अनुमानस्य चाप्रसिद्धविशेषणः पक्षः ..
अनिर्वचनीयस्यानुमानसिद्धत्वशङ्का तन्निरासश्च
**श्रीमज्जयतीर्थटीका **
माभूत्प्रत्यक्षेणानिर्वचनीयार्थसिद्धिः । विवादपदमनिर्वचनीयम् । बाध्यत्वात् । यन्नानिर्वचनीयं न तद्बाध्यं यथात्मेत्यनुमानेन भविष्यतीत्यत आह
मूलं
अनुमानस्य चाप्रसिद्धविशेषणः पक्षः ।
चशब्दः प्रत्यक्षनिराकरणेनानुमाननिराकरणसमुच्चये वर्तते ।