१० श्रुतिपुराणादिगतानिर्वाच्यादिशब्दानामनिर्वाच्यबोधकत्वाभावस्य स्मृत्या समर्थनम्

अद्भुतत्वादनिर्वाच्यं..

श्रुतिपुराणादिगतानिर्वाच्यादिशब्दानामनिर्वाच्यबोधकत्वाभावस्य स्मृत्या समर्थनम्

**श्रीमज्जयतीर्थटीका **

ननु श्रुतिपुराणादिषु प्रपञ्चस्यानिर्वचनीयत्वमुच्यते । अचिन्त्यत्वमतर्क्यत्व-मज्ञेयत्वं च । न च तत्र चिन्ताद्यविषयत्वमेवार्थः । तथा सति प्रमाणानां निर्विषयत्वाऽपत्तेः । अतस्सदादिप्रकारैरचिन्त्यत्वाद्येव तदर्थः । किं च प्रपञ्चोऽनृतोऽ-सन्नसत्य इत्यपि सन्ति वाक्यानि । न चासत्त्वमेव तदर्थः । तथात्वे प्रतीतिविरोधात् । अतस्तान्यनिर्वचनीयवचनानि । तत्कथमनिर्वचनीयं नागमो वक्तीति द्वितीयपक्षनिरासाय तद्वचनार्थं सोपपत्तिकया स्मृत्यैव दर्शयति

मूलं

अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च ।

अद्भुतत्वादाश्चर्यत्वादेव चेत्यमनिर्वाच्यमुच्यते । न तु सदादिप्रकारैर्निर्वक्तु-मशक्यत्वात् । कुतः । न केवलं चेत्यमनिर्वाच्यमुच्यते । किं तु, ब्रह्म तदितरचेतनञ्च । न च ब्रह्मादेरनिर्वाच्यताऽङ्गीकारार्हा । अतस्तत्र यथाऽद्भुतत्वादेव सा व्याख्येया तथा चेत्यस्यापि । प्रकरणात्

मूलं

अचिन्त्यं तत एवैतत् … … … … ।

एतद् ब्रह्म चिच्चेत्यं च । ततो ऽद्भुतत्वादेव । अचिन्त्यमुच्यते । न तु सदादिप्रकारैर्मनोवृत्त्यविषयत्वात् ।

मूलं

… … … … … अतर्क्याज्ञेयमेव च ।

तत इति वर्तते । तेनैवकारस्य सम्बन्धः । अतर्क्यं च तदज्ञेयं चातर्क्याज्ञेयम् । ततो ऽद्भुतत्वादेव । न तु सदादिप्रकारैरनुमातुं प्रत्यक्षेण वा ज्ञातुमशक्यत्वात् । मनोवृत्तेः प्रत्यक्षत्वेऽपि बाह्यान्तरत्वभेदेन पृथगुपादानम् ।

**द्वैतद्युमणिः **

॥ द्वितीयपक्षेति ॥ न च भावाभावविलक्षणमिति मूलावतारिकाग्रन्थे विकल्पितद्वितीयपक्षेत्यर्थः ॥ सोपपत्तिकयेति॥ ब्रह्मचिद्ग्रहणेन स्मृतावुपपत्तिः सूचिता । प्रकटीकरोति च तद्व्याख्यायां स्वयमेवेति ध्येयम् । अज्ञेयपदाचिन्त्यपदयोरर्थभेदं प्रकटयति ॥ मनोवृत्तेरिति॥