सर्वत्राखिलसच्छक्तिः..
आगमस्येश्वरे प्रामाण्यसमर्थनम्
**सर्वत्राखिलसच्छक्तिः..
**श्रीमज्जयतीर्थटीका **
नन्वीश्वर एव किं प्रमाणम् । आगमं तावद्ब्रूमः । श्रूयते हि ‘द्यावाभूमी जनयन्देव एकः’ इत्यादि । केवलसिद्धार्थबोधकस्य प्रवृत्त्याद्यनङ्गतया वैरर्थ्यप्रसङ्गा-दागमस्येश्वरे न प्रामाण्यमिति चेत्तत्राह ॥ इष्ट इति ॥ यद्धि यस्येष्टं तत्तं प्रति बोधनीयं नान्यत् । तथा सत्यनुपादेयताप्रसङ्गात् । इष्टश्च रमापतिरिति युक्तमेव तद्बोधनम् । न च प्रवृत्त्याद्यनुपपत्तिदोषः । इष्टानुभवस्यैव पुरुषार्थत्वेन ततः प्रयोजनानपेक्षणात् । न हि सुखानुभवस्य प्रयोजनमन्विष्यते । तस्यैव स्वरससुन्दरत्वात् । स्वाश्रिते सुखे दुःखनिवृत्तौ वा लोकानामिष्टव्यवहारः । न चानयोरन्यतरो रमापतिस्तत्कथमसाविष्ट इत्यत आह ॥ नोऽस्माकमिति ॥ यथा खलु केषांचिदिष्टसाधनतामनासादयन्तोऽपि भावाः परेषां तथाभूता दृश्यन्ते तथा लौकिकानामिष्टतामभजन्नपि भगवानुत्तमाधिकारिणामिष्टो भवतीति किमनुपपन्नम् । सन्ति खलु तेऽपि पुरुषा येषामपवर्गोऽपि परमपुरुषावबोधनार्थमेवार्थ-नीयः । यथोऽक्तं-
…… …… एकान्तानां न कस्यचित् ।
अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम् ॥ इति ।
इतरान्प्रत्यपीश्वरस्येष्टसाधनत्वान्न तत्परत्वमागमस्यानुपपन्नम् । इष्टवदिष्टसाधनस्यापि बुभुत्सितत्वात् ।
**द्वैतद्युमणिः **
‘असन्नेव स भवति’ इत्यादिना जीवविलक्षणेश्वरमजानतां जानतां निंदा-स्तुत्योः श्रवणात्प्रामाणिकत्वेन ज्ञानस्यैव तज्ज्ञानदार्ढ्यसम्पादकत्वात् प्रमाणज्ञानपूर्वकम् ईश्वरानुसन्धानस्य विशेषप्रसादहेतुत्वसूचनाय पदानां प्रमाणसूचकत्वमाचार्याभिप्रेतमित्याशयेन प्रमाणसूचकतया पदानि व्याख्यातुं शङ्कते ॥ नन्विति ॥ एतेनैतच्छ्लोकस्य मङ्गलाचरणं ग्रन्थारम्भे कर्तव्यमिति शिष्यान् बोधयितुं प्रवृत्तत्वेन तेषामीश्वरसद्भावे संशयाद्यभावेन संशयसत्त्वे वा एतावन्मात्रेणानिरासेन तान् प्रति प्रमाणसूचनमकिञ्चित्करमित्युक्तव्याख्यान-मसङ्गतमिति शङ्कानवकाशः । उक्तरीत्या प्रामाणिकत्वेनानुसन्धानं ग्रन्थारम्भे कर्तव्यमिति सूचनार्थमित्युक्तत्वात्
पृष्टेनाऽगम एवादौ वक्तव्यः साध्यसिद्धये
इत्युक्तेरागममेवादावाह ॥ आगममिति ॥ मङ्गलसमाप्तिकारणताबोधकश्रुतिरिव नानु-मेयेयमित्याह ॥ श्रूयते हीति ॥ वैयर्थ्यप्रसङ्गादिति ॥ पदानां कार्यान्वित एव शक्तत्वे अबोधकत्वप्रसङ्गात् सिद्धे शक्तत्वेऽपीश्वरप्रधानकत्वे सफलत्वघटितप्रामाण्याभावप्रसङ्गा-दित्यर्थः । प्रवृत्याद्यनङ्गत्वं तु बालव्युत्पत्तिप्रयोजकप्रयोज्यवृद्धप्रवृत्त्यभावसम्पादनेन कार्याति-रिक्तार्थे व्युत्पत्त्यभावे तत्सत्वेऽपि सफलत्वघटितप्रामाण्याभावे चेत्युभयत्र हेतुत्वेनाभिमतम् । अत एव सुधायां सिद्धार्थबोधकत्वे वाक्यपर्यवसानरूपप्रामाण्याभावमभिधाय कार्यातिरिक्तार्थे व्युत्पत्यभावः पूर्वपक्षे किं चेत्यादिना पृथगभिहितः । समाधानेऽपि सिद्धार्थकत्वेऽपि प्रामाण्यमुपपाद्य कार्यातिरिक्तार्थे व्युत्पत्त्यभावो निराकृत इत्यवधेयम् ॥ ईवरे न प्रामाण्यमिति ॥
ननु ईश्वरपरत्वेन प्रतीयमानानामप्यागमानामपौरूषेयत्वेन प्रामाण्यस्य दुर्वारतया कार्यशेषतयैतन्मते प्रामाण्यस्य वक्तव्यतया यूपाहवनीयादिवत्कार्यशेषतयैवेश्वरसिद्धिर्दुर्वारैवेति चेन्न । कार्यशेषतयापि कार्य एव विनियुज्यमान एवार्थे वाक्यस्य तात्वर्याद्यूपाहवनीयादि-सिद्धिः । कार्ये अविनियुज्यमाने वाक्यात्प्रतीयमाने वाक्यतात्पर्ये बीजाभावेन तेषां कार्ये विनियुज्यमानजीवपरत्वमेव कथंचिद्वाच्यमतो नेश्वरसिद्धिरित्याशयात् । वाक्यानां पराभिमत-कार्यपरत्वेनैव प्रामाण्यमिति नास्त्येव । सिद्धार्थपरादपि व्युत्पत्तेराकरे उपपादितत्वात् ।
कार्यपरत्वेऽपि इष्टेष्टसाधनान्यतरत्वावच्छिन्नस्य इष्टसाधनस्यापीष्टतयेष्टत्वाच्छिन्नस्य वा कार्यरूपत्वात्पदानां तदन्वितस्वार्थबोधन एव तात्पर्यम् । इत्थं चेष्टरूपेश्वरान्विततया सर्ववेदानां बोधकत्वोपपत्तिः । ईश्वरस्य तु स्वप्रधानतयैव वेदेन सिद्धिरित्याशयेन मूले इष्ट इत्युक्तम् । नन्विदमयुक्तम् । सर्वमपीष्टमेव । चैत्रस्य यथा स्वसुखं ‘भवतु’ इत्याकारेच्छा-विषयीभूतं तथा दुःखमपि ‘मम न भवतु’ इत्याकारेच्छाविषयीभूतम् । एवं चैत्रदुःखस्य चैत्रद्वेषिमैत्रसम्बन्धिनी ‘चैत्रस्य भवतु’ इत्याकारा या इच्छा तद्विषयत्वं वर्तत इतीष्टत्वस्य केवलान्वयित्वेनाव्यावर्तकत्वादिष्टान्वित एव पदानां शक्तिरिति नियमो न सङ्गच्छते । न च स्वसम्बन्धित्वेनेच्छाविषयत्वं तत् । सामान्यतः सम्बधित्वस्य द्वेषिदुःखेऽपि सत्त्वेनोक्तदोषा-परिहारात् । स्ववृत्तित्वेनेष्टत्वस्य स्वस्मिन्नुत्पद्यमानत्वेनेच्छाविषयत्वस्य वा पुत्रादिसम्बन्धि-सुखादावभावेन तेषामनिष्टत्वापातेन तद्बोधकवाक्यस्यानुपादेयत्वप्रसङ्गात् । ईश्वरे उत्तमाधिकारिवृत्तित्वस्य सिद्धत्वेन उत्पाद्यमानत्वस्य च बाधितत्वेन तेषां तथेच्छानुत्पत्त्या तान् प्रतीश्चरस्येष्टत्वोक्तेरयुक्तत्वापाताच्च । तस्मादिष्टत्वस्य दुर्निरूपतया तद्बोधकतया वाक्यानां प्रामाण्योक्तिरयुक्तेत्यत आह ॥ यद्धि यस्येष्टमिति ॥ इष्टं स्नेहविशेषविषयीभूतम् । अनुपादेयत्वं तत्पुरूषवृत्तीच्छाविषयत्वाभाववत्स्वतात्पर्यविषयीभूतबोधकत्वम् । तत्प्रसङ्गा-त्तत्पूर्वकमप्रमाण्यप्रसङ्गादित्यर्थः ॥ इष्टश्चेति ॥ इष्टत्वं तु जिज्ञासाजननद्वारा वाक्य-स्योपादेयत्वे नियामकम् ।
अयं भावः । सर्वान् प्रति सर्वस्य नेष्टत्वम् । एकैकं प्रत्येकैकस्येष्टत्वमिति रीत्येष्टत्वं केवलान्वयीति सत्यम् । तथापि वाक्यप्रामाण्यस्य पुरुषकालादिभेद्रेन व्यवस्थितत्वेन तत्प्रयोजकेष्टत्वमपि व्यवस्थितमेव । तथा हि । विरक्तं प्रति वाणिज्योपदेशपरवाक्यम-प्रमाणम् । रक्तं प्रति तु प्रमाणम् । एकस्यैव पुरुषस्य देशकालभेदेनापि रक्तताविरक्ततयोः सम्भवात् कालभेदेनापि व्यवस्थितम् । इदं वाक्यमिदानीमेतत्पुरुषं प्रति प्रमाणं न तदेति सर्वसिद्धव्यवहारात् । न च तथात्वे वस्तुनोऽपि पुरुषभेदेन व्यवस्थया विरुद्धधर्माक्रान्तत्वं स्यात् । अन्यथा पुरुषान्तरं प्रत्यप्रमाणत्वानुपपत्तेरिति वाच्यम् । अप्रमाणत्वं न भ्रमजनकत्व-रूपं प्रकृते व्यपदिश्यते । किं तु स्वतात्पर्यविषयीभूतयथार्थबोधोपधायकत्वाभावः । व्यपदिश्यमानप्रामाण्यस्यापि तत्प्रतियोगिरूपत्वात् । एतादृशप्रामाण्याप्रामाण्यनिर्वाहाय न वस्तुनो विरुद्धधर्मद्वयालिङ्गितत्वमपेक्षितम् । किं तु श्रेतुस्तद्वाक्यार्थस्य सामान्यतस्तत्काले बोध्यत्वेनेष्टत्वमनिष्टत्वम् । तत्रापि पुरुषविशेषनिष्ठस्नेहविषयत्वं तत्साधनत्वं च प्रयोजकम् । लोके तादृशानामेव प्रायो जिज्ञासितत्वेन विषयान्तरसञ्चारराहित्यद्वारा तद्वाक्यार्थ-बोधानुकूलशक्तितात्पर्यज्ञानादिद्वारा बोधोदयात् । न चाजिज्ञासितस्वनिन्दापरवाक्येन दैवाच्छ्रुतेन बोधस्यानुभवसिद्धत्वेन कथमजिज्ञासिताभिधायकवाक्यस्यार्थबोधोपधायकत्वं नास्तीत्युच्यत इति वाच्यम् । यत्किञ्चिद्वाक्यैकदेशजन्यबोध एव तथा जायते । नानावान्तरवाक्यघटितमहावाक्यार्थबोधस्तु नैव जायत इत्यनुभवेनैव तादृशनियमाङ्गीकारात् । प्रकृतेऽनुपादेयत्वप्रसङ्गस्तादृशमहावाक्यस्यैवापाद्यत इति ।
यद्वा सफलयथावस्थितार्थविषयकबोधजनकत्वलक्षणप्रामाण्यलक्षणोपादेयत्वस्याभाव-प्रसङ्गादित्यर्थः । वक्ता खलु ‘श्रेतुः स्ववाक्यजन्यबोधेन साक्षाद्वा तद्विषयानुष्ठानद्वारा वा सुखदुःखावाप्तिहान्यादिकं भवतु’ इति बुद्ध्या वाक्यं प्रयुङ्क्त इत्यनुभवसिद्धम् । प्रतिपाद्यस्य श्रोतृसम्बन्धिप्रेमविषयत्वरूपतदिष्टत्वाभावे उक्तप्रकारद्वयेन ज्ञानस्य सफलत्वाप्राप्त्या वाक्य-स्यानुपादेयत्वं स्यादिति भावः । नन्वेतद्वाक्यस्यानुपादेयत्वापादनं वक्तुर्भ्रान्तत्वापादने पर्यवसन्नम् । श्रोतुरिष्टबोधजनकत्वबुध्द्या वक्त्रा वाक्यस्य प्रयुक्तत्वात् । वेदे तादृशानु-पादेयत्वसत्त्वे किं बाधकम् । तत्र वक्तुरभावादिति चेन्न । तत्रापि पुरुषाभिप्रायनिवेशस्य सिद्धत्वेन तेषामेव भ्रान्तत्वापादने पर्यवसानात् । तस्य चानिष्टत्वात् । नन्वेतत्कल्पे नाना-वान्तरवाक्यघटितमहावाक्यात्मकस्य स्वानपेक्षितार्थबोधकग्रन्थस्यापि स्वं प्रति बोधकत्व-मङ्गीकृतं स्यात् । परं तु तदर्थस्यानपेक्षितत्वेनाजिज्ञासिततया तद्बोधस्य साक्षाद्वा विषयानुष्ठानद्वारा वा फलापर्यवसायितया तद्वाक्यजातं तत्पुरुषं प्रत्यनुपादेयमिति वक्तव्यम् । तच्चानुभवविरुद्धम् । एतद्ग्रन्थे किमुक्तं तज्जानीयामिति तदर्थजिज्ञासया ग्रन्थश्रवणे प्रवृत्तेस्तेन बोधस्य चानुभवसिद्धत्वादिति चेत् सत्यम् । एवमपि तदनिष्टाभिधायकवाक्यत्वस्य तं प्रत्यनुपादेयत्वव्याप्यत्वे व्यभिचाराभावात् । तद्ग्रन्थस्यान्योद्देशेन प्रवृत्तत्वेनान्यपुरुषं प्रत्युपादेयत्वेऽपि तत्पुरुषं प्रति सफलबोधानुपधायकत्वेनानुपादेयत्वस्य सर्वसम्मतत्वात् ।
नन्वेवमपीष्टस्यैव जिज्ञासितत्वमिति नियमे व्यभिचारो दुर्वारः । स्नेहाविषयस्यापि तद्ग्रन्थप्रतिपाद्यस्य जिज्ञासितत्वादिति चेन्न । न हीष्टत्वमेव जिज्ञासायां प्रयोजकमिति टीकायामुक्तम् । येनास्य व्यभिचारप्रसक्तिः । किं तु यद्धि यस्येष्टमित्याद्येवोक्तम् । तत्पर्यवसितस्य पूर्वोक्तनियमस्य व्यभिचाराभाव उपपादित एव । एवं च प्रतिपाद्ये इष्टत्वं तु बाहुलकत्वाभिप्रायेण जिज्ञासासम्पादकतयोक्तम् । एवं च भवदुक्तस्थले कारणान्तरेण जिज्ञासाजननेप्यस्मदभिमतार्थे न किञ्चिद्बाधकम् । अधिकमन्यत्रानुसन्धेयमित्यलम् ।
अत्र स्नेहो नाम सिद्धपदार्थेष्वपि एतत्सत्ता सार्वकालिकी भवत्वित्याकारा संवादि-विसंवादिसाधारणी इच्छा वा तत्प्रयोजकगुणान्तरं वेति न नः काचित्क्षतिः । अनुव्याख्यानसुधयोरपि एतादृशेष्टेष्टसाधनत्वयोर्वाक्यपर्यवसानोपयोगित्वं स्वरूपसतोरेव जिज्ञासासम्पादनद्वाराभिप्रेतम् । न तु वाक्यबोध्यतयेति सम्यक् तद्ग्रन्थविमर्शे लभ्यते । इष्टत्वस्य स्नेहविषयत्वरूपत्वं तु अनुव्याख्याने प्राणबुद्धीत्यादिस्मृतेः पुत्रात्प्रेय इत्यादिश्रुतेश्चोदाहरणपूर्वकं भगवत इष्टत्वोपपादनेन स्फुटीकृतम् । अतो नोक्तार्थे तद्विरोध इत्यादिकं बहुतरमनुसन्धेयमित्यलमप्रस्तुतविचारेण ।
॥ न च प्रवृत्तीति ॥ ईश्वरमुख्यविशेष्यकबोधस्य प्रवृत्त्याद्यहेतुतया तदभिप्रायकत्वे वाक्यानामबोधकत्वं सफलत्वघटितप्रामाण्याभावश्चेत्येतद्रूपदूषणद्वयं पूर्वपक्ष्यमिहितं नेत्यर्थः । कथमित्यत इष्टपदसूचितमेव वदन् परिहारं स्फुटीकरोति ॥ इष्टानुभवस्यैवेति ॥ अत्रानुभवपदं ज्ञानमात्रपरम् । परमस्नेहविषयीभूतार्थस्मरणस्याप्यानन्दहेतुतया अनुभवसिद्धत्वात् । अनुभव-स्यैव अनुभवत्वरूपसामान्यधर्माक्रान्तस्यैव । एवकारेण प्रवृत्तिजननयोग्यत्वरूपविशेषण-विशेषितस्यैवेति नियमव्यवच्छेदः । पुरुषार्थत्वेन पुरुषेच्छाविषयत्वेन । ननु सुखमित्यादि-स्मरणानां पुरुषार्थत्वापीत्तरिति चेन्न । न ह्येतद्ग्रन्थेनेष्टज्ञानसामान्यमिच्छाविषयीभूतमिति नियमो बोध्यते । किं तु प्रवृत्त्याद्यजनकत्वेन निश्चितमपीष्टविशेषविषयकं ज्ञानं प्रवृत्तिहेतुत्वे-नानुसन्धीयमानमननुसन्धीयमानं वा पुरुषेच्छाविषयीभूतं भवतीत्यस्यानुभवसिद्धत्वेन प्रवृत्त्यादिजनकत्वेनानुसंहितमेव ज्ञानमिच्छाविषय इति परोक्तनियमस्य व्यवच्छेदमात्रं क्रियते । स (व्यवच्छेदः) चैकस्यापि वा ज्ञानस्य पुरुषार्थत्वेप्युपपादितो भवति । इत्थं च सुखमित्यादिस्मरणानां पुरुषार्थत्वापादनस्य कः प्रसङ्गः । इष्टविषयकेष्वपि ज्ञानेषु केषांचि-त्प्रवृत्याद्यजनकानामपीच्छविषयत्वमन्येषां नेति तु अननुगतकारणकलापात् स्नेहरूपेष्टत्ववद् इति ज्ञेयम् ।
॥ ततः प्रयोजनान्तरानपेक्षणादिति ॥ बोधसाध्यप्रवृत्त्यादेरवश्यमनपेक्षणादित्यर्थः । ‘न प्रवृत्तिमपेक्षते’ इत्युक्तेः । परोक्तनियमस्य व्यभिचारमुपपादयति ॥ न हीति ॥ अनुभवस्य साक्षात्कारस्य । प्रयोजनं १प्रवृत्त्यादिजनकम् । अन्विष्यते सुखसाक्षात्कारेच्छापूर्वकाले गृह्यते। तथा च सुखकाक्षात्कारे परोक्तनियमस्य व्यभिचार इति भावः। हिशब्दो व्यभिचारस्य स्फुटतामाह । न च घटादिज्ञानादौ प्रवृत्त्यादिजनकत्वाद्यनुसन्धानेनैवेच्छोत्पत्तेर्बहुलमुपलम्भेन तादृशानुसन्धानेच्छयोः कार्यकारणभावावधारणादत्रापि पूर्वं जनकत्वानुसन्धानं कल्प्यते । न चोक्तस्थले व्यभिचारस्फूर्त्या कार्यकारणभावग्रह एव न सम्भवतीति वाच्यम् । वस्तु-ज्ञानत्वाविशेषे घटादिबहुपदार्थज्ञानापेक्षया सुखसाक्षात्कारे विशेषकल्पने गौरवमित्यनुकूल-तर्कसाहित्येन व्यभिचारज्ञानस्य विधूननादित्यत आह ॥ तस्यैवेति ॥ सुखस्यैवेत्यर्थः । एवकारेण घटादिव्यवच्छेदः । स्वस्य सुखस्य यो रसोऽसाधारणधर्मः सुखत्वम् । तेन सुन्दरत्वात् तत्प्रयोज्यनिरुपाधिकेष्टत्ववत्त्वात् । अस्य नान्विष्यत इति पूर्वेण सम्बन्धः । अस्य च वक्ष्यमाणरीत्या परम्परया हेतुत्वम् । घटादीनां घटत्वादिना ज्ञानमात्रान्न तत्रेच्छा स्नेहो वा । किं तु इष्टसाधनत्वेन गृह्यमाणेष्वेव । अतो न तत्र निरुपाधिकेष्टत्वम् । सुखादौ तु सुखत्वग्रहमात्रेण तत्र स्नेह इच्छा वा । न तु स्नेहान्तरेच्छान्तराधीनत्वं तयोः । तथा च घटादिसुखादिरूपविषययोर्निरुपाधिकेष्टत्वाभावतत्त्वाभ्यां तत्साक्षात्कारयोरुक्तवैचित्र्यात्सुख-साक्षात्कारेच्छापूर्वं तत्साक्षात्कारे प्रवृत्त्यादिसाधनता न गृह्यत इति भावः । तथा च सुख-साक्षात्कारादौ घटादिसाक्षात्कारादिवैलक्षण्यस्य निरुपाधिकेष्टविषयकसाक्षात्कारत्वादि-व्यतिरेकिहेतुसिद्धत्वेनानुभवसिद्धत्वेन च कल्पनाभावात्तन्मूलककल्पनागौरवरूपतर्कस्यानु-त्थितिरेवेति हृदयम् ।
यद्वा सुखसाक्षात्कारे प्रवृत्त्यादिसाधनत्वज्ञानमन्तरा तत्रेच्छा कुत इति तटस्थ-शङ्कानिवृत्तये तत्र प्रयोजकमाह ॥ तस्यैवेति ॥ सुखादिसाक्षात्कारत्वावच्छिन्नस्यैव । एवकारेणेष्टसाधनत्वादिविशेषणावच्छिन्नत्वस्य व्यवच्छेदः । स्वरसेन सुखविषयकत्व-रूपस्वासाधारणधर्मेण । सुन्दरत्वाद् घटादिसाक्षात्कारविलक्षणत्वात् तत्रोक्तेच्छोपपन्नेति शेषः । सुखविषयकत्वमेव तत्र बीजमिति भावः ।
ननु प्रवृत्यादिजनकत्वेनानुसन्धीयमानमेव ज्ञानमिच्छाविषय इति नियमः किंनिबन्धनः पयस्य । येन तद्दूषणप्रयत्नो भवतां सार्थकः स्यादिति चेन्मैवम् । सिद्धार्थबोधकस्य सफलत्वघटितप्रामाण्यं नास्ति । किं तु कार्यबोधकस्येति वदता इत्थं वक्तव्यम् । १सुखदुःखहान्यादिकं फलम् । तस्य साक्षाद्वाक्यजन्यत्वाभावाद् बोधप्रवृत्त्यादिद्वारा तत्साध्यं तत् । स्वप्रयोजकेच्छांतरानधीनेच्छाविषयः परमफलम् । २तदिच्छाधीनस्वप्रयोजकेच्छा-विषयोऽवान्तरफलम् । श्रोता ही क्रिराविशेषानुष्ठातुरेव सुखाद्युपलम्भात्तूष्णीं स्थितस्य तदनुपलम्भात् सुखादिरूपफलसामान्यस्य क्रिरासाध्यत्वमधिगत्य सुखविशेषेच्छया तत्साधनी-भूतं क्रियाविशेषं कामयते ‘क्रियाविशेषो मम भवतु’ इति । ततस्तन्निर्वाहकप्रवृत्तिजनकः क्रियात्वव्याप्यरूपावच्छिन्ने कार्यताबोध इत्यवगम्यैव तादृशकार्यताबोधं कामयते । वक्त्रा च स्ववाक्येन तादृशबोधसम्पादनद्वारा परफलं सम्पाद्यत इति कार्यताबोधकस्यैवोक्तविधं प्रामाण्यम् । सिद्धार्थबोधस्य वाक्येन जननेऽपि तेन प्रवृत्त्यादिद्वारा परमफलानिर्वाहान्न तद्बोधकवाक्यं प्रमाणमिति ।
एवं वदतः सुखादिसाधनप्रवृत्त्यादिजनकत्वज्ञानमेव १ज्ञानविषयकेच्छाजनकतादृश-जनकत्वेन ज्ञायमानमेव ज्ञानमिच्छाविषय इति नियमोऽभिप्रेतः । इतरथा तादृशजनकत्वेना-ननुसंहितज्ञानस्येच्छाविषयत्वं नेच्छान्तरमन्तरेण । तस्य सुखादिरूपत्वाभावाद् लोके तस्यैव तथात्वानुभवात् । किं तु प्रवृत्त्यद्वारा साक्षात्सुखसाधनत्वेन तद्बुध्येति वक्तव्यम् । तथा च प्रवृत्याद्यद्वारकसुखादिजनकसिद्धार्थबोधे सुखेच्छया श्रोतुरिच्छासम्भवेन वक्त्रा वाक्येन तादृशबोधे सम्पादिते श्रोतुः सुखरूपफलसम्भवेन सफलत्वघटितप्रामाण्यं सिद्धार्थपरवाक्यस्य नास्तीति सिद्धान्तभङ्ग एव स्यात् । अतः प्रवृत्त्यद्वारा ज्ञानस्य सुखजनकत्वं नास्त्येव । तादृशज्ञाने अन्यथाख्यात्यनभ्युपगमादिच्छापि नोत्पद्यत एवेति नियमोऽवश्यमभ्युपेयः । सिद्धार्थपरवाक्यप्रामाण्यवादिना त्ववश्यं तत्र व्यभिचारव्युत्पादनं कर्तव्यमेव । न च शब्द-ज्ञानान्तर्भावेन नियमः स्वीक्रियतेऽतो न व्यभिचार इति वाच्यम् । स्वेष्टपुत्राद्युत्कर्षश्रवणे-च्छाया अनुभवसिद्धत्वेन तादृशनियमेऽपि व्यभिचारस्य दुर्वारत्वादित्यभिप्रायादिति सर्वं समञ्जसम् ।
अत्रेष्टानुभवे प्रवृत्त्याद्यजनकेऽपीच्छाविषयत्वोपपादनेन पदानां कार्यान्वित एव शक्तत्वेन कार्यत्वाबोधकत्वादीश्वरपरत्वेन भवदभिमतवाक्यानामबोधकत्वलक्षणाप्रामाण्यप्रसङ्ग इति दूषणान्तरमपि निरस्तं भवति । प्रवृत्त्याद्यजनकेऽपि मात्रादिरूपस्वेष्टवस्तुविषयकबोधे साक्षात्सुखजनकतयैव बालस्येच्छासम्भवेन मात्रादिकमङ्गुल्या निर्दिश्य स्वेष्टबोधार्थं प्रवृत्त-वाक्यस्य तज्जनकत्वानुसन्धानपूर्वकमावापोद्वापाभ्यां पदानां कार्यानन्वित एव शक्त्यवधारणात् । एतेन शङ्कोक्ताबोधकत्वदूषणस्यासमाधानान्न्यूनतेति परास्तम् ।
अन्याश्रितसुखेऽन्यस्येष्टत्ववकव्यवहाराभावात् स्वाश्रित इति । लिङ्गविपरिणामेन दुःख-निवृत्तावप्यन्वेति ॥ व्यवहार इति ॥ तस्यैव वस्तुव्यवस्थापकत्वादिति भावः । अत्र तत्साधने इत्यपि ग्राह्यम् । तत्रापि स्रक्चन्दनादौ लोकानामिष्टत्वव्यवहारात् ॥ न चानयोरन्यतर इति ॥ तत्साधनं चेत्यपि ग्राह्यम् । अन्यथेष्टत्वस्यैतत्त्रितयसाधारणधर्मतया रमापतौ इष्टसामान्यभेदसाधनाय विशेषभेदद्वयस्यैवेष्टसाधनतयेष्टे व्यभिचारेण हेतूकरणा-योगात् । ननु रमापतौ दुःखनिवृत्तिसुखभेदयोः सिद्धत्वेऽपि तत्साधनभेदः कथं सिध्यतीति चेन्न । क्रियाविशेषादीनां तत्सहकारिभूतद्रव्यदेवतादीनां सुखादिसाधनत्वेन भवदभिमत-पूर्णकामत्वादिविशिष्टरमापतेः सर्वत्रौदासीन्येन तस्य सुखादिसाधनत्वे मानाभावादित्या-शयात् । अत एवेश्वरस्य सर्वनियामकत्वेनेष्टसाधनतासिद्ध्यभिप्रायेण सर्वनियामकत्वेनेश्वर-सिद्धिरनुमानेन संपादिता । अत एवागमप्रमाणपरवाक्योत्थेष्टसाधनत्वाकांक्षाशामकतया पूर्वोक्तैकवाक्यत्वमपि तयोर्युक्तम् ।
ननु सुखदुःखनिवृत्तिभेदाभ्यां परमेष्टभेदसाधनमेवैतद्ग्रन्थाभिप्रेतम् । अत इष्टसाधन-भेदपूरणेन व्याख्यानमयुक्तमिति चेन्न । पूर्वमिष्टमात्रविषयकत्वेनैव पुरुषार्थताया उक्तत्वेन परमेष्टस्याप्रसक्तत्वात् । न च तत्रापि परमेष्टविषयकत्वेनैव परमफलत्वमुक्तमिति वाच्यम् । तर्हि यद्धि यस्येष्टमिति प्रक्रमविरोधात् । न च तत्रापीष्टपदेन परमेष्टमेवोच्यत इति वाच्यम् । तर्हि ‘यद्यस्य परमेष्टं तं प्रति तदेव वाच्यम् । नान्यत्’ इत्युक्तं स्यात् । लोकरीतेरेवेदानीं प्रतिपाद्यतया लौकिकानाञ्च सुखदुःखप्राप्तिनिवृत्त्योरेव परमेष्टत्वेन तयोरेव सुखं दुःखनिवृत्ति-श्चेत्यादिवाक्येनोपदेश्यत्वं तादृशवाक्यस्यैवोपादेयत्वञ्च स्यात् । न तु यजेत पचेतेत्यादि-वैदिकलौकिकवाक्यानां तत्साधनीभूतेष्टबोधकानाम् । तेषां परमेष्टाविषयकत्वात् । न हि तथा कश्चिदङ्गीकरोति ।
ननु तत्रेष्टसाधनमपि उपलक्षणया गृह्यते । तथा च ‘यद्धि यस्य परमेष्टं, साक्षात् परम्परया वा तत्साधनं तयोरन्यतरदेव बोधनीयम् । नान्यदित्यर्थः । न चोत्तरत्रेष्टस्यैवोपादानं कुत इति वाच्यम् । उभयोर्मध्ये प्रकृते ईश्वरबोधकवाक्यस्य कांश्चित्प्रतीष्टबोधकत्वेन ताव-दुपादेयत्वं वक्तुम् इष्टश्च रमापतिरित्युक्तम् । परमेष्ट इत्येवार्थः । एवमपि प्रवृत्त्याद्यजनकत्वा-त्कथं वाक्यस्य साफल्यमिति चोद्यपरिहारायेष्टानुभवस्येत्युक्तम् ।
एतद्वाक्यमेके व्याचक्षते । अत्रानुभवपदेन स्वसम्बन्धिवर्तमानेष्टविषयकज्ञानमात्रं विवक्षितम् । तेनानुभवपदेन स्मृत्यन्यज्ञानविवक्षायां ‘यन्न दुःखेन सम्भिन्नम्’ इत्यादि-वाक्यजज्ञानस्यापि पुरुषार्थत्वापत्तिः । साक्षात्कारविवक्षायां वेदजन्येश्वरबोधस्य साक्षात्कार-रूपत्वाभावेन पुरुषार्थत्वानुपपत्तिरिति दूषणानवकाश इति ।
तत्रेदं चिन्त्यते । एवमपि चैत्रस्य भोजनादिसाध्यसुखोत्पत्तिवेलायां दुःखाभावदशायाञ्च मैत्रेण प्रयुक्तेन ‘चैत्र त्वयि सुखं वर्तते । त्वयीदानीं दुःखाभावो वर्तते’ इति वाक्येन जायमानस्य चैत्रनिष्ठबोधस्य चैत्रं प्रति पुरुषार्थत्वापत्तिः । न चेष्टापत्तिः । तादृश-वाक्यप्रयोक्तरि मैत्रे ‘ममेष्टसम्पादकोऽयम्’ इति उपकारान्तरकर्तरीव चैत्रस्य ‘अयं चैत्रोपकर्ता’ इति लोकानाञ्च प्रत्ययापत्तेः । न च सोऽस्ति । प्रत्युत ‘त्वया किं वक्तव्यम् । वर्तत एव’ इत्युपहासकर्तारो भवन्ति । किञ्च स्वसम्बन्धीत्यत्र सम्बन्धत्वेन सम्बन्धनिवेशे परकीयसुखस्य १किञ्चित्परम्परासम्बन्धतया परसुखादिविषयकज्ञानस्यापि पुरुषार्थत्वापत्तिः । परकीयसुखं न स्वेष्टमिति वाच्यम् । तर्हि तद्व्यावृत्तये स्वसम्बन्धीत्यस्य वैयर्थ्यापत्तिः ।
किञ्च दुःखविशेषात्यन्ताभावस्य स्वस्मिन्नन्यत्र च विद्यमानस्यैकत्वेन चैत्रनिष्ठ-दुःखाभावानुभवस्य मैत्रं प्रति पुरुषार्थत्वापत्तिः । ज्ञानेऽपि स्वनिष्ठत्वस्य निवेशे मैत्रनिष्ठस्य चैत्रनिष्ठोक्तदुःखाभावविषयकशाब्दस्य तथात्वं स्यात् । विशिष्य स्वसमवेतत्वस्य स्वस्वामि-कत्वस्य वा निवेशे दुःखाभावसाक्षात्कारासङ्ग्रहः । स्वासमवेतत्वात् स्वास्वामिकत्वाच्च दुःखाभावस्य । सिद्धान्ते समवायाभावात् । समवेतत्वस्य वृत्तित्वमात्ररूपत्वे उक्तदोषा-भावेऽपि यथाश्रुते निष्कर्षे च सुखसाक्षात्कारस्यैवासङ्ग्रहः । सुखादेरन्तःकरणधर्मत्वात् । स्वस्वामिकत्वकल्पे ईश्वरज्ञानस्यैवासङ्ग्रहः । तस्येतरास्वामिकत्वादिति ।
वस्तुत २इष्टानुभवस्य इष्टपदं परमेष्टपरमेव । एवकारः प्रवृत्त्यादिजनकत्वादिविशेषणा-विशेषितत्वबोधकः । अनुभवपदं ज्ञानपरमेव । पुरुषार्थत्वात् परमफलत्वात् प्रवृत्त्याद्यजनक-स्यापि परमेष्टज्ञानस्य कस्यचित्फलरूपताया दृष्टत्वेनासम्भावितत्वाभावात् ‘ईश्वरानुभवोऽपि फलरूपः’ इति वक्तुमुपक्रान्तत्वेन तादृशज्ञानसामान्यस्य फलरूपत्वनियमे एतद्वाक्यतात्पर्य-कल्पने बीजाभावेन सुखादिशाब्दबोधादौ व्यभिचारानवकाशः । न हीत्यादिवाक्यद्वयं तस्यैवोपपादकम् । तथा च परमेष्टस्यैव प्रकान्तत्वादत्र सुखदुःखहान्यन्यतरानात्मकत्वेन परमेष्टत्वमेवाक्षिप्यते ।
न इत्यादिना मूलकृदभिप्रेतं परमेष्टत्वमुपपादयित्वा इष्टसाधनत्वादिना मध्यमभक्तान् प्रति वेदप्रामाण्यमुपपादयिष्यतीति पूर्वोत्तरग्रन्थसामञ्जस्ये किमर्थम् इष्टपदस्येष्टसामान्य-परत्वमाश्रित्य पूरणसंवलितं व्याख्यानमिति चेन्न । भवद्व्याख्यानेऽपीष्टसाधनस्य पूरणं प्राप्तमेव । परन्तु नानावाक्यस्थेष्टपदस्य परमेष्टलाक्षणिकत्वमधिकम् । अपि चेष्टसाधन-समकक्षतया परमेष्टस्य वाक्येन बोधनीयताकथनमयुक्तमेव । लोके स्वसुखसाधनादावेव प्रश्नप्रतिवचनयोरेव दर्शनात् ‘मत्सुखं कीदृशम्’ इति प्रश्नस्य ‘त्वत्सुखमेतादृशम्’ इत्युत्तरस्य चादर्शनात् ।
किञ्चोत्तरत्रेष्टानुभवस्येत्यादि वाक्यैरीश्वरशाब्दस्य फलरूपत्वबोधनाय सुखसाक्षात्कारस्य फलरूपत्वकथनमसङ्गतम् । उदासीनतृणादिप्रत्यक्षस्य प्रामाण्यादेः सर्वसिद्धत्वात्तत्र यथावस्थितार्थबोधकत्वमात्रं प्रामाण्यं शब्दस्य तु परार्थत्वात्सफलत्वघटितमेव प्रामाण्यमिति प्रत्यक्षवैलक्षण्येन पूर्वपक्षस्य प्रवृत्तत्वेन सुखसाक्षात्कारस्य फलरूपत्वेनेश्वरशाब्दस्य फलरूपत्वासिद्धेः । इष्टज्ञानत्वसाम्यमात्रेण तथात्वे सुखशाब्दस्यापि तथात्वं प्रमेयत्वसाम्येन घटादेरपि तथात्वं स्यात् । सुखशाब्दसाक्षात्कारयोः साक्षात्कारत्वशाब्दत्वाभ्यामेव फलाफलरूपत्वे ईश्वरशाब्दस्यापि कुतो नाफलत्वम् । प्रवृत्त्याद्यजनकप्रत्यक्षादेरिच्छा-विषयत्वाभावेन प्रवृत्त्याद्यजनकज्ञानसामान्यस्येच्छाविषयत्वाभावनियमे परेण स्वीकृते प्रत्यक्षविशेषादौ व्यभिचारोद्भावनस्य सङ्गतत्वेनास्मदीयैतद्वाक्यव्याख्यायामनुपपत्यभावात् । ईश्वरावबोधस्य फलत्वन्तु तस्य परमेष्टत्ववत्प्रमाणेनैव सिद्ध्यति । किञ्च भवद्व्याख्याने मूलस्थेष्टपदं परमेष्टपरमेव । तथा च मध्यमभक्तान् प्रति वेदसार्थक्यस्यानुक्तत्वेन मूलस्य न्यूनतापातः । तस्माद्युक्तमेव पूरणसंवलितं व्याख्यानम् । इष्टपदन्त्विष्टसामान्यपरमेवेति ।
न इत्यत्रात्मनि बहुमानार्थं न बहुवचनम् । किं तु एते च ते चाहं चेति वयम् । तेषां न इति व्युत्पत्त्या अधिकारिवर्गपरमिति भावेन व्याख्याति ॥ नोऽस्माकमिति ॥ मूले अयोग्यजनानामिष्टत्वाभावेप्यधिकारिणां प्रेमविषयत्वरूपेष्टत्वमिष्टपदेनोक्तम् । तच्च सर्वेषामेक-रूपं न भवतीत्याशयेनोत्तमाधिकारिविवक्षया तावन्निरूपयति ॥ यथा खल्विति ॥ भावाः क्षीरादयः । लौकिकानाम् एकान्तभक्तातिरिक्तानाम् । इष्टतां परमेष्टताम् । अर्थस्य सोपपत्ति-कत्वे लक्षणाङ्गीकारेऽपि बाधकाभावात् । इष्टः परमेष्टः । ‘एकान्तानां न कस्यचित् । अर्थे नारायणो देवः’ इत्यत्रैकान्तिप्रयोजनजनकत्वनिषेधो नारायणस्य न क्रियते । सर्वकारणत्व-हानिप्रसङ्गात् । किं तु ज्ञेयत्वविशिष्टनारायणपरं नारायणपदम् । इत्थं चैकान्तिनां ज्ञेयत्वविशिष्टो नारायणः किञ्चित्प्रयोजनोद्देशेन न भवतीत्यनेन विशेषणीभूतज्ञाने किञ्चि-त्प्रयोजनोद्देश्यकत्वं निषिद्ध्यत इति तस्य फलरूपत्वं तद्विषयस्य सुखादिवत्परमेष्टत्वं लभ्यत इति बोध्यम् । नारायणबोधस्य फलत्वे तस्य फलान्तराभावाद्बोधे सफलत्वघटित-प्रामाण्यमागमस्य कथमागतमिति चेन्न । फलनिर्वाहिका या यथार्थज्ञानानुकूलशक्तिस् तद्वत्त्वस्यैव लक्षणत्वेन बोधस्य तत्फलत्वे तन्निर्वाहकशक्तिरेव फलनिर्वाहिका । फलस्य बोधसाध्यत्वे बोधानुकूलशक्तेः परम्परया फलनिर्वाहकत्वेन सामञ्जस्यमित्याशयात् । मूलोक्तेष्टत्वं मध्यमभक्तान् प्रतीष्टसाधनत्वेन । तस्यापि बुभुत्साद्वारा वेदोपादेयत्व-निर्वाहकत्वादित्याशयेनाह ॥ इतरान्प्रतीत्यादि ॥ इष्टवद् एकान्तिनां परमेष्टत्वविशिष्टवत् । इष्टसाधनस्य इष्टसाधनत्वेनेष्टस्य बुभुत्सितत्वात् । मध्यमभक्तानाम् इष्टताया जिज्ञासाद्वारैव वाक्योपादेयत्वस्य निर्वाहकत्वमिति हृदयम् । इष्टवदित्यस्य लोकानां परमेष्टसुखस्येवेति नार्थः । लोकानां सुखोत्पत्तावेवेच्छासत्त्वेन स्वसमवेतसुखजिज्ञासा तत्प्रश्नोत्तराद्यभावस्य पूर्वमुपपादितत्वादिति ।