अनुमानस्य चाप्रसिद्धविशेषणः पक्षः
**अप्रसिद्धविशेषणत्वस्यासाधकत्वहेतुत्वसमर्थनम् **
अनुमानस्य चाप्रसिद्धविशेषणः पक्षः
**श्रीमज्जयतीर्थटीका **
अथ कथमप्रसिद्धविशेषणत्वमसाधकत्वे हेतुः । व्याप्तिपक्षधर्मताविरहात् । न ह्यप्रतीतेन कस्यापि व्याप्तिश्शक्यग्रहा । सन्दिग्धसाध्यदर्मवांश्च पक्षः । न चाप्रसिद्ध-विशेषणोल्लेखी सन्देहो युज्यते ।