१० स्थित्यधिकरणम्

ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ

१०. स्थित्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥ २१ ॥

‘एतत्साम गायन्नास्त’ इत्युच्यते । तत्रानन्दादीनां वृद्धिर्हासश्च न विद्यते । किन्त्वेक-प्रकारेणैव सर्वदा स्थितिः । ‘स एष एतस्मिन्ब्रह्मणि सम्पन्नो न जायते न म्रियते न हीयते न वर्धते स्थित एव सर्वदा भवति दर्शन्नेव ब्रह्म दर्शन्नेवाऽऽत्मानं तस्यैवं दर्शतो नापत्तिर्न विपत्तिः’ इत्याह जाबालश्रुतौ ।

‘यत्र गत्वा न म्रियते यत्र गत्वा न जायते ।

न हीयते यत्र गत्वा यत्र गत्वा न वर्धत’ इति मोक्षधर्मे ॥

विद्वत्प्रत्यक्षात्कारणाभावलिङ्गाच्च । ब्रह्मवैवर्ते च–

‘न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् ।

विद्वत्प्रत्यक्षसिद्धत्वात्कारणाभावतोऽनुमा ॥

हरेरुपासना चात्र सदैव सुखरूपिणी ।

न तु साधनभूता सा सिद्धिरेवात्र सा यत’ इति ॥ २१ ॥

तत्त्वप्रदीपिका

अथैवं परमगतिं गतानां परमेश्वरप्रसादोत्कर्षभाजनभूतानां सत्यसङ्कल्पानामुत्तरोत्तरमानन्दादि-गुणवृद्धिः स्यात् । न हि कश्चित्स्वानन्दं वर्धयितुं नेच्छतीत्यत आह– स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ ‘एतमानन्दमयमात्मानमुपसंक्रम्य, इमाल्लोकान्कामान्नी कामरूप्यनुसञ्चरन् । एतत्सामगायन्नास्त’ इत्युच्यते । तत्र कामरूपत्वादिभावेऽपि नानन्दादीनां वृद्धिर्ह्रासो वा । न हि कस्यचित्स्वानन्दह्रासेच्छा । नापि वृद्धीच्छा, तत्रावृद्धिश्रुतेः सत्यकामत्वश्रुतेश्च । इच्छायां चावृद्धौ परमगतित्वस्य प्रसादोत्कर्षपात्रत्वस्य च मानसिद्धस्यायुक्तत्वापत्तेः । स्वरूपेण जन्मादिरहितस्यापि शरीरेण जन्माद्यस्ति संसारे, तदपि न मुक्तावित्याह– ‘न जायत’ इत्यादिना । न चानन्दादि-वृद्धिह्रासावित्याह– ‘न हीयते न वर्धत’ इति । आपत्तिरविद्यमानस्यागमः । विपत्तिर्विद्यमानस्य विगमः । विद्वत्प्रत्यक्षं नाम प्रमाणं प्रमाणसिद्धमित्याह– ब्रह्मवैवर्ते चेति । वृद्धौ कारणाभावोऽ-सिद्धः । मुक्तानां पुनरुपासनादित्यत आह– ‘हरेरुपासना चात्र सदैव सुखरूपिणि’ इत्यादि ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तानां मुक्तानां भोगादिना वृद्धिह्रासनिरासादस्ति शास्त्रादिसङ्गतिः । वृद्धिह्रासवत्त्वे संसारसमानधर्मत्वापत्तेः कर्तव्य एव तन्निरासः । प्रकृतमुक्त एव विषयः । वृद्धिह्रासवान्न वेति सन्देहः । लोकदर्शनमलौकिकत्वं च सन्देहबीजम् । अस्त्येव मुक्तस्यानन्दादिवृद्ध्यादीति पूर्वः पक्षः । ‘एतत्सामगायन्नास्ते’ इत्यादिना तस्याप्युपासनादिश्रवणात् । अन्यथा तद्वैयर्थ्यात् । भोगानां वृद्धिह्रासवत्त्वाच्च । कारणानुगुणत्वात्कार्यस्य । किं च मुक्तस्य वशित्वेन कामिताशेषप्राप्तेर्युक्ता सुखादिवृद्धिः । न च न कामयत इति वाच्यम् । आनन्दादिवृद्धेरिष्टत्वेनाकामनानुपपत्तेः । अतो मुक्तानामपि वृद्ध्यादिसद्भावात्संसारसमानधर्मत्वेन मुक्तेरपुरुषार्थत्वमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ स्थितिमिति ॥ यद्यपि ‘एतत्साम गायन्नास्ते’ इत्यादिना मुक्तस्य भगवदुपासनमुच्यते तथापि न तस्यानन्दादिवृद्धिह्रासौ विद्येते किं त्वेकप्रकारेणैवावस्थानम् । कुतः । ‘स एषः’ इत्यादिश्रुतौ वृद्ध्याद्यभावमुक्त्वोपासनसद्भावमाशङ्क्य ‘दर्शन्नेवात्मानम्’ इत्युपासनवतोऽप्यापत्ति-विपत्तिशब्दोदितवृद्धिह्रासनिषेधान्महतां प्रत्यक्षेण च वृद्ध्याद्यभावस्य सिद्धत्वात् । ‘मुक्तो न वृद्ध्यादिमान् तत्कारणशून्यत्वात्’ । इत्यनुमानसिद्धत्वाच्चेत्यर्थः । दर्शन् पश्यन्नुपासीन इत्यर्थः । परप्रत्यक्षस्याप्रत्यक्षत्वात्कथं तेनास्माकमर्थसिद्धिरित्यत उक्तार्थे स्मृतिं चाह ॥ ब्रह्मवैवर्ते चेति ॥ भगवदुपासनस्य कारणस्य सद्भावात्कथं कारणाभाव इत्यत आह ॥ हरेरिति ॥ मुक्तिगतोपासनस्य फलत्वान्न सुखसाधनत्वमित्यर्थः ।

गुर्वर्थदीपिका

दर्शन्पश्यन्नुपासीन इत्यत्र ‘पूर्वं देवेभ्योऽमृतस्य ना भा इ’ इति श्रुतौ तवेत्यनुक्त्वा परोक्ष-व्यपदेशाद्ध्यानकालीनं सामगानमिति भावेनोपासीन इत्युक्तम् । मुक्तिगतोपासनस्य फलत्वादित्यत्र मत्तवदानन्दोद्रेकेन क्रियमाणत्वेन फलरूपत्वादित्यर्थः । न हि मदिरामत्तो द्रव्यप्राप्त्यर्थं गायति किं तु सुखोद्रेकेनैव तद्वदिति भावः ।

भावबोधः

भोगादिना वृद्धिह्रासनिरासादिति । पूर्वाधिकरणे यद्भोगादेस्तारतम्यमुक्तं तन्न सम्भवति । तथा सति तत्तारतम्यानुसारेण तस्य भोगादेरानन्दादिवृद्धिह्रासकारणत्वं स्यादित्याक्षेपस्यात्र समाधाना-दनन्तरसङ्गतिरिति भावः ॥ वृद्धीति ॥ अत्र मुक्ता वृद्धिह्रासवन्तो न वेति चिन्ता । तदर्थं तत्कर्तृकमुपासनभोगादिकं साधनरूपम् उत फलरूपमिति । तदर्थं वृद्धिह्रासराहित्ये तदुपासनादेः फलरूपत्वे च प्रमाणं नास्त्युतास्तीति । ‘एतत् साम गायन्नास्ते’ इत्युच्यत इति भाष्योक्त-युक्तिमाह– एतत् साम गायन्नास्त इत्यादिनेति । ‘भोगमात्रसाम्यलिङ्गाच्च’ इति सूत्रनिरसनीय-युक्तिमाह– भोगानामिति ॥ वशित्वान्मुक्तस्यापि वृद्धिरिति न्यायविवरणोक्तयुक्तिमाह– किं चेति ॥ श्रुतौ दर्शनमेवोच्यते न तु उपासनमित्यत आह– उपासीन इत्यर्थ इति ॥ हरेरितीति ॥ उपलक्षणं चैतत् । कृतकृत्यत्वेनेत्यादिन्यायविवरणोक्तयुक्तिरभ्यासपाटवादिति, तदुदाहृतस्मृति-सिद्धास्मिन्नर्थे प्रमाणत्वेन द्रष्टव्या ।

भावदीपः

भोगादिनेति ॥ विषयानुभवतदुपारमाभ्यामानन्दवृद्धिह्रासनिरासादित्यर्थः । एतेन पूर्वत्र विषयभोगेयत्तोक्ताविह तदभिव्यंग्यस्वरूपानन्दस्य यथास्थितिरूपेयत्तानिरूपणात्पूर्व सङ्गतिरपि सूचिता । वशित्वान्मुक्तस्यापि वृद्धिरित्यन्यत्रोक्तं वृद्धिरित्येतदुपलक्षणं मत्वा भाष्यदिशा प्रतिज्ञाहेतू व्यनक्ति ॥ अस्त्येवेति ॥ उपासनादीत्यादिपदेन ॠचां त्वः पोषमास्ते, कृष्णो मुक्तैरिज्यते इत्यादिकर्मग्रहः । विपक्षे बाधकमाह ॥ अन्यथेति ॥ भोगेति सूत्रव्यावर्त्यहेतुमाह ॥ भोगा-नामिति ॥ अन्यत्रोक्तहेतुं व्यनक्ति ॥ किं चेति ॥ वशित्वेनेति ॥ ‘अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतय’ इत्युक्ताष्टभूतिषु मध्ये वशित्वरूप-गुणवत्त्वेनेत्यर्थः । ननु वशित्वं चाप्यलोलतेत्येकादशस्कन्धतात्पर्योक्तेः सुखप्राप्तिदुःखनिवृत्त्यो-रज्ञाननिवृत्त्यैव प्राप्यत्वाच्च न कामयत इत्याशङ्क्य निराह ॥ न चेति ॥ अत इति ॥ उपासनादिमत्त्वाद्वृद्ध्याद्युपेतभोगवत्वाद्वशित्वाच्चेत्युक्तहेतुभ्य इत्यर्थः ॥

तत्रेत्यस्य तथापीत्यर्थमुपेत्यैतदित्यादिभाष्यं व्याचष्टे ॥ यद्यपीत्यादिना ॥ श्रुताविति ॥ वृद्धिह्रासनिषेधादित्यन्वयः । श्रुतावित्युपलक्षणम् । श्रुतौ मोक्षधर्मे च वृद्धिह्रासनिषेधादिति भाष्ये शेष इति सूचितम् । श्रुतावुपासाऽप्रतीतेराह ॥ दर्शन्निति ॥ स्वरूपप्रज्ञप्त्यानारतभगवद्दर्शनस्यैव मुक्तानामुपासनत्वादिति भावः । अप्रत्यक्षत्वात्प्रत्यक्षाविषयत्वादित्यर्थः । सुखरूपत्वोक्त्या कथमुक्तशङ्कानिरास इत्यत आह ॥ मुक्तिगतेति ॥

अभिनवचन्द्रिका

अस्त्ये वेति ॥ ननु ह्रासस्य संसारसमानधर्मत्वापादकत्वात् स एव पूर्वपक्षिणा वक्तव्यः, निराकर्तव्यश्च सिद्धान्तिना’ न तु पूर्वपक्षिणा आनन्दादीनां वृद्धिर्वक्तव्या, तस्याः संसार-समानधर्मतानापादकत्वेन मुक्तेरपुरुषार्थत्वानापादकत्वाद् इति चेद् उच्यते मुक्त्यनन्तरमपि उपासनादिना वृध्द्यङ्गीकारे अधमोऽपि मुक्तो जीवः दीर्घेण कालेनाऽनुष्ठितया भगवदुपासनया उत्तमानपि अतिक्रमेत् । ततश्च उत्तमानामधमनियम्यत्वं प्रसज्येत । तच्चानिष्टमिति ह्रासवद् वृद्धिरपि पूर्वपक्षिणा वक्तव्या निराकर्तव्या च सिद्धान्तिना । अथवा मुक्तवृद्धेः । ततः पूर्वं कृतकृत्यता-विरोधित्वेन संसारसमानधर्मताऽऽपादकत्वात् ह्रासवद् वृद्धिरपि पूर्वपक्षिणा वक्तव्या निराकर्तव्या च सिद्धान्तिनेति द्रष्टव्यम् । वृद्धौ ह्रासे च हेतुमाह– उपासनादिश्रवणादिति ॥ उपासना हि वृद्धिहेतुरिति प्रसिद्धैव । भगवदुपासनयाऽऽनन्दवृद्धेरभिहितत्वात् । उपासनैव तध्द्रासहेतुश्च भवति उत्तमातिक्रमप्रयत्नत्वात् । तद्यथा स्वोच्चदारपरिग्रहश्चेन्द्रसुग्रीवयोस् तात्कालिकेष्टहेतुरपि बलवदनिष्टहेतुरपि भवति । एवं मुक्तोपासनापि तात्कालिकवृद्धिहेतुरपि उत्तमातिक्रमप्रयत्नरूपत्वात् पश्चाद्भाव्यानन्दादिह्रासहेतुरपि भवतीति भावः । आस्तां तावदुपासना । मुक्तानां तावत् ‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इति विकल्पेन उत्कृष्टापकृष्टभोगसाधनावाप्तिः श्रूयते । तयैव वृद्धिसिद्धिरित्याह – भोगानामिति ॥ भुज्यन्ते एभिरिति भोगा भोगसाधानानि । तेषां मध्ये केषाञ्चिदुत्कृष्टत्वात् केषाञ्चिदपकृष्टत्वादित्यर्थः । भोगसाधनस्त्र्यादितारतम्येऽपि आनन्दादितारतम्यं कुत इत्यत आह – कारणानुगुणत्वादिति ॥ वृद्धिसिद्धौ पूर्वेक्तरीत्या ह्रासः स्वयमेव सिध्यतीति वृद्धिसिध्द्यर्थं हेतुमाह – मुक्तस्य वशित्वेनेति ॥ अत्र गुणसूत्रम् – ‘भोगमात्रसाम्यलिङ्गाच्च’ इति भोगमात्रेऽपि उत्कृष्टापकृष्टभोगसद्भावेऽपि मुक्तस्य साम्यलिङ्गान् न मुक्तस्य वृद्धिह्रासौ युक्ताविति सूत्रयोजना ॥ एवं चेति ॥ भोगमात्रस्य=स्त्र्यादिसर्वभोगस्य, विशेषे=तारतम्ये सत्यपि, यच्छ्रुत्युक्तं मुक्तानां साम्यं तदेव भोगविशेषः । तद्वृध्द्यादौ न कारणमित्यस्मिन्नर्थे लिङ्गम् । अन्यथा भोगविशेषस्य वृध्यादिकारणत्वाङ्गीकारे साम्यानुपपत्तिः स्यादिति भावः ॥

पूर्वपक्षस्तु मुक्तानामप्यानन्दादीनां वृद्धिह्रासौ विद्येते । ‘एतत्सामगायन्नास्त’ इत्यादिना तस्याप्युपासनादिश्रवणात् । किं च भोगानां ‘स्त्रीभिर्वा यानैर्वा’ इत्यादिना वृद्धिह्रासौ दृश्येते । कारणानुगुणत्वात्कार्यस्य । आनन्दीदानामपि तावङ्गीकर्तव्यौ । अतो मुक्तानामपि वृध्द्यादिसद्भावात् संसारसमानधर्मत्वेन मुक्तेरपुरुषार्थत्वमिति ।

सिद्धान्तस्तु न मुक्ताऽऽनन्दादीनां वृद्धिह्रासौ । ‘स एष एतस्मिन्ब्रह्मणि’ इति जाबलश्रुतेः । महतां प्रत्यक्षात् कारणाभावलिङ्गाच्च । ननु न मुक्तानन्दादिवृद्धौ ह्रासे च कारणाभावः । कदाचिद् भोगवृद्धेः कदाचित्तदभावस्य प्रमितत्वादिति चेन्न ‘एतमानन्दमयमात्मानमनुविश्य’ इति श्रुतौ भोगानां वृद्धौ ह्रासेऽपि मुक्तानन्दसाम्याऽभिधानेन मुक्तभोगानां वृद्धिह्रासयोस् तदानन्दवृद्धिह्रासौ प्रति अकारणत्वात् । ननु माभूत् ह्रासः, वृद्धिस्तु भविष्यति । तस्य सत्यकामत्वेन कामिताऽशेषप्राप्त्या वृद्धिसम्भवात् । न च नासौ कामयत इति युक्तम् । आनन्दवृद्धेरिष्टत्वेन कामनानङ्गीकाराऽयोगाद् इति चेन्न योग्यस्य प्राप्तत्वात् । अयोग्यकामनायाश्च ‘न चायोग्यं विमुक्तोऽपि’ इत्यनेन निषिद्धत्वेन कामनाङ्गीकारस्यायुक्तत्वात् । ‘अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् । कादाचित्कविशेषस्तु नैव तेषां निषिध्यत’ इति वचनात् कादाचित्कविशेष-स्त्वभ्युपगन्तव्यः । अतो मुक्तानां वृध्द्याद्यभावेन न संसारसमानधर्मत्वं मुक्तिरिति सिद्धम् ॥

वाक्यार्थमुक्तावली

भोगादिनेति ॥ आदिपदेनोपासनं कामनं च गृह्यते । मास्तु मुक्तस्यामुक्ताधिपत्यकामना तत्प्रयुक्तानन्दवैचित्र्यलाभः । आनन्दकामनस्य सत्वात्सत्यकामत्वात्तत्साधनभोगोपासनयोः सत्वाच्च तद्भावकाले आनन्दवृद्धिस्तदभावकाले ह्रासश्च भवद् इच्छया भोगवैचित्र्यं च । सयुजःपरमात्मानं प्रविश्य च बहिर्गता इत्याद्युक्तम् । अन्यथा तद्वैय्यर्थ्यप्रसङ्गादित्याक्षेपोत्थानादनन्तरसङ्गतिः ॥ वृद्धीति ॥ मुक्तः किमानन्दवृद्धिह्रासवान् भवत्युत न भवतीति चिन्ता । तदर्थं तत्कारण-त्वेनाभिमतानामुपासनाभोगकामनानामन्यथासिद्धत्वमुतोपासनायाः फलरूपत्वं भोगस्य क्रीडामात्रत्वं कामनायास्तु क्लृप्तातिरिक्तविषये अभाव एवेति । एतत्साम गायन्नास्त इत्युच्यत इति भाष्योक्त-युक्तिमाह ॥ एतत्सामेति ॥ भोगमात्रसूत्रनिरसनीययुक्तिमाह ॥ भोगानामिति ॥ यथाकामं चरति यथाकाममित्यादौ योग्यकाममनतिक्रम्य मखादिकं करोतीत्युक्त्या निरस्यं वशितेत्युक्तन्यायं व्यनक्ति ॥ किं चेति ॥ वशित्वेनेति ॥ इच्छयैव वशीकृताखिलकाम्यत्वेनेत्यर्थः ।

यद्वा वशित्वं नामाष्टैश्वर्यमध्ये एकमैश्वर्यम् । सूत्रे एवं चेति शब्दोऽप्यर्थे । एवमपीत्यर्थ इत्युक्तस्योपासनाद्युक्तावपीति यावत् । चशब्दोऽवधारणे च, एवमेव एकप्रकारेणैवेत्यर्थः । स्थिति-मिति प्रथमान्तं तावद्विपरिणम्यते । तथा च मुक्तस्योपासनादिश्रवणेऽपि एकप्रकारेणैव स्थितिरिति सूत्रार्थमभिप्रेत्यैतत्साम गायन्नास्त इत्यादिभाष्यं प्रवृत्तम् । तत्र यद्यपीति आदावध्याहार्यम् । तन्नेत्यस्य तथापीत्यर्थः । एकप्रकारेणेत्यतः पूर्वं किं त्वित्यध्याहार्यमिति भावेन व्याचष्टे ॥ यद्यपीति ॥ स्थितिमाहेत्यस्य जाबालश्रुतावेवमेव वृद्ध्याद्यभावमेवोक्त्वा एवमेवोपासनमाशङ्क्यो-पासनसद्भावमेवाशङ्क्य एवमप्युपासनसद्भावेऽप्येवमेव वृध्यादिराहित्येनैव स्थितिमाहेति सूत्र-खण्डार्थमभिप्रेत्य प्रवृत्तं स एष इत्यादिभाष्यं व्याचष्टे ॥ श्रुताविति ॥ वृद्ध्याद्यभावमुक्त्वेत्यनेन स्थित एव भवतीत्यन्तस्य तात्पर्यमुक्तं भवति । उपासनासद्भावमाशङ्क्य दर्शन्नेवात्मानमितीति । दर्शन्नेव ब्रह्मदर्शन्नेवात्मानमित्यंशेनोपासनासद्भावमाशङ्क्येति योजना । तथा च यद्यपि ब्रह्मपूर्णं दर्शन्नुपासीन आत्मानं स्वामित्वादिगुणविशिष्टं चोपासीनो वर्तत इत्युपासनसद्भावमाशङ्क्येत्यर्थः ॥ उपासनवतोऽपीति ॥ तथापि तस्यैवं दर्शयत उपासीनस्यापि नापत्तिर्न विपत्तिरिति वृद्धिह्रासनिषेधादित्यर्थः । भाष्ये श्रुत्यर्थे मोक्षधर्मवाक्यस्य पठितत्वेऽपि टीकायां स्पुटत्वान्नावतारि-तम् । एवं चैवमेव प्रत्यक्षानुमाने दर्शयतः प्रमापयत इति सूत्रखण्डस्यार्थपरं विद्वदित्यादि व्याचष्टे ॥ महतामिति ॥ कारणाभावतोऽनुमेत्यत्रेत्थम्भूतलक्षणार्थात्तृतीयान्तात्तसिः । कारणाभावरूपानुमा चास्तीत्यर्थः । यद्वा कारणाभावलिङ्गतोऽनुमाऽनुमितिश्चैतद्विषयेऽस्तीत्यर्थः । हरेरुपासनेत्यस्य अत्र मुक्तौ सदा हरेरुपासना चशब्दाद्भक्तिश्च सुखरूपिण्येव न तु साधनभूता । यतस् तत्र फलावस्थायां विद्यमाना सा सिद्धिः फलरूपैवात इत्यर्थः । अनेनैव भाष्येण कृतनिः श्रमश्चेत्युक्तन्यायोऽपि विवृतो भवति । कृतकृत्यत्वेन निःश्रमत्वात् । उपासना भक्तिश्च सुखरूपैव मुक्तानां न तु साधनमिति ।

तत्त्वसुबोधिनी

भोगादिना वृद्धिह्रासनिरासादिति ॥ पूर्वाधिकरणे यद्भोगादेस् तारतम्यमुक्तं तत्तारतम्यानु-सारेण तस्य भोगादेर् आनन्दादिवृद्धिह्रासकारणत्वं स्यादित्याक्षेपसमाधानादनन्तरसङ्गतिरिति भावः । एतत्साम गायन्नास्त इत्युच्यते इति भाष्योक्तयुक्तिमाह ॥ एतत्सामेति ॥ अन्यथा तद्वैय्यर्थ्यादिति । आनन्दादिवृद्ध्याद्यभावे उपासनादिवैय्यर्थ्यादित्यर्थः । अस्तु उपासनादिश्रवणं तथापि आनन्दादिवृद्ध्यादि कुत इत्यत आह ॥ भोगानामिति ॥ उपासनादिरूपभोगाना-मित्यर्थः । अस्तु उपासनादिरूपभोगानां वृद्ध्यादिमत्वं तथापि आनन्दवृद्ध्यादि कुत इत्यत आह ॥ कारणानुगुणत्वाच्चेति ॥ तथा च उपासनादिरूपभोगलक्षणकारणस्य वृद्धिह्रासवत्वात् तत्कार्य-स्यानन्दादेरपि वृद्ध्यादिमत्वम् । अन्यथा तयोर् वैरूप्यं स्यादित्यर्थः । श्रुतौ दर्शनमेव उच्यते न तूपासनमित्यत आह ॥ उपासन इत्यर्थ इति ॥

वाक्यार्थविवरणम्

भोगानामिति ॥ आनन्दवृद्ध्यादिकारणानामित्यर्थः ॥ वशित्वेनेति ॥ स्वेच्छाधीनत्वे-नेत्यर्थः ॥

वाक्यार्थमञ्जरी

वृद्धिह्रासेति ॥ आनन्दवृद्धिह्रासेत्यर्थः ॥ एवमग्रेऽपि ॥ एतदिति ॥ एतत् हावित्यादिना वक्ष्यमाणं साम गायन्नास्त इत्यर्थः ॥ अन्यथेति ॥ उपासनादिना आनन्दादिवृद्ध्यनङ्गीकार इत्यर्थः । भोगानां तादृशत्वेऽप्यानन्दादेस्तादृशत्वं कुत इत्यत आह ॥ कारणेति ॥

ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥ ब्रह्मणीति श्रुतिर्मुक्तानां स्थितिमेक-प्रकारेणावस्थानमाह महतां प्रत्यक्षम् । मुक्तो न वृद्धिमान् तद्धेतुशून्यत्वादित्यनुमानमेवम् एकप्रकारेणावस्थानं च दर्शयत इत्यर्थः ॥ उपासनसद्भावमिति ॥ उपासनासद्भावेनानन्दादि-वृद्धिसद्भावमाशङ्क्येत्यर्थः । श्रुतौ दर्शनमेवोच्यते न तूपासनमित्यत आह ॥ उपासन इति ॥