०९ पूर्वोक्तानमाने हेतुपरिष्कारः

विमतो भिन्नो मुक्तत्वात्….

पूर्वोक्तानमाने हेतुपरिष्कारः

**विमतो भिन्नो मुक्तत्वात्..

**श्रीमज्जयतीर्थटीका **

ननु मुक्तत्वं संसारप्रध्वंसो वा तत्संसर्गाभावो वा । नाद्यः । परमात्मन्यसिद्धेः । निगडमुक्तादिदृष्टान्तस्य साधनवैकल्यापत्तेश्च । अत एव न द्वितीयोऽपीति । मैवम् । अविवक्षितविशेषबन्धसंसर्गाभावस्य हेतुत्वात् । ननु चात्र बन्धाभावाधिकरणत्वं हेतुः । अभावाधिकरणत्वमात्रेणालम् । केवलान्वयित्वेन विशेषण-व्यावर्त्याभावात् । अपि चाधिकरणत्वमात्रेणालम् । किमभावग्रहणेन । किं च १अधिकरणं कारकविशेषः । कारकत्वमात्रेणालं किं विशेषग्रहणेन । एवं कारकं कारणविशेषः । कारणत्वमात्रेणालम् । तत्किं विशेषेणेति । मैवम् । तथा सति प्रमेयत्वादीनामपि केवलान्वयित्वभङ्गप्रसङ्गात् । प्रमाविषयत्वं प्रमेयत्वम् । २तत्र विषयत्वमात्रेणालम् । किं प्रमाग्रहणेनेत्यादेस्तत्रापि सुवचत्वात् । यद्धेतुव्यवच्छेदकत्वेन पृथगुपादीयते तदेव विशेषणं प्रयोजनान्तरमपेक्षते । न पुनस्तन्मात्रान्तर्गतमिति चेत् । समं प्रकृतेऽपि ।