध्यत इत्यपि न सत् । इति गुह्यतमं शास्त्रमित्यादिना परमाप्ततमेन भगवता स्वप्रियमर्जुनं प्रति क्षराक्षरादिविलक्षणत्वादिविशिष्टस्वस्वरूपस्यैव शास्त्रपरमतात्पर्यविषयतायास् तज्ज्ञानस्य मोक्ष-हेतुतायाश्चोक्तत्वेन तस्य श्रुतितात्पर्याज्ञानाप्राप्तत्वात् । न चाखण्डार्थबोधस्य मोक्षहेतुत्व-श्रवणात्तस्याप्यन्योर्थः कल्प्यत इति वाच्यम् । तादृशश्रुतेरेवाभावात् । एकधेति श्रुतौ धाल्प्रत्ययबलेन सप्रकारकज्ञानस्यैव प्राप्तेः । अधिकस्याखण्डार्थभङ्गे वक्ष्यमाणत्वात् । भेदस्य निन्दितत्वे तज्ज्ञानस्य ब्रह्मलोकप्राप्तिकारणत्वस्याप्ययोगाच्च । तस्याऽपुनरावृत्तिसम्पादकतया महाफलरूपत्वात् ।

एवं स्वप्रतिष्ठेत्यस्यानादिरिति व्याख्यानमुदक्षरम् । ब्रह्मान्यस्य सर्वस्य विनाशित्वा-दक्षरत्वं बाधितम् । लीना ब्रह्मणीत्यत्राधिकरणसप्तम्या तत्परा इति तदासक्तिरूप-तद्भक्त्युक्त्या च स्फुटं भेदावगमात् ‘उपाधिविनिर्मोकेण ब्रह्मणैकीभूताः’ इति व्याख्यानम-सङ्गतमिति स्फुटमेव । त्रयामित्यस्य सूक्ष्मस्थूलेत्यादिव्याख्याप्यप्रामाणिकी । घटादि-त्रयस्यापि ग्रहणसम्भवात् । अत्राऽन्तरमित्यस्याधिष्ठानमित्यर्थोप्यप्रामाणिक उदक्षरश्च । द्वितीयमन्त्रेऽपि आत्मनस्तत्वेनाभिन्नं ब्रह्मरूपमिति व्याख्यानमसत् । अभिन्नमित्यश्रुत-कल्पनस्य स्फुटत्वात् । तदखंण्डमेवेति व्याख्यापि तथैव । इवशब्दस्यावधारणार्थतया व्याख्यानात् ।

तस्मान्नायं श्रुत्यर्थः । किं तु पृथक्त्वतत्प्रयोजकप्रेरकत्वादिगुणविशिष्टात्मज्ञानस्य मोक्षहेतुत्वेऽभिहिते शङ्कोदेति । किमयं राजादिवत्स्वप्रेरक आत्मा कश्चन देवादिः स्यात् । तज्ज्ञानस्यापि मोक्षहेतुत्वमनेनोच्यते उत कस्यचिन्नियतस्यैव । नियतोऽपि स कश्चिद्ब्रह्मान्यो बहिष्ठश्च स्यात् तदा ‘ब्रह्मविदाप्नोति परं’ इति श्रुतिः ‘यो वेद निहितं गुहायाम्’ इति श्रुतिश्च बाध्यत इत्याशङ्क्य स्वाभिप्रायं व्यनक्ति । उद्गीतं मोक्षहेतुज्ञानविषयत्वेनोत्कृष्टतया गीतं प्रतिपादितम् एतदात्मरूपं वस्तु । ‘दक्षिणान्नं वनुते यो न आत्मा’ इत्यादि-वद्विधेयापेक्षया प्रकृते नपुंसकलिङ्गता । परमं तु ब्रह्म परमेव ब्रह्म । न त्वन्यः कश्चन । येन ब्रह्मविदित्यादिश्रुतिविसंवादः स्यात् ।

ननु प्रेरकत्वादिरूपगुणविशिष्टः पूर्वमुक्तः । ब्रह्म तु शुद्धम् । अतः कथं तयोरैक्यमित्या-शङ्क्यैतदन्यच्छुद्धमप्रामाणिकम् । तदेवैतादृशमित्याह ॥ तस्मिन्निति ॥ त्रयम् ऊर्ध्वाधरमध्य-रूपलोकत्रयान्तर्गतं सर्वं भूतभवद्भविष्यदात्मकं सर्वम् । स्वप्रतिष्ठाक्षरमित्येकपदं बहुब्रीहिः । तादृशलोकत्रयादिप्रतिष्ठापकाक्षरशब्दवाच्यश्रीतत्वसहितं च नियम्यतया स्थितमित्यर्थः । यद्वा स्वप्रतिष्ठपदेनैव श्रीतत्वं गृह्यते स्वातन्त्र्यात्स्वशब्दवाच्यः परः प्रतिष्ठा यस्येति व्युत्पत्त्या । ब्रह्माक्षरं नाशरहितमित्यर्थः । ‘यदूर्ध्वं गार्गि दिवो यदर्वाक् यदन्तरा द्यावापृथिवी यच्चान्यद्भूतं भवद्भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतं च एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च पोतश्च’ इति श्रुतिरेवोक्तव्याख्याने मानम् । तत्किं राजादिवद्बहिरेव स्थितमित्या-काङ्क्षां शमयन्मन्त्रवर्णविरोधापनुत्तये गुहानिहितत्वमपि दर्शयितुमाह । तत्र एतेषु । आन्तर-मन्तरमिति वा पदछेदः । तथात्वे अन्तः स्थितमन्तः स्थित्वा रमणकरमिति च क्रमादर्थः ।

अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः ।

इत्युक्तेः । ‘यः पृथिवीमन्तरो यमयत्येष त आत्मा’ इति श्रुतेरुक्त एवान्तरपदार्थो नाधिष्ठानत्वादिः । वेदविदस् तात्पर्यज्ञानिनः । विदित्वा तत्पराः श्रवणादिमाहात्म्यज्ञानेन विषयवैराग्यपूर्वकं तदासक्त्यात्मकस्नेहरूपभक्तिमन्तः । ततो ब्रह्मणि लीनास् तदेकध्यानरता अपरोक्षज्ञानद्वारा योनिमुक्ता जन्मादिराहित्यरूपमुक्तिभाजो भवन्तीति प्रथमाध्यायस्थ-वाक्यार्थः ।

द्वितीयाध्यायस्थवाक्यस्य तु यदा यत्काले आत्मतत्वेन आत्मनः स्वामिनस् तत्वेन नियामकत्वोपयुक्तपूर्णगुणत्वादिना ब्रह्मतत्वं परब्रह्मस्वरूपं प्रपश्येन् निश्चिततया जानाति विषयीकरोति वा तेन दीपोपमेन करणत्वार्थकतृतीयाबलाद्दीपसदृशं निर्मलं मनो लभ्यते । अर्थान्तरपक्षेऽपि दीपसदृशं निर्मलमविच्छिन्नधारं ध्यानात्मकज्ञानं लभ्यते । अनन्तरं देही तदा तत्काले आत्मत्वं स्वामित्वं स्वध्येयगुणं तदन्तर्भूतस्वयोग्यगुणांश्चेत्यर्थः । आत्मत्वस्य तृणजीवमारभ्य सर्वजीवसाधारण्येनावश्यकत्वेन च प्राधान्यात्तस्यैव स्वशब्देन ग्रहणम् । प्रसमीक्ष्य अपरोक्षीकृत्य तद्विशिष्टेश्वरमपरोक्षीकृत्येत्यर्थः । ब्रह्मणोऽपरिच्छिन्नत्वात्तज्ज्ञानो-पासनादि न साकल्योपेतम् । योग्यतानुसारित्वरूपाल्पत्ववदेवेति बोधनायाल्पत्वार्थकेव-शब्दप्रयोगः । तस्य प्रसमीक्ष्येत्यनेनान्वयः । भुक्तमिवेति यथा । गुणगुणिभेदवारणाया-खण्डार्थविषयकज्ञानवारणाय शाब्दापरोक्षवारणाय करणप्रकारादीनामुक्तिः । एकः पूर्वोत्तराघ-विनाशाश्लेषादिबलान्नानाजन्मादिसम्पादककर्मादिकृतवैषम्यरहितत्वेनैकप्रकारोपेतः । ततो वीतशोकः भगवत्प्रसादद्वारा शोकसाधनलिङ्गदेहभङ्गवान् । कृतार्थः निष्पादितस्वरूपानन्दा-विर्भावरूपप्रयोजनवान्भवतीत्यर्थः । ‘यदा पश्यः पश्यते रूग्मवर्णम्’ इति श्रुत्या प्रायः संवादादुक्त एवार्थः ।

इयं च परेण स्वग्रन्थे यथा पठित्वा व्याख्याता तदनुसारेण द्वितीयाध्यायस्थश्रुतिव्याख्या प्रदर्शिता । वस्तुतः द्वितीयाध्याये

यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधातम् ।

तदिवाऽत्मतत्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥

यदाऽऽत्मतत्वेन तु ब्रह्मतत्वं दीपोपमेनेह युक्तः प्रपश्येत् ।

अजं ध्रुवंसर्वतत्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥

इति मन्त्रद्वयपाठः पुस्तकेषु दृश्यते । तत्राद्वैतचन्द्रिकाकारोक्तं यदाऽऽत्मतत्वेन तदिवाऽत्मतत्वमित्यनयोः परस्परान्वितार्थकत्वमयुक्तम् । तदुक्तरीत्या परस्परान्वितार्थकत्वे यथैव बिम्बमित्येतद्दृष्टान्तवाक्यस्यान्वयाभावः । तत्पूर्वं

पञ्चात्मके योगगुणे प्रवृत्ते न तस्य रोगो न जरा न मृत्युः । इत्यारभ्य

गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमं वदन्ति ।

इत्यनेन योगप्रवृत्तिफलकथनस्य समापिततत्वेन तेन सहान्वयाप्रतीतेः । अजं ध्रुवमिति चरमवाक्यस्य पूर्वेण सहान्वितार्थकत्वाभावादसङ्गतिश्च स्यात् । अतो नायं योजनाप्रकारः ।

किं तु जरामरणाभावरूपमोक्षात्मकफलं योगस्य यदुक्तं तदसम्भावितम् । अहमज्ञो दुःखीत्याद्यबाधितप्रतीतिसाक्षिकाज्ञत्वदुःखित्वादिस्वभावस्य जरामरणाभावोपलक्षितसर्वदुःख-निवृत्तिरूपमोक्षायोगात् । मोक्षस्य योगफलत्वे ज्ञानमात्रसाध्यत्वबोधकश्रुतिविरोधश्चेत्या-शङ्कापरिहाराय ‘अज्ञानादिकं जीवस्यास्वाभाविकम् । योगपरिपाकवतां ब्रह्मज्ञानद्वारैव मोक्षो योगफलत्वेनाभिसंहितः । अतो न कश्चिद्दोषः’ इति प्रतिपादयितुं मन्त्रद्वयम् ।

तदर्थश्च बिम्बपदं लक्षणया आदर्शादिरूपस्वच्छद्रव्यपरम् । लक्षणाबीजभूतसम्बन्धस्तु बिम्बसदृशग्राहित्वम् । तेन स्वच्छत्वलाभाल्लाक्षणिकप्रयोगसाफल्यम् । तदिति श्रवणाद्यदिति लभ्यते । यथाशब्दस्य यथास्थितरूपेणेत्यर्थः । तथा च यद्बिम्बं स्वच्छद्रव्यं मृदयोपलिप्तं मृत्तिकयोपलिप्तम् । हलन्ताट्टाप् । मृदयोभ्यामुपलिप्तमिति वा । मृदयःशब्दौ निबिडाति-निबिडद्रव्योपलक्षणौ । अयःशब्दस्य सलोपश्छान्दसः । द्विरूपकोशसिद्धायशब्दो वाऽयम् । तदेव द्रव्यं सुधातं सुधौतम् । औकारस्याऽकारछान्दसः । धावतेः शुद्ध्यर्थादौणादिकः कर्मणि डाजज्वा । सम्यक् प्रक्षालितम् । तेजोमयं प्रकाशप्रधानं सद्यथा यथास्थितरूपेण भ्राजते स्फुरति । आत्मतत्वमपि तदिव स्वरूपतः स्वच्छमविद्याकामकर्मादिभिरस्वाभाविकैरावृतं तदपगमे स्वप्रकाशतया स्फुरति । प्रसमीक्ष्य सान्निद्ध्यात्पूर्वोक्तात्मतत्वादिविषयकस्फुटनिश्चयं सम्पाद्य । एकस् त्रिविधजीवेषु मध्ये प्रधानः मुक्तियोग्य इति यावत् । वीतशोकः सन् कृतार्थः निष्पन्नयोगफलरूपमुक्तिमान् भवतीत्यर्थः ।

ननु जीवस्वरूपनिश्चयस्यैव मोक्षकारणत्वमुक्तं स्यात् । तच्च श्रुत्यन्तरविरुद्धम् । अस्वाभाविकानामपि दुःखहेतूनां सत्त्वात्कथं वीतशोकत्वमपीत्यत आह । यदाऽऽत्म-तत्वेनेति ॥ दीपोपमेन समाधिपरिपाकसिद्ध्यो ज्ज्वलेन मनसा । विशेष्यानुक्तावपि करणत्वार्थकतृतीयाप्रयोगमहिम्नैव तल्लभ्यते । आत्मतत्वेन जीवस्वरूपेण । सर्वतत्वैस्त-त्वाभिमानिदेवैश्च । विशेषणे तृतीया । प्रेरकत्वेन तद्विशिष्टं प्रथमाध्यायोक्तप्रेरकत्वस्वभिन्नत्व-विशिष्टं तदुपपादकाजत्वादिविशिष्टं ब्रह्मतत्वं यदा पश्यति तदा ज्ञानकाले ज्ञात्वा ज्ञानोत्तरं सर्वपाशैर्मुच्यते भगवत्प्रसादद्वारा सर्वैदुःखहेतुभिरेव मुच्यते । अतो नोक्तानुपपत्तिरिति भावः। भगवत्प्रसादस्य श्रुत्यन्तरानुरोधादध्याहारः । ज्ञानकाल इत्यनेन ज्ञानोत्पत्तिमारभ्य मोक्ष-पर्यन्तस्यापि कालविशेषस्य विवक्षितत्वाज् ज्ञात्वेत्यनेन ज्ञानोत्पत्त्युत्तरकालस्य विवक्षितत्वा-त्तदा ज्ञात्वेत्यनयोर्न विरोधः । अन्यथा

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।

अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥

इत्येवञ्जातीयकेष्वपि यदाशब्दानुरोधादध्याह्रियमाणतदाशब्दस्यानन्तर्यार्थकाथशब्दस्य च विरोधापत्तेः । दीपोपमेनेत्येतदात्मतत्वेनेत्यस्य विशेषणं वा । करणस्य बहिरेव योग्यतया लाभः । अविद्याद्यसंसृष्टरूपतयोज्ज्वलेनेत्यर्थः । तेन न केवलं बन्धदशायां ब्रह्मणो जीव-प्रेरकत्वम् । किं तु शुद्धस्वरूपेणावस्थानरूपमुक्तावपि प्रेरकत्वं लभ्यते । ब्रह्मतत्वमित्युक्त्या अनारोपितब्रह्मस्वरूपं प्रेरकत्वादिगुणविशिष्टम् । न तु मायाशबलत्वेन परपरिकल्पित-मारोपितरूपमिति लभ्यते ।

यद्वा जीवज्ञानस्यैव मोक्षहेतुत्वशङ्कावारकतया यदात्मतत्वेनेत्यर्धं तदा वीतशोक इत्यने-नान्वितम् । दुःखहेतुसत्त्वात्कथं दुःखनिवृत्तिरिति शङ्कापरिहारायेश्वरे प्रेरकत्वोपयुक्तगुणज्ञान-स्याप्यावश्यकत्वबोधनाय चोक्तार्थविवरणपरं द्वितीयार्धम् । अजं शरीरतोप्युत्पत्त्यादिरहितम् । ध्रुवं निर्विकारतयैकप्रकारेणावस्थितम् । देवं जगत्सृष्टिस्थितिसंहारनियमनादिरूपक्रीडाविशिष्टम् । संहारादिप्रयुक्तदोषवतो ज्ञनं कथं निर्दोषस्वरूपाभिव्यक्तिरूपमोक्षसाधनमित्याशङ्क्य सर्वतत्वै-र्विशुद्धमित्युक्तम् । सर्वैः स्वकीयासाधारणधर्मैरपि निर्दोषमेव । संहारादेरपि लोकदुःख-निवर्तकत्वेन तदुपकारकत्वादित्यर्थः । यथाहुः

स्वापं प्रापरति श्रमापहृतये कल्पावसाने च यः । इति ।

सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः । इति चेति

अत्राऽद्यश्रुतिस्थमृदयेत्यादेर्ज्ञानोत्तमशिष्येण विज्ञानात्मनाम्नैवं व्याख्या कृता ‘जकार-स्थाने दकारः । तथा च मृदयेत्येतन्मृजयेति पदं भवति । मृजया मार्जकेन शुद्धिसाधन-द्रव्येणोपलिप्तं सदनन्तरं सुधातं प्रक्षालितं सद् यथा भ्राजते’ इति । एवं ‘सुधातमित्येतच् छान्दसम्’ इत्येवोक्तम् । एवं तदिवाऽत्मतत्व मिति पाठो न धृतः । तद्वाऽऽत्मतत्वमिति पाठं धृत्वा वाशब्द उपमार्थतया व्याख्यातः । ‘तद्वत्स तत्वं प्रसमीक्ष्येति पाठेऽप्ययभेवार्थः’ इत्युक्तम् । तत्वशब्दस्यैवाऽत्मतत्वपरत्वमिति तद्भावः ।

अस्माभिस्त्वाधुनिकेषु केषुचित्पुस्तकेषु तदिवेतिपाठस्यैव दृष्टत्वाद् ब्रह्मानन्देनेवशब्दस्यैव धृतत्वेन तमेव धृत्वा व्याख्यातम् । उक्तरीत्या पाठद्वयसत्त्वे वाशब्द उपमार्थः प्रथमपाठे । द्वितीयपाठे तत्वपदमेवात्मतत्वपरमनुसन्धेयमस्मव्द्याख्यायामपि ।

उक्तपरकृतव्याख्यायामुपलिप्तमित्यस्य वैयर्थ्यम् । मृदया सुधातमित्यनेनैव पूर्णत्वात् । मन्मते तु पूर्वं स्वच्छमेवाऽदर्शादिकं मृदा लिप्तं न प्रकाशते । प्रक्षालनानन्तरं च प्रकाशते । जीवस्वरूपमपीदानीं मृदादिस्थानीयैरज्ञानादिभिरावृतम् । तदपगमे तु ज्ञानानन्दादि-स्वाभाविकरूपविशिष्टं स्फुरतीत्यर्थलाभाय सार्थकं भवति ।

अत्राद्वैतचन्द्रिकाकारस्य प्राचीनाचार्यविरोधोपि । उक्तविज्ञानात्मना तद्वाऽऽत्मतत्व-मित्येतस्य पूर्वार्धशेषत्वेन व्याख्यायाः कृतत्वात् । यदाऽऽत्मतत्वेनेत्यस्य तु तदनन्वितत्वेन स्वातन्त्र्येण व्याख्यातत्वात् । अनेन तु तदीयपाठमपहाय पाठान्तरमेवेवशब्दघटितं धृत्वोक्त-वाक्यद्वयस्य परस्परान्वितार्थकत्वेन व्याख्यानादित्यपि द्रष्टव्यम् ।

तस्माद्भेदज्ञानादेर्मोक्षहेतुत्वात्तत्प्रतिपादनस्य सप्रयोजनत्वात्तत्र युक्तं श्रुतेस्तात्पर्यम् ।

अपि च भगवतो जगत्कर्तृत्वादिगुणविशिष्टत्वप्रतिपादकवाक्यानां वेदेषु सत्त्वात्तस्या-पूर्वत्वादुक्तरीत्या सप्रयोजनत्वादुपपत्तिसिद्धत्वेन अबाधितत्वेन च तत्तात्पर्यस्याऽवश्यकत्वा-त्तदनुगुणतया तच्छेषभूतजगत्सत्यताप्रतिपादकानां यूपाऽहवनीयादिवाक्यवत्स्वार्थतात्पर्य-मक्षतमेव । प्रत्युत तद्विरुद्धाद्वैतवाक्यानामेव दौर्बल्यम् । तेषामुपासनाविधिशेषत्वान्न स्वार्थपरत्वमिति त्वखण्डार्थभङ्गे निरसिष्यते । सत्यत्वश्रुतीनां सप्रयोजनत्वप्रतिपादनेन अत एवेत्यनेन यद्दूषणमाशङ्क्य निराकृतं परेण तदपि समर्थितम् । अत एव न निषेधवाक्यैक-वाक्याता । तेषामेवैतद्विरोधेन स्वार्थपरत्वाभावात् । एतेनैव निरपेक्षत्वादपि नानुवादित्व-मित्यपि समर्थितम् । शक्त्यादिग्रहमादाय सापेक्षत्वोपपादने ऐक्यवाक्यस्यापि तथात्वाऽपत्तेः।

अपि च घटादीनां सत्त्वस्य प्रत्यक्षसिद्धत्वेऽपि तद्दार्ढ्यार्थत्वान्न श्रुतेर्वैयर्थ्यम् । न च प्रत्यक्षसिद्धेऽर्थे न वाक्यसापेक्षत्वम् । तथात्वे अनुवादकवाक्यस्यैवाभावप्रसङ्गात् । प्रत्यक्ष-मात्रेण वाक्यं विना प्रवृत्त्याद्यभावापातश्चेति वाच्यम् । यत्र बलवत्तरवादिविप्रतिपत्त्यादिना अप्रामाण्यसंशयस्तत्र दार्ढ्याय प्रमाणान्तरसंवादापेक्षणात् । अत एव देहभिन्नात्मसत्त्वबोधिका ‘अस्तीत्येवोपलब्धव्यः’ इति श्रुतिरात्मसत्यत्वबोधनाय प्रवर्तते । न च देहभिन्नात्मनः प्रत्यक्षतैव नास्ति । तथात्वे चार्वाकादेस्तत्र विप्रतिपत्तिरेव न स्यादिति वाच्यम् । प्रत्यक्षसिद्धे

विप्रतिपत्त्यभावे गुणगुण्यभेदस्योपादानोपादेयाद्यभेदस्य प्रत्यक्षबलेन व्यवस्थापनीयत्वेन तस्याऽ-वश्यकत्वे नैयायिकानामत्यन्तभेदे विवादानुपपत्तेः । तस्मादस्फुटप्रत्यक्षसिद्धे विप्रतिपत्तिर्भवत्येव प्रत्यक्षस्यास्फुटत्वं च स्वप्रकारविरुद्धकोटिव्यावर्तकधर्मसाहित्याविषयकत्वं जातिविशेषो वा ।

न चैवमनुवादकवाक्याभावप्रसङ्गः । ‘अग्निर्हिमस्य भेषजम्’ इत्यादेरेव सत्त्वात् । न चात्र स्वभाववादेनाप्रामाण्यबुद्धिवारणाय तदिति वाच्यम् । तन्मात्रमधिकृत्य तद्वादस्याप्रसक्त्योक्त-वाक्यस्य तदनिवर्तकत्वात् । किञ्च स्वभाववादेऽपि कारणकार्यभावाद्युपेतं जगत् स्वत एवाविर्भूतं स्वत एव लीनं कूलपतनादिवत् । न त्वीश्वरादिमूलकमित्यभिप्रायः । अन्यथा स्वतृप्तये भोजनादौ प्रवृत्तिर्न स्यात् । तथा चाग्नेर्हिमनिवारणकारणत्वे विवादाभाव एव । विवादसत्त्वे प्रत्यक्षसिद्धे विवादो नास्तीति त्वदुक्तिरसङ्गता स्यात् ।

न च सादिवादिविप्रतिपत्तिनिरासायानादिवेदप्रवृत्तिरयुक्तेति वाच्यम् । वादानामपि प्रवाहतोऽनादित्वात् । श्रुतेरपि सर्गाऽद्यकाले ईश्वरसृष्टत्वात् । केवलमानुपूर्वीव्यत्यासाभावाद-पौरुषेयत्वव्यवहारः । अन्यथा सादिप्रत्यक्षसिद्धानुवादिन्यपि श्रुतिः कथं स्यात् । एतेन ‘प्रवाहतोऽनादिशून्यवादादिप्राप्तजगन्मिथ्यात्वानुवादिनी मिथ्यात्वश्रुतिः किं न स्यात्’ इति न्यायामृतोक्तपक्षः सिद्ध्यत्येव । तस्मात्सत्यत्वश्रुतीनामनुवादकत्वाभावाद्युक्तं तदुदाहरणमिति स्थितम् ।

एतत्सर्वमनिर्वचनीयस्य सर्वथाऽप्रमाणिकत्वकथनोत्तरं सत्यत्वश्रुत्युदाहरणेन मिथ्यात्व-श्रुतीनां व्याहतिपरिहारोपायाभावसूचनद्वारा दौर्बल्यसूचनेन ‘विश्वं सत्यं वशे विष्णोः’ इत्यादिप्रमाणोदाहरणेनेश्वरस्वरूपप्रतिपादनशेषतया सत्यत्वश्रुतीनां सूचनेन सूचितम् । टीका-कृतापि अथापि उक्तरीत्या श्रुतीनां सत्यत्वप्रतिपादकतया तत्परत्वेऽपि अनिर्वचनीयं क्वचि-त्सम्भावितमित्यर्थकेन अथापि स्यादितिशङ्कावाक्येन सूचितमिति न न्यूनता । अन्यथा लाघवान्नन्वित्येवोच्येतेति सर्वं चतुरस्रम् ।

यदपि गुर्वद्वैतचन्द्रिकायां याथातथ्यत इत्यस्य ‘तथ्यं सत्यभूतमुपादानमनतिक्रम्येत्यर्थः। तेनोपादानसत्तातिरिक्तसत्ता नास्तीत्यर्थः । यथाशब्दोऽनतिक्रमार्थः’ इति व्याख्यातं तत्तु यथेति यथापदोत्तरं वृद्धिप्रयोजकष्यञोऽभावेन तदनुपपत्तेरुपादानवाचकपदाश्रवणाच्चायुक्तमेवेति बालानामपि सुबोधमिति स्फुटमेवेति शिवम् ।