न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति..
धूमत्वस्य बाष्पारोपितधूमवृत्तित्वाङ्गीकारे दोषकथनम्
**श्रीमज्जयतीर्थटीका **
ननु बाष्पारोपितधूमेऽपि धूमत्वसामान्याङ्गीकारे को दोष इति चेत् तदा पर्वतस्याग्निमत्त्वे साध्ये प्रयुज्यमानं धूमत्त्वं बाष्पारोपितधूमेन निरग्निकेऽपि ह्रदादौ वर्तमानेन निमित्तेनाग्निव्यभिचारि स्यात् । न च तेन तदग्निं व्यभिचरति । निःशङ्कं लोकव्यवहारहेतुत्वादित्याह ।
मूलं
न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति ।