०२ ग्रन्थावतरणिका

सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः ..

ग्रन्थावतरणिका

**श्रीमज्जयतीर्थटीका **

इहाविद्यातिमिरनिरन्तरे संसारकान्तारे परिखिन्नानामल्पास्थिरसुखरवद्योतिकासु द्योतमानास्वपि मनःप्रसादमनासादयतामधिकारिणामनन्तानन्दनिदानस्य परमपुरुष-तत्त्वोद्योतस्य सिद्धये समीहमानो भगवानाचार्यसूर्यः स्वयमन्तरायविधुरोऽपि निरन्तराय-प्रारिप्सितपरिसमाप्त्यादेरङ्गमिष्टदेवताभिपूजनं शिष्यान्ग्राहयितुं प्रकरणादौ निबध्नाति

मूलं

सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः ।

नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः ॥

देवतास्तुतिमात्रपरत्वादस्य श्लोकस्य क्रियाभिसम्बन्धाभावो न दोषाय । किं तु रमापतिः सर्वत्राखिलसच्छक्तिरित्यादिरूपैव योजना ।

यद्यप्यत्र न विशेषणानां परस्परसङ्गत्यपेक्षा । विशेष्यप्रशंसामात्रपरत्वेन निराकाङ्क्षत्वात् । तथाप्येतैरेव स्तवने किमपि प्रयोजनमभिधीयते । अत एव च न वाक्यभेददोषः ।

तत्र विद्योपदेशावसरे सकलवाङ्मनसदेवतया रमया युतस्यैव हरेः स्तुतिरुचिता । अतो रमापतिरिति विशेष्यं निरदिक्षत् ।

**द्वैतद्युमणिः **

यद्यपि ग्रन्थनाम्नैव तस्य विषयसम्बन्धो लभ्यते तथापि निष्प्रयोजनत्वेनानु-पादेयत्वशङ्कामपाकर्तंु वा ‘अनधिगतत्वमात्रं न प्रतिपाद्यताप्रयोजकम् । किं तु सप्रयोजन-ज्ञानविषयत्वम्’ इत्यन्यत्रोक्तत्वाद् ईश्वरस्य तथात्वाभावात्तस्य विषयत्वाभावादस्य निर्विषय-त्वादिनाऽनुपादेयत्वशङ्कामपाकर्तुं वा विषयादिकं निरूपयन् तथात्वेऽपि निष्प्रयोजन-काऽद्यपद्यघटितत्वात्पुनरस्यानुपादेयत्वमिति शङ्काब्युदासायाऽद्यपद्यमवतारयति ॥ इहेति ॥ इदं चेतनवर्ग इत्यर्थकमधिकारिणामित्यनेन सम्बद्धम् । कान्तारविशेषणी भूतानुभवसिद्धार्थक-मित्यन्ये । अविद्येति विद्याविरोधित्वेन त्रिगुणात्मकप्रकृतिकामकर्मादिकं ग्राह्यम् । तत्त्वेन तदुत्कीर्तनं तु ज्ञानस्य तन्नाशार्थमवश्यापेक्षणीयतालाभाय । तेषां तिमिरत्वं तु मोक्षमार्ग-प्रवृत्तिहेतुभूतज्ञानप्रतिबन्धकत्वेन । संसारो नाम प्रकृते सुरनरतिर्यगादिनानादेहाः । मनुष्य-देहादिमात्रे विरक्तस्य सुरादिदेहादाविच्छया प्रवर्तमानस्य विरक्त्यभावेन ज्ञानानुदयेन ऐहिकामुष्मिकसकलभोगविरक्तिलाभाय परीत्युक्तम् । सर्वयोनिषु द्वेषवतामित्यर्थः । तत्र द्वेषेण तद्विरोधिनि ज्ञान इच्छोदयद्वारा ज्ञानोत्पत्तिरिति भावः ।

ननु मुख्येच्छाविषयत्वं यथा सुखस्य तत्साधनतया चान्येषामिच्छाविषयत्वं तथा दुःख-स्यैव मुख्यद्वेषविषयत्वं तत्साधनतयाऽन्येषाम् । एवं च सुखसाधनेषु शरीरेषु कथं द्वेषः । न च दुःखसाधनत्वाद् द्वेषोऽपि स्यादिति वाच्यम् । सुखासाधने दुःखसाधन एव लोकानां द्वेषदर्शनात् । अन्यथा नान्तरीयकदुःखसाधनत्वात्प्रायेण सर्वक्रियाणां सर्वत्र प्रवृत्युच्छेदप्रसङ्गा दित्यभिप्रायपूर्विकामाशङ्काम् अप्यन्तेन सूचयन् तन्निराकरणपूर्वकं परिखेदमुपपादयति अल्पेत्यादिनाऽनासादयतामित्यन्तेन । सुखेऽल्पत्वास्थिरत्वयोः समाधानोपयोगित्वेनाभिधानं न तु शङ्कोपयोगेन । द्योतमानासु साक्षात्क्रियमाणासु । मनःप्रसादं तज्जातीयान्यसुखेच्छा-नुत्पत्तिपूर्विकां तज्जातीयविषयकोत्कटेच्छाम् । शङ्कायां सुखे साक्षात्क्रियमाणत्वकथनं त्वनुभव सिद्धसुख साधनत्वात्कथमत्र शरीरादौ द्वेष इति शङ्कोत्थापनाय । नन्वनासादयतामित्यनेन कथमुक्तशङ्कापरिहारः । इत्थम् । सुखासाधनत्वसमानाधिकरणदुःखसाधनत्वं न द्वेषविषयत्व-प्रयोजकम् । तात्कालिकतृप्तिसाधने विषसम्पृक्तमधुभक्षणादौ द्वेषानुदयप्रसङ्गात् । किं तु स्वसाध्यदुःखन्यूनमनधिकं वा यत्सुखं तत्साधनत्वं केवलं दुःखसाधनत्वं च । लोकानां तथैवानुभवात् । तथा च सांसारिकसुखापेक्षया दुःखस्याधिकत्वज्ञानवतां विवेकिनां संसारे द्वेषोदय इति । ननु अविरललग्नसुखधाराया एव ‘यन्न दुःखेन सम्भिन्नं’ इत्यादिना स्वर्गपदार्थत्वावगमात्कथं तत्साधने दुःखासाधने तच्छरीरादौ द्वेष इत्यतो ऽस्थिर इत्युक्तम् । तेषामप्यस्थिरत्वात् स्थिरसुखरूपमोक्षविरोधिनि तत्सुखसाधने शरीरे द्वेषोदयो युक्त इति भावः । अल्पपदस्य स्वकारणजन्यदुःखापेक्षया अल्पत्वार्थत्वं विहाय मोक्षापेक्षया अल्पत्वार्थकत्वे स्वर्गसुखस्यापि तथात्वमेव । अस्थिरत्वं तु सर्वत्रापि द्वेषाधिक्यसूचनाय अभ्युच्चयत्वेनोक्तम् ।

यद्वा संसारे परिखिन्नानामित्यस्य सांसारिकबहुदुःखानुभववतामित्यर्थः । तस्य वैषयिक-सुखविषयकेच्छाभावरूपवैराग्येऽनासादयतामित्यन्तेनोक्ते हेतुत्वम् । ‘विविधसांसारिकदुःख-दर्शनेन विरक्तस्य’ इत्यन्यत्रोक्तेरिति ध्येयम् । अत्र यद्यपि पूर्वोक्तार्थाक्षेपसूचकापिपदवैयर्थ्यम् । पूर्वोक्तपरिखेदस्याऽक्षेपपूर्वमसमर्थनात् तमेव हेतूकृत्य वैराग्यमात्रस्य कथनादिति भाति । तथापि परिखेदसद्भावेऽपि तत्काले साक्षात्क्रियमाणेषु तज्जातीयेषु सत्सु मोक्षरूप-कालान्तरीणसुखविषयकोत्कटेच्छया न वैराग्यमित्याशङ्कासूचकं द्योतमानपदसमभिव्याहृतम् अपिपदमिति न तस्य वैयर्थ्यम् । सुखेष्वल्पत्वाद्युक्त्या तच्छङ्कापरिहारः पूर्वोक्तरीत्या द्रष्टव्यः ।

ननु मोक्षसुखस्य विषयसुखवैलक्षण्यायानन्तत्वाभिधानात्तस्य यथायोग्यं पूर्णत्वनाश-राहित्यरूपत्वात्तद्विरूद्धधर्मयोरल्पत्वास्थिरत्वयोर्वैषयिकसुखेषु कथनं युक्तम् । तस्य खद्योति-कोपमा तु न सङ्गता । न हि मोक्षसुखस्य सूर्यस्थानीयतया तमोनिवर्तकत्वमुच्यते युक्तं वा । तन्निवृत्त्युत्तरकालीनत्वात्तदभिव्यक्तेः । किं तु आचार्यस्य सूर्यस्थानीयत्वम् । तदुपदेश-जन्यत्वेन तदधीनपरमपुरुषतत्त्वोद्योतस्य तत्प्रकाशस्थानीयत्वम् । तस्याविद्यादिरूपतमो-निवृत्तिद्वारा अनन्तानन्दभिव्यक्तिहेतुत्वात् । तथा च सूर्यस्थानीयाचार्येण प्रकाशकत्वेना-सजातीये प्रत्युत स्वयं प्रकाशकर्मीभूते वैषयिकसुखे तमोनिवर्तकत्वासामर्थ्यसूचनाय खद्योतिकासाम्योपादानं कथमिति चेन्न । यतः वैषयिकसुखेषु तमोनिवर्तकत्वासामर्थ्यसूचनाय न खद्योतिकोपमोपादानम् । किं तु तस्य प्रयोजनान्तरमेव वर्तते । कथम् । इत्थम् । ननु संसारनिवृत्तीच्छया परमपुरुषज्ञानसम्पादनमयुक्तम् । संसारसद्भाव एव स्त्रीपुत्रादिनानासुख-सम्भवात् । परमपुरुषज्ञानस्य तु विद्यामानसुखनाशकतया अनपेक्षितत्वेन तत्सम्पादकाचार्य-सूर्योप्यनपेक्षित इत्याशङ्कापरिहारायेदमभिहितम् । तेन च यथा तमःसम्बन्धकाल एव खद्योतिका द्योतन्ते न सूर्यप्रकाशवेलायामित्येतावता खद्योतिकाप्रकाशनिर्वाहाय तमस्येवेच्छा प्रेक्षावतां न सूर्यप्रकाश इति न युज्यते तद्वत् खद्योतिकास्थानीयसुखप्रकाशकतमोनिबिड-संसारे इच्छा आचार्यसूर्यप्रकाशादौ तु नेच्छेति न युज्यत इति ।

श्रीपादास्तु आचार्यसूर्य इत्यत्र न सूर्यपदं रूढ्या सूर्यपरं सद् आचार्यस्य तमोनिवर्तक-त्वादिसामर्थ्यबोधनपरम् । अपि तु लोकानां दुःखादिमत्त्वेऽपि कुत आचार्याणामेतन्निर्माणे प्रवृत्तिः । तेषाम् उपदेशानिच्छुत्वात् तान्प्रत्युपदेशे स्ववाक्यस्यानुपादेयत्वापत्तिरित्याशङ्का-परिहाराय योगेन ज्ञानिगम्यार्थकम् । ‘सूर्यः स सूरिगम्यत्वात्’ इतीशावास्यभाष्योक्तेः । तथा च संसारबाधावद्भिर् ज्ञानिभिः शरणतया स्वस्य गम्यत्वात् तान्प्रत्युपदेशरूपे ग्रन्थे प्रवृत्ति-र्युक्तैव । ‘ते वायवे मनवे बाधिताय’ इत्यत्र बाधितायेति शब्धस्य संसारबाधावद्भिः शरणं प्राप्तायेत्यर्थस्य टीकाकृता अभिहितत्वाद् उक्तं युक्तमिति प्राहुः ।

वैराग्यादिसद्भावेऽपि ज्ञानोत्पत्तौ स्वरूपयोग्यतारव्याधिकारोऽपेक्षित इत्याशयेनाधि-कारिणामित्युक्तम् । अत्र निदानेति परमपुरुषज्ञानस्यानन्दाविर्भावं प्रति मूलकारणत्वोक्त्या मध्ये अपेक्षितं किञ्चिदस्तीति गम्यते । तच्च प्रकृत्यादीनां विद्याविरोधित्वकथनेनाविद्या-निवृत्यादिरूपमेवेति लभ्यते । तदपि न परमतरीत्या साक्षादेव ज्ञानेन । स्वविषयकापरोक्ष-ज्ञानं यदि बन्धनिवर्तकं स्यात् तदा तस्य स्वसमानविषयकस्वस्वरूपज्ञाननिवर्तकता सम्भाव्येत । किं तु ज्ञानं स्वापेक्षया पारम्येण स्वान्यस्य परमपुरुषस्यैव । तस्य च कथं जीवस्वरूपावरकाज्ञानबन्धनिवर्तकत्वं साक्षाद्धटते । किं तु निगडमोचकराजसाक्षात्कारस्येव प्रसादद्वारेति सूचनाय परमपुरुषेत्याद्यभिहितम् । अत्रानन्तानन्दाय परमपुरुषतत्त्वोद्योतस्य सिद्धय इति अनन्तानन्दस्योद्देश्यत्वमनभिधाय वस्तुतस्तज्जनकज्ञानस्यैव सिद्धय इति उद्देश्य-त्वाभिधानम् एतद्ग्रन्थस्योत्तमाधिकारिसाधारण्यं सूचयितुम् । उत्तमाधिकारिणां भगवज्ज्ञान-मेवोद्देश्यम् आनन्दावाप्तिस्तु तत्स्वाभाव्यात् । अन्येषां तु आनन्दार्थं तदुद्देश्यमिति बोध्यम् । अस्य शास्त्रैकदेशत्वरूपप्रकरणत्वेन शास्त्रीयविषयादिकमेव परमपुरुषादिकमस्य विषयादिक-मिति मायावादखण्डनटीकादावुक्तदिशा द्रष्टव्यम् । मायावादखण्डनटीकादौ स्फुटतया तथोक्तिरत्रानुक्तिश्च तत्र परपक्षमात्रस्यादित एव निराकृतत्वेन विषयादीनां स्फुटमप्रतिभासा-दत्र मुक्तभेदरूपस्वपक्षस्थापनेन मुक्तभेदवत्तया तन्नियामकत्वरूपपारम्यविशिष्टेश्वररूप-विषयादिप्रतिभासादिति द्रष्टव्यम् । अत एवास्यापि शास्त्रैकदेशत्वलाभाय प्रकरणादा-वित्युक्तम् । अभिपूजनस्य स्तुतिरूपत्वे सर्वत्रेत्यादिवाक्यरूपस्य तस्य १विषयीभूतस्वप्रत्यक्ष-निर्वाहकत्वान्मङ्गलप्रकाशकवाक्यरूपनिबन्धनत्वं सर्वत्रेत्यादिश्लोके न बाधितम् । टीकायां मूलपाठोत्तरमितिशब्दोऽध्याहार्यः । तस्य स्वरूपार्थत्वेन निबन्धने अभेदेनान्वयः । एतत्स्वरूपाभिन्ननिबन्धनकर्तेति बोधः । एवमुत्तरत्र सर्वत्र मूलपाठोत्तरमितिशब्दमध्याहार्या-वतारिकोक्तक्रियायामन्वयो द्रष्टव्यः ।

ननु मूले रमापतिरित्येवोद्देश्यसमर्पकम् । झाडिति व्यक्तिविशेषोपस्थापकत्वात् । तत्पूर्ववर्तिनां पदानां तूद्देश्यतावच्छेदकसमर्पकत्वम् । नीलश्चैत्रीयो घटः सुन्दर इत्यादौ तथा दर्शनात् । तथा च विधेयवाचकक्रियापदाभावान्न्यूनता । न चास्तेः सार्वत्रिकत्वेन सिद्धत्वा-न्नोक्तमिति वाच्यम् । तत्कथनस्यास्तिताया रमापतित्वादिरूपधर्मान्यथानुपपत्त्यैव सिद्धत्वेन वैयर्थ्यात् । तत्कथनस्य मङ्गलनिबन्धनरूपत्वाभावाच्चेत्यत आह ॥ देवतेति ॥ स्तुतिर् उत्कर्षबोधानुकूलधर्मप्रतिपादनं तन्मात्रपरत्वात् । उक्तविशेषणविशिष्टरमापत्युद्देश्यकक्रिया-पदार्थादिविधेयकबोधे तात्पर्याभावो मात्रपदार्थः । क्रियासम्बन्धाभावः क्रियेत्युपलक्षणम् । विशिष्टरमापतौ वधेयसमर्पकपदमात्रं ग्राह्यम् । नीलमिदं न तु रक्तमित्यादौ क्रियापदाभावेदि वाक्यपरिसमाप्तेस्तांत्रिकैरुक्तत्वेऽपि ‘एकतिङन्तं वाक्यम्’ इति वार्तिकानुसारेण वा क्रिया-पदार्थविधेयकबोधेन वाक्यसमाप्तेर्बाहुलकत्वेन वा क्रियापदस्य कण्ठतो ग्रहणम् । तथा च विशिष्टरमापत्युद्देश्यकविधेयान्तरविषयकबोधानुकूलपदसमभिव्याहाराभाव इत्यर्थः । न दोषाय स्वतात्पर्यविषयीभूतबोधानुकूलपदाघटितत्वरूपन्यूनतादोषाय नेत्यर्थः । विशिष्टरमापतौ विधेयान्तरबोधे ग्रन्थकृतस्तात्पर्यसत्त्वे हि पदविशेषस्य अध्याहारादौ विनिगमकाभावादिना स्फुटज्ञापकाभावे हि तद्बोधकपदाप्रयोगो ग्रन्थकृतां तदघटितत्वं च वाक्यस्य दोषः । न चैवं प्रकृते । ग्रन्थकृतस्तादृशबोधे तात्पर्यस्यैवाभावात् ।

ननु प्रीत्याशासनादिक्रियार्थबोधे तात्पर्याभावे कथमस्य वाक्यस्य वाचनिकमङ्गलात्म-कत्वम् । वाचनिकमङ्गलात्मके ‘नारायणोऽगण्यगुण’ इत्यादिश्लोके प्रीयतामित्यादिक्रियासत्त्वेन तद्भावस्य तादृशमङ्गलत्वव्यापकत्वावगमात् । व्यापकाभावे च व्याप्यमङ्गलात्मकत्व-मप्यनुपपन्नमित्याशङ्कापरिहाराय देवतास्तुतीत्याद्यभिहितम् । उत्कर्षप्रतिपत्त्यनुकूलधर्म-प्रतिपादकत्वादेव हि मङ्गलरूपत्वम् । न तु प्रीत्याशासनादिक्रियासाहित्यनियमः । विष्णुसहस्रनामादौ तदभावेऽपि मङ्गलरूपताया दृष्टत्वादिति हृदयम् । मनुष्यस्तुतौ मङ्गलरूपताया असम्प्रतिपत्तेर्देवतेत्युक्तम् । मङ्गलात्मकत्वाभावादिदोषोऽपि नास्तीति सूचनाय न दोषायेति सामान्येनोक्तम् । देवतापदमप्यत एव सार्थकम् । अन्यथा स्तुतिमात्रपरत्वादित्येवोच्येत । ननु क्रियापदादिरूपविधेयसमर्पकपदाभावे पदानां स्वार्थ-मात्रोपस्थापकताप्राप्त्या रमापतावुत्कर्षनिर्वाहकधर्माप्रतिपादकतया स्तुतिरूपता न निर्वहतीत्याशयेन शङ्कते ॥ किं त्विति ॥ उत्तरमाह ॥ रमापतिरित्यादि ॥ एवकारस्तेषामुद्देश्यतावच्छेदकसमर्पकतया योजनाव्यवच्छेदकः ।

स्वयं क्रियमाणस्य श्लोकस्थपदानां तन्निवर्तनीयाकाङ्क्षोत्थापकत्वतदुत्थाप्याकाङ्क्षानिवर्त-कत्वान्यतररूपसङ्गतिप्रदर्शनस्य वैयर्थ्यमाशङ्क्य तत्परिहारपूर्वकं तां सङ्गतिं दर्शयति ॥ यद्यपीत्यादिना ॥ विशेष्यप्रशंसापरत्वेन तन्निष्ठोत्कर्षाधिक्यप्रतिपत्तिप्रयोजनकतया निश्चित-त्वेन । निराकाङ्क्षत्वात् प्रयोजनविशेषवत्तयाऽजिज्ञासितत्वात् । तथा च भवतां तत्कथनम-जिज्ञासिताभिधानरूपतया अनुपादेयं स्यादिति भावः । किमपि अपिः सम्भावनायाम् । सामान्यतः संभावितं श्रेतृभिर्विशेषरूपेणानिश्चिततया जिज्ञासितं प्रयोजनमस्माभिरभिधीयते । अतोऽस्मदुक्तेर्न निराकाङ्क्षिताभिधानरूपत्वमिति भावः । यद्यपि विशेषणान्तराण्यनुपादाय एतैरेव स्तवने स्वतन्त्रेच्छैव नियामिकेति वक्तुं शक्यत्वेन न तावता एदानां प्रयोजनान्तर-सम्भावनाप्रसक्तिः । अन्यथा विशेषणान्तरोपादाने तत्राप्येतादृशशङ्काया अनुच्छेदापत्तेः । तथापि प्रयोजनान्तरबाधनिर्णयोत्तरमेवेच्छारूपसमाधानप्रसक्तिः । न च प्रकृते बाधो निश्चेतुं शक्यः । आचार्यवचसामतिगम्भीरार्थत्वस्य बहुशो दृष्टत्वेन तदुपायाभावात् । अतः प्रयोजनान्तरसम्भावना युक्तैवेति ज्ञातव्यम् । वाक्यदोषस् तदुत्थाप्याकाङ्क्षानिवर्तकत्व-तन्निवर्तनीयाकाङ्क्षोत्थापकत्वान्यतराभावरूपो वाक्यदोषः । अत एव वक्ष्यमाणरीत्या अवान्तरवाक्यानामन्यतरसत्त्वादेव नेत्यर्थः । अन्यतराभावात्मकवाक्यदोषत्वावच्छिन्ना-भावत्वेन साध्यत्वं तादृशान्यतरवत्त्वेन हेतुत्वमिति न साध्यावैशिष्ट्यमत्र शङ्क्यम् । वाक्यभेदपदस्य विशिष्टैकार्थविषयकसमूहालम्बनानात्मकशाब्दाजनकत्वं नार्थः । तस्य वक्ष्यमाणरीत्या सङ्गतिसद्भावेऽपि पदानां पूर्वोक्तयोजनायां तादृशदोषस्य दुर्वारत्वात् । ननु तर्हि तद्दोषेणाप्यस्य दुष्टत्वमेव श्लोकस्य स्यादिति वाच्यम् । वाक्यानां परस्परासङ्गतिरेव दोषः न तु सर्वेषां विशिष्टैकार्थशाब्दधीजनकत्वाभावः । महाग्रन्थस्थानामवान्तरवाक्यानां तादृशानां बहुलमुपलम्भादित्यभिप्रायात् ।

अत एवेत्यस्य यत एतैरेव स्तवने किमपि प्रयोजनमभिधीयते अत एवेत्यर्थः । तथा च पञ्चानामप्येषाम् ईश्वरप्रमाणरूपैकार्थप्रतीतिपरत्वान्न वाक्यभेद इति टिप्पण्यां व्याख्यातम् । तत्र यद्यपि विशेष्यप्रशंसारूपैकविशिष्टार्थप्रतीतिपरत्वेन तददोषत्वस्य पूर्वमपि सत्त्वाद् अत एवेत्युपष्टम्भासङ्गतिरिति प्रतिभाति तथापि १नैकार्थप्रतीतिपरत्वमात्रत्वमेकवाक्यत्वम् । विभिन्नकर्तृकयोरेकेनैव कालभेदेनोच्चारितयोर्वा घटोऽस्तीति वाक्ययोरपि तथात्वापत्तेः । किं तु परस्परसाकाङ्क्षतयैकविशिष्टार्थपरत्वम् ।

‘‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्’’

इति जैमिन्युतेः । तच्च प्रशंसापरत्वपक्षे विशेषणपदानां परस्परापेक्षाविधुराणामेवो-त्कर्षरूपप्रशंसापरत्वान्नैकवाक्यत्वनिर्वाहः । इदानीं तु वक्ष्यमाणरीत्या परस्परसाकाङ्क्षाणामेव प्रामाणिकत्वेनेश्वरबोधपरत्वम् । अनुमानस्याप्यागमासहकृतस्येश्वरे प्रामाण्यायोगात्तस्यापि तत्साकाङ्क्षत्वमेवेति तत्सूचकवाक्यानामपि परस्परसाकाङ्क्षत्वमेवेत्येतत्पक्षे उपष्टम्भसङ्गतिरिति टिप्पण्यभिप्रायः । साकाङ्क्षत्वं चास्मदुक्तान्यतरात्मकत्वमेवेति टिप्पण्या अप्यत्रैव पर्यवसानात् ‘अन्यतरसत्त्वादेव’ इत्यस्माभिर्व्याख्यातमतस्तद्विरोधोऽत्र न शङ्क्य इति ज्ञेयम् । प्रसिद्धस्व-नामानि विहाय भार्यानामपूर्वमग्रहणप्रयुक्तापकर्षं तस्य बीजान्तरं वदन् परिहरति ॥ तत्रेति ॥