सर्वत्राखिलसच्छक्तिः..
अनुमानस्येश्वरे प्रामाण्यसमर्थनम्
**सर्वत्राखिलसच्छक्तिः..
**श्रीमज्जयतीर्थटीका **
अनुमानमपि रमापतिं गमयतीत्याशयवानाह ॥ नित्यातादृशचिच्चेत्यय-न्तेति ॥ अत्र तदिति सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शन इत्युक्तं परामृश्यते । चिच्चेतनं रमाब्रह्मादि । चेत्यं दृश्यं जडं प्रकृत्यादि । ननु चेत्यता चितोऽप्यस्ति । यद्वक्ष्यति आत्मनोऽपि दृश्यत्वादिति । तत्कथमुच्यते चेत्यं दृश्यं जडमिति । सत्यम् । चितः पृथगभिधानात्समानोऽपि चेत्यशब्दो जडविषयोऽवगम्यते । चेत्यग्रहणादेवोभयलाभे सति किं चिद्ग्रहणेनेति चेत्सत्यम् । कुरुपाण्डवन्यायेनाऽसाधारणधर्मेण व्यवहारोपपत्तिः । नित्यमतादृशे अपर्याप्तशक्तिनी अस्वतन्त्रे असर्वज्ञे चिच्चेत्ये यन्तेति विग्रहः ।
**द्वैतद्युमणिः **
एवमागमप्रामाण्यमुपपाद्य तस्य सोपपत्तिकत्वेन स्वार्थे तात्पर्यदृढीकरणा-यानुमानप्रमाणपरतयापि विशेषणानि योजयितुमाह ॥ अनुमानमपीति ॥ तदितीति ॥ नित्यातादृशेत्यत्रत्यतच्छब्देनेत्यर्थः ॥ दृश्यमिति ॥ चिती संविज्ञान इति धातोः कर्मणि यत्प्रत्ययेन लब्धमक्षरार्थमुक्त्वा तेन रूपेणापि तात्पर्यविषयीभूतमर्थमाह ॥ जडमिति ॥ कुरुपाण्डवन्यायेनेति ॥ अत्र कुरुपाण्डवशब्देन तच्छब्दघटितवाक्यविशेषः परामृश्यते । न्यायपदं तद्वाक्यस्य पौनरुक्त्यपरिहारकयुक्तिपरम् । असाधारणधर्मेण पदान्तरबोध्यधर्मन्यून-वृत्तिधर्मेण । व्यवहारपदं ज्ञानजनकशब्दरूपप्रकृतवाक्यपरम् । धर्मेणेति तृतीयार्थः प्रकारकत्वं ज्ञानेऽन्वेति । न्यायेनेति तृतीयार्थो ज्ञाप्यत्वम् उपपत्तिपदार्थभूतपौनरुक्त्यभावेनान्वितम् । तथा च कुरुपाण्डवपदघटितवाक्यनिष्ठपौनरुक्त्यपरिहारकयुक्तिज्ञाप्यो असाधारणधर्मप्रकारक-ज्ञानजनकप्रकृतवाक्यस् तन्निष्ठपौनरुक्त्यभावस्तस्मादित्यर्थः । कुरूणामित्युक्तावपि पाण्डवेषु कुरुत्वाग्रहदशायां पाण्डवसन्तानबीजत्वाभावभ्रमं क्षिप्रमपनेतुं यथा पाण्डवशब्दप्रयोगस्तथा प्रकृतेऽपि जडस्य स्वतः शक्तिशून्यत्वात्तस्येश्वरनियम्यतास्तु । चेतनस्य जडनियामकतयोप-लभ्यमानस्य ईश्वरवच्चेत्यपदेन ग्रहणाभावात्तदन्यपरमेव चेत्यपदमिति भ्रमेण चिन्नियामकत्वा-भावभ्रमः स्यात् । तत्परिहाराय विशेषरूपेणैव तद्ग्रहणमतो न पौनरुक्त्यादीति भावः । नित्यपदस्य ध्वंसाप्रतियोग्यर्थत्वे केषुचिज्जडेषु बाधादसङ्ग्रहापत्तिरित्याशङ्क्य सार्वदिकार्थक-क्रियाविशेषणेन समास इत्याह ॥ नित्यमिति ॥ अत्र नित्यमित्यस्य नातादृशत्वपदार्थे-नैवान्वयः । किं तु नियन्तृत्वेऽपि । ‘नित्येत्यतादृशत्वस्य नियन्तृतायाश्च स्वरूपसङ्कीर्तनम्’ इति वक्ष्यमाणत्वात् ।
ननु तन्त्रेणैवोभयत्रान्वयः स्वीकरर्वः । न च तस्य हेतुकोटौ वा साध्यकोटौ वा प्रयोजनभावे एकदोच्चरितशद्बस्योपस्थित्यादिद्वयकल्पनारूपतन्त्रानुसरणं युक्तम् । किं तु स्थितस्य गति-श्चिन्तनीयेति न्यायेनातादृशत्वस्वरूपकीर्तनपरमित्येव वक्तव्यम् । तथा च नियन्तृतायाः स्वरूपकीर्तनत्वकथनस्यैव वक्ष्यमाणस्यायुक्तत्वात्तदनुरोधेनोभयत्रान्वयस्वीकरणमयुक्तमेवेति चेन्न ।
अत्र केचिद् विनिगमकाभावान्नित्यमतादृशे इति नित्यं चिच्चेत्ययन्तेति च योजना-द्वयमप्यभिमतम् । न च नित्यातादृशपदयोः सान्निध्यमेव विनिगमकमिति वाच्यम् । द्वितीय-योजनायाम् अतादृशशिच्चेत्ययन्तेति विशिष्टपदस्यैव नित्यमिति पदसान्निध्येन तस्याविनिगम-कत्वात् । न च नित्यमतादृशे इति एकत्रैव तदन्वयप्रदर्शनं विरुद्धमिति वाच्यम् । इहान्वयप्रदर्शनं न कृतम् । किं त्वेतत्समासघटकं नित्यपदं ध्वंसाप्रतियोग्यर्थकं न भवति । किं तु सार्वदिकार्थकमिति सूचनाय शब्दस्वरूपमात्रनिर्देशः कृतः । योजनायां तु स्ववक्ष्य-माणानु सारेणैवेत्यभिप्रायात् । न चैवं विकल्पेन योजनाद्वयस्वीकारे नित्येत्यतादृशत्वस्य नियन्तृताया वा इति वक्तव्यम् । समुच्चायकचशब्दस्त्वयुक्त इति वाच्यम् । योजनाभेदे-नेत्याध्याहारेण वा चशब्दस्य वा शब्दार्थत्वेन वोपपत्तेरित्याहुः ।
परे तु चिच्चेत्यनिष्ठास्वातन्त्र्यादेरसार्वदिकत्वे तस्यैव पर्याप्तशक्त्यादिदशायामितर-नियामकत्वसम्भवादीश्वरत्वेन भवदभिमतवुरुषनिष्ठनियामकताया अपि राजादिनिष्ठ-नियामकतावत्कादाचित्कत्वे तत्कालेऽन्यस्य नियामकस्यावश्यकत्वाच् चिच्चेत्ययोरेव कथञ्चिन्नियम्यनियामकभावेनोपपत्त्या नैतद्विलक्षणेश्वरः सिद्ध्यतीत्यर्थान्तरतावरिहारायोभयत्र विशेषणमुपात्तम् । तेन च सर्वदाप्यपर्याप्तशक्तित्वादन्धपङ्गुन्यायेन प्रवृत्त्यारम्भ एव न घटते । एतन्निष्ठनियामकतायाः सदा सम्भवान्नात्र तद्दोषोऽतो विलक्षणेश्वरोऽङ्गीकार्य इति सिद्ध्यति । एतदेवाभिप्रेत्य चिच्चेत्ये एवान्धपङ्गुन्यायेनेत्याद्याशङ्क्य समाहितम् । नित्यपदस्य हेतुकोटौ साध्यतावच्छेतककोटौ वा निवेशाभावतात्पर्येण स्वरूपसङ्कीर्तनमित्युक्तम् । न तु सर्वथा निरर्थकत्वाभिप्रायेण । अत एव समित्युक्तम् । अन्यथा प्रेमयत्वमपि कुतो न स्वरूप-कथनार्थमुक्तम् । एवं च तन्त्रेणैवोभयत्रोपादानं कर्तव्यमेवेति प्राहुः ।
**श्रीमज्जयतीर्थटीका **
इदमुक्तं भवति । १चिच्चेत्ये खल्वपर्याप्तशक्त्यादिमत्तया प्रत्यक्षादिसिद्धे । अन्यथा नित्यसुखादिप्रसङ्गात् । यच्चैवंविधं तत्केनापि नियतमेव प्रवर्तमानमुपलब्धम् । यथा रथादि । तदेताभ्यामपि येन केनचिन्नियताभ्यां भवितव्यम् । यश्चैतन्नियंता स भगवान् रमापतिरिति । नित्येत्यतादृशत्वस्य नियन्तृतायाश्च स्वरूपसङ्कीर्तनम् । चित एव पक्षीकारे प्रकृतिनियततया साङ्ख्यानां कर्माधीनतया च मीमांसकानां सिद्धसाधनं स्यात् । तत्परिहाराय चेत्यस्यापि परायत्ततया चिन्नियततासम्भवप्रदर्शनाय पक्षीकरणम् । चेत्यमात्र-पक्षीकारे च लोकदृष्ट्या पाशुपतादिस्मृतिरित्या च चिन्नियततया सिद्धसाधनं स्यात् । तन्निरासाय चितोऽपि पक्षीकारः । न च चिच्चेत्य एवान्धपङ्क्षुन्यायेनान्योन्यनियते भविष्यतः किमीश्वरेणेति वाच्यम् । स्वतः शक्तिमात्रशून्ययोरितरेतराश्रयेण इतरेतरप्रत्यासत्तेरेवा-योगात् । प्रयोजनमननुसन्दधदयं न नियच्छेत् । तदनुसन्धाने चापूर्णः स्यादिति तर्कपराहतिपरिहाराय नियमनशीलत्वात्प्रयोजनानुसन्धानाभावेऽपि तदुपपन्नमिति ज्ञापयितुं यन्तेति ताच्छीलिकतृन्नन्तप्रयोगः । तथा च श्रुतिः ‘देवस्यैषः स्वभावोयम्’ इति ।
न च रुद्रादीनामिव रमापतेरपि कथं चिच्चेत्ययन्तृतोपपत्तिरिति वाच्यम् । यतोऽ-सावपर्याप्तशक्तित्त्वादीनां हेतूनां पक्षधर्मताबलेन सिद्ध्यन्पूर्णशक्त्यादिरूपेणैव सिद्ध इत्याशय-वानाह ॥ सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शन इति ॥ सर्वत्र सकलचिच्चेत्य-नियमनविषये अखिला पर्याप्ता सती प्रतिबन्धादिदोषरहिता शक्तिर्यस्यासौ तथोक्तः । स्वतन्त्रः स्वेच्छाधीनप्रवृत्तिः । अशेषविषयत्वादशेषं दर्शनं यस्यासावशेषदर्शन इति ।
**द्वैतद्युमणिः **
॥ इदमुक्तं भवतीति ॥ ननु नियामकत्वेनैतदनुमानेनेश्वरसिद्धेरेतदनुग्राहकं ‘एष त आत्मा अन्तर्याम्यमृतः’ इत्यादिकमेव वाक्यमीश्वर आगमतयोदाहर्तव्यम् । तद्विहाय किमर्थं द्यावाभूमीत्यादिजगत्कर्तृत्वप्रतिपादकागमोदाहरणमिति चेत् । सत्यम् । तदपि पूर्वमादिपदेन गृहीतम् । नियन्तेत्याद्युक्तिः कर्तृत्वादेरुपलक्षणपरा । क्षित्यादिकर्तृत्वेनापीश्वरः सिध्यति । नियामकत्वोक्तिस्तु उत्तरग्रन्थोत्थानाय । अतः क्षित्यादिकं सकर्तृकम् इत्यनु-मानेनेश्वरो न सिद्ध्यतीति न भ्रमितव्यमिति सूचनाय तदनुग्राहकमेव कण्ठत उपात्तमित्य-दोषः ॥ प्रत्यक्षादिसिद्धे इति ॥ असिद्धिपरिहारायेदम् ॥ यथा रथादीति ॥ पक्षास्यापि रूपान्तरेण दृष्टान्तत्वमविरुद्धम् । सामानाधिकरण्येन सिद्धेर्विरोधित्वाङ्गीकारेऽपि रूपान्तरेण सिद्धेः रूपान्तरेणानुमितावविरोधित्वादिति भावः ।
॥ चितोऽपि पक्षीकार इति ॥ ननु किमत्र पक्षतावच्छेदकम् । न चित्त्वं नापि जडत्वमन्यतरासङ्ग्रहप्रसङ्गात् । नापि तदन्यतरत्वम् । सामानाधिकरण्येन साध्यसाधने सिद्धसाधनताया अवच्छेदकावच्छेदेन साधने चांशे बाधस्य चापत्तेः । नापि जीव-जडान्यतरत्वम् । रमया स्वमतेऽर्थान्तरत्वापत्तेः । नापि तद्घटितान्यतमत्वम् । ईश्वरवत्तस्या अप्यज्ञातत्वेन तद्घटितपक्षतावच्छेदकाग्रहात् । नापीश्वरान्यत्वम् । तस्यासिद्धिकाले तदन्यत्व-विशेषणस्यासिद्धेरिति चेन्न । यतोऽत्रास्वतन्त्रत्वापर्याप्तशक्तित्वादीनामेकस्य पक्षतावच्छेदकत्वे परस्य हेतुत्वमिति बोध्यम् ।
ननु किमिदमस्वतन्त्रत्वम् । न स्वतन्त्रभेदः । अपर्याप्तशक्तिमत्वं न पर्याप्तशक्तिमद्भेदः । एतदनुमानात्प्राक् प्रतियोग्यप्रसिद्ध्या तादृशविशेषणाप्रसिद्धेः । नापि स्वातन्त्र्याभावः पूर्णशक्त्यभावश्च । तस्यापि प्रतियोग्यप्रसिद्ध्या मीमांसकादीन् प्रति पक्षतावच्छेदकाप्रसिद्धेः । तान्प्रत्येवेदानीमीश्वरस्य सिषाधयिषितत्वात् । स्वपक्षेप्येतादृशानुमानात्प्राक् पूर्णशक्तित्वादि-धर्माणामनुपस्थित्या तदभावग्रहासम्भवाच्च । नाप्यल्पविषयकशक्तिमत्त्वमपर्याप्तशक्तिमत्त्वं स्वरूपसत्ताप्रवृत्त्यादौ परापेक्षत्वमस्वातन्त्र्यमिति भावरूपमेवैतदिति । जडे शक्तेरभावेनाल्प-शक्तिमत्त्वस्य पक्षतावच्छेदकत्वे जडासङ्ग्रहस्य हेतुत्वे भागासिद्धेरापातात् । न च जडेऽल्पशक्तिः सम्भवति ।
अल्पशक्तिरसार्वज्ञ्यं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वं … … … ॥
इति जीवधर्मत्वोक्तेश्च । अस्वातन्त्र्यस्य प्रवृत्त्यादौ परनियम्यत्वघटितस्य साध्य-स्वरूपतया तस्य पक्षतावच्छेदकत्वे वा हेतुत्वे वा तत्प्रसिध्द्यैव कृतार्थतयाऽनुमानवैयर्थ्यात् । न च पराधीनप्रवृत्तिकत्वपराधीनसत्ताकत्वयोरेकस्य साध्यत्वमपरस्य पक्षतावच्छेदकत्वं हेतुत्वं वेति वाच्यम् । प्रवृत्तेर्यत्नरूपत्वे जडे तदसम्भवः । क्रियारूपत्वेप्यव्याकृताकाशकालदि-रूपव्याप्तजडासङ्ग्रहः । तथा च यथासम्भवं बाधासिध्द्यादिदोषप्रसङ्गः । न च सत्ता-प्रवृत्त्याद्यन्यतमेषु परापेक्षत्वमस्वातन्त्र्यं पक्षतावच्छेदकं हेतुर्वा, एकमात्राधीनतावदन्यतमकत्वं साध्यमतः साध्यकोटावधिकनिवेशान्नानुमानवैयर्थ्यमिति वाच्यम् । तादृशसाध्यस्य रथादाव-भावेन व्यभिचारस्फूर्त्या व्याप्तिग्रहायोगात् ।
सर्वज्ञभेदरूपस्य सर्वज्ञानाभावस्य वा पूर्ववदप्रसिद्धिः । स्वमते दुर्ग्रहता च । सर्वाविषयकज्ञानवत्त्वं च जडासङ्ग्राहकमिति न तस्यापि पक्षतावच्छेदकत्वादिकं युक्तम् । नापि अल्पशक्तिमत्त्वमेवापर्याप्तशक्तित्वम् । जडेऽपि कार्यानुकूलशक्तेरङ्गीकारेण तस्याल्प-शक्तिमत्त्वे बाधकाभावात् । शक्तावल्पत्वं च किञ्चित्कार्याननुकूलत्वम् । स्वानियम्य-यत्किंचित्कत्वं पारतन्त्र्यम् । ईश्वरस्य रमाऽनियम्यत्वेन रमाया अपि पक्षता युक्तेति । कालस्य प्रकृतेस्तदभिमानिचित्प्रकृतेश्च १सर्वकार्यानुकूलत्वेन तेषां पक्षकोटावनिक्षेपप्रसङ्गेन तदन्यतममादायार्थान्तरताप्रसङ्गः । ईश्वरसिद्धेः प्रागस्वातन्त्र्यमपि रमायां दुर्ग्रहमिति तत्परिष्कारोप्यनुपपन्न इति चेन्न ।
अपकर्षाश्रयशक्तिमत्त्वमल्पशक्तिमत्त्वं किञ्चिन्निष्ठस्वामितानिरूपकत्वं पारतन्त्र्यमित्यङ्गी-कारात् । ‘दण्डो घटे शक्तः न पटे’ इति प्रतीतेर् जडेऽपि शक्तिरस्त्येवेति न तदसङ्ग्रहः ।
अन्ये तु जडे शक्त्यनङ्गीकारे अपकर्षानाश्रयत्वशक्तित्वोभयाभाववत्स्ववृत्तिधर्मसामान्य-कत्वमेवाल्पशक्तित्वमित्याहुः ।
न च सर्वत्रोक्तपारतन्त्र्यग्रहेणैव कृतार्थत्वादनुमानवैयर्थ्यम् । किञ्चिन्नियम्यसत्ता-स्वरूपप्रवृत्याद्यन्यतमवत्त्वरूपसाध्यस्य भिन्नत्वेन तद्ग्रहस्यैतद्ग्रहरूपत्वाभावात् । उक्त-पारतन्त्र्यग्रहे साध्यग्रहो भवत्येवेति चेत् । सत्यम् । तस्य व्याप्त्यादिज्ञानमूलकत्वेनानुमानतया वैयर्थ्यशङ्कानवकाशात् । उक्तपारतन्त्र्यस्य साध्यरूपत्वाभावेन तदवच्छिन्नेऽल्पशक्तित्वादि-हेतुनापि तत्सिद्धिरविरुद्धेति न कोऽपि दोषः ।
अन्ये तु स्वातन्त्र्याभावपूर्णशक्तित्वाभावसर्वज्ञत्वाभावादय एव विकल्पेन पक्षता-वच्छेदकहेत्वादयः । ननु अपकर्षाश्रयशक्तिमत्त्वस्वामितानिरूपकत्वादिधर्माणां पुरोवर्तिषु केषुचिदनुभवसिद्धत्वेन तेन सर्वेषामुपस्थित्या ब्रह्मादीनां विशेषरूपेणाऽगमेनाग्रहकालेऽपि पक्षकौटौ निक्षेपात्सर्वनियामकतयेश्वरसिद्धिर्भवति । न च सामान्यरूपाभावात्कथमेतदिति वाच्यम् । सिद्धान्ते १विशेषबलादनुगतसदृशधर्माणां सामान्यव्यवहारनिर्वाहकत्वाङ्गीकारात् ।
पुरोवर्तिषु कतिपयधूमेषु गृहीतेषु सकलधूमगोचरव्यवहारवत् प्रकृते बाधकाभावात् । भवतां पक्षे ईश्वरसिद्धेः प्राक् स्वातन्त्र्यादेः कुत्राप्यगृहीतत्वेन तदभावस्याऽपि गृहीतुमशक्यतया कथं पक्षतावच्छेदकत्वादिकम् । अत एव वक्ष्यति ‘उक्तहेतूनां पक्षधर्मताबलात् पूर्णशक्तित्वादिनैव सिद्धः’ इत्यनेन ग्रन्थेनानुमानेनैव पूर्णशक्तित्वादिसिद्धिरिति । इति चेन्न । आगमेनैव स्वातन्त्र्याभावादेः रमाब्रह्मादिषु सर्वेषु गृहीतुं शक्यत्वात् । न चागमेनैव सर्वसिद्धे-रनुमानवैयर्थ्यमिति वाच्यम् । आगमेनेश्वरस्वरूपे जगति स्वातन्त्र्याभावादौ च प्रतिपादिते च सति भगवत्स्वरूपपराणामागमानां वाद्यन्तररीत्या स्वार्थे तात्पर्याभावशङ्कायां सोपपत्तिकत्वेन स्वार्थे तात्पर्यं समर्थवितुम् आगमोपजीवनेनैव आगमोक्तपक्षतावच्छेदकादिकमनुसृत्यानुमानस्य प्रवृत्तत्वेन तद्वैयर्थ्यानवकाशात् । सर्वथागमाननुसरणे
उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचौ ।
इति न्यायेनानुमानेन तत्सिद्धेरेवाभावप्रसङ्ग इत्याहुः ।
ननूक्तपक्षतावच्छेदकाक्रान्तेषु किञ्चिन्नियम्यत्वसाधने स्वामितानिरूपकाणां सर्वेषां स्वस्वामिनियम्यत्वस्य सिद्धत्वात्सिद्धसाधनम् । एकमात्रनियम्यत्वं व्यभिचारान्न साधयितुं शक्यमित्युक्तमिति चेन्न । एकैकस्मिन् तत्तन्नियम्यत्वस्य प्रत्यक्षसिद्धत्वेऽपि स्वामितानिरूपकं सर्वं किञ्चिन्नियम्यमिति सिद्धेरनुमानफलत्वात् । न चैकैकस्यैकैको नियामक इति पर्यवसाना-न्नेश्वरसिद्धिः स्यादिति वाच्यम् । स्वामितानिरूपकसामान्ये किञ्चिन्नियम्यत्वं स्वतो नियामकरूपेश्वरं विना न पर्यवस्यति । इतरनियम्यतयैव सर्वेषां नियामकत्वे ‘अनवस्थितेर-सम्भवाच्च’ इति सूत्रभाष्योक्तरीत्याऽनवस्थाप्रसङ्गेन मूलक्षतिप्रसङ्गात् । इतरेतराश्रयेण प्रत्यासत्तेरेवायोगादित्यत्रानवस्थाया अप्युपलक्षणत्वेन गृहीतत्वेन उक्तरीत्या ईश्वरापर्यवसान-स्यापि टीकाकृता निरस्तत्वादिति सर्वं चतुरस्रम् ।
॥ ताच्छीलिकतृन्नन्तप्रयोग इति ॥ स्वभावबोधकतृन्प्रयोग इत्यर्थः । अत एव पूर्वं चिच्चेत्ये यन्तेति गम्यादिषूपसङ्ख्यानमभिप्रेत्य द्वितीयया विग्रहः प्रदर्शितः । ‘न लोका-व्ययनिष्ठाखलर्थतृनां’ इति षष्ठीनिषेधादिति भावः ॥ देवस्यैष इति ॥ देवस्य क्रीडादि-गुणविशिष्टस्य परमेश्वरस्य एष इच्छारूपो ऽयं सृष्ट्यादिव्यापारः स्वभावः न तु प्रयोजनार्थाद्यनुसन्धानेनागन्तुक इति श्रुत्यर्थो ऽन्यत्र टीककृदुक्तरीत्याऽवसेयः ॥ न च रुद्रादीनामिवेति ॥ तथा च पक्षकोटिनिविष्टेषु अल्पशक्त्या प्रत्यासत्त्यनुपपत्तिवदेतदति-रिक्तेश्वरपक्षेऽपि तस्यावर्जनीयत्वेन तस्याबाधकत्वाङ्गीकारे चिच्चेत्ययोरेवान्धपङ्गुन्यायेन परस्परनियम्यनियामकभावो युक्त इति अनुमानस्यार्थान्तरत्वमप्रयोजकत्वं वेति भावः ॥ हेतूनां पक्षधर्मताबलेनेति ॥ व्याप्तिविशेष्टहेतोः पक्षसत्त्वस्य यद्बलं नियामकं पूर्णशक्त्यादिकं विना स्वसत्त्वायोगरूपानुपपत्तिप्रतिसन्धानविषयत्वं तस्मादित्यर्थः । अयं भावः । व्याप्ति-विशिष्टस्य हेतोः पक्षवृत्तित्वं यादृशसाध्यं विनानुपपन्नत्वेन गृह्यते व्यापकतावच्छेदककोट्य-प्रविष्टमपि तद्रूपमनुमितौ साध्ये भासते । यथा वह्निव्याप्यधूमस्य पर्वते सत्त्वं महानसीय-त्वादिशून्यवह्निं विनाऽनुपपद्यमानत्वेन गृह्यमाणं महानसीयादिवह्निभिन्नवह्निमानिति अनुमितिं सम्पादयति । एतदेव इतरबाधसहकारेण परामर्शो व्यापकतावच्छेदकत्वेनागृहीतधर्मं साध्ये अवगाहमानामनुमितिं जनयतीति नवीना निष्कर्षयन्ति । तथाल्पशक्तित्वादिविशिष्ट-नियम्यत्वमनवस्थान्योन्याश्रयादिबाधकेनास्वन्तत्रत्वादिरूपपक्षतावच्छेदकावच्छेदेन न घटत इति बाधसहकृतपरामर्शेन पूर्णशक्तित्वादिविशिष्टकिञ्चिन्नियम्यमित्येवानुमितिर्जायतेऽतो न पूर्वोक्तरीत्याऽर्थान्तराद्यवकाश इति भावः । कृष्णं द्रक्ष्यन्यातीत्यादौ दर्शनेच्छागमनयोः समानकालिकत्ववदत्रापि ‘पक्षधर्मताबलेन सिध्यन् पूर्णशक्त्यादिमानेव सिद्धः’ इत्यत्र सिद्धिद्वयस्य समानकालिकत्वं लब्धम् । ज्ञानद्वयस्य यौगपद्यायोगादेकस्यैव स्वसमानकालिक-त्वस्य वक्तव्यतयानुमितेरेव पूर्णशक्त्यादिविषयकत्वलाभ इति ज्ञेयम् ॥ स्वेच्छाधीनप्रवृत्ति-रिति ॥ अभेदेऽपि विशेषबलादधीनत्वं स्वीक्रियते । ‘स्वेच्छया विष्णुरव्ययः । सृष्ट्यादिकं करोत्यद्धा’ इति प्रमाणानां तृतीयया प्रयोजकत्वबोधकानां प्रामाण्यनिर्वाहायेति भावः । नन्वेवं ब्रह्मादिप्रवृत्तेरपि स्वेच्छाधीनत्वात्तेष्वतिव्याप्तिः । मात्रार्थान्तर्भावे त्वितरांशवैयर्थ्यमिति चेन्न । स्वनिर्वाहकेच्छात्वव्यापकस्वसामानाधिकरण्यका या प्रवृत्तिस्तद्वत्त्वं स्वप्रवृत्तिनिर्वाहके-च्छात्वव्यापकस्ववृत्तित्वकत्वं वा लक्षणमित्यभिप्रायात् । मात्रान्तर्भावेन तत्वसङ्ख्यानटीकोक्तं मार्गान्तरमिति न तद्विरोध इति ज्ञेयम् ॥ अशेषविषयत्वादशेषमिति ॥ तथा चाशेषपदं लाक्षणिकं विषयविषयिणोरभेदोपचारो वेति भावः । व्यधिकरणबहुव्रीहेरननुशिष्टत्वाभिप्रायेणा-शेषस्य दर्शनं यस्येति विग्रहमुपेक्ष्योक्तरीतिरनुसृतेति सम्प्रदायविदः । केचित्तु न विद्यते शेषं स्वाविषयीभूतात्मकावशिष्टपदार्थो यस्य ज्ञानस्येति व्युत्पत्त्या अशेषपदमशेषविषयकपरम् । न लक्षणा नाप्यभेदोपचारः । उक्तरीत्या मुख्यवृत्त्यैव समानाधिकरणबहुव्रीहेरुपपत्तौ अशेषपदस्य सर्वार्थकत्वमङ्गीकृत्य सविवादव्याधिकरणबहुव्रीह्याश्रयणमयुक्तमिति तदुपेक्षेत्याहुः ।