ॐ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॐ
११. अनावृत्त्यधिकरणम्
सूत्रभाष्यम्
॥ ॐ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॐ ॥ २३ ॥
‘न च पुनरावर्तते न च पुनरावर्तते,’ ‘सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्’ इत्यादिश्रुतिभ्यः ॥
॥ इति अनावृत्त्यधिकरणम् ॥ ११ ॥
ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु
र्मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥
नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः ॥
तत्त्वप्रदीपिका
स्थानान्तरेभ्य इव तस्माद्यदा कदाचिदपि नैवावृत्तिः शङ्कनीयेत्याह– अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ ‘स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते । न च पुनरावर्तते न च पुनरावर्तते,’ ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वम् उत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभव-त्समभवत्’ ‘यो वा एतामेवं वेदापहत्य पाप्मानमन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति’ इत्यादिश्रुतिभ्यः । अत्र सम्भवो भोगः । श्रीमन्महैतरेयोपनिषद्भाष्ये च– ‘‘स्वरानन्दो विष्णुरत्रग इति स्वर्गलोको विष्णुलोकः । अमृतः सन्सर्वान्कामानाप्त्वा तानेव सर्वान्कामान्समभवद् अनुभवति । अपेक्षितवस्तुस्वीकार आप्तिः । सम्भवो भोगः । ‘तां समभवत्ततो मनुष्या अजायन्त’ इत्यादिवत् । मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः । मुख्य एव चार्थः स्वीकार्यः । अमुक्तानां विष्णुलोकगमनेऽपि न सर्वकामावाप्तिः । जयविजयादीनामप्रियदर्शनात् । अतोऽमृतः सन्सर्वान्कामानाप्त्वेत्यर्थः ।
‘मुक्तः कामानवाप्नोति भुङ्क्ते चैव यथेष्टतः ।
सर्वानपि निरातङ्कः सर्वदा च हरेर्वश’ इति सत्तत्वे ॥
‘अनारब्धफलानां च प्रारब्धानां च सर्वशः ।
कर्मणां दाह एवायं मुक्तिरित्यभिधीयते ॥
स तु मुक्तस्ततो देहादुद्गच्छति परात्मना ।
प्रेरितो विष्णुलोकञ्च प्राप्य भोगानवाप्य च ॥
भुङ्क्ते विष्णुप्रसादेन न विष्णोरवशः क्वचित् ।
विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिला’ इति ब्रह्माण्डे ॥
ऐतरेयसंहितायां च–
‘प्रकृष्टज्ञानरूपस्य प्रसादात्परमात्मनः ।
अस्माल्लोकात्समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम् ॥
अमृतः सन्विष्णुलोके भोगन्सम्प्राप्य पुष्कलान् ।
भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम्’ इति ॥ इत्यनावृत्त्यधिकरणम्
इदानीं परिसमापितभाष्यो भगवान्भगवत्तमवेदव्यासशिष्यप्रकरपुरस्सरः सकलसुमनो-मनोवारिजप्रबोधप्रभाकरः समस्तवेदार्थमीमांसकवरचूडामणिः प्रतिवादिवारणपतिदर्पविदारण-सिंहराजः परमात्मतत्वविज्ञानगुरुपरमाचार्य आत्मनः स्वरूपं ज्ञानाधिकारिणां विज्ञापयन् स्वकृतं च भगवति नारायणे समर्पयन्नाह–
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्
मध्वो यत्तु तृतीयमेतदमुना भाष्यं कृतं केशवे ॥
तस्य वायोर्यदेतत्तृतीयं रूपम् अमुना रूपेण केशवे भगवति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्राणां भाष्यं कृतम् । यस्य वेदवचने त्रीणि रूपाण्युदितानि । अलं दिव्यानि अत्यन्तं प्रकाशवन्ति स्तुत्यानि देवसेव्यानि च । बट् तद्दर्शतमित्यादिनाऽर्थसङ्ग्रहणात्मकेन तद्वेदवाक्यं लक्षयति । तत्सहसो देवस्य वायोः स्वरूपं महाबलं ज्ञानात्मकं ततम् । इत्थं वक्ष्यमाणप्रकारेण वपुषेऽवतारायाधायि भगव-दिच्छया स्वबुद्ध्या च । यतो भारतिज्ञानात्मकत्वाद्भर्गाख्यं ब्रह्माभिव्यक्तमभूत् । अथवा यतो देवात्स्वयमजनि तस्य विष्णोर्देवस्य भर्तृ गन्तृ च । तत्र प्रथममृतस्य शश्वदेकप्रकारस्य रामस्याऽज्ञा-प्रणेतृ यद्रूपं तस्य समीपमेकान्ततः प्राप्नोति साधयति च तत्कार्यम् । सदा च नित्यप्रत्यक्षस्य तस्य समीपगत एव ह्ययं मतिशब्दितो हनुमान् । अद्यापि हि सिद्धगन्धर्वपरिगीतसततरमणात्मकसकल-सज्जनमनोरमणरामाभिधेयरमारमणगुणगणामृतरसास्वादमहोत्सव समुद्भूतहर्षाश्रुगद्गदपुलकाकुलितः किम्पुरुषे खण्डे तिष्ठतीति वदन्ति ॥
तस्यैव क्षितिभारभूतप्रभूतबलदुर्दमदुष्टजनसंहरणकृतावतारस्य कृष्णस्य सहकारि पृतनाक्षयकारि पृक्षो द्वितीयं वपुः ॥
तृतीयं मध्व इत्युच्यते । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्’ इत्युक्तम् । अतः श्रीमदानन्दतीर्थभगवत्पादाचार्य इत्यर्थः । यस्यास्खलितानवरतवेदशास्त्रव्याख्यानश्रवणकौतुक-समुत्खातदुःखसङ्घातो निखिलपण्डितवर्गो महामृतसमुद्रावगाहीव बहुलमाह्लादमाप्नोति । एतदिति सन्निहितत्वात् । अमुनैतेन विष्ण्वाख्यपरब्रह्मप्रतिपादकं श्रीमद्भाष्यं कृतमित्यर्थः ॥
प्रारब्धशास्त्रपरिसमाप्तिस्तत्प्रसादादेवेति प्रकटयन्नन्तेऽपि देवतागुरुप्रणतिमाचरति–
ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥
ज्ञानानन्दादिभिर्भक्तप्रबोधानन्दनादिभिः ।
गुणैरगण्यैः पूर्णाय नमो नारायणाय ते ॥
दुःखाज्ञानादिरहिता सुखज्ञानादयो गुणाः ।
सदा यस्यापरिमितास् तं नतोऽस्मि गुरोर्गुरुम् ॥
देशे काले च सर्वस्मिन्सर्वावस्थासु सर्वतः ।
यः प्रियोऽभ्यधिको विष्णुर्गुरोस्तं प्रणतोऽस्म्यहम् ॥
प्रणमत पदपद्मं व्यासदेवस्य विष्णो
र्विधिमुखविबुधश्रीमौलिसङ्क्रान्तरेणुः ।
गुरुरयममितार्थं यत्प्रसादैकबन्धु
र्व्यधित परमविद्याभाष्यमीरोत्तमांशः ॥ १ ॥
त्रिजगति विलसन्तस्सन्ततध्वान्तमन्त
र्द्युमणय इव दूराद्दारयन्तः समन्तात् ।
निखिलनिगमभर्तुः सूत्रकर्तुः परेशः
पदकमलपरागाः पान्तु नः पावयन्तः ॥ २ ॥
यद्वाक्प्रसारपरमामृतपानतृप्ताः
सन्तः सदा सकलदुःखरुजोऽतितीर्य ।
नित्यानुभूतिमदपारसुखैकरूपाः
क्रीडन्ति तं परमकारुणिकं नताः स्मः ॥ ३ ॥
श्रीमन्महागुरुपदाम्बुजरेणुपुञ्जैर्
मूर्ध्नाऽभिषेकमधिगम्य धृतानुभावः ।
तत्वे सुदुर्ग इह भाष्यवरस्य टीका
माज्ञाबलादकृषि लेशत एष तेषाम् ॥ ४ ॥
सद्युक्तिरत्नरुचिरामधिरुह्य भाष्य
निःश्रेणिमुल्बणतमस्तरणैकहेतुम् ।
लब्ध्वाऽनुभाष्यमणिदण्डकरावलम्बं
भाष्यानुभाष्यमुखतत्कृतिरत्नदीपैः ॥ ५ ॥
प्राप्य प्रकाशितमहं परमाख्यविद्या
प्रासादवर्यसदनस्य पदारविन्दम् ।
सम्प्रीतये भगवतः परमस्य भक्त्या
सत्तत्वदीपमिममत्र समर्पयामि ॥ ६ ॥
तत्वाशेषविशेषदीपकतमेष्वेतेषु दीपेष्वयं
तेभ्यः सम्भृत आत्मभातवपुषः स्यात्प्रीतयेऽप्यल्पकः ।
पूर्णानन्दभुगीश्वरः सुरगणैः सम्पद्गिराऽराधित
स्तुष्येत्तुष्यति चाल्पयोपहृतया भक्त्या पयोविप्लुषा ॥ ७ ॥
निःश्रेणितां निलयतां मणिदीपतां च
दीपान्तरप्रभवकारणतां च याता ।
हस्तावलम्बपदतां च तदेवमेषा
कृत्स्ना कृतिर्गुणनिधेरिह भाष्यकर्तुः ॥ ८ ॥
सर्वानुवादमिह नाकरवं प्रतीकं
नाप्यग्रहीषमलसः प्रतिभाष्यमेषः ।
तस्यापि मेऽत्र भवतश्चरणाश्रितस्य
ह्याज्ञाकृतिः सुकृतिरस्तु गुरोः कृपालोः ॥ ९ ॥
नमस्तस्मै नमस्तस्मै समस्तस्वामिनेऽस्तु ते ।
नमस्तस्मै च यस्तस्मै नमस्कर्ता गुरुस्सदा ॥ १० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां
त्रिविक्रमार्यकृतौ तत्त्वदीपिकायां चतुर्थाध्यायस्य चतुर्थः पादः ॥
तत्त्वप्रकाशिका
अत्र ब्रह्म प्राप्य भोगान् भुञ्जानस्य मुक्तस्यापुनरावृत्तिसमर्थनादस्ति शास्त्रादिसङ्गतिः । प्रकृतो मुक्त एवात्र विषयः । किं तस्य पुनरावृत्तिरस्ति न वेति सन्देहः । उभयथा सम्भवः सन्देहबीजम् । अस्ति मुक्तस्य पुनरावृत्तिरिति पूर्वः पक्षः । स्वर्गादिगतानां पुनरावृत्तिदर्शनात् । न च स्वर्गादि-गतानां युगमन्वन्तरादिमात्रवासित्वाद्युक्ता पुनरावृत्तिर्न मुक्तस्य तस्य समस्तकालवासित्वादिति वाच्यम् । समस्तस्यापि कदाचित्समाप्तिसम्भवात् । न च कालस्यानन्तत्वात्तत्समाप्त्ययोगः । भारतयुद्धे त्रयोदश्या एव पञ्चदशीत्वदर्शनात् । तत्र तिथित्रयस्य युगपत्समाप्तिवदनन्तत्वेऽपि कालस्य समस्तस्यापि युगपत्समाप्तिसम्भवात् । अतो मुक्तौ पुनरावृत्तिसद्भावादपुरुषार्थता मुक्तेरिति । सिद्धान्तयत्सूत्रमुपन्यस्य तदुपात्तश्रुतीरेवोदाहरति ॥ अनावृत्तिरिति ॥ न मुक्तस्य पुनरावृत्तिः । ‘न च पुनरावर्तत’ इति श्रुतेः । किं च मुक्तस्य सर्वकामावाप्तिः श्रूयते ॥ सर्वान्कामानिति ॥ ततश्च न तस्य पुनरावृत्तिः । न हि कश्चित्पुमान्पुनरावृत्तिकामोऽस्तीति भावः । समस्तकाल-समाप्तिस्तु व्याहतत्वादुपेक्षणीयैव । समस्तशास्त्रावधारणार्था सूत्रस्यैव द्विरुक्तिः । अतो मुक्तानां पुनरावृत्त्यभावाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धम् ॥
तदेवं विरक्तिभक्त्युपास्तिजनितभगवत्साक्षात्कारोदिततत्प्रसादादशेषपुरुषार्थप्रवरकैवल्यसिद्धे-रशेषगुणपूर्णतया निर्दोषतया च भगवान्नारायणो जिज्ञास्य इत्यशेषमतिमङ्गलम् ।
अथायं भाष्यकारो यं गुणगणार्णवतया प्रतिपादितवान्यच्छिष्यतया चैतादृशीमतिविशदां संविदं लब्धवान्यस्मिंश्चात्मनो निरुपाधिकप्रीतिस्तमेव देवतात्वेन गुरुत्वेन चान्तेऽपि नमति ॥ ज्ञानेति ॥
अथ स्वभाषितभाष्यस्याप्तिमूलत्वसमर्थनाय श्रुतिप्रसिद्धं स्वस्य परमाप्तत्वं दर्शयन्नाह ॥ यस्येति ॥ तस्य वायोर्देवस्य बत्थिेत्यादिवेदवचने क्रीडादिगुणयुक्तानि त्रीणि रूपाण्युदितानि तस्य यत्तृतीयं रूपं तेनेदं भाष्यं हरिविषयतया कृतमित्यन्वयः । कीदृशं चास्य मूलरूपं कानि च त्रीणि रूपाणि कीदृशानीति तत्राह ॥ अलमिति ॥ यदस्य वायोर्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं भर्गो जगद्भरणगमनगुणं महन्महनीयं तदित्थंभूतमेव रूपत्रयावताराय भगवता निहितं प्रेरितमवतीर्णं च । तत्र प्रथमं हनुमदाख्यं वपुः रामस्य वचांसि सीतां प्रति नीतवत् । रामविषयवचांसि मूलरामायण-रूपाणि शिष्येषु नीतवत् । रामवचसि यो नयो न्याय आज्ञारूपस्तद्युक्तं वा । द्वितीयं वपुर्भीमनामकं कुरु पृतनाक्षयकरम् । तृतीयं तु वपुरानन्दरूपस्य हरेः प्रतिपादकशास्त्रनिर्मातृ-मध्वाभिधमिति । अतः परमाप्ततमप्रणीतत्वादिदं भाष्यं सकलसुजनैरादरेणाङ्गीकार्यमिति भावः ॥
उत्पत्तिस्थितिसंहृतिप्रभृतयो भावा भवन्त्याज्ञया
पद्मापद्मभवादिसर्वजगतो व्यस्तास्समस्ताः सदा ।
यस्यागण्यगुणाकरस्य करुणापीयूषवारां निधेः ।
सोऽयं दूरनिरस्तदोषनिकरः प्रीतोऽस्तु नारायणः ॥ १ ॥
अगाधबोधैर्विवृतातिभावभाष्यानुवादेन न मेऽपराधः ।
न हीन्दिराराध्यपदो मुकुन्दो दूर्वाङ्कुरैर्मन्दधनैरपूज्यः ॥ २ ॥
मध्वदुग्धाब्धिसम्भूतभाष्येन्दूदितकौमुदी ।
भूयात्सत्कुमुदानन्ददात्री तत्त्वप्रकाशिका ॥ ३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां चतुर्थाध्यायस्य चतुर्थः पादः ॥
॥ चतुर्थाध्यायः सम्पूर्णः ॥
गुर्वर्थदीपिका
‘चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् ।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ॥
इति भारतश्लोकस्यायमर्थः । तिथिक्षये पञ्चदशीं पञ्चदशदिनयोग्याममावास्यां चतुर्दशीं चतुर्दशदिनसम्बन्धिनीं भूतपूर्वां जानामि । प्रतिपदमारभ्य क्षये सति त्रयोदश्याख्यतिथेर्लोपो भवति तदा द्वादश्यनन्तरं चतुर्दश्येव भवति । चतुर्दशदिने अमावास्या भवतीति पूर्वं दृष्टमस्तीति । एवं तिथिवृद्धौ पञ्चदशीममावास्यां षोडशीं षोडशदिने जातामपि भूतपूर्वामभिजानामि । इमामवस्थां नाभिजानामि । काऽसावित्यत आह ॥ अमावास्यां त्रयोदशीमिति ॥ अमावास्यां त्रयोदशीं त्रयोदशदिने जातां नाभिजानामि । दुर्योधनपातसमये औत्पत्तिकातिक्षयसामर्थ्यादमावास्यां त्रयोदश्येव जातेति भारतश्लोकोक्ततात्पर्यमभिप्रेत्याह ॥ भारतयुद्धेति ॥ समस्तकालसमाप्तिस्तु व्याहतत्वादित्यत्र समस्तकालसमाप्तिः कदेत्युक्ते पुनः कालस्यैव वक्तव्यत्वादित्यर्थः ।
मूलरूपे देवस्येति विशेषणादित्थमेव च वपुषे धायीत्युक्त्याऽवताराणामपि देवत्वमस्तीति भावेनोक्तम् ॥ भाष्ये दिव्यानि रूपाणीति ॥ दिव्यानि देवपदयोग्यगुणवन्तीत्यस्य पदस्यार्थमभि-प्रेत्याह ॥ क्रीडादीति ॥ रामवचोनयमित्यस्य रामस्य वचांसि नयतीति रामवचोनयमित्यर्थ-मभिप्रेत्याह ॥ रामस्येति ॥ रामस्य वचसो नयो न्यायो यस्येति समासान्तरमभिप्रेत्याह ॥ रामवचसि यो नय इति ॥ पृत् पृतना‘क्षि क्षय’ इति धातोः कर्त्रर्थेऽसुन् प्रत्यये कृते क्षः क्षयकर इत्यर्थो लभ्यते । पृतनायाः क्षः पृक्षः निरुक्तत्वात्तकारलोप इत्यभिप्रेत्याह । कुरुपृतनाक्षयकरमिति । ‘मदी हर्ष’ इति धातोरुपदेशेऽजनुनासिक इदितीकारस्येत्संज्ञया लोपे सति ‘तृतीयोऽतिशय’ इति वचनाद्दकारस्य च धकारे कृते अतिशयितानन्दरूपो भगवान् मध्वित्युच्यते । ‘वा गतिगन्धनयोः’ इति धातोर् आतोऽनुपसर्गे कः’ इति करणार्थे कप्रत्यये कृते गत्यर्थानां च ज्ञानार्थत्वात्तस्य वं ज्ञानसाधनं शास्त्रं यस्य स मध्व इत्यभिप्रेत्याह ॥ आनन्दरूपस्येति ॥ व्यस्तास्समस्तास्सदेत्यत्र व्यस्ता विस्तारवन्तः समस्ताः संकुचिता इत्यर्थः । स्वरूपोत्पत्तिधर्मोत्पत्तिदेहोत्पत्तिपराधीन-विशेषावाप्तिरूपोत्पत्तिरिति चतुर्विधा उत्पत्तयः । स्वरूपनाशधर्मनाशदेहनाशापूर्णत्वादिरूपचतुर्विधा नाशाश्च घटादिषु व्यस्ताः । लक्ष्म्यादिषु समस्ता इति विवेकः । प्रभृतिपदगृहीतौ बन्धमोक्षौ च बन्धस्य नित्यमुक्तायां लक्ष्म्यामभावान्मोक्षस्य चायोग्येऽभावात्संकुचिताविति ज्ञेयम् ।
नमामि लक्ष्मीरमणं नमामि हयकन्धरम् ।
नमामि वेदव्यासं च नमामि सुखसन्मुनिम् ॥ १ ॥
सूत्रे भाष्ये च टीकायां सूत्रोक्तश्रौतवाचि च ।
यथाशक्तिविमर्शेन प्रीयतां मे रमापतिः ॥ २ ॥
एवं गुरूणां सर्वेषां भावस्यैवं प्रकाशिका ।
वादिराजाख्ययतिना कृता गुर्वर्थदीपिका ॥ ३ ॥
॥ इति श्रीमत्कविकुलतिलकश्रीवादिराजतीर्थपूज्यचरणविरचितायां
तत्वप्रकाशिका टिप्पण्यां गुर्वर्थदीपिकायां चतुर्थाध्यायस्य चतुर्थः पादः ॥
भावबोधः
भोगान् भुञ्जानस्येति ॥ ‘भोगमात्रसाम्यलिङ्गाच्च’ इत्यन्तेन सर्वानुपपत्तिपरिहारेण समर्थितान् भोगान् भुञ्जानस्यात्रापुनरावृत्तिसमर्थनादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र मुक्तस्य पुनरावृत्तिरस्त्युत नास्तीति चिन्ता । तदर्थं मुक्तस्य स्वर्गादिगतसमानयोगक्षेमत्वमस्त्युत नास्तीति । तदर्थं युगमन्वन्तराद्यवच्छिन्नकालस्येव समस्तकालस्यापि समाप्तिरस्त्युत नास्तीति । तदर्थं भारतयुद्धे युगपत्तिथित्रयक्षयवत् समस्तकालसमाप्तिः किं सम्भावितोतासम्भावितेति । अनन्तत्वेऽपि कालस्य त्रयोदशीपञ्चदशीत्ववत् कदाचित् समस्तस्यापि समाप्तिसम्भवान्मुक्तस्यापि पुनरावृत्त्या-शङ्केति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– अस्ति मुक्तस्येत्यादिना ॥ ‘सर्वान् कामान्’ इति श्रुतेरपुनरावृत्त्यप्रतिपादकत्वात्तदुदाहरणमसङ्गतमित्यतः सत्यकामादिमाहात्म्यात्,
‘अशेषकामसत्यत्वान्मुक्तानां न पुनर्भवः
यस्मात् स कामयेदेव नित्यमात्मा पुनर्भवम् ॥’
इति च श्रुतिरिति न्यायविवरणानुसारेण तात्पर्यमाह– किं च मुक्तस्येति ॥ व्याहत-त्वादिति ॥ समस्तकालसमाप्तेः क्वचित् काल एव वक्तव्यत्वेन व्याहतत्वादित्यर्थः । गुरव इत्यस्य तात्पर्यं यच्छिष्यतयेत्यादि ॥ ज्ञानदातुरेव गुरुत्वमिति सुप्रसिद्धमिति भावः । ‘सर्वथा’ इत्यस्य तात्पर्यं निरुपाधिकेति ॥ स्वस्य परमाप्तत्वं दर्शयन्निति ॥ ‘दर्शतम्’ इत्यनेन वाक्यार्थयथार्थ-ज्ञानस्य, विप्रलम्भकत्वे ज्ञानोपदेशाय प्रेरणायोगात् ‘निहितम्’ इत्यनेनाविप्रलम्भकत्वस्य, ‘कृतमिदं भाष्यम्’ इत्यनेन विवक्षाकरणपाटवयोरुक्तत्वादिति भावः । ‘दिव्यानि’ इत्यस्यार्थमाह– क्रीडादिगुणयुक्तानीति ॥ हरिविषयतयेति ॥ अनेन ‘हरौ’ इति विषयसप्तमीत्युक्तं भवति ।
‘रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि’ इति प्रमाणानुसारेण ‘रामवचो नयम्’ इत्येतद् द्वेधा व्याचष्टे– रामवचांसीत्यादिना ॥ अत्राद्ये– कर्तरि षष्ठी । दितीये– कर्मणि षष्ठी । अत एव रामविषयवचांसीत्युक्तम् । अनेन वचांसि नयतीति वचोनयमिति व्युत्पत्तिर्दर्शिता भवति । ‘साधको रामवाक्यानाम्’ इति अर्थत्रयानुगुणप्रमाणानुसारेण प्रकारान्तरेण व्याचष्टे– रामवचसि यो नय इति ॥ अनेन रामवचसि नयो यस्येति बहुव्रीहिरित्युक्तं भवति । ‘भीमस्तु बहुभुक् पृक्षो’ ‘पृतनाक्षयकारी च द्वितीयस्तु’ इति प्रमाणानुसारेण ‘पृक्षो द्वितीयं वपुः’ इत्येतद्व्याचष्टे । द्वितीयं वपुरित्यादिना । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्’ ॥ इति प्रमाणानुसारेण मध्वशब्दार्थ-माह– आनन्दरूपस्य हरेरिति ॥
रघुवर्यगुरुप्रोक्तो भावो जयमुनेर्मया ।
लिखितो मन्दबोधार्थं प्रीयतां श्रीपतिस्ततः ॥
॥ इति श्री रघूत्तमतीर्थकृत तत्वप्रकाशिकाव्याख्याने भावबोधे
चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४ ॥
भावदीपः
अपुनरावृत्तीति ॥ गर्भप्रवेशजन्ममृत्याद्यभावेत्यर्थः । वैकुण्ठादिस्थानात्स्वच्छन्देन सर्वत्र स्वयोग्यस्थलसञ्चारस्याप्रतिहतेः । यं यमन्तमभिकामो भवतीत्यादेः । एतेन या पूर्वत्र मुक्तानामेकरूपा स्थितिरुक्ता सात्र शाश्वतीत्युच्यत इति पूर्वसङ्गतिरपि सूचिता । अन्यथा संसारसमानधर्मतापत्तेरिति फलस्य पूर्वत्रेव स्फुटत्वादुपसंहारे कीर्तनाच्चात्रानुक्तिः ॥ उभयथा सम्भव इति ॥ लोकदृष्टिरलौकिकत्वमिति भावः । मुक्तस्यापि पुनरावृत्त्याशङ्केत्यन्यत्रोक्त-प्रतिज्ञामाह ॥ अस्तीति ॥ स्वयं हेतुमाह ॥ स्वर्गेति ॥ हेतोरप्रयोजकत्वमाशङ्कते ॥ न चेति ॥ कदाचित्समस्तस्यापि सम्भवादित्यन्यत्रोक्तहेतुं शेषोक्त्यात्र योजयति ॥ समस्तस्यापीति ॥ अनन्तत्वात्कालस्य त्रयोदशी पञ्चदशीवदित्यन्यत्रोक्तशङ्कागर्भदृष्टान्तांशं व्यनक्ति ॥ न चेति ॥ भारतेति ॥
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् ।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ॥
इत्यादिना कदाप्यननुभूतापि त्रयोदशी पञ्चदशीत्वेनाद्य दुर्योधनपातसमये महोत्पातसूचिका जातेति श्रवणादिति भावः ॥ अत इति ॥ समस्तस्यापि कालस्य समाप्तिसम्भवादित्यर्थः ॥ सूत्रार्थमाह ॥ न मुक्तस्येति ॥ स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते । न च पुनरिति पूर्वत्र मुक्तस्य प्रकृतत्वादिति भावः । सत्यकामत्वादिमाहात्म्यादित्यन्यत्रोक्त्यनुरोधेनोत्तरश्रुत्युक्ते-रुपयोगमाह ॥ किं चेति ॥ एतेन सूत्रे शब्दादित्यस्य न केवलमनावृत्तिबोधकशब्दादित्यर्थः । किं तु सर्वकामावाप्तिशब्दादित्यप्यर्थः सूचितो भवति ॥ व्याहतत्वादिति ॥ कदा समाप्तिरित्युक्ते कदाचिदित्यादेर्वाच्यत्वादिति भावः ॥ अत इति ॥ शब्दादित्यर्थः । युक्तं मुक्तेः पुरुषार्थत्वमिति फलोक्तिः ।
फलोक्त्या समस्तशास्त्रार्थमुपसंहरति ॥ तदिति ॥ विरक्तीत्याद्युक्त्या ह्युपासनाध्यायार्थः । कैवल्यसिद्धेरिति चतुर्थाध्यायार्थः । अशेषेत्यादिस्तु पूर्वाध्यायद्वयार्थः । भगवान्नारायणो जिज्ञास्य इति फलोक्तिः । एतेनाद्यसूत्रार्थ एव शास्त्रेण समर्थित इत्युक्तं भवति । एतेनैव निर्विशेषं चैतन्यं जिज्ञास्यमित्यस्मिन् शास्त्रे निरूप्यत इत्यादिवचनं नादरणीयमिति सूचितम् । इतिशब्दो हेत्वर्थः । इति कृत्वा निरूपितमखिलमपि प्रमेयमत्यन्तमङ्गलम् । वक्तृश्रोतॄणां कामिताशेषयोग्यपुरुषार्थ-प्रदमिति ॥
भाष्योक्तविशेषणत्रयस्य कृत्यं सूचयन्नवतारयति ॥ अथेति ॥ भाष्यसमाप्त्यनन्तरमित्यर्थः । अनेन नमनस्यावसरप्राप्तिमाह ॥ गुणेति ॥ अत्र गुणपदेन विधिमुखवेद्यनिषेधमुखवेद्याः सर्वेऽपि कल्याणधर्मा गृह्यन्ते । न त्वाद्यपद्य इव विधिमुखमात्रवेद्या इति भावेन गुणार्णवतयेत्येवोक्तम् । न तु निर्दोषतयेत्यपि । एतादृशीं भाष्यकरणसमर्थाम् । यस्येत्यादिपद्यं भगवता स्वयमेवान्यत्र बहुषु स्थलेषु प्रमाणोक्त्या विवृतत्वात्तदनुरोधेन व्याचष्टे ॥ यस्येति ॥ पद्यतात्पर्यार्थं वदन्नधिकारि-फलयोरुक्त्योपसंहरति ॥ अत इति ॥ वाय्ववतारस्य श्रुतिसिद्धत्वादित्यर्थः । भाष्योक्तगुण-पूर्णत्वस्यासम्भावितत्व शङ्कानिरासाय तदुपपादकतया जन्मादिसूत्रोक्तजगज्जन्मादिकर्तृत्वेनोप-श्लोकयन् जन्मादिकृतौ दयैव हेतुर् न तु फलान्तरं येन पूर्णता न स्यादित्यपि सूचयन् गुणपदेन भाष्यश्लोके दोषाभावा अपि ग्राह्या इत्यपि दर्शयन् तत्प्रीतिमाशास्ते ॥ उत्पत्तीति ॥ भावा धर्माः । जन्मादिसूत्रे अस्येति पदमसङ्कुचितसर्वपरं वियदधिकरणन्यायादिति भावेनोक्तम् ॥ पद्मेति ॥
भाष्यं चात्यर्थविस्तरमित्युक्तेरिह चाशेषार्थानां टीकायामनुक्तेर्लेशेनार्थोक्त्या प्राप्तापराधशङ्कां भाष्ये गाम्भीर्याभावशङ्कां च निरस्यति ॥ अगाधबोधेति ॥ लेशेनार्थोक्तावपि नात्र ग्रन्थे अनादरो युक्तः ॥ २ ॥ मदीयव्याख्या चन्द्रिका चन्द्रेणेव भाष्यपदवाक्यशक्तितात्पर्यार्थवर्णनरूपतया भाष्येणैकग्रन्थतामापन्नेवात्यन्तसंश्लिष्टा । अतः सर्वैरादरणीयेति भावेनाह ॥ मध्वेति ॥ अत एव सर्वसंश्लेषः ॥
सर्वेन्द्रियप्रेरकेण श्रीप्राणपतिनेरितः ।
यदवोचमहं तेन प्रीणातु करुणाकरः ॥ १ ॥
॥ इति श्रीमद्भाष्यटीकाभावदीपे सुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृते
चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४ ॥
अभिनवचन्द्रिका
पूर्वपक्षस्तु मुक्तः पुनरावृत्तिमान् । स्वस्थानं विहायाऽन्यत्र गतत्वात् । स्वर्गादिगतत्ववत् । न च स्वर्गं गतस्य युगमन्वन्तरादिमात्रवासित्वाद् युक्ता पुनरावृत्तिः । न तु मुक्तस्य । तस्याऽनन्त-कालवासित्वादिति वाच्यम् । अनन्तस्यापि कालस्य भारतयुद्धे त्रयोदश्याः पञ्चदशीत्ववद् एकैकस्यास् तिथेर् अनेकतिथ्यात्मकत्वेन समाप्तिसम्भवात् । अतः पुनरावृत्तिसद्भावान् न पुरुषार्थता मुक्तेरिति ।
सिद्धान्तस्तु न मुक्तः पुनरावृत्तिमान् । ‘न च पुनरावर्तते न च पुनरावर्तते’ इति शब्दात् । किञ्च सत्यकामस्य मुक्तस्य न मुक्तेः परावृत्तिर् युक्ता । कामनाविरहाद् अनन्तकालस्थायित्वाच्च न परावृत्तिः । न च अनन्तस्यापि कालस्य समाप्त्यनन्तरं परावृत्तिरस्त्विति वाच्यम् । अनन्तकालस्य समाप्तिमभिधाय अनन्तरमिति पुनः कालसद्भावोक्तेर्व्याहतत्वात् । अतो मुक्तानां पुनरावृत्त्यभावाद् युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धम् । इत्यशेषमतिमङ्गलम् ।
बलित्थेत्यादिवेदवचन इति ॥ अयमत्र सूक्तार्थः ‘बत्थिा तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतोऽजनि’ । सहसः सहोरूपस्य देवस्य कीडादिगुणसंपन्नस्य वायोर् मूलरूपं बट् बलात्मकं, दर्शतं ज्ञानरूपं, भर्गः भरणगमनगुणं, तन् मूलरूपम्, इत्था इत्थंभूतमेव मूलरूपवदेव वपुषे रूपत्रयावताराय यतः यस्माद् भगवता, धायि निहितं भागवता प्रेरितमित्यर्थः, तस्माद् अजनि । (१)
प्रथमावतारस्वरूपमाह – यदीमुपह्वरते साधते मति ऋतस्य धेना अनयन्तसस्रुतः’, यदीं यदेव, मतिर् हनुमदाख्यप्रथमरूपम् । उपह्वरते रामस्य समीपे तिष्ठति, साधते रामस्य कार्याणि साधयति । तेन हनुमता, ऋतस्य सत्यरूपस्य रामस्य सस्रुतो ऽमृतस्नावयुक्ताः, धेना वाचः, अनयन्त सीतां प्रतीति शेषः । (२)
द्वितीयावतारस्वरूपमाह – ‘पृक्षो वपुःपितुमान्नित्य आशये द्वितीय मा सप्तशिवासु मातृषु’ । द्वितीयं वपुर् भीमाख्यं, पृक्षः पृतनाक्षयकरि, पृतनायाः पृत् क्षि क्षये इत्यस्माड् डसूप्रत्यये पृक्ष इति रूपम् । पितुमान् अन्नवान्, बहुभुगिति भावः । नित्यः नित्यम्, सप्तशिवासु परममङ्गलरूपासु । सप्तसु मात्रृषु प्रमाणभूतासु, ऋगादिषु । आशये शेते, तद्विचारयतीति भावः । अनेन द्वितीयावतारवाचकभीमशब्दार्थ उक्तो भवति । (३)
तृतीयावतारस्वरूपमाह – ‘तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः’ । अस्य वृषभस्य श्रेष्ठस्य वायोस् तृतीयं वपुः, दोहसे ज्ञानदोहाय, दशप्रमतिम् पूर्णप्रज्ञानामकम्, योषणः नार्यः, गुरुत्वाद्बहुवचनम्, जनयन्त अजनयन्त । (४)
‘निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः’ बुध्नाज् ज्ञानरूपात्, यदीं यस्मादेव । महिषस्य महितषड्गुणस्य हरेः, वर्पसः वरणीयत्वात्, पालकत्वाद् वपोर्नामकान् गुणान् । ईशानासः रुद्राद्या देवाः । अन्ये सूरयः ज्ञानिनश्च, शवसा सुखेन, निर् क्रन्त ज्ञातवन्तः । एतत् तृतीयं वपुरिति पूर्वेण सम्बन्धः । (५)
‘यदी मनु प्रदिवो मध्व आधवे गुहासन्तं मातरिश्वामथायति । य एव प्रदिवा = प्रकृष्टप्रकाशरूपः, मध्व आनन्दतीर्थाख्यः । मातरिश्वा वायुः । गुहासन्तं जीवेश्वरैक्यं वदद्भिर् गूहितं भगवन्तम् । आधवे आसमन्तात् पतित्वविषये, मथायति मथ्नाति । शास्त्रेण विचार्य पतित्वं निश्चाययतीति भावः । (६)
‘प्रयत्पितुः परमान्नीयते पर्या पृक्षुधो । वीरुधो दंसु रोहति । यद् रूपत्रयम्, पितुः परमाद् उत्तमाद्विष्णोः प्रणीयते प्रकर्षेण प्रेर्यते, पृक्षुधः प्रश्नरूपान्, वीरुधः स्तम्बादीन्, दंसु दन्तेषु, पर्यारोहति चर्वितवत् । शकलीकरोतीत्यर्थः । (७)
‘उभायदस्य जनुषं यदिन्वत आदिद्यविष्ठोऽभवद्धृणाशुचिः । यद् यस्मात्, जनुषं जन्म, अवतारम्, उभा उभौ लक्ष्मीनारायणौ । इन्वतः प्रेरयतः । तस्मात्, घृणाशुचिः कृपयाशुद्धः, सआदिद् आभ्यांलक्ष्मीनारायणाभ्यामेव, यविष्ठो ऽवरः, अभवदित्यर्थः । (८)
गर्भसंबन्धनिमित्तदुःखलेशोऽपि नास्तीत्याह – ‘आदिन्मातॄराविश द्यास्वाशुचि रहिंस्यमान उर्विया विवावृधे’ । यतो वायुः, आदित् प्रकृतलक्ष्मीनारायणप्रेरणयैव (णादेव) मातॄर् आविशन् न पुनरस्य गर्भवासादिनिमित्तं (किं) कर्माऽस्तीति भावः । यासु मातृषु, आ समन्तात्, शुचिः, शुचित्वमेवाह – उर्वियेति ॥ उर्विया उत्कृष्टया गर्भवासपीडया, अहिंस्यमानः विवावृधे विशेषेणाऽभि वृद्धोऽभूदित्यर्थः । (९)
‘सप्तशिवासु मातृ’ष्वित्युक्तं तत्र विशेषमाह – ‘अनुयत्पूर्वा अरूहत्सनाजुवो निनव्यसी ष्ववरासु धावते’ । सनाजुवः सनातनं जुषन्ते प्रतिपादयन्तीति सनाजुवः । पूर्वा ऋगाद्याः । आरुहदिति यत् तद् अनु क्रमादेव, उपक्रमाद्यनुसारेणैवेत्यर्थः । नव्यसीषु पौरुषेयत्वेन नूतनासु, अवरासु तिसृषु इतिहासपुराणपञ्चरात्राख्यासु मातृषु निधावते उपक्रमादिपर्यालोचनां विनैव शीघ्रमेव अर्थं विचारयतीत्यर्थ इति । (१०)
स्वप्रतिपादितगुणादिविशिष्टतया सङ्कीर्तनपूर्वकं तत्प्रीत्ति प्रार्थयते – उत्पत्तीति ॥ ननु – सर्वज्ञकल्पपद्मनाभतीर्थादिभिर्व्याख्यातभाष्यव्याख्यानाय स्वप्रवृत्तिरपहासहेतुरित्याशङ्कामपाकरोति – अगाधबोधैरिति ॥ स्वग्रन्थस्य प्रचयं प्रार्थयते – मध्वेति ॥
सद्यो मोक्षं सतां रामचन्द्रोऽभिनवचन्द्रिका ।
हस्तप्राप्तमिवाऽऽतेने चतुर्थाध्यायसङ्गता ॥ १ ॥
॥ इति श्रीसत्यनिधितीर्थ श्रीचरणचरणाराधक श्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्त्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिकायां चतुर्थाध्यायः ॥
॥ समाप्तश्चायं ग्रन्थः ॥
वाक्यार्थमुक्तावली
अपुनरावृत्तिसमर्थनादिति ॥ असमर्थने स्थितिमाहेत्यव्यवहितनये न जायते न म्रीयत इत्युक्तं जननादिराहित्यं न स्यादिति समर्थनीय एव । असावित्यध्याहार्यम् अन्यथा श्रुत्यादिसङ्गतेरवर्णनेन न्यूनत्वप्रसङ्गात् । प्रत्यधिकरणं शास्त्रादिसङ्गतिरित्यनन्तरमन्यथेत्यादिना तत्प्रदर्शनात् । एतेनानन्तरसङ्गतिरपि द्रष्टव्या ॥ किं तस्येति ॥ मुक्तस्य स्वर्गतस्येव पुनरावृत्तिरस्ति न वेति चिन्ता । तदर्थं स्वर्गादिगतस्येव पुनरावृत्तौ बीजमस्ति न वेति । तदर्थं बीजाभिमतं समस्त-कालव्यापनमव्याहतमुत व्याहतमिति । सिद्धान्ते ब्रह्मलोकमभिसंपद्य न च पुनरावर्तत इति ब्रह्मलोकत्वरूपस्य स्वर्गवैलक्षण्योक्त्या व्यवच्छेद्यां युक्तिमाह ॥ स्वर्गादीति ॥ तद्दर्शनादित्यतः परं तद्दृष्टान्तेन ब्रह्मलोकत्वेन हेतुना विप्रतिपन्नवैकुण्ठादेरपि पुनरावृत्तित्वसाधनसम्भवादिति द्रष्टव्यम् । स य एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुषिरं स्वर्गे सर्वान्कामानिति भाष्योपात्तश्रुतिपूर्वशेषे शरीर-साहित्यस्योक्तत्वात् । इत्यादिश्रुतिभ्य इत्यादिपदविवक्षिततया तत्वप्रदीपोपात्तायां यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठतीति श्रुतावपहत्य पाप्मानमिति पापा-भावस्यानन्ते स्वर्ग इति मुक्तिकालस्य पर्यवसानाभावस्य चोक्तत्वात्तद्व्यवच्छेद्यं विश्वसम्भावनेति पूर्वपक्षन्यायं व्यनक्ति ॥ न चेत्यादिना ॥ सबीजत्वादिति ॥ पुनरावृत्तौ बीजभूतस्य लिङ्गशरीरस्य पुण्यादिकर्मणो युगमन्वंतरादिरूपस्वर्गकालपर्यवसानस्य सत्वादिति भावः ॥ निर्बीजत्वेनेति ॥ लिङ्गशरीराभावात् कर्मसम्बन्धाभावान्मुक्तिकालपर्यवसानस्याभावादित्यर्थः । कुतो न वाच्यमित्यत आह ॥ अनन्तत्वादिति ॥ कालस्य तत्र समस्तस्याप्यघटितस्य कदाचित्सम्भवाद्भारतयुद्धे त्रयोदश्या एव पञ्चदशीत्वस्य कदाप्यनुपलब्धस्य दर्शनादिति । अस्यार्थः । कालस्यानन्तत्वा-त्तत्रानन्तकालमध्ये अघटितस्यापि समस्तस्य निर्बीजत्वेऽपि पुनरावृत्तिरूपकार्योत्पादस्य सम्भवात् । यद्वा मुक्तस्याघटितस्याशरीरसम्बन्धस्य कर्मसम्बन्धस्य च सम्भवात् । यद्वा समस्तस्याप्यनन्तस्यापि समापयितुमघटितस्यापि कालस्य कदाचिदपि समाप्तिसम्भवादित्यर्थः । कालोऽनन्त इत्येतावता कथमघटितसम्भावनेत्यत उक्तम् ॥ भारतयुद्धेति ॥ भारतयुद्धे कदाप्यनुपलब्धस्य त्रयोदश्या एव पञ्चदशीत्वस्य दर्शनात् । तद्वत्प्रकृतेऽप्युक्तस्य सर्वस्योपपत्तेरिति भावः । यद्वा
चतुर्दशीं पञ्चदशीं भूतपूर्वां त्रयोदशीम् ।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ॥
इति गदापर्वोक्तरीत्या भारतयुद्धे तिथित्रयस्य युगपत्समाप्तिवदनंतत्वेऽपि कालस्य युगपत्समापनसम्भवादित्यर्थः । अत्र टीकाकोशेषु क्वचिद्दर्शनादित्यनन्तरं तत्र तिथित्रयस्य युगपत्समाप्तिवदनंतत्वेऽपि कालस्यापि युगपत्समाप्तिसम्भवादिति पाठः । ननु स्वर्गादिगतानां शरीरित्वाद्युक्ता पुनरावृत्तिर् न मुक्तस्य समस्तकालवासित्वादिति न वाच्यम् । समस्तस्यापि कदाचित्समाप्तिसम्भवात् । न च कालस्यानन्तत्वात्समाप्त्ययोगः । भारतयुद्धे त्रयोदश्या एव पञ्चदशीत्वस्य दर्शनात् । तत्र तिथित्रयस्य युगपत्समाप्तिवदनंतत्वेऽपि कालस्य युगपत्समाप्ति सम्भवादित्यपि क्वचित्पाठः । सूत्रे प्रकृतत्वान्मुक्तस्येत्यन्वेति । तथा च मुक्तस्यानावृत्तिर्न पुनस्संसारं प्रत्यावृत्तिः ॥ न च पुनरावर्तत इति (श्रुतेरिति) ॥ सूत्रार्थमाह ॥ न मुक्तस्येति ॥ एवं श्रुत्याऽपुनरावृत्तिं प्रसाध्य माहात्म्यमित्युक्तसिद्धान्तन्यायेनापि साधयितुं सत्यकामादिमाहात्म्यस्या-सिद्धिं परिहर्तुं शब्दादित्यंशं प्रकारान्तरेण व्याकुर्वत्सर्वान् कामानिति भाष्यं व्याचष्टे ॥ किञ्चेति ॥ अपि च मुक्तस्य निर्बीजत्वान्न पुनरावृत्तिः । न च निर्बीजं कार्यमुत्पद्यते । व्याहतत्वात् । नापि शरीरं कर्मसम्बन्धो वा पुनस्सम्भाव्यते मुक्तत्वव्याहतेः । मुक्तिकालपर्यवसानाभावाच्च न पुनरावृत्तिर् अनन्तत्वात् । अनन्तस्यापि कालस्य समाप्तिस्तु विशेषाकारेण व्याहतैव । समस्तस्यापि कालस्य कदा समाप्तिरिति पृष्टे क्वचित्काल इति व्याहतेः स्फुटप्रतिभासत्वादिति । तदेतत्सर्वं हृदि निधायाह ॥ समस्तेति ॥ सूत्रस्यैवेति ॥ न पुनः पूर्वाध्यायेष्विव पदानामित्यर्थः । सूत्रद्विरुक्तिमनुरुध्य समस्तशास्त्रार्थमवधारयन्नुपसंहरति ॥ तदेवमिति ॥ अशेषमतिमङ्गलमिति ॥ जिज्ञासायाः कर्तव्यत्वात्तन्निबन्धनात्मकमिदमशेषं चतुरध्यायात्मकं शास्त्रमतिमङ्गलं प्रशस्ततरमुपादेयतर-मित्यर्थः । इत्यस्मत्कृतं भाष्यप्रकरणम् अशेषमोक्षयोग्यमतीनां मङ्गलमुद्दिश्य भूयादित्याशीर्वादो वा । आशीर्वादस्यापि मङ्गलत्वात् । अधिकृतत्वोपपादनाय ज्ञानानन्दायेत्यस्य तात्पर्यमाह ॥ यं गुणेति ॥ विशिष्टत्वोपपादनाय गुरव इत्यस्य तात्पर्यमाह ॥ यच्छिष्यतयेति ॥ इष्टत्वोपपाद-नायातिप्रियायेत्यस्य तात्पर्यमाह ॥ यस्मिन्निति ॥ आप्तिमूलत्वेति ॥ विवक्षितार्थतत्वज्ञानं विप्रलिप्सा । करणपाटवम् अविप्रलिप्सा चेतीयमाप्तिर्नाम । तत्र दर्शतमित्यनेन तत्वज्ञानस्य । मध्व इति शास्त्रनिर्माणेन विवक्षाकरणपाटवयोः । भगवता योग्यजनतत्त्वज्ञानायेत्थमेव निहित-मित्यनेनाविप्रलिप्सायाश्चोक्तत्वादिति भावः । दिव्यानीत्यस्यार्थमाह ॥ क्रीडादीति ॥ हरिविषयतयेति ॥ अनेन हराविति विषयसप्तमीत्युक्तं भवति ।
रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हीति प्रमाणानुसारेण रामवचोनयमित्येतद्व्याचष्टे ॥ रामस्य वचांसीत्यादिना ॥ आद्ये कर्तरि षष्टी । द्वितीये कर्मणि षष्टी । साधको रामवाक्याना-मित्यर्थत्रयानुगुणप्रमाणानुसारेण व्याचष्टे ॥ रामवचसि यो नय आज्ञारूपस्तद्युक्तमिति ॥ भगवदाज्ञाधुरंधरमित्यर्थः । पृशब्दो पृतनावाची तस्याः क्षयकारी पृक्षः । पृतना क्षयकारी चेति वचनादिति भावेनाह ॥ कुरुपृतनेति ॥ मधु सुखप्रदं तीर्थं शास्त्रं येन स मध्व इति मनसि निधाय मध्वित्यानंद उद्दिष्टो वेति तीर्थमुदाहृतमिति प्रमाणानुसारेण व्याचष्टे ॥ तृतीयं त्वित्यादिना ॥ यद्यपि तत्वप्रदीपिकाचार्यैर्यस्य त्रीणीति श्लोकावानन्दायेति श्लोकः पठित्वा व्याख्यातस्तथापि टीकाकारैः स्वाचार्योपदेशानुसारेणैव पाठमनुसृत्य व्याख्यातं बोध्यम् । अथ भगवान् टीकाकृन्मुनि-र्भगवत्तमवेदव्यासशिष्यप्रकरपुरःसरेण सकलसुमनोमनोवारिजप्रबोधदिवाकरेणानन्ताम्नायार्थ-मीमांसकवरचूडामणिना परमात्मतत्वविज्ञानगुरुपरंपराचार्यवर्येण फणिपतीशद्विजनाय केन्द्रगुर्वादि-सुरकरलालितचरणयुगलेन पूर्णप्रमतिगुरुराजेन प्रणीतमनन्तार्थं भाष्यवरं यथाचार्याभिप्रायं व्याख्यायान्तेऽपि भाष्योक्तगुणविशिष्टतया स्तुवन् ग्रन्थप्रणयनफलवत्वेन तत्प्रीतिमेवाशास्ते ॥ उत्पत्तीति ॥ व्यस्ताः पद्मायां विशकलितास् तस्याः स्थितिनियमनज्ञानमात्रभाक्त्वात् । पद्मभवादिसर्वजीवेषु समस्तास् तेषां सृष्टाद्यष्टकभाक्त्वादित्यादि द्रष्टव्यम् । अगाधबोधैः श्रीमत्पद्मनाभतीर्थश्रीपादप्रमुखैर् विततो विस्तारितोऽतिभावो यस्य तद्विततातिभावम् । तच्च तद्भाष्यं च तदनुवादेनेत्यर्थः । विवृतातिभावमिति क्वचित्पाठः । तत्र विवृतातिभावं यत्तद्भाष्यानुवादे-नेत्यर्थः । प्रदानवदेव हीति सूत्रे गुरुप्रदानपूर्विकैव विद्याफलाय भवतीत्युक्तेस्तदनुसारेण प्रश्नं कुर्वन् तेषां फलं प्रार्थयते ॥ मध्वेति ॥ तत्वप्रकाशिका सत्कुमुदानन्ददात्री भूयादित्यशेषमतिमङ्गलम् ॥
श्रीमध्वहृत्पङ्कजकीर्णकास्य कृष्णे रमालालितपादपद्मे ।
स्वानन्दसान्द्रे रचितां मयेमां मुक्तावलीं मे गुरवोऽर्पयन्तु ॥ १ ॥
श्रीविठ्ठलार्यपुत्रेण श्रीमत्तीर्थार्यसेविना ।
श्रीनिवासेन वाक्यार्थमुक्तावलिरियं कृता ॥ २ ॥
॥ इति श्रीमद्विठ्ठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन रचितायां श्रीमत्तत्वप्रकाशिकावाक्यार्थमुक्तावल्यां चतुर्थाध्यायस्य चतुर्थः पादः ॥
तत्त्वसुबोधिनी
भोगान् भुंजानस्येति ॥ भोगमात्रसाम्यलिङ्गाच्च इत्यनेन सर्वानुपपत्तिपरिहारेण समर्थितान् भोगान् भुञ्जानस्यात्र पुन आवृत्तिसमर्थनादनन्तरसङ्गतिरिति भावः । त्रयोदश्या एव पञ्चदशी-त्वस्येति । तिथित्रयपक्षेण त्रयोदश्या एव पञ्चदशीत्वमिति भावः । सर्वान् कामान् आप्त्वा इति श्रुतेर् अपुनरावृत्त्यप्रतिपादकत्वात् तदुदाहरणमसङ्गतमित्यतस् तात्पर्यमाह ॥ किं च मुक्तस्येति ॥ व्याहतत्वादिति ॥ समस्तकालसमाप्तेः क्वचित्काल एव वक्तव्यत्वेन व्याहतत्वादित्यर्थः । गुरव इत्यस्य तात्पर्यं यच्छिष्यतयेत्यादि । ज्ञानदातुरेव गुरुत्वमिति सुप्रसिद्धमिति भावः । सर्वथेत्यस्य तात्पर्यं निरुपाधिकेति स्वस्य परमाप्तत्वमिति । दर्शतमित्यनेन वाक्यार्थयथार्थज्ञानस्य विप्रलंभकत्वे ज्ञानोपदेशाय प्रेरणयायोगान्निहितमित्यनेनाविप्रलंभत्वस्य कृतमिदं भाष्यम् इत्यनेन विवक्षाकरण-पाटवयोरुक्तत्वादिति भावः । दिव्यानीत्यस्यार्थमाह ॥ क्रीडादिगुणफलानीति ॥ हरिविषयतयेति ॥ अनेन हराविति विषयसप्तमीत्युक्तं भवति । रामस्य स्वृतरूपस्य वा चस्तेनानयन्त हीति प्रमाणानुसारेण रामवचोनयम् इत्येतद् द्वेधा व्याचष्टे । द्वितीये कर्मणि षष्टी । अत एव रामविषय-वचांसि इत्युक्तम् । अनेन वचांसि नयतीति वचोनयमिति व्युत्पत्तिदर्शिता । साधकोरामवाक्यानाम् इति अर्थत्रयानुगुणप्रमाणानुसारेण प्रकारान्तरेण व्याचष्टे रामवचसि यो नय इति ॥ अनेन रामवचसि नयो यस्येति बहव्रीहिरित्युक्तं भवति । ‘भीमस्तु बहुभुक् पृक्षो पृतनाक्षयकरी च ‘द्वितीयस्तु’ इति प्रमाणानुसारेण पृक्षो द्वितीयं वपुर् इत्येतद् व्याचष्टे ॥ द्वितीयं वपुरित्यादिना ॥ मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतमिति प्रमाणानुसारेण मध्वशब्दार्थमाह ॥ आनन्दरूपस्य हरेरिति ॥ ग्रन्थप्रतिपादितगुणत्वेन भगवन्तं स्तुवन्नेव भगवत्प्रीतिं प्रार्थयते । उत्पत्तीति इति अशेषमतिमङ्गलम् ।
नरसिंहपदद्वन्द्वं सम्प्रणम्य गुरूनपि ।
तत्प्रसादबलेनैव भावोऽयं वर्णितो मया ॥ १ ॥
तेन प्रसन्नो भवतु भक्ताभीष्टप्रदो हरिः ।
अवद्यगंधविधुरः पूर्णो निजसुखादिभिः ॥ २ ॥
आनन्दाचार्यपितृभ्यः दत्वा तत्वप्रकाशिकाम् ।
श्रीनिवासोऽकरोट् टीकां नाम्ना तत्वसुबोधिनीम् ॥
॥ इति श्रीमद्रघूत्तमतीर्थपूज्यपादशिष्यानन्दाचार्यसूनुश्रीनिवासाचार्यकृतौ
तत्वसुबोधिन्यां चतुर्थाध्यायस्य चतुर्थः पादः ॥
॥ समाप्तश्चायं चतुर्थाध्यायः ॥
वाक्यार्थविवरणं
व्याहतत्वादिति ॥ समस्तकालसमाप्तिः कदेति पृष्टे क्वचित्कालविशेषे समाप्तिरिति समस्तकालसमाप्त्यधिकरणतया कालस्यैव वक्तव्यत्वाद् व्याहतिरित्यर्थः ॥
गुरव इत्युक्तत्वात् तत्तात्पर्यमाह ॥ यच्छिष्यतयेति ॥ सर्वथा इत्यस्य तात्पर्यम् ॥ निरुपाधिकेति ॥ परमाप्तत्वं दर्शयन्निति ॥ दर्शतमित्यनेन विवक्षितार्थतत्त्वज्ञानमुक्तम् । महनीयं पूज्यम् । निहितमित्यनेन भगवत्प्रेरणया अवतीर्णत्वोक्त्याऽविप्रलम्भकत्वम् । कृतमिदं भाष्यमित्यनेन विवक्षाकरणपाटवे उक्ते इति ज्ञातव्यम् । हराविति विषयसप्तमीत्यभिप्रेत्य हरिविषयतयेत्युक्तम् । रामस्येति कर्तरि षष्टी । रामकर्तृकाणि वचांसि तदुक्तवचनानीत्यर्थः । तथा च रामवचांसि नयतीति योजनाद्वयेऽपि व्युत्पत्तिर्द्रष्टव्या ॥ आज्ञारूपा इति ॥ इदं कुर्विति श्रीरामेण विनियुक्ते सति इयं रामाज्ञेति स्वीकरोतीत्यर्थः । तथा च रामवचसि नयो यस्येति बहुव्रीहिरिति द्रष्टव्यम् ॥
‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ।
मध्व आनन्दतीर्थस्स्यात्तृतीया मारुतीतनुः’ ॥
इति प्रमाणानुसारेण मध्वशब्दार्थमाह ॥ आनन्दरूपस्येति ॥ तथा च मधु– आनन्द-रूपहरिप्रतिपादकं, वशब्दोक्तं तीर्थं निर्मातृतया यस्येति मध्व इत्यर्थः । अत्र मधुव इति भाव्ये उकारलोपश्छन्दसो द्रष्टव्यः ॥ भूर्भुवसुवरिति यजुश्शाखिनः पठन्ति । ऋक्शाखिनस्तु स्वरिति पठन्ति ॥ तत्र उकारलोपश्छान्दसः । तद्वदिति द्रष्टव्यम् । व्यस्ता विस्तृताः । समस्ताः संकुचिताः ॥ करुणापीयूषवारां निधेरिति ॥ करुणामृतसमुद्रस्येत्यर्थः । स्वकृतग्रन्थस्य नाम प्रदर्शयन्नाह ॥ मध्वेति ॥ इन्दुकौमुदी ज्योत्स्ना यथा तत्त्वानां घटादिपदार्थानां प्रकाशिका, इयमपि भाष्येन्दूदितकौमुदी परापरतत्त्वप्रकाशिका भूयादित्यशेषमतिमङ्गलम् ।
यादवाचार्यशिष्येण श्रीनिवासेन धीमता ।
तत्त्वप्रकाशिकादुत्थवाक्यभावः प्रकाशितः ॥
॥ इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिते
तत्वप्रकाशिकावाक्यार्थविवरणे चतुर्थाध्यास्य चतुर्थः पादः ॥
वाक्यार्थमञ्जरी
मुक्तानामनावृत्तिर् न तु स्वर्गिवत्पुनरावृत्तिः । कुतः न च पुनरावर्तत इति शब्दात् श्रुतेरित्यर्थः ॥ सर्वान् कामानित्यस्याः श्रुतेरपुनरावृत्तिप्रतिपादकत्वाभावात्तदुदाहरणमसङ्गतमित्यतस्तात्पर्यमाह ॥ किं चेति ॥ व्याहतत्वादिति ॥ समस्तकालसमाप्तेः क्वचित्काल एव वक्तव्यत्वेन व्याहतत्वादित्यर्थः ॥ सूत्रस्यैवेति ॥ न त्वध्यायमात्रावधारणायैते सर्वे व्याख्याता व्याख्याता इत्यादिवत्सूत्रावयवस्येत्यर्थः ॥ शास्त्रार्थमुपसंहरति ॥ तदेवमिति ॥ अत्र साक्षात्कारेत्यने न तृतीयस्य, सिद्धिरित्यनेन चतुर्थाध्यायस्य, गुणपूर्णतयेति प्रथमस्य निर्दोषतयेति द्वितीयस्य चार्थ उपसंहृतः । तत्र विरक्तीत्यथशब्दस्य सिद्धेरित्यन्तेनातः शब्दस्याशेषगुणेति नारायण इति च ब्रह्मशब्दस्य चार्थोपसंहार इति विवेकः । अशेषमिति स्वरवर्णपदाद्यात्मकं सर्वमपि शास्त्रं भक्त्या पठतामत्यन्तं मङ्गलं मोक्षादिसाधनं भवतीत्यर्थः । विशेषणत्रयतात्पर्यं वदन्नेवाह ॥ अथेति ॥ गुरव इत्यस्य तात्पर्यं यच्छिष्यतयेत्यादि । ज्ञानदातुरेव गुरुत्वं सुप्रसिद्धमिति भावः । सर्वथेत्यस्य तात्पर्यं निरुपाधिकेति ॥ परमाप्तत्वं दर्शयन्निति ॥ दर्शितमित्यनेन वाक्यार्थतात्पर्यज्ञानस्य विप्रलंभकत्वे ज्ञानोपदेशाय प्रेरणायोगो, निहितमित्यनेन विप्रलंभकत्वस्य, कृतमिदं भाष्यमित्यनेन विवक्षाकरण-पाटवयोरुक्तत्वादिति भावः । व्यवहितत्वादन्वयप्रदर्शनपूर्वकं व्याचष्टे ॥ यस्येत्यादिना ॥ दिव्यानीत्यस्यार्थः क्रीडादिगुणयुक्तानीति । हराविति सप्तमीत्याशयेनोक्तं हरिविषयतयेति । तच्छब्दार्थो मूलरूपमिति । बडित्यस्यार्थो बलात्मकमिति । इत्थंभूतमेव बलाद्यात्मकमेव रूप-त्रयावतारप्रेरितमित्यनेनावतारणामपि बलाद्यात्मकत्वमभिप्रेति । रामवच इत्यत्र कर्तरि षष्टीमभि-प्रेत्याह ॥ रामस्य वचांसीति ॥ कर्मणि षष्टीमभिप्रेत्याह ॥ रामविषयकवचांसीति ॥ पक्षद्वये वचांसि नयतीति वचोनयमिति व्युत्पत्तिर्दर्शिता । रामवचांसि यो नयति । अनेन रामवचांसि नयो यस्य तदिति बहुव्रीहिरित्युक्तम् । साधको रामावाक्यानामित्यर्थत्रयानुगुणप्रमाणसद्भावाद् रामस्या-मृतस्वरूपस्य वचस्तेनानयंत हीत्याद्यद्वितीययोर्विशेषप्रमाणप्रमितत्वाच्चेति भावः । पृक्षशब्दार्थमाह ॥ कुरुपृतनेति ॥ कुरुसैन्येत्यर्थः । पृतनाक्षयकारित्वात्पृक्ष इत्युच्यते बुधैरिति प्रमाणादिति भावः । ‘मध्वित्यानन्द उद्दिष्टो वेति ज्ञानमुदाहृतम्’ इति प्रमाणानुसारेण मध्वशब्दार्थमाह ॥ आनन्द-रूपस्येति ॥ मधुव इति वक्तव्ये उकारलोपान्मध्व इति साधु । यथा ॐ सुवरिति वक्तव्ये स्वरिति ऋग्वेदिनां पाठः । अथायं समापितव्याख्यानो जयतीर्थमुनिर्मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राण्यायुष्मत्पुरुषकाणि भवन्तीत्युक्त्या अन्तेऽपि मङ्गलमाचरन् स्वीकृतमुख्यफलत्वेन भगव-त्प्रीतिमाशास्ते ॥ उत्पत्तीति ॥ यस्य गुणगणाकरस्य करुणाख्यपीयूषेण वारां निधेः समुद्रस्याज्ञया रमाब्रह्मादिसर्वजगत उत्पत्तिस्थितिसंहृतिमुखा अष्टभावा धर्माः क्वचिद्व्यस्ता विस्तृताः क्वचि-त्समस्ताः । निरस्ताशेषदोषनिकरो येनासौ नारायणो ऽनेन भाष्यव्याख्यानेन प्रीतः सन्तुष्टोऽ-स्त्वित्यर्थः । नन्वानन्दतीर्थभगवद्वचसां विशिष्टव्याख्यानकर्मणि सुरा ह्यधिकारिणोऽत्रेति तत्वनिर्णयांते स्वेनोक्तत्वात्कथमिदं भाष्यव्याख्यानमित्याशङ्कां परिहरन् व्याख्यानप्रसक्तिं स्वाहंकारं प्रशमयति ॥ अगाधबोधैरिति ॥ देवादिभिर्विवृतोऽत्यन्तभावो यस्य तस्य । भाष्यानुवादे-नानुसृत्यवादेन व्याख्यानेनेति यावत् । अत्र दृष्टान्तमाह ॥ न हीति ॥ मन्दधनैर् दरिद्रैः स्वकृतग्रन्थस्य तत्वप्रकाशिकानामकरणे प्राप्तकौमुदीसाम्यमुपपादयन्नवान्तरप्रयोजनं चाह ॥ मध्वेति ॥ विष्ण्वाद्यखिलतत्वप्रकाशकरी मध्वाख्यदुग्धाब्धिव्याख्येंदूदिता ग्रन्थाख्यकौमुदी सज्जनाख्यकुमुदानामानन्ददायिनी भूयादित्यशेषमतिमङ्गलम् ॥
सम्पूर्णगुणनिर्दोषरूपिणे मुक्तिदायिने ।
वेदगम्याय रामाय नमः श्रीपतये सदा ॥ १ ॥
तत्वप्रकाशिकासंस्थवाक्यार्थमणिमञ्जरी ।
प्रियतां हृदये धृत्वा सदये मध्ववल्लभः ॥ २ ॥
तत्वप्रकाशिकाव्याख्यालब्धपुण्यमनुत्तमम् ।
प्राप्यास्मद्गुरवः प्रीताः क्रियासुः करुणां मयि ॥ ३ ॥
इति श्रीमत्तत्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्कराश्रीनिवासविरचितायां
चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥
॥ इति चतुर्थाध्यायस्य चतुर्थः पादः ॥
॥ इति चतुर्थाध्यायः समाप्तः ॥