न च धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति..
बाध्यत्वानुमानस्य ईश्वरसाधककार्यत्वानुमानवैलक्षण्योपपादनम्
न च धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति
**श्रीमज्जयतीर्थटीका **
ननु सर्वज्ञासर्वज्ञकर्त्रोः कर्तृत्वसामान्यस्य प्रागसिद्धेः कार्यत्वादिना क्षित्यादि-कर्तृमात्रसिद्धावीश्वरसिद्धिरेवं सति दुर्लभा स्यात् । न स्यात् । न हि क्षित्यादि-कर्तृताव्यतिरिक्तमीश्वरत्वं सिषाधयिषितम् । यदर्थं पुनरारम्भो भविष्यति । सर्वज्ञत्वादेरपि तदन्तर्भावात् । ये तु कार्यत्वादिना कर्तृमात्रसिसिद्धमङ्गीकृत्य सार्वज्ञ्यादिसिद्धौ पुनः परिशेषेण प्रयतन्ते तेषां कथमिति चेन्न । यतोस्त्यत्र प्रमेयविशेषः । यन्मिथ्यात्वसाधने यथाऽसत्त्वस्यैव प्रतीतिर्न तथा कर्तृत्वसाधनेऽसार्वज्ञ्यादिप्रतीतिर्येन सत्प्रतिपक्षता स्यात् । यः कर्ता नासौ सर्वज्ञ इत्यस्त्येवेति चेन्न । प्रकृते मिथ्यात्वस्यैवासत्त्वेन तेन तदसाधनात् । अस्य चाश्रयासिद्ध्यादिना निराकरणात् ।
**द्वैतद्युमणिः **
॥ अस्तु तर्हीति ॥ विवादपदमिति ॥ असत्त्वानिर्वचनीयत्वाभ्यां विप्रतिपत्तिविषयीभूतं शुक्तिरजतादिकमित्यर्थः । ननूक्तविवादस्य कोट्यप्रसिद्ध्या अयुक्तत्वस्य पूर्वमेवोक्तत्वात्कथमुक्तविवादविषयत्वेन पक्षनिर्देश इति चेन्न । तादृशविवादस्य भ्रान्ति-मूलकत्वरूपायुक्तत्वकथनेऽपि तत्स्वरूपानपलापात् । न च सद्विविक्तत्वस्य साध्यतया निर्देशात्तत्कोटिकविप्रतिपत्तिविषयत्वमेव व्याख्येयमिति वाच्यम् । बौद्धमायावादिनो-र्मायावादिसिद्धान्तिनोर्वा तथा विवादायोगात् । गुरुभिर्भास्करेण वा सह तथा विवाद-सम्भवेऽपि अनिर्वचनीयत्वसाधने तत्प्रदर्शनस्यानुपयोगात् । पूर्वानुमाने अनिर्वचनीयत्वस्यैव साध्यत्वेन निर्देशानुरोधात्तादृशविवादस्यैवेदानीं सत्त्वेन तत्परित्यागेनाप्रक्रान्तविवादेनानु-मानप्रवृत्त्ययोगाच्च । न चानिर्वचनीयत्वकोटिकविप्रतिपत्तौ सत्यविवेकसाधनायोगः । अनाकाङ्क्षितत्वादिति वाच्यम् । असद्भिन्नत्वे सति सदन्यत्वेनानिर्वचनीयत्वं साधयितु-मुपोद्धातविधया तत्कथनात् । न चोक्तहेतोरेवानिर्वाच्यत्वेन साध्यवैशिष्ट्यमिति वाच्यम् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपाद् अन्यस्यैवानिर्वचनीयत्वस्य साध्यत्व-सम्भवात् । केचित्तु भ्रान्तिप्रतिपन्नस्य सत्यत्ववादिनैयायिकैः सह सत्त्वानिर्वचनीयत्व-रूपभावद्वयकोटिकविप्रतिपत्ताविदमनुमानमित्याहुः।
वस्तुतस्तु स्वार्थानुमित्ययोगस्योक्तत्वेन तस्यैवोपपत्तिः शङ्क्यते । अन्यथा तत्ववादिनः प्रति सद्विविक्तत्वसाधकत्वे सिद्धसाधनप्रसङ्गात् । तत्र विवादपदमिदानीमावयोर्यद-निर्वाच्यत्वासत्त्वाभ्यां विवादविषयीभूतं शुक्तिरजतादिकमित्यर्थः । तथा च विवादपद-मनिर्वचनीयं बाध्यत्वादिति पूर्वानुमाने अत्र च पक्षविशेषपरिचायकमेव विवादपदपदम् । पक्षता तु इदं रजतमिति ज्ञानीयप्रकारताश्रयत्वेनैव । भ्रमान्तरप्रकारतापन्नानां तत्कालोप-स्थितानां पक्षसमत्वाद्वा समूहालम्बनानुमितेरुद्देश्यतया तेषामपि पक्षत्वाद्वा न व्यभिचाय-शङ्केति ध्येयम् ।
॥ बाध्यत्वादिति ॥ पूर्वानुमाने असद्व्यावृत्तं स्वप्रकारकबुद्धिविषयताव्यापकानवछिन्न-वृत्तिकाभावप्रतियोगित्वदोषप्रयुक्तभानत्वादिरूपं बाध्यत्वं वाच्यम् । अन्यथाऽसति व्यभिचारापत्तेः । साध्यं तु सदसद्विलक्षणत्वमेव । सत्त्वासत्त्वे इत्यनेन सामान्यप्रसिद्धे-रभिहितत्वात् । सत्त्वं तु नोक्तबाध्यत्वरूपहेत्वभावरूपम् । तदवच्छिन्नभेदस्य साध्यरूपस्य हेतुसिद्ध्यैव सिद्धत्वात् । तद्विशिष्टसद्भेदस्य पूर्वमसिद्धस्य साध्यत्वसम्भवेप्यनतिप्रयोजनकतया साध्यशरीरे विशेषणांशवैयर्थ्यापरिहारात् । किं तु सर्वं परमार्थसदविनाशीत्यादिबुद्धिविशेष-विषयत्वादिरूपमिति । यत्तु ‘स्वप्रकारकेत्याद्युक्तबाध्यत्वं हेतुस् त्रैकालिकनिषेधाप्रतियोगित्व-रूपसत्त्वावच्छिन्नप्रतियोगिकभेदः साध्यः’ इति । तदसत् । यतः परेणासतोप्यत्यन्ताभाव-प्रतियोगित्वस्य स्वमतनिष्कर्षे अनङ्गीकृतत्वेन तादृशसत्त्वावच्छिन्नभेदसाधनेनैवासत्त्वावच्छिन्न-भेदस्यापि सिद्ध्या पुनस्तद्भेदस्य साध्यकोटौ निवेशायोगात् । प्रतिपन्नोपाधौ त्रैकालिक-निषेधप्रतियोगित्वरूपस्वप्रकारकेत्याद्युक्तबाध्यत्वेनोक्तसत्त्वावच्छिन्नभेदरूपत्रैकालिकनिषेध- प्रतियोगित्वसाधनापत्त्या महानसीयवह्निना वह्निसाधनवत्साध्याविशिष्टताया दुर्वारत्वापातश्च । तस्य भेदत्वेन साध्यत्वान्न साध्यावैशिष्ट्यमित्यपि न सत् । तत्सन्देहे हेतुसन्देहस्य वह्निसन्देहे महानसीयवह्निसन्देहस्येवौचित्याऽवर्जितत्वेन दुर्वारत्वे परामर्शायोगरूपदूषकताबीजस्या-परिहारात् ।
एतदनुमाने पुनर्बाध्यत्वं सत्त्वप्रकारकप्रमाविषयत्वाभावदोषानधीनसत्त्वप्रकारकप्रतीति-विषयत्वाभावादिकमसत्साधारणमेव वाच्यम् । अन्यथा व्यतिरेकव्याप्तावात्मनो दृष्टान्तत्व-सम्भवेऽपि असद्रूपसपक्षगामित्वाभावे हेतोरसाधारण्यापत्तेः । एतेन ‘अनुमानद्वये बाध्यत्व-स्यैव हेतुत्वाभिधानमनुचितम् । साधारण्यासाधारण्ययोरन्यतरस्यान्यतरानुमाने आवश्यक-त्वात्’ इति परास्तम् । शब्दैक्येप्युक्तरीत्वाऽर्थभेदात् ॥ अनिर्वचनीयत्वे मानमिति ॥ पूर्वोक्तरीत्या परम्परया मानमित्यर्थः । अन्यथैतदनुमानेन सद्विविक्तत्वस्यैव सिद्ध्याऽ-निर्वचनीयत्वे मानत्वोक्त्यसङ्गतेः ।
केचित्तु उक्तानुमानेनासत्त्वाभावव्याप्यप्रतीतत्वलिङ्गसहितेन सद्भिन्नमसद्भिन्नं चेति समूहालम्बनरूपानुमितिरेव जायते । एतदनुमानात्प्राक् स्वार्थानुमानेन सद्भेदस्यासिद्धत्वेन सिद्धसाधनानवकाशात् । असत्त्वे प्रतिक्षिप्ते इत्युत्तरवाक्येऽपि सत्त्वप्रतिक्षेपकाल एवासत्त्वे प्रतिक्षिप्ते इत्यर्थः । तथा च सद्भेदासद्भेदोभयस्यैवानिर्वचनीयत्वरूपतयोक्तानुमानमेव साक्षादनिर्वचनीयत्वे मानमिति भाव इत्याहुः । तच्चिन्त्यम् । एतत्पक्षस्यार्थापत्तिपक्षा-नतिभिन्नतयेदानीमेतदभिप्रायकथनायोगात् । उक्ताभिप्रायकत्वे सद्विविक्तत्वस्य सामान्यरूपतां विनाऽपि प्रकृतानुमानविर्वाहेण तस्य सामान्यरूपत्वोपपादनखण्डनयोरकिञ्चित्करत्वापत्तेः ।
परे तु असत्त्वरूपैकविशेषबाधग्रहसहितैतदनुमानेनैव प्रतिपन्नोपाधौ त्रैकालिकनिषेध-प्रतियोगित्वरूपानिर्वचनीयत्वसामानाधिकरण्यविशिष्टसद्भेदवदित्यनुमितिर्जायते । महानसीय-वह्न्यादिबाधग्रहसहितवह्निव्याप्यधूमपरामर्शात् पर्वतीयवह्निमानित्यनुमितिवत् । तथा चैतदनु-मानमेवानिर्वचनीयत्वे साक्षान्मानमित्याहुः । तदपि चिन्त्यम् । अतो मिथ्यात्वे साधिते इत्याद्युत्तरग्रन्थानानुगुण्यात् ।
पूर्वानुमानसिद्धसद्विविक्तत्वावच्छिन्नेऽसद्विविक्तत्वस्य साधनादनिर्वाच्यत्वसिद्धिः । सद्भेदस्य सामान्यरूपत्वाभिधानं तु व्याहतिपरिहारायेत्यपि न चारु । तथात्वे एकस्य सद्भेदप्रमोपधायकत्वप्राप्त्या उत्तरत्रोभयाप्रामाण्यापादनासङ्गतेः ।
विवादपदमनिर्वचनीयमिति पूर्वानुमानप्रसञ्जितदोषमत्रोद्धरति ॥ मिथ्यात्वस्येति ॥ उक्तानुमानस्यैव साक्षादनिर्वचनीयत्वसाधकत्वं पराभिप्रेतं मन्वानः पूर्वोक्ताशयमविद्वानाशङ्कते ॥ न चेति ॥ असिद्धिरिति । असत्साधारणस्यानिर्वचनीयत्वरूपत्वाभावादिति भावः । परम्परयाऽनिर्वचनीयत्वसाधकत्वरूपस्वाभिप्रायमाविष्करोति ॥ समानमिति ॥ निर्विशेष-स्येति ॥ विशेषधर्मप्रकारकज्ञानासहितस्य केवलसामान्यधर्मप्रकारकज्ञानस्य विशेषार्थिप्रवृत्त्या-द्यनुपयुक्तत्वेनेति पर्यवसितार्थः । इदं च विशेषजिज्ञासाद्वारा वक्ष्यमाणविशेषसिद्ध्यनुकूल-तयाऽभिहितम् ॥ अनिर्वचनीयत्वस्य सिद्धेरिति ॥ सद्भिन्नत्वरूपसामान्यधर्मवत्त्वे सत्य-सत्त्वाभावरूपलिङ्गेन ज्ञाननिवर्त्यत्वरूपस्य वा प्रतिपन्नोपाधावित्यादिरूपस्य वा अनिर्वचनीयत्वस्य तदुभयावृत्तिधर्मत्वादिना सामान्यतः सिद्धिरित्यर्थः । ॥ मिथ्यात्वं नामेति ॥ सद्विविक्तत्वरूपमित्यर्थः ॥ सामान्यमिति ॥ अनिर्वचनीयत्वासत्त्वयोर्व्यापकता-विशिष्टं सदित्यर्थः । तेन स्वरूपतस्तस्योभयवादिसम्प्रतिपन्नत्वेऽपि न क्षतिः ॥ उभय-वादीति ॥ स्वार्थानुमानासम्भवविवक्षायां तु भ्रमविषयीभूतेषु सर्वेष्वप्यनिर्वचनीयत्वसिद्धि-यत्नप्राग्दशावच्छिन्नतदुत्तरदशावच्छिन्नावेव ग्राह्यौ । पुरुषस्यैकत्वेऽपि तस्य दशाभेदेनैव वादित्वप्रतिवादित्वव्यवहारात् । अत एवोक्तं सुधायां ‘प्राक् प्रबोधाच्छिष्योऽपि प्रतिवादितुल्य एव’ इत्यादि ।
॥ प्रागित इति ॥ भ्रमप्रतिपन्नप्रकारेषु अनिर्वचनीयत्वसिद्धेः पूर्वमित्यर्थः ॥ अनिर्वचनीयत्वस्यैवाप्रसिद्धत्वादिति ॥ असद्व्यावृत्तं यद्यद्भवता निरुच्यते तादृशतादृशा-निर्वचनीयत्वस्वरूपस्यैव सत्त्वेनाग्रहादित्यर्थः । एवकारेण भ्रमप्रकारमात्रेषु प्रसिद्धत्वाभावेऽपि स्वरूपतस्तत्सत्त्वप्रसिद्धिं निराकरोति ॥ न चाश्रयेति ॥ तादृशधर्मस्यैवाप्रसिद्धौ तदाश्रयेऽपि कालसम्बन्धित्वादिरूपासद्व्यावृत्तरूपेणाप्रसिद्धिरित्यर्थः । अनिर्वचनीयस्यैवेति पाठे तादृशधर्मविशिष्टवस्तुन एव सामान्यतः कालसम्बन्धित्वादिरूपासद्व्यावृत्तधर्मपुरस्कारेणाग्रहा-दित्यर्थः । तादृशस्य वस्तुनो ऽलीकव्यावृत्तरूपेणाग्रहे प्रकृतसत्यविवेकरूपधर्मस्यासत्त्व-तद्व्यधिकरणानिर्वचनीयत्वरूपधर्मद्वयसामानाधिकरण्यरूपस्य तद्द्वयव्यापकत्वरूपस्य वा सामान्यत्वस्य गृहीतुमशक्यत्वादिति भावः ।
॥ आश्रयासिद्धाविति ॥ यादृशरूपविशिष्टधर्मिणमन्तरा यादृशधर्मस्य तत्साधारण्यादिना सामान्यता न सम्भवति तादृशधर्माश्रयधर्मिग्रहाभाव इत्यर्थः । सामान्यं तत्साधारण्यादि-सामान्यत्वविशिष्टम् । सिद्धं ज्ञातं भवतीत्यर्थः । यथाश्रुतं तु न सङ्गच्छते । शशविषाणनर-विषाणरूपाश्रययोः स्वरूपाभावरूपासिद्धिसम्भवेऽपि सत्यविवेकलक्षणसामान्यस्य तत्र सत्त्वाद् असद्रूपाश्रयाभावेप्यसति १सति च ज्ञेयत्वशशविषाणत्वादिरूपसामान्यस्याङ्गीकृत-त्वाच्च । उक्तव्याख्यायां तु न दोषः । धूमत्वादेर्धर्मस्य कालसम्बधित्वादिधर्मविशिष्ट-धर्मिमात्रसापेक्षत्वात् पर्वतीयधूमबाष्पारोपितधूमादिनिष्ठतत्तद्व्यक्तित्वादीन् प्रति सामान्यधर्मत्व-ज्ञानं प्रति तत्तद्धूमेषु कालसम्बन्धित्वज्ञानमपेक्षितम् । बाष्पारोपितधूमे कालसम्बन्धित्वादि-सत्त्वग्रहाभावान्न तस्य तान् प्रति सामान्यधर्मत्वग्रहः । ज्ञेयत्वाभावप्रभृतीनां तु स्वस्वाश्रयी-भूतधर्मिमात्रसापेक्षत्वनियमाद् धर्मिस्वरूपमात्रग्रहे तत्र सदात्मके असदात्मके चाभावज्ञेय-त्वादीनां वृत्तित्वग्रहेण तस्य सामान्यरूपत्वग्रहः । प्रकृते च सद्विवेकस्यासत्त्वतद्व्यावृत्ता-निर्वचनीयत्वोभयं प्रति सामान्यधर्मत्वज्ञानं प्रति असत्त्वाश्रयीभूतधर्मिणो असत्त्वेन ज्ञानस्य अनिर्वचनीयत्वाश्रयधर्मिणस्तु असद्व्यावर्तककालसम्बधित्वादिरूपेण ज्ञानस्यावश्यकतयैतदनु-मानात्प्रक् केषामपि तादृशग्रहाभावेन सदसदुभयज्ञानस्यैव सत्त्वेन तस्य सामान्यरूपत्वज्ञानं दुर्घटमित्यभिप्रायस्य लाभात् ।
॥ अन्यथेति ॥ उक्तरीत्यनङ्गीकारे । तत्रापि धूमत्वेऽपि । प्रसज्येत बाष्पारोपित-धूमव्यक्तित्वपर्वतीयधूमव्यक्तित्वे प्रति सामान्यत्वग्रहः प्रसज्येतेत्यर्थः । लोकानामिति शेषः । तेन परस्योन्मत्तवद्दोषविशेषाधीनभ्रमसत्त्वेऽपि न क्षतिः ।
एतावता किं सामान्यसिद्धिपरिशेषानुमानयोर्दूषणमभिहितं स्यादित्यत आह ॥ अत इति ॥ मिथ्यापदार्थतावच्छेदकसद्विविक्तत्वस्य परस्परव्यावृत्तासत्त्वानिर्वचनीयत्वसाधारण्य-स्यैतावत्कालमगृहीतत्वादित्यर्थः । मिथ्यात्वे साधिते विवादपदं मिथ्येतिशब्दाभिलाप्यानु-मित्या मिथ्यापदार्थतावच्छेदके विषयीकृते । असत्त्वस्यैव विषयीकृतत्वप्राप्त्या । मिथ्यात्वस्य सामान्यत्वग्रहरहितैर्लौकिकपरीक्षकैरसदलीकमिथ्यापदानां पर्यायेणैव व्यवहारादिति भावः । अन्यथा घटः पृथिवीरूपं द्रव्यं, करका तु जलरूपं द्रव्यमितिवत् शुक्तिरजतमनिर्वचनीयरूपं मिथ्या, शशविषाणं त्वसद्रूपं मिथ्येति लौकिकपरीक्षकव्यवहारप्रसङ्ग इत्यर्थः ॥ पुनस्तन्निषेध इति ॥ नेदमसदिति पर्यायशब्दान्तरप्रयोगेण तन्निषेधसाधन इत्यर्थः ॥ सत्प्रतिपक्षतयेति ॥ पर्वतोऽग्निमान् धूमात्, पर्वतो वह्न्यभाववान् पाषाणमयत्वादित्यनुमानयोरिवेत्यर्थः ॥ अप्रामाण्यापत्तिरिति ॥ अनुमितिरूपप्रमानुपधायकत्वापत्तिरित्यर्थः । संशयाकाराऽनुमिति-र्भवति न वेत्यत्रेदानीमनिर्भरसूचनायाबोधकत्वापत्तिर्नोक्ता । द्वयोरपि भ्रमजनकत्वापत्तिस्तु नार्थः । विरुद्धयोरुभयोः प्रामाण्यवदप्रामाण्यस्यापि व्याहतत्वेनान्यतरप्रामाण्यावश्यम्भावात् ।
नन्वपरीक्षकैर्मिथ्यापदार्थतावच्छेदकासत्पदार्थतावच्छेदकयोरैक्यस्य गृहीतत्वेऽपि यस्य परीक्षकविशेषस्य भ्रान्त्युत्थितेन मिथ्यापदे व्यवह्रियमाणे शुक्तिरजतादावसत्यसम्भाव्यमान-प्रतीतत्वलिङ्गेनासत्त्वाभावनिश्चयो जातस्तस्यासत्त्वमेव मिथ्यापदार्थतावच्छेदकमिति स्वीय-प्राथमिकग्रहे अप्रामाण्यधीपूर्वकं मिथ्यापदार्थतावच्छेदके असत्त्वतदाभावोभयाधिकरणवृत्तित्व-रूपसामान्यधर्मत्वग्रहः सामान्यतो जायत एव । बलवल्लिङ्गदर्शनेऽपि प्राथमिकज्ञानपरिवर्ते भ्रान्त्युच्छेदादिकमुद्दिश्य परीक्षायां प्रवृत्त्यभावप्रसङ्गः । तथा चासत्त्वाभावग्रहसहित-सद्विविक्तत्वरूपमिथ्यात्वसाधकानुमानेनैवासत्त्वव्यधिकरणधर्मसामानाधिकरण्यविशिष्टसद्विविक्तत्व-वदिति रूपेणानुमितिर्जायते । सा चासत्त्वव्यधिकरणसद्विविक्तत्वसमानाधिकरणधर्मत्वेना-निर्वचनीयत्वं विषयीकरोति । तस्यैवानिर्वचनीयत्वात्मकत्वात् । अथ वा असत्त्वाभाव-साहित्यविशिष्टप्रथमानुमानसिद्धमिथ्यापदार्थतावच्छेदकवत्वरूपव्यतिरेकलिङ्गेन सामान्यव्याप्ति-ज्ञानादिना वा सदसदुभयावृत्तिधर्मत्वादिना अनिर्वचनीयत्वानुमितिर्भवत्येव । एतेन ज्ञान-निवर्त्यत्वादिरूपानिर्वचनीयत्वस्याप्येतदनुमानात्प्राक् क्वचित्सिद्धावेतदनुमानवैयर्थ्यम् असिद्वौ पुनरप्रसिद्धविशेषणतेति शङ्कानवकाश इत्यत आह ॥ असत्प्रतीतेरिति ॥ उपपादयिष्य-माणत्वादिति ॥ अर्थापत्तिनिराकरणप्रस्ताव इत्यादिः ॥ असत्त्वप्रतिक्षेपानुपपत्तिश्चेति ॥ तथा च त्वन्मतमूलाऽग्रहरूपदोषविशेषशून्यानां केषामपि परीक्षकाणां स्वरसतो लोकरीत्या मिथ्यात्वेन व्यवह्रियमाणे असत्वाभावबुद्धिर्न जायते । तथात्वे लोकानां सदसत्त्वव्यवहारवद् असद्भिन्नमिदं मिथ्येति तृतीयप्रकारस्यापि व्यवहारस्य प्रसङ्गः । न हि परीक्षापि लोकानु-भवातिक्रमेणैव कर्तव्या । तथात्वे तस्योन्मत्तप्रलापतुल्यत्वापत्तेः । किं त्वविप्रतिपन्नलोकानु-भवस्य विषयव्यवस्थैव कर्तव्या । इत्थं चोक्तरीत्याऽपि नानिर्वचनीयत्वसिद्धिरिति भावः ।
नन्वेवं सति सामान्यसिद्धिपरिशेषाभ्यां कस्याप्यपूर्वार्थस्यासिद्धिप्रसङ्गः । सामान्यानुमान साध्यस्य प्रसिद्धविशेषात्मकत्वेन पर्यवसन्नत्वेन परिशेषेण पुनस्तत्प्रतिषेधे सत्प्रतिपक्षतया भवदुक्तरीत्योभयाप्रामाण्यापत्तेः ।
अतस्तत्र यः परिहारः स प्रकृतेऽपि तुल्य इत्याशयेनोदाहरणतया तावदेकस्थलमुद्घाट्या-शङ्कते ॥ नन्विति ॥ असिद्धेरनिश्चयात् ॥ दुर्लभेति ॥ सर्वज्ञकर्तुरनुपस्थित्या जाय-मानाऽनुमितिः सकर्तृकत्वेनासर्वज्ञकर्तृकत्वमेव क्षित्यादाववगाहते । परिशेषे प्रवृत्तस्य पुन-स्तन्निषेधे उभयाप्रामाण्यमेव स्यादित्यर्थः । अतस्तत्र समामन्यत्वज्ञानं सकर्तृकत्वे अस्तु वा न वा । वस्तुतस्तादृशसामान्यरूपसकर्तृकत्वपुरस्कारेण कर्त्रवगाहिनीमनुमितिं प्रत्यसर्वज्ञकर्तृकत्व-रूपविशेषधर्मावच्छिन्नाभावग्रहस्याविरोधित्वं वाच्यम् । एवं सद्विविक्तत्वरूपसामान्यधर्म-प्रकारकानुमितिं प्रति सद्भेदविशिष्टासत्त्वरूपविशेषधर्मावच्छिन्नभेदग्रहो वा वस्तुतस् तद्व्याप्या-सत्त्वावच्छिन्नप्रतियोगिकभेदग्रहो वा सद्विविक्तत्वस्यानिर्वचनीयत्वासत्त्वोभयनिरूपितसामान्य-त्वाग्रहवेलायामप्यविरोधीत्यवश्यं वक्तव्यम् । तथा च सामान्यसिद्धिपरिशेषाभ्याम् अनिर्वचनीय-सिद्धिरिति भावः । सद्विविक्तत्वरूपमिथ्यात्वरूपमसत्त्वादतिरिक्तं वस्तु अनिर्वचनीयत्वा-सत्वयोर्व्यापकमित्यभिमानः । दृष्टान्तासम्मत्योक्तिं तावत् खण्डयति ॥ न हीति ॥ पुनरारम्भः परिशेषाय प्रसक्तप्रतिषेधावसरः । तर्हि क्षित्यादिकर्तुः सर्वज्ञत्वासिद्ध्या कथमीश्वरसिद्धिरित्यत आह ॥ सर्वज्ञत्वादेरपीति ॥ उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वस्यैव प्रथमानुमान-साध्यतया तेनैवेश्वरस्य सिद्धत्वादिति भावः । उदाहरणान्तरसम्भवान्न प्रमेयखण्डनं भवतीत्या-शयेन शङ्कते ॥ ये त्विति ॥ हविरादिजन्यादृष्टद्वारा जीवकर्तृकत्वमादाय सिद्धसाधनता-वारणायाननुगमभिया स्वोपादानेतिक्रमं विहायादृष्टद्वारा कृतिमत्पुरुषजन्यत्वं प्रसाध्येश्वर-सिद्धयेऽसर्वज्ञकर्तृकत्वं निषेधयतामित्यर्थः ।
भवदुक्तस्थले सामान्यविशेषरूपद्वयसत्त्वादुक्तन्यायसम्भवेऽपि प्रकृते असत्त्वसद्विविक्तत्व-योरैकयमेव । न सामान्यविशेषभावः । तत्प्रमाणस्य तदधिकरणवृत्तित्वग्रहसहिततदनधिकरण- वृत्तित्वग्रहस्य भवदभिमतानिर्वचनीयोपस्थितेः पूर्वसत्त्वेन पूर्वोपपादितरीत्या मिथ्यात्वस्यैवा-सत्त्वरूपत्वम् । एतदुपपादनार्थमेव मूले मिथ्यात्वस्यासत्त्वादिकं प्रति सामान्यरूपत्वग्रहो निराकृतः । तथा च प्रथमानुमानसिद्धासत्त्वावच्छिन्नभेदस्यैव द्वितीयानुमानेन साधने सत्प्रतिपक्षत्वम् अस्माभिः पूर्वमुक्तम् । त्वया तु अस्मदभिप्रायमबुद्धा अपूर्वविशेषोपस्थितेः प्राक् सामान्यरूपावच्छिन्नग्रहं प्रत्युपस्थितविशेषरूपावच्छिन्नाभावग्रहस्यैव विरोधित्वमस्मदभि-मतमिति मन्वानेनेयं प्रतिबन्दिरभिहिता । अतो नेदं युक्तमित्याशयेनोभयत्र वैलक्षण्यं पूर्वग्रन्थाभिप्रेतं स्फुटीकुर्वन्नुक्तदोषं निराह ॥ नेत्यादिना ॥ ईश्वरानुमानप्रमेयीभूतभवदनुमान-प्रमेयीभूतसाध्ययोर् विशेषः विशेषनिषेधार्थं प्रवृत्तानुमानान्तरप्रतिबध्यग्रहविषयत्वाभावतद्ग्रह-विषयत्वरूपवैलक्षण्यमस्तीत्यर्थः । तदेवोपपादयति ॥ मिथ्यात्वेति ॥ सर्वैर्लौकिकैस्त्वदितर-वैदिकैः प्रेक्षावद्भिश्च मिथ्यालीकानृतासदादिशब्दानां पर्यायेणैव प्रयोगेणासदादिपदमिथ्या-पदार्थतावच्छेदकैक्यस्यैव सर्वैर्गृहीतत्वान्मिथ्येत्युक्तेऽसत्त्वस्यैव प्रतीतिः । तयोः सामान्य-विशेषभावे यत्किञ्चित्पृथिवी न घट इतिवद् यत्किञ्चिन्मिथ्या नासन् नालीकमित्यादि-व्यवहारस्य क्वचिदपि लोके अभियुक्तशास्त्रे चापत्तेः । सत्त्वासत्त्वातिरिक्ततृतीयप्रकार-मिथ्यात्वरूपसामान्यधर्माश्रयस्य लोकानुभवसिद्धत्वे तदव्यवहारे बीजाभाव इति भावः ॥ न तथेति ॥ कर्तृत्वस्यैतन्मते ज्ञानाद्यघटिततया कृत्याश्रयत्वमात्रेणैव कर्तुरनुमानेन प्रतीतिः । तथा च कृत्याश्रयजन्यक्षित्यादावसर्वज्ञजन्यत्वाभावसाधने तादृशकर्तरि असर्वज्ञभेदसाधने वा प्रथमानुमानसाध्याभावसाधनाभावान्न सत्प्रतिपक्षत्वमिति भावः ।
ननु लोके कर्तृत्वेन प्रतीयमानेषु सर्वेषु असार्वज्ञ्यस्यैव भूयोदर्शनेन सकर्तृकत्वस्यासर्वज्ञ-कर्तृकत्वव्याप्यत्वेन गृहीतत्वात् क्षित्यादौ सकर्तृकत्वरूपव्याप्यग्रहबलादसर्वज्ञकर्तृकत्वबुद्धिः प्रथमानुमितिद्वितीयक्षणे जायत एव । तथा च तत्रासर्वज्ञकर्तृकत्वाभावसाधने सत्प्रतिपक्षता स्यात् । साध्यव्यापकत्वेन गृहीतधर्माभावसाधकस्यापि साध्यग्रह प्रति परम्परया झडिति विरोधित्वेन सत्प्रतिपक्षरूपत्वस्य भवतैवेदानीं स्वीकृतत्वात् । अन्यथा भवदुक्तस्यासत्त्वा-भावसाधकहेतोः सत्प्रतिपक्षरूपत्वाभावप्रसङ्गात् । अतस्तत्र भवद्भिरेतावदेव वक्तव्यम् । सर्वेषां तादृशव्याप्तिग्रहो न जायत एव । भूयोदर्शनमात्रस्यानुकूलतर्काभावे व्याप्त्यनिश्चायकत्वात् । केषाञ्चिद्भ्रान्तानां तथा व्याप्तिभ्रमसम्भवेऽपि उक्तानुमित्यनन्तरं तादृशव्याप्तिस्मरणनियमा-भावेन सकर्तृकत्वेन सेत्स्यमाने क्षित्यादावसर्वज्ञकर्तृकत्वाभावसिद्धिद्वारा ईश्वरसिध्द्यनन्तर-मुक्तव्याप्तिग्रहे अप्रामाण्यबुद्धिरुदेतीति । तथा मयाप्येतावदुच्यते । अनिर्वचनीयोपस्थितेः प्राक् मिथ्यात्वासत्त्वयोर् व्याप्तिग्रह एव केषाञ्चिन्न जायते । अनुकूलतर्काद्यभावात् । केषाञ्चिद्भ्रान्तानां तद्भ्रमसम्भवेऽपि तस्य मिथ्यात्वानुमितिकाले स्मरणानियमेन मिथ्यात्वानु-मित्यनन्तरं नियमेनासत्त्वग्रहे बीजाभावेन मिथ्यात्वेन सिद्धेऽसद्भेदसाधनेनानिर्वचनीय-सिध्द्यनन्तरं तत्राप्रामाण्यग्रहो भविष्यतीत्याशङ्कां मिथ्यात्वे साधितेऽ सत्त्वस्यैव यथा प्रतीतिरित्यादिकस्योक्ताभिप्रायमज्ञात्वा व्याप्तिबलेनासत्त्वस्यैव प्रतीतिरित्यन्यथाभिप्रायग्रह-पूर्विकामाशङ्कां स्वाभिप्रायाविष्करणेन निराकर्तुमनुवदति ॥ यः कर्ता नासाविति ॥ इदं वाक्यं यत्सकर्तृकं तदसर्वज्ञकर्तृकमेवेति व्याप्तिप्रदर्शनोपक्षीणं ज्ञेयम् ॥ इत्यस्त्येवेति ॥ मिथ्यात्वासत्त्वयोर्यथा व्याप्तिग्रहो वर्तते तथाऽत्राप्यस्त्येव । अतस्तन्मूलवैषम्यप्रदर्शनमयुक्त-मिति हृदयम् । व्याप्तिसदसद्भावकृत एवासत्त्वोपस्थितिनियमोऽसर्वज्ञकर्तृकत्वोपस्थित्यभाव-श्चेति वैषम्यमनुमानद्वये सिद्धान्त्यभिप्रेतमित्यभिमानः शङ्ककस्य वर्तत इत्येतमर्थमस्त्येवेत्यत्र-त्यैवकारो ध्वनयति अत्राप्यस्त्येव तत्र को विशेष इति रीत्या । अन्यथेश्वरानुमाने सत्प्रति-पक्षोपपादनमात्रतात्पर्यकत्वे व्याप्तिरस्तीत्येतावता पूर्तावेवकारानर्थक्यप्रसङ्गात् । तत्रैव परिहारमनुक्त्वा प्रकृतानुमाने तद्वैषम्यबोधकस्य प्रकृत इत्युत्तरग्रन्थस्यासङ्गतिप्रसङ्गाच्च ।
पराभिमानं निराकृत्य समाधत्ते ॥ प्रकृत इति ॥ मिथ्यात्वस्यैवासत्त्वेनेति ॥ पूर्वोक्त-रीत्या असत्पदार्थतावच्छेदकत्वेनासत्त्वरूपत्वेनेति वार्थः । तेन सद्विविक्तत्वरूपमिथ्यात्वेन । तदसाधनाद् व्याप्तिबलेनासत्त्वग्रहस्यानङ्गीकारात् । तथा च सद्विविक्तत्वसाधनमेवासत्त्व-साधनरूपमिति पुनस्तन्निषेधे सत्प्रितिपक्षतैव स्यादिति भावः । ननूक्तपरोक्तदूषणाया-सत्त्वमिथ्यात्वयोरैक्यस्येदानीमभिप्रेतत्वे मूले तथैव वक्तव्यम् । किमर्थं तस्य सामान्यरूपता-निराकरणम् । अनुपयुक्तत्वादित्यत आह ॥ अस्य चेति ॥ मिथ्यात्वस्यैवासत्त्वेनेति पूर्ववाक्ये एवकारेणासत्त्वे १मिथ्यात्वसामान्यरूपत्वावच्छिन्नान्यस्य तादात्म्यं व्यवच्छिद्यते । प्रथमान्तातिरिक्तविशेषणसङ्गतैवकारेणान्ययोगव्यच्छेदान् मिथ्यात्वान्यस्मिन्नसत्पदार्थतावच्छेद-कत्वस्य वाऽसत्त्वरूपत्वस्य वा निराकरणेऽसत्तदन्यसाधारणसामान्यरूपे मिथ्यात्वतादात्म्य-स्यार्थतो व्यवच्छिन्नत्वात् । एवञ्च पूर्ववाक्ये तस्य प्रक्रान्तत्वेन वा एतन्मूलव्याख्यावसरे तस्य बुद्धिस्थत्वेन वाऽस्येति मिथ्यात्वस्यासत्त्वान्यसामान्यधर्मतादात्म्यं परामृशति । तथा च मिथ्यात्वस्य सामान्यरूपतयाऽसत्त्वान्यतादात्म्यस्य । आश्रयासिद्ध्यादिना असदन्या-निर्वचनीयरूपाश्रयस्यासदन्यत्वेनासिद्ध्या आदिपदोपात्तेन च तत्प्रयुक्तसामान्यरूपत्व-निराकरणेन च निराकरणादित्यर्थः । सामान्यरूपतानिराकरणं विना मिथ्यात्वस्या-सत्त्वरूपताया व्यवस्थापयितुमशक्यत्वात्तदर्थं सामान्यरूपतानिराकरणं मूलकृतो युक्तमिति भावः । एतत्पक्षे मूलं नानुपयुक्तमिति पञ्चम्यर्थं प्रति साध्यसमर्पकत्वेनाध्याहर्तव्यम् ।
यद्वा मिथ्यात्वस्यैवासत्त्वरूपत्वं कुत इत्यत अस्य चेति । सामान्यरूपत्वस्येत्यर्थः । मिथ्यात्वस्यैवासत्त्वेनेति पूर्वेणैव पञ्चम्यर्थान्वयः । निराकरणस्य तद्धेतुताया उपपादितत्वात् । मूलानुपयुक्तत्वपरिहारस्त्वार्थिको अवसेयः ।
यद्वा अस्य चेत्यस्य मिथ्यात्वस्यासत्त्वरूपत्वस्य चेत्यर्थः । अव्यवहितपूर्ववाक्ये कण्ठत एवोपात्तत्वेन प्रकृतत्वात् । सिद्ध्यर्थमिति शेषः । एवार्थश्चः । तथा च मिथ्यात्वस्या-सत्त्वरूपत्वस्य सिद्ध्यर्थमेव मूलेनाऽश्रयासिद्ध्यादिप्रदर्शनादिना मिथ्यात्वस्य सामान्य-रूपताया निराकरणात् । मिथ्यात्वस्यैवासत्त्वेनेति पूर्वेणान्वयः । अन्यत्पूर्ववत् ।
यद्वा यः कर्तेति वाक्यस्यैतावानेव भावः । मिथ्यात्वसाधने व्याप्तिबलादसत्त्वस्यापि सिद्धिः पूर्वानुमानफलरूपैवेति पुनरसत्त्वस्य प्रतिक्षेपे सत्प्रतिपक्षत्वं त्वदनुमानस्य । नैव-मीश्वरानुमानस्य । सकर्तृकत्वेनासर्वज्ञकर्तृकत्वस्याप्रतीत्याऽसर्वज्ञकर्तृकत्वसिद्धेस्तत्फलत्वा-भावेन तत्प्रतिक्षेपकानुमानस्य सत्प्रतिपक्षत्वाभावे प्रमेयविशेषकृतमनुमानस्य वैलक्षण्यं प्राप्त-मितीश्वरानुमानप्रतिबन्दीदानं न घटत इति यद्भवताऽभिप्रेतं तन्न सङ्गच्छते । अत्र यः कर्ता नासौ सर्वज्ञ इति व्याप्तिसद्भावेनात्रापि भवदुक्तरीत्या प्रमेयसाम्यादिति १स्वाभिप्रायमुद्घाट्य प्रमेयवैषम्यमुपपादयति ॥ मिथ्यात्वस्यैवेति ॥ तथा च प्रकृते साक्षात्साध्य एव सत्प्रतिपक्षत्वं नैवमीश्वरानुमाने । अतो वैषम्यं युक्तमिति भावः । वैषम्यसाधनेन किमागतमिति चेत् प्रतिबन्द्यादिदातुरयमभिप्रायः । यद्यस्मदनुमानम् उक्तजातीयदूषणबलादसाधकं स्याद् ईश्वरानु-मानमप्यसाधकं स्यात् । न चैवम् । तस्मात्तद्वदिदमप्यसाधकं न भवतीति । न चात्र व्याप्त्यभावः । विशेषव्याप्त्यभावेऽपि यदविशिष्टस्यैकस्य यद्भवति तदन्यस्यापि तद्भवतीति सामान्यव्याप्तिसत्त्वात् । प्रदर्शिता चेयं रीतिः सुधायामेव आभाससाम्योपपादनप्रस्तावे ।
तथा च तत्परिहारे आपादकासिद्धिं वक्तुं तयोर्विशेष उपपादनीय इति तदुपपादनं युक्तमेवेति ।
ननूक्तानुमानस्येश्वरानुमानवैषम्यस्योक्तरीत्योपपादनेनापत्तिपरिहारो न घटते । तद्व्यक्तित्वकृतवैषम्यस्य सर्वत्र सम्भवेन एतादृशापादनमात्रोच्छेदप्रसङ्गात् । किं तु येन यज्जातीयदूषणभूषणवत्त्वान्यतरादिना सजातीयं यत्तत् साधकत्वासाधकत्वान्यतररूपेण तत्सजातीयमिति व्याप्तिमाश्रित्येदमापाद्यते । ईश्वरानुमानेऽपि पूर्वोक्तरीत्या सत्प्रतिपक्षताया उपपादितत्वात् । सत्प्रतिपक्षे भवदुपपादितरीत्या अवान्तरवैचित्र्यस्याकिञ्चित्करत्वादित्यत आह ॥ अस्य चेति ॥ चस्त्वर्थः । प्रकृतत्वादीश्वरानुमानप्रतिपक्षानुमानमस्येति परामृशति ॥ आश्रयेत्यनेन प्रतिपक्षोत्थापनामूलभूतव्याप्त्यादिपरिग्रहः । व्याप्तिमाश्रित्यानुमानं प्रवर्तत इति प्रेक्षावद्व्यवहारात् । आदिपदेन स्थापनानुग्राहकस्य प्रतिपक्षबाधकस्य ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपस् तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते’ इत्याद्यागमस्य ग्रहः । तथा चायमर्थः । ईश्वरानुमानप्रतिपक्षस्य स्वोपष्टम्भकव्याप्तिपक्षधर्मत्वाभावागमबाधादिना निराकरणात् । अस्मदुक्तसत्प्रतिपक्षस्योक्तरीत्या निराकरणायोगेन दृढत्वरूपविशेषसत्त्वान्न मिथ्यात्वानुमानेश्वरानुमानयोः सत्प्रतिपक्षितत्वेनापि साम्यमिति ।
ईश्वरानुमानप्रतिपक्षनिरासस्त्वित्थम् । पूर्वोक्तयथाश्रुतव्याप्तिबलेन क्षित्यादिकर्तारं पक्षीकृत्य क्षित्यादिकर्ता असर्वज्ञः कर्तृत्वात्सम्मतवदिति अनुमानेन असर्वज्ञत्वस्य क्षित्यादिकर्तरि सिद्धत्वात् पुनस् तन्निषेधे अनुमानान्तरेण कृते सत्प्रतिपक्षत्वं परस्परानुमान-योरित्यभिप्रायो वा तद्वाक्यपर्यवसितां सकर्तृकत्वे असर्वज्ञकर्तृकत्वव्याप्तिमवष्टभ्य क्षित्यादाव-सर्वज्ञकर्तृकत्वसिद्ध्या पुनस्तन्निषेधे सत्प्रतिपक्षत्वमिति वाऽभिप्रायो भवेत् । नोभयमपि सम्भवति । सहचारदर्शनेऽपि व्याप्तिग्राहकतर्काभावेन व्याप्त्यसिद्ध्या असर्वज्ञत्वतादृश-कर्तृकत्वसाधकानुमानयोरनुत्थितेः । यः सर्वज्ञ इत्याद्यागमबाधश्च । यो यदपेक्षया अधिक-पदार्थकर्ता स ततोऽधिकविशेषज्ञ इति सामान्यव्याप्तिमूलकप्रबलानुमानबाधश्च । सार्वज्ञ्यं विना क्षित्यादिकर्तृत्वमेवानुपपन्नमित्यनुकूलतर्कोपेतत्वेन स्थापनायाः प्राबल्याच्च । किं च सर्वज्ञत्वतत्कर्तृकत्वसाधकानुमानप्रतिपक्षभूतेनानुमानान्तरेणैतदनुमानसाध्यग्रहप्रतिरोधमात्रं क्रियते किं वा क्षित्यादिकर्तृत्वतन्निष्ठसकर्तृकत्वयोर् व्यापकत्वेन गृहीतसर्वज्ञत्व-तत्कर्तृकत्वा-भावसाधकत्वेन १क्षित्यादौ सर्वज्ञत्वसकर्तृकत्वानुमितिप्रतिरोधः क्रियते । आद्ये प्रथमस्येश्वरानुमानस्य न काचिद्धानिः । तत्र अस्मदादिवैलक्षण्येनेश्वयस्यापि सिद्धेः । द्वितीये क्षित्यादिकर्ता न सर्वज्ञ इत्यस्याश्रयासिद्धिः । क्षित्यादिकमसर्वज्ञकर्तृकं सकर्तृकत्वादित्यनु-मानस्य पक्षे हेत्वसिद्धिः । प्रतिपक्षानुमाने प्रथमानुमानस्यैवालब्धशरीरत्वात् । तथा चानयो-र्दुर्लभत्वेन न सर्वज्ञत्वतत्कर्तृकत्वसाधकानुमानप्रतिबन्धकतेति । आदिपदेनेश्वरानुमानस्याऽगम साहाय्यकथनेनैतदनुमानस्येश्वरासाधकत्वस्य स्वयमेव विष्णुतत्वनिर्णये उक्तत्वादत्र तस्य साधकत्वोक्त्या विरोध इत्यपि निरस्तम् । आगमसाहित्यासाहित्यदशाभेदेनोक्तिद्वयव्यवस्थाया व्यञ्जितत्वादिति ।
केचित्तु किं कर्तृत्वस्यैवासर्वज्ञत्वादिरूपत्वादसर्वज्ञत्वनिषेधकेन सत्प्रतिपक्ष उतोक्तरीत्या परम्परया । नोभयथाप्येतत्साम्यं प्रकृतानुमानस्येति वक्तुमाद्यं तावन्निराह ॥ मिथ्यात्वसाधन इत्यादिना ॥ द्वितीयं शङ्कते ॥ य इति ॥ तथापि वैषम्यमुपपादयति ॥ प्रकृत इति ॥ तथा च वैषम्यमेवेति भावः । अस्य च मिथ्यात्वसाधकानुमानस्य च । आश्रयासिद्ध्यादिना आश्रयासिद्धिमूलका सामान्यासिद्धिः । तन्मूलकं चासत्त्वमिथ्यात्वयोरैक्यस्थापनम् । ततश्चासत्त्वनिरासकहेतुना सत्प्रतिपक्ष इति क्रमेण निराकरणादित्यर्थः । ईश्वरानुमानवैषम्यो-पपादनमात्रेण प्रकृते यद्येनाविशिष्टमित्यभिप्रेतापादकस्य परिहृतत्वेनेश्वरानुमानसदसत्त्व-विचारस्यानवसरात्स न कृत इति व्याचक्षते ।
ननु सत्त्वावच्छिन्नभेद एव यद्यसत्त्वं स्यात्तदा भवेदस्य सत्प्रतिपक्षत्वम् । तदेव न । किं तु निरुपाख्यत्वम् । उपाख्यत्वं तु अखण्डो धर्मो ऽसद्व्यावृत्तः । तदभावो निरुपाख्यत्वम् । शब्दवृत्त्यविषयत्वं वा तत् । ब्रह्मणो वाच्यत्वाभावेऽपि लक्षणागोचरत्वान्नासत्त्वापत्तिः ।
एतेन ‘यद्यसत्त्वमर्थक्रियाकारित्वाभावस् तर्हि तदवच्छिन्नभेदो अर्थक्रियाकारित्वमेव । तदा शुक्तिरूप्ये रजतोचितक्रियारहिते प्रत्यक्षबाधः । तस्यापि कथञ्चिदर्थक्रियाकारित्वमिति पक्षस्तु निराकरिष्यते । तथात्वेऽपि वा सौगताभिमतस्यासत्ख्यातेर्निराकरणाभावः । तेनापि शुक्तिरजते भवदुक्तरीत्या यथाकथञ्चिज् ज्ञानावच्छेदकतया अर्थक्रियाकारित्वस्यानिवारित-त्वात् । असत्त्वेनाभ्युपगते जगति अर्थक्रियाकारित्वस्याभ्युपगतत्वाच्च । नाप्यपरोक्षप्रतीत्य-विषयत्वं प्रतीत्यविषयत्वं वा । तदवच्छिन्नभेदस्यापरोक्षप्रतीतिविषयत्वरूपतया स्वार्थानु-मापकस्य सिद्धसाधनता । प्रतीतत्वस्य धर्मादावपि भावेन व्यभिचारः । अपरोक्षतया प्रतीतत्वस्य हेतुत्वे साध्यावैशिष्ट्यम् । असत्त्वस्य प्रतीतत्वाभावरूपत्वे स्फुटं साध्या-वैशिष्ट्यम् । सर्वस्याप्यस्य शून्यवाद्यभिमततया शून्यवाद्युक्ताद्वैलक्षण्यस्य शुक्तिरजते जगत्यप्य-सिद्ध्याऽर्थान्तरात् । शुक्तिरजतादावुक्तग्रहवतां लौकिकानां मतान्तरानुयायिनां चालीकम-सदिति व्यवहारस्य सत्त्वेन भवदभिमतानुमानेनापि तस्यैव धर्मस्य सिद्धिप्राप्त्या पूर्वोत्पन्नग्रहेऽ-प्रामाण्यग्रहानुत्पादनेनैतत्साधनस्याकिञ्चित्करत्वाच्च । नापि सत्त्वेन प्रतीत्यनर्हत्वम् । तच्च सत्तादात्म्याभावः । तेन गुरुत्वादावतीन्द्रिये इदं सदिति प्रात्यक्षिकप्रतीत्यभावेऽपि न क्षतिः। तस्यापि फलाद्यवच्छिन्नसद्रूपचित्येवाध्यस्तत्वेन सत्तादात्म्याक्षतेः । एवं च शुक्तिरजतादेर-सत्त्वग्रहवतां तादृशसत्तादात्म्यस्यासिद्धत्वेन प्रतीतत्वप्रत्यक्षप्रतीतत्वादिलिङ्गैस्तादृशासत्त्वा-भावरूपसत्तादात्म्यानुमितिर्विशेषग्रहवतां परीक्षकाणामुपपद्यते इति वाच्यम् । तत्र सत्ता-दात्म्यस्य भेदप्रतियोगितावच्छेदकसत्त्वघटितत्वे तदघटितत्वे वा दूषणानां पूर्वमुपपादि-तत्वादिति निरस्तम् ।
निरुपाख्यत्वरूपासत्त्वाभावरूपसोपाख्यत्वस्यैव साध्यत्वेन तस्य च भेदप्रतियोगिता-वच्छेदकसत्त्वापेक्षया अतिरिक्तत्वेन व्याघातादिविरहादित्यत्राप्येतदेवोत्तरम् ॥ अस्य चेति ॥ मिथ्यात्वान्यनिरुपाख्यत्वनिष्ठस्य प्रकृतसाध्यरूपभेदप्रतियोगितावच्छेदकत्वेनाभिमतासत्त्व-तादात्म्यस्य पूर्वोक्तरीत्या परामर्शः । चोप्यर्थः । असत्त्वव्यवहारगोचरव्यावृत्ताश्रया-सिद्ध्यादिना निराकरणादित्यर्थः । आदिपदेन प्रमाणाभावपरिग्रहः । पञ्चम्याः पूर्वेणान्वयः । यदवच्छिन्नभेदः प्रतीतत्वेन साध्यः मिथ्यात्वस्यैव तादृशासत्त्वरूपत्वेनेत्यर्थः ।
इदमुक्तं भवति । सोपाख्यत्वं नाम कश्चिदखण्डो धर्मः सद्व्यवहारगोचरेष्वेव स्वीक्रियते उतान्येष्वपीति । आद्येऽपि परीक्षादिप्रवृत्तावपि यन्नासद्व्यवहारभागि किं तु सर्वथैव यत्सद्व्यवहारालम्बनं तत्रैव उत कदाचित्सद्व्यवहारगोचरेष्वपि । आद्ये शुक्तिरजतादेरतथात्वेन घटादेरेव तथाभूततया परीक्षादिनाऽसदेव रजतमभादिति सद्भेदग्रहवता तत्र निरुपाख्यत्वस्यैव गृहीतत्वेन तदवच्छिन्नभेदसाधने सत्प्रतिपक्ष एव । द्वितीये शशविषाणदेरपि शब्दादिना सत्त्वेन प्रतीतिसम्भवान् निरुपाख्यत्वस्य यस्य सर्वथा सत्त्वेन प्रतीतिरपरोक्षप्रतीतिर्वा नास्ति तादृशासद्विशेषे पर्यवसन्नत्वेन तद्भेदसाधने शशविषाणादिरूपासद्विशेषभेदसाधनवदर्थान्तर-त्वात् । शून्यवादिलौकिकादिसिद्धालीकादिव्यवहारविरोधिधर्मस्यासाधनात् । उक्तधर्मस्य सत्त्वेन प्रतीतिविषयत्वाभावापरोक्षप्रतीतिविषयत्वाभावसमनियतत्वेन तदभावस्य सत्त्वेन प्रतीतिविषयत्वापरोक्षप्रतीतिविषयत्वमात्रे पर्यवसानात् । तृतीये सोपाख्यत्वस्य सर्व-साधारण्यापत्त्या तदभावरूपनिरुपाख्यत्वस्यैवासिद्धिप्रसङ्ग एवेति न तदवच्छिन्नभेदसिद्धिः । उपाख्यत्वस्याप्युक्तप्रतीतिविषयत्वाद्यतिरिक्ताखण्डधर्मरूपत्वे मानाभावेच्चेति ।
अथ शब्दवृत्तिविषयत्वरूपोपाख्यत्वाभावरूपासत्त्वाभावः साध्यत इति चेन्न । तथात्वेऽपि तस्य शब्दवृत्तिविषयत्वरूपस्यासत्ख्यातिवादिना सौगतविशेषेण पुरुषान्तरेण चेदं रजतमिति व्यवहाराद्यनुपपत्त्या स्वीकृतत्वेनासत्त्वालीकत्वादिव्यवहारविरोध्यनिर्वचनीयत्वा-सिद्ध्या पूर्ववदर्थान्तरतापत्तेः । न च तस्यासत्त्वविरोधं जानतः परीक्षकस्य तज्ज्ञाने असत्त्वबुद्धिव्यवहारादयो निवर्तन्त इति वाच्यम् । सद्विविक्तत्वरूपासत्त्वसामानाधिकरण्यस्य भवतैवाङ्गीकृतत्वेन तदन्यस्य सत्त्वाभावाद्यतिरिक्तस्योपाख्यत्वविरोधिनो असत्त्वरूपधर्मस्य आश्रयासिद्ध्या शुक्तिरजतादिवैलक्षण्येन तद्धर्माश्रयग्राहकप्रमाणाभावेन आदिपदोपात्त-व्याहत्यादिना निराकरणादेव तदप्ययुक्तमित्यर्थकतयैतदेव वाक्यमुत्तरम् । तादृशधर्माश्रय-सद्विलक्षणे प्रत्यक्षाप्रसक्तौ तस्य शुक्तिरजतादिवैलक्षण्यासिद्ध्यापत्त्येन्द्रियसन्निकर्षासम्भवेन च प्रत्यक्षाभावादत एव लिङ्गाभावाच्छब्देनापि तदबोधने प्रमाणसामान्यस्यैवाभावेन धर्मिणं विहाय तादृशधर्मस्येतरव्यावृत्ततया बुद्धावनारोहे तदवच्छिन्नभेदसाधनायोगः । अवृत्तित्वेन तादृशधर्मग्रहे तदभावस्य केवलान्वयितया तत्साधनं प्रमेयत्वादिसाधनवदकिञ्चित्करम् । अर्थान्तरप्रसङ्गात् । भेदासाधनार्थं तादृशधर्माश्रयस्य शब्देनैव व्यवहृततया अस्य शब्दविषयत्वविरोधोक्तेर्व्याहतत्वाच्च । न च शब्दजन्यानुभवाविषयत्वेऽपि लक्षणया योगवृत्त्वा वा विकल्पसम्भवेन व्यवहारनिषेधयोः सम्भवान्न व्याहतिरिति वाच्यम् । अस्याग्रे निराकरिष्यमाणत्वादयं पक्षोऽत्यसमञ्जस इति भावः । उत्पत्तिमत्त्वाभावः कालसम्बन्धाभावो वा यद्यसत्त्वं तदभाव उत्पत्तिमत्त्वकालसम्बन्धित्वरूप इति त्रैकालिकनिषेधप्रतियोगित्वादि-रूपहेतुसाध्यत्वेन गृह्यमाणे कालसम्बन्धघटितोत्पत्तेः कालसम्बन्धस्य च व्याहतत्वादिना च पूर्वमेव निराकृतत्वात् सौगतमतावैलक्षण्याच्च । प्रतीतत्वमापरोक्ष्येण प्रतीतत्वं सत्त्वेन तथा प्रतीतत्वमित्येतेषां नित्येषु घटत्वसत्त्वादिषु व्यभिचार इत्येषा दिक् ।
कश्चिदनिर्वचनीयस्थापनाय बहूक्त्वाऽनिर्वनीयं साधितमित्यभिमानेन ‘तस्मादेवम-निर्वचनीयत्वप्रसिद्धौ भेदे अनिर्वचनीयत्वादिविकल्पस्य तन्मूलकप्रश्नादेश्चोपपन्नत्वाद्विकल्पेन दूषणमपि सम्भवतीति बोध्यम्’ इत्यन्तेनोपसंहृत्य न च धूमत्ववन्मिथ्यात्वमित्यादिमूलटीके कटाक्षीकृत्योक्तवान् । ‘मिथ्याशब्दस्य सद्विलक्षणत्वमेवार्थः । तच्चात्यन्तासदनिर्वाच्य-साधारणम् । न च सामान्यस्य सदसदुभयवृत्तित्वायोगः । पटात्यन्ताभावप्रतियोगितायाः सदसत्साधायण्यस्य त्वयैव वाच्यत्वात् । प्रतियोगिताः प्रतियोगिभेदेन भिद्यन्ते । अतो नैकस्योभयसाधारण्यमिति चेत् पूर्वोक्ताभावप्रतियोगित्वरूपमित्थात्वस्याप्यनुभयसाधारण्य-मक्षतमेव । किञ्च किं बहुना धूमत्वसाम्यमपि व्यावहारिकप्रातिभासिकसाधारण्यमेव’ इति ।
स प्रष्टव्यः । किमनेनैतद्ग्रन्थस्य दूषणमुक्तं भवतीति । आश्रयासिद्ध्या सामान्यं न सम्भवतीत्युक्तिखण्डनद्वारा सामान्यसिद्धिपरिशेषादेः स्थापनमिति चेत् । न ह्येतट्टीकायां मूले चासति सति च कोऽपि धर्मो मिलित्वा नास्तीत्युक्तम् । ज्ञेयत्वादेरेवाङ्गीकृतत्वात् । अत एव सैद्धान्तिकानामपि परस्परविप्रत्तिगोचरं प्रामाणिकप्रतियोगिकोऽपि भवत्यत्यन्ताभाव इति पक्षमाश्रित्य पटात्यन्ताभावप्रतियोगितायां सदसत्साधारण्यप्रदर्शनमचातुर्यमूलकमेव । न च तद्युक्तमपि । एकस्यैव पटात्यन्ताभावस्व प्रतियोगितायाः सदसदुभयसाधारण्यस्य प्रामाणिक-प्रतियोगिकाभाववादिसैद्धान्तिकेनाप्यनङ्गीकृतत्वात् । प्रतियोगितावच्छेदकीभूतपटत्वस्य सदसदुभयवृत्तित्वस्य तेनाऽप्यनङ्गीकृतत्वात् । पटात्यन्ताभावप्रतियोगिता सत्सु पटेष्वेव स्वीकृता । दण्हजन्यपटो नास्तीति प्रतीतिसिद्धाभावप्रतियोगिता त्वसति तेन स्वीकृता । किं तु टीकामूलयोः पूर्वोक्तास्मद्व्याख्यारीत्या स्वरसत एव ग्रन्थलभ्यानिर्वचनीयस्यासद्विलक्षण-त्वादिनाऽसिद्धेः सद्विविक्तत्वस्यानिर्यचनीयासदुभयसामान्यत्वग्रहो न सम्भवतीत्यादि-रूपोऽभिप्रायः । अत एव टीकायामनिर्वचनीयस्यैवाभावादिति विहाय प्रागितो अनिर्वचनीयस्यैवासिद्धत्वादिति, न चाश्रयाभावे सामान्यं भवतीत्यनुक्त्वा न चाश्रयासिद्धौ सामान्यं सिद्धं भवतीति चोक्तम् । एवं बहुष्वेतत्प्रघट्टिकास्थवाक्येषु ज्ञातत्वावच्छिन्नबोधक-सिद्धपदप्रयोग एव कृतः । मूलेऽपि न च धूमवत्ववन्मिथ्यात्वमिति सामान्यमस्तीत्यनुक्त्वो-भयसम्प्रतिपन्नमित्यनेन सामान्यत्वाभिमतस्यानिर्वचनीयत्वसिद्धेः प्राग्ज्ञातत्वनिराकृतावेव निर्भरः कृतः । तस्मात्स्वमतेन तस्य वस्तुतः सामान्यरूपत्वोपपादनमुक्तमूलटीकाशया-परिज्ञानविजृम्भितमेव । यदपि प्रतियोगिता प्रतियोगिभेदेन भिद्यत इत्यादिना तस्य सामान्य-रूपत्वाभावशङ्कनं तत् कस्य रीत्येति वक्तव्यम् । अप्रसिद्धविशेषणत्वोपपादनमारभ्य नैयायिकरीत्याऽस्य ग्रन्थस्य प्रवृत्तत्वात्तस्यैव रीत्येति न तावद्युक्तम् । पटात्यन्ताभाव-प्रतियोगितायाः सदसत्साधारण्यस्य नैयायिकानभिमतत्वेन पूर्वं तस्य तत्प्रतिबन्द्यगोचरत्वात् तन्मतानुसरणे नैयायिकं प्रति पूर्वोक्तत्वदुक्तिरसङ्गता । नापि मन्मतरीत्या । मन्मते सर्वस्यापि धूमत्वादेः प्रत्याश्रयं भिन्नत्वेऽपि विशेषशक्त्या सामान्यव्यवहारनिर्वाहकत्वप्रयुक्तसामान्य-रूपत्वस्याङ्गीकृतत्वेनाश्रयभेदेन भेदस्य सामान्यरूपत्वाखण्डकत्वात् । एकस्योभयवृत्तित्वा-भावशङ्कायाः प्रकृते अनुपयोगात् । घटत्वपटत्वादिधर्मान्तरेषु क्लृप्तरीतेरत्रापि सम्भवात् । नापि तटस्थस्य सिद्धान्तिमतानभिज्ञस्य कस्यचिदाशङ्केयमिति साम्प्रतम् । तथात्वे सिद्धान्तिमत-प्रदर्शनपूर्वकं तं प्रति स्वोक्तस्योक्तप्रतियोगित्वस्य सामान्यरूपताव्यवस्थापनस्यैव कर्तव्यतया मिथ्यात्वस्याप्यनुभयसाधारण्यादिति मिथ्यात्वस्योभयसाधारण्याभावरूपसामान्यत्वाभाव-कथनस्यानुपयोगात्पूर्वोक्तार्थव्याहतत्वाच्चायुक्तमेव । तद्वाक्ये सद्विलक्षणत्वरूपमिथ्यात्वमुपक्रम्य पूर्वोक्तप्रतियोगित्वरूपमिथ्यात्वेत्युक्तिस्तु त्रैकालिकनिषेधाप्रतियोगिरूपसद्वैलक्षण्यं तादृश-प्रतियोगित्वरूपमेवेत्याशयश्चेत्कथञ्चिद्युक्ता । किञ्च किं बहुनेत्यादिना यदुत्तरमूलटीकादूषण-मुत्प्रेक्षितं तदाभासत्वव्युत्पादनमुत्तरमूलटीकाव्याख्यावसरे स्फुटीभविष्यतीत्यलम् ।