न च भेदे विकल्पो युज्यते ..
ज्ञानिकृतप्रश्नस्य संशयमूलकत्वाभावेऽपि प्रकृतसंशयस्य तन्नैयत्यसमर्थनम्
***न च भेदे विकल्पो युज्यते ***
**श्रीमज्जयतीर्थटीका **
अस्तु वा अन्यत्र प्रश्नो यथा तथा । अनेककोट्यवलम्बी प्रकृतस्तावत्सन्देहमूल एवाङ्गीकार्यः ।
**द्वैतद्युमणिः **
प्रश्नस्य पुरुषविशेषकर्तृकस्यायोगेऽपि हेतोरुक्तदूषेणन दुष्टत्वेन गृहीतत्वात्कथं तस्य साधकतेत्यत आह ॥ इदमुक्तं भवतीति ॥ आस्तामित्यादि ॥ तथा च प्रश्नस्या-युक्तत्वमनिर्वचनीयस्याप्रामाणिकतां विना न पर्यवस्यतीति भेदत्वेन वोत्सर्गतः पदस्वाभाव्यात् प्रतीयमानपारमार्थिकत्वसहितभेदत्वेन वा साध्यत्वे न किञ्चिद्दूषणमिति प्रकृतानुमानात्साध्य-सिद्धिर्निष्प्रत्यूहेति भावः । प्रश्नेन युक्तप्रश्नेन । उद्भावनं सदुत्तररूपोद्भावनम् । तथा च १वादिवाक्येन हेतावप्रामाण्यग्रहानास्कन्दितदुष्टत्वग्रहो दुष्टत्वग्रह एव वा न जायत इति भावः ॥ सङ्क्याविशेषेति ॥ द्वित्वमात्रत्रित्वमात्रसामानाधिकरण्येनेत्यर्थः ॥ अन्यतम-जिज्ञासायामिति ॥ एतच्च ‘समानानेकधर्मोपपत्तेर्विप्रतिपत्त्युपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः’ इति न्यायसूत्रे विशेषजिज्ञासाया विशेषापेक्षपदेन संशयकारण-कोटौ परिगणितत्वादुक्तम् । तत्र तत्परिगणनं च साधारणधर्मादिज्ञानवत्संशयान्वय-व्यतिरेकानुभवमाश्रित्य वा संशयप्रतिबन्धकीभूतपदार्थान्तरविषयकलौकिकप्रत्यक्षादिसामग्री-विघटकतया प्रायेणोपयोगाद्वेति ज्ञेयम् ॥ न्यायप्राप्तत्वेनेति ॥ संशयसामग्रीरूपलिङ्ग-जन्यानुमितिविषयत्वेनेत्यर्थः ॥ अस्तुवेति ॥ अन्यत्र विशेषरूपेण कोट्यनुल्लेखस्थले । यथा तथा सामान्यरूपेण ज्ञातकोटीनां विशेषरूपेणाज्ञानेनापि । अनेककोट्यवलम्बी विशेष-रूपेणानेककोट्युल्लेखी । अत्र विशेषः भक्तिपादसुधाव्याख्यायां यादवाचार्यैरुक्तोऽनुसन्धेयः।