ॐ जगद्व्यापारवर्जम् ॐ
९. सर्वकामाधिकरणम्
सूत्रभाष्यम्
॥ ॐ जगद्व्यापारवर्जम् ॐ ॥ १७ ॥
‘सर्वान्कामानाप्त्वाऽमृतः समभवत्’ इत्युच्यते । तत्र सृष्ट्यादिभ्योऽन्यान्व्यापारानाप्नोति ॥
तत्त्वप्रदीपिका
ननु हन्तैवं परमगतिं प्राप्तानां सत्यसङ्कल्पानां यथेष्टभोगभोगिनां किमपि नाशक्यमुपलभामहे । ‘सर्वान्कामानाप्त्वाऽमृतः समभवत्’ इति च श्रुतिः । अतः सृष्ट्यादीनपि प्राप्नोतीत्यत आह– जग-द्व्यापारवर्जम् ॥ ‘सर्वान्कामानाप्त्वा’ इति हि श्रुतावुच्यते । तत्र सृष्ट्यादिभ्योऽन्या-न्कामानाप्नोतीत्यर्थः ।
तत्त्वप्रकाशिका
अत्र ब्रह्मप्राप्तस्य मुक्तस्य भोगेयत्तासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा भगवतः सर्वोत्तमत्वाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृता मुक्ता एवात्र विषयः । जगत्सृष्ट्यादि-व्यापारानाप्नुवन्ति न वेति सन्देहः । तस्य ब्रह्मलक्षणत्वेनोक्तिर्मुक्तस्य सत्यकामत्वं च सन्देहबीजम् । आप्नुवन्तीति पूर्वः पक्षः । सर्वान्कामानाप्त्वेति श्रुतेः । सृष्ट्यादिव्यापारस्यापि काम्यत्वात् । न च सर्वशब्दस्य सङ्कोचः । मुक्तस्य सत्यकामत्वेन कामितसमस्तप्राप्त्युपपत्तेः सङ्कोचे कारणाभावात् । अन्यथोक्तसत्यकामत्वव्याघातात् । अतो मुक्तानां जगज्जन्मादिकर्तृत्वादयुक्तं लक्षणसूत्रमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ जगदिति ॥ न मुक्तानां जगद् व्यापारः किं तु तद्व्यतिरिक्त-कामावाप्तिरेव । ‘सर्वान्कामान्’ इति सर्वकामावाप्तिरुच्यत इति चेत् । सत्यम् । तत्रापि जगद्व्यापारवर्जमेव सर्वान्कामानाप्नोतीत्यर्थोपपत्तेरिति भावः ।
भावबोधः
भोगेयत्तासमर्थनादिति ॥ पूर्वाधिकरणे कारणनिर्णयेन परिहृतानुपपत्तिकस्य भोगस्य अत्र इयत्तासमर्थनादनन्तरसङ्गतिरिति भावः ॥ जगदिति ॥ अत्र सर्वे मुक्ता जगद्व्यापारादि-सर्वभोगानाप्नुवन्ति उत नाप्नुवन्तीति चिन्ता । तदर्थं ‘सर्वान् कामान्’ इति श्रुतिगत‘सर्व’शब्दः किमसङ्कुचितवृत्तिरुत सङ्कुचितवृत्तिरिति । तदर्थं ‘अस्माच्छरीरभेदात्’ इत्यनेनावगतस्य ‘सर्वान्’ इति श्रुतेर्जीवप्रकरणत्वस्य च सर्वशब्दसङ्कोचकत्वं न सम्भवतीति । तदर्थं सर्वजीवानां सर्व-कामावाप्तिसामर्थ्यमस्त्युत नास्तीति । तदर्थं ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति श्रुतिः किं सर्वमुक्तजीवविषया उत मुक्तहिरण्यगर्भमात्रविषयेति । तन्मात्रविषयत्वपक्षेऽपि किं मुक्तविरिञ्चस्य संसार्यादिसर्वजीवनियामकत्वतत्पूज्यत्वादिकम् उत स्वसहमुक्तमात्रनियामकत्वतत्पूज्यत्वादिकमिति । तदर्थमत्र प्रमाणमस्त्युत नास्तीति । सर्वान् कामानाप्त्वाऽमृतः समभवदिति भाष्योक्तयुक्तिमाह– सर्वान् कामानिति । सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिकार्यसम्भव इति न्यायविवरणोक्त-युक्तिमाह– मुक्तस्य सत्यकामत्वेनेति ॥ तत्रापीति ॥ सर्वशब्दविशेषितकामशब्दोक्तेषु विषयेष्वपीत्यर्थः । अनेन भाष्यगततत्रेतिपदमुक्ततात्यर्यं भवति ।
भावदीपः
भोगेयत्तेति ॥ भोगस्य मर्यादेत्यर्थः । एवं भोगेऽनुपपत्तिनिरासेन समर्थिते सत्यत्र तदियत्ता-चिन्तनमवसरप्राप्तमिति भावः । अन्यथा निरङ्कुशत्व इत्यर्थः । उक्तिर्जन्मादिसूत्र इत्यर्थः । सङ्कल्पादेव समस्तसम्भवात्सृष्ट्यादिकार्यसम्भव इत्यन्यत्रोक्तप्रतिज्ञामुक्त्वा भाष्यसूचितहेतुं तावदाह ॥ आप्नुवन्तीति ॥ श्रुतेर्निरवकाशतोपपादकत्वेन न्यायविवरणोक्तहेतुं व्यनक्ति ॥ न च सर्वेति ॥ अथाप्यस्तु सङ्कोच इत्यत आह ॥ सङ्कोच इति ॥ प्रकरणादि तु न कारणं बद्धस्यासामर्थ्येऽपि मुक्तस्य जगद्व्यापारसामर्थ्यसम्भवात् । मुक्तस्यापि जीवत्वेन बद्धवदसामर्थ्ये बाधकमाह ॥ अन्यथेति ॥ अत इति ॥ सत्यकामत्वयुक्त्या निरवकाशश्रुतिबलादित्यर्थः ॥ पूर्वपक्षं निराह ॥ नेति ॥ तस्य पर्यवसितार्थपरतया सृष्ट्यादिभ्योऽन्यानाप्नोतीति भाष्यं व्याचष्टे ॥ किं त्विति ॥ शङ्कोत्तरत्वेनापि समग्रभाष्यं व्यनक्ति ॥ सर्वानिति ॥ तत्रापीति ॥ सत्यकामत्वयुक्त्यनुसङ्गृहीत-श्रुतावपीत्यर्थः ॥ शेषं मत्वाह ॥ इत्यर्थोपपत्तेरिति ॥
अभिनवचन्द्रिका
भोगेयत्तासमर्थनादिति ॥ न मुक्तनां निरुपचरितसर्वकामावाप्तिर् अपि तु स्वयोग्यसर्वकामा-वाप्तिरिति समर्थनादित्यर्थः ॥ भगवत इति ॥ उपलक्षणमेतत् । मुक्तेषु तारतम्याभावप्रसङ्गाद् इत्यपि ग्राह्यम् ॥ सृष्ट्यादिव्यापारानिति ॥ इदं तु संदेहप्रदर्शनमुदाहरणमात्रम् । मुक्ताः स्वोत्तमैश्वर्यं लभन्ते न वेत्यपि ग्राह्यम् ॥ सिद्धान्तयत्सूत्रमिति ॥ ‘सर्वान्कामानाप्त्वा’ इति श्रुत्यर्थकथनेन मुक्तस्य जगव्द्यापारप्राप्ते र्निष्प्रामाणिकत्वसूचनमुखेन सिद्धान्तं सूचयत्सूत्रमुपन्यस्य व्याचष्ट इत्यर्थः । एतेन सूत्रे सिद्धान्तहेत्वनभिधानात् सूत्रस्य सिद्धान्तप्रापकत्वाभिधानमयुक्तमिति परास्तम् । सूत्रे प्रतिज्ञाऽभावात् प्रतिज्ञामध्याहरति – न मुक्तानामिति ॥ प्रतिज्ञया सूत्रं सङ्गमयितुं शङ्कते – सर्वान्कामानिति ॥ सत्यं तत्रापीति ॥ सत्यं सर्वकामावाप्तिः श्रुत्योच्यत इति तत्रापि तथापि सा श्रुतिर्नास्माकं बाधिका । तस्याः श्रुतेर् जगद्व्यापारवर्जमेव सर्वान् कामानाप्त्वेत्यर्थोपपत्तेरिति भावः । कुतः श्रुतेः सङ्कोच इति ॥ ‘सर्वान् कामानाप्त्वा’ इति श्रुतेः कुतो जीवपरत्वम् । जीवपरत्वेऽपि कुतः श्रुत्यर्थसंकोच इति तटस्थ आक्षिपतीत्यर्थः । परमसाध्यं निर्दिशति ॥ युक्त एवेति ॥ जीवपरत्वेऽपि कुतः श्रुत्यर्थसंकोच इति द्वितीयाक्षेपं परिहरति – जीवानां चेति ॥ प्रकरणात् श्रुत्युक्तो जीवः । असन्निहितत्वात्तु श्रुत्यर्थसंकोच इति सूत्रयोजना द्रष्टव्या । एतेन असन्निहितत्वादित्येतावतैव पूर्णत्वात् सूत्रे प्रकरणादिति व्यर्थं समुच्चयायोग इति च परास्तम् ॥ ता वा एता इति ॥ तावा एताः = प्रसिध्दाश् चतस्रः = ‘भूर्भुवःस्वर्महरिति चतुर्विध-व्याहृतिप्रतिपाद्या अनिरुध्दाद्या भगवन्मूर्तयः, प्रत्येकम् अनिरुध्दादिभेदेन चतुर्धा । या एताश् चतस्रः = अनिरुध्दाद्याश् चतस्रः = प्रत्येकमनिरुध्दादिभेदेन चतस्रः व्याहृतिप्रतिपाद्यः, ता एताः षोडश भगवन्मूर्तीः, यो वेद स ब्रह्म वेदेत्यर्थः ॥ अमुक्तज्ञानिनामिति ॥ अमुक्तस्वरूपं साकल्येन पश्यतां ज्ञानिनाममुक्तनिष्ठतया जगदैश्वर्याऽदर्शनान् नायं श्रुत्यर्थ इत्यर्थः । किमेतच्छ्रुतिबलेनाऽशेषमुक्तानां परमेश्वरवज् जगदैश्वर्यमुच्यते, उत हिरण्यगर्भस्यैवेति विकल्पं मनसि कृत्वा पक्षद्वयप्रतिषेधं युगपत्प्रतिजानीते – नैतच्छ्रुतिबलेनेति ॥ एतच्छ्रुतिबलेन हिरण्यगर्भस्य वा, अशेषमुक्तानां वा जगदैश्वर्यं न सिध्यतीत्यर्थः । प्रतिज्ञाद्वये युगपत् हेतुमाह– मुक्त-हिरण्यगर्भस्यैवेति ॥ अत्रायं विवेकः – हिरण्यगर्भमात्रविषयत्वाच्छ्रुतेर् नाऽनया सर्वेषां जगदैश्वर्यसिद्धिः । हिरण्यगर्भस्यापि मण्डलाधिपत्यप्रतिपादकत्वान् नाऽनया सर्वैश्वर्यसिद्धिरिति । आधिकारिकपदमिति ॥ श्रुत्यन्तरसिद्धस्य स्वावरनियामकत्वस्य सूचनायाऽऽधिकारिकपदमित्यर्थः ।
ननु मुक्तानामिति ॥ मुक्तेषु तारतम्यसद्भाव एव सर्वमिदमुपपन्नम् । भवेत् तदेव कुत इत्यतः प्रमाणोदाहरणेन तारतम्योक्तिपूर्वकं हिरण्यगर्भस्य सर्वनियामकत्वं देवानां स्वावरनियामकत्वं चाहाऽऽचार्यो भाष्यकार इत्यर्थः । आत्मत्वोपासकानां श्वेतद्वीपगमनोक्तिरयुक्ता । ‘योग्यत्वं चात्र विवक्षितम्’ इति गीताभाष्ये न सर्वेषां मुक्तानां श्वेतद्वीपावाप्तिः, किं तु अत्र श्वेतद्बीपावाप्तौ योग्यत्वं च विवक्षितमिति अभिधानादित्यत आह – योग्यत्वं चेति ॥ गीताभाष्ये निवासार्थमेव योग्यत्वमुक्तं ‘न तु दर्शनार्थमुक्तमिति न तद्विरोध इति भावः ॥ पृथिमीमारभ्येति ॥ पृथिवीमारभ्य केचिदत्रैव मुच्यन्ते’ इत्युक्तक्रमेण स्थितेषु यावत्सुस्थानेषु नारायणोऽस्ति तावत्सर्वस्थानेषु सालोक्याद्यस्त्येवेत्यर्थः । ननु नारायणावस्थानं न सालोक्यादिप्रयोजकं नरकादावपि तत्प्रसङ्गादित्यत आह– ईश्वरस्येति ॥ मुक्तप्राप्यत्वरूपविशेषस्य उक्तस्थानेष्वेवावस्थितेरत्रैव सालोक्यादीति भावः । अत एव मूले क्षीरसागर इति यावत्सु स्थानेषु नारायाणोऽस्ति तावत्सु सालोक्याद्यस्तीत्युक्तम् । अन्यथा क्षीरसागर इति पदं व्यर्थं स्याच् चकारेणेति ॥ ‘प्रत्यक्षोपदेशात्’ नेति नकारश् चकारेणाऽनुषज्यत इत्यर्थः ।
ननु किं चकारं प्रयुज्य तेन नकारानुकर्षणेन । नकार एव किं न प्रयुज्यते । न च सूत्रलाघवं भवति । चकारप्रयोगे वा नकारप्रयोगे वा साम्यात् । प्रत्युत चकारप्रयोगे प्रतिपत्तिगौरवमिति चेन्न । अनुवृत्यैव लभ्यस्य नकारस्य प्रयोगायोगात् । न च चकारवैयर्थ्यम् । चकाराप्रयोगे उत्तरसूत्रेषु नकारानुवृत्तिर्विज्ञायेत । तन्मा विज्ञायीति चकारप्रयोगः । ‘चानुकृष्टं न सर्वत्र’ इति नियमाच् चकारप्रयोगे उत्तरसूत्रेष्वनुवृत्त्यभावो विज्ञायते । यद्यपि उत्तरत्र नञोऽन्वयानुपपत्त्यापि अनुवृत्त्यभावो विज्ञातु शंक्यः, तथापि अन्तरङ्गज्ञापकाभाव एव बहिरङ्गमन्वेषणीयम् । इह तु शिष्यहितैषिणा सूत्रकृता अन्तरङ्गज्ञापकमुक्तम् । मानवमावर्तमिति पदद्वयेनोक्तमर्थं तद्वाचकप्रसिद्धपदस्य व्युत्पत्तिप्रदर्शनमुखेन ज्ञापयति – मानवा यत्रेति ॥ एतेन मानवावर्तमिति समस्तपदस्य मूलेऽभावात् तद्व्युत्पत्तिप्रदर्शनमयुक्तमिति परास्तम् ।
पूर्वपक्षस्तु मुक्ता अपि पारमेश्वरं जगद्वापारमाप्नुवन्ति । ‘सर्वान्कामानाप्नोति’ इति श्रुतेः । न च सर्वशद्बसंकोचः । बाधकाभावात् । अन्यथा सत्यकामत्वव्याघातः । कामिताऽप्राप्तौ दुःखप्रसङ्गश्च । अतो मुक्तानां जगज्जन्मादिकर्तृत्वाद् अयुक्तं लक्षणसूत्रमिति ।
सिद्धान्तस्तु न मुक्तनां सर्वकामावाप्तिः । प्रमाणाभावात् । न च ‘सर्वान्कामानाप्त्वा’ इति श्रुतिस्तत्र प्रमाणमिति वाच्यम् । योग्यसर्वकामाऽवाप्तेरेव श्रुत्यर्थत्वात् । ननु ‘सर्वान् कामानाप्त्वा’ इति श्रुतेर् ईश्वरपरत्वेन जीवपरत्वाभावान् नानया श्रुत्या मुक्तस्य जगद्वापारसिद्धिरित्येवोत्तरं युक्तमिति चेद् उच्यते सङ्कोचेनैवोत्तरं युक्तं, श्रुतेर्जीवपरत्वात् तत्कुत इति चेत्, ‘शरीरभेदादुत्क्रम्य’ इति जीवप्रकरणात् । अस्तु श्रुतेर् जीवपरत्वं, सङ्कोचः कुत इति चेज् जीवस्य तादृक्-सामर्थ्यविधुरत्वात् । ननु अस्त्येव मुक्तानां जगदैश्वर्यं, ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति प्रत्यक्षोपदेशादिति चेन्न । किमनया श्रुत्या सर्वमुक्तानां जगदैश्वर्यं सिध्यतीत्युच्यते, उत चतुर्मुखस्य । नाद्यः श्रुतेश्चतुर्मुखविषयत्वात् । नापि द्वितीयश् चतुर्मुखस्य मुक्ताऽऽधिकारिक-मण्डलाधिपत्यस्यैवाऽभिधानेन सर्वाधिपत्यानभिधानात् । ननु ब्रह्मादिदेवानां मुक्तनियामकत्वमात्रमेव कुतोऽङ्गीक्रियते संसारिनियामकत्वमपि किं न स्याद् इति चेत्, न ‘इमं मानवमावर्तं नावर्तन्त’ इति निषेधात् । अतो मुक्तानां जगद्व्यापाराभावाद् युक्तं लक्षणसूत्रमिति सिद्धम् ॥
वाक्यार्थमुक्तावली
यदि मुक्तानां सत्यकामत्वाविच्छया चिता वाचिता वा भोगस्तत एव सृष्ट्यादि-व्यापारोऽप्यस्त्वित्यत्याक्षेपोत्थानादनन्तरसङ्गतिः ॥ जगदिति ॥ अत्र मुक्ता जगत्सृष्ट्यादि-व्यापारानाप्नुवंत्युत नेति चिन्ता । तदर्थं तेषां सत्यकामत्वप्रतिपादकश्रुतौ सर्वशब्दस्य सङ्कोचे कारणं नास्त्युतास्तीति । सर्वान्कामानाप्त्वाऽमृत इति भाष्यसूचितं समस्तकार्यमिति पूर्वाधिकरण-सम्बन्धिनमेव पूर्वपक्षन्यायं प्रदर्शयिष्यन् न्यायार्थतया साध्यमाह ॥ आप्नुवन्तीति ॥ मुक्ताः समस्तं कार्यं सृष्टादिव्यापारमाप्नुवन्तीत्यर्थः । कुत इत्यतः समस्तकाम्यप्राप्त्याख्यकार्यश्रुतेरिति भावेनाह ॥ सर्वानिति ॥ ननु भवेच्छ्रुतिबलात्समस्तकामाप्तिः सृष्ट्यादिव्यापारावाप्तिस्तु कुतः समस्तस्य सृष्ट्यादिरूपव्यापाराख्यकार्यस्यापि समस्तकाम्यान्तर्भावादिति भावेनाह ॥ सृष्ट्यादीति ॥ कुतो न सङ्कोच इत्यतो मुक्तस्य समस्तकामितवत्वेन कामनायोग्यसृष्ट्यादिसमस्तकार्यप्राप्त्युपपत्तेरिति भावेनाह ॥ मुक्तस्येति ॥ विपक्षे बाधकपरत्वेनापि न्यायं विवृणोति ॥ अन्यथेति ॥ एतेन सम्यगस्तं निरस्तं व्याहतं कार्ये सत्यकामत्वाख्यं प्रसज्येतेति विवृतं भवति । सूत्रे मुक्तः जगद्व्यापारवर्जं सर्वकामानाप्नोतीत्यध्याहारं च मत्त्वा प्रवृत्तं सृष्ट्यादिभ्योऽन्यानाप्नोतीति भाष्यांशं तावद्व्याचष्टे ॥ न मुक्तानामिति ॥ तर्हि श्रुतिविरोध इत्याशङ्क्य तत्सावकाशत्वप्रतिपादनपरत्वेन सूत्रं व्याकुर्वन् कामानित्यादि समग्रभाष्यं व्याचष्टे ॥ सर्वानित्यादिना ॥ आप्नोतीत्यतः परम् इत्यर्थोपपत्तेरिति शेषः । ततश्च यद्यपि सर्वान् कामानाप्त्वाऽमृतः समभवदित्युच्यते । तथापि तत्र श्रुतावपि सृष्ट्यादिभ्योऽन्यानाप्नोतीत्यर्थोपपत्तेरिति भाष्यार्थः । सूत्रस्यापि जगद्व्यापारवर्जं सर्वान् कामानाप्त्वेति श्रुत्यर्थ इत्यध्याहारेणार्थ इति भावः ।
तत्त्वसुबोधिनी
भोगपक्षेऽपि भोगोपपत्युक्तिमत्तासमर्थनादिति । पूर्वाधिकरणे कारणनिर्णयेन परिहृतानु-पपत्तिकस्य भोगस्यात्रेयत्तासमर्थनादनन्तरसङ्गतिरिति भावः । सर्वान् कामानाप्त्वाऽमृतः समभावदिति भाष्योक्तयुक्तिमाह ॥ सर्वान् कामनिति ॥ सङ्कल्पादेव समस्तसम्भवादिति न्यायविवरणोक्तां युक्तिमाह ॥ मुक्तस्येति ॥ प्रकरणादसन्निहितत्वाच्चेति सूत्रनिरसनीयमाह ॥ सङ्कोच इति ॥ तत्रापीति सर्वशब्दविशेषितकामशब्दोक्तेषु विषयेष्वपि ।
वाक्यार्थविवरणम्
भोगेयत्तेति ॥ भोगे इयत्ता मर्यादेत्यर्थः ॥
वाक्यार्थमञ्जरी
इयत्ता मर्यादा कामान् काम्यान् ॥ अन्यथेति ॥ काम्यस्यापि सृष्ट्यादिव्यापारस्य लाभ इत्यर्थः ॥ ॐ जगद्व्यापारवर्जं ॐ ॥ मुक्तः जगत्सृष्ट्यादिव्यापारवर्जतदतिरिक्तानेव कामा-नाप्नोतीत्यर्थः ।
ॐ प्रकरणादसन्निहितत्वाच्च ॐ
सूत्रभाष्यं
कुतः?–
॥ ॐ प्रकरणादसन्निहितत्वाच्च ॐ ॥ १८ ॥
जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । वाराहे च–
‘स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि ।
मुक्तानां नैव कामः स्यादन्यान्कामांस्तु भुञ्जते ॥
तद्योग्यता नैव तेषां कदाचित्क्वापि विद्यते ।
न चायोग्यं विमुक्तोऽपि प्राप्नुयान्न च कामयेत्’ इति ॥
तत्त्वप्रदीपिका
कुतः ‘सर्वान्कामान्’ इति श्रुतेरयमर्थः स्यादित्यत आह– प्रकरणादसन्निहितत्वाच्च ॥ ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वम् उत्क्रम्य’ इति जीवप्रकरणं ह्येतत् । न च तस्य तादृक् सामर्थ्यमस्ति । न च मुक्तो जगत्सृष्ट्यादीन्कामयति । विविदिषाकाल एवैतद्विरक्तिसंस्कारपाटवसम्भवात् ।
तत्त्वप्रकाशिका
कुतः श्रुतेः सङ्कोच इत्याक्षिपति ॥ कुत इति ॥ तत्परिहाराय सूत्रं पठित्वा व्याचष्टे ॥ प्रकरणादिति ॥ युक्त एव सर्वश्रुतेः सङ्कोचः । अत्र जीवस्योच्यमानत्वादस्य जीवप्रकरणत्वेन तदवगमाच्छरीरभेदादूर्ध्वमुत्क्रम्येति श्रवणाज्जीवानां च जगद्व्यापारशक्तिरहितत्वाद्बाधकवशा-त्सामान्यश्रुतेः सङ्कोचस्य न्यायप्राप्तत्वादिति भावः । तदयं प्रयोगः । न मुक्तो जगद्व्यापारशक्तिमान् । जीवत्वात् । सम्प्रतिपन्नवदिति । संसारिणां जगद्व्यापारशक्त्यभावेऽपि सत्यकामानां मुक्तानां तत्सम्भव इत्यत आह ॥ वाराहे चेति ॥
भावबोधः
‘प्रकरणादसन्निहितत्वाच्च’ इति सूत्रनिरसनीयमाह– सङ्कोच इति । अस्य जीवप्रकरणत्वं कुतो ज्ञायत इत्यत आह– शरीरभेदादिति ॥ असत्वकामत्वस्योपाधित्वशङ्कायां तन्निरासाय पक्षे साध्यग्राहिकां स्मृतिमवतारयति ॥ संसारिणामिति ॥ उपलक्षणं चैतत् । ‘व्यापारो जगतो विष्णौ मुक्तानां दुःखभोगगः’ इति न्यायविवरणोदाहृतश्रुतिरस्मिन्नर्थे मानमिति बोध्यम् ।
भावदीपः
पूर्वभाष्येणान्वयं सूचयन् हेतुं स्वयमध्याहृत्य तदुपपादकत्वेन जीवेत्यादिभाष्यं व्यनक्ति ॥ युक्त एवेति ॥ सर्वेति ॥ सर्वानिति श्रुतेः ॥ अत्रेति ॥ श्रुतावित्यर्थः । इति श्रवणाद् ऐतरेय इत्यर्थः । तस्य शरीरभेदादूर्ध्वमुत्क्रम्येति पाठेऽपि अनुपयोगादूर्ध्वपदानुक्तिः ॥ सामान्येति ॥ सर्वानिति श्रुतेः । प्रकरणादिति हेतोः सामर्थ्यवैधुर्यरूपसाध्ये साक्षादनन्वयादुत्तरोपयोगायाह ॥ तदयं प्रयोग इति ॥ जीवनकरणं हेतुरिति भावः । सम्प्रतिपन्नो बद्धजीवः । हेतोरप्रयोजकत्वशङ्कानिरासकतया स्मृतिमवतारयति ॥ संसारिणामिति ॥ इत्यत आहेति ॥ विपक्षे स्मृतिविरोध इति भावः ।
वाक्यार्थमुक्तावली
कुत इति ॥ कुतो बाधकादित्यर्थः । सर्वान् कामानाप्त्वाऽमृत इत्युक्तो न जगद्व्यापारशक्तिमान् जीवत्वादित्यनुमानं बाधकमिति मनसि निधाय यत्र जीवत्वं तत्र जगद्व्यापारशक्तिविदूरत्वं यथा संसारीति । संसारिणां ब्रह्मादीनामतीतानागतजगद्व्यापृतिशक्तिरस्ति । ‘प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव’ इति श्रुतेरित्यर्थमभिप्रेत्य व्याप्तिकथनाय जीवानामसन्निहितत्वा-ज्जगद्व्यापारशक्तिविदूरत्वादित्युक्तम् । अप्रयोजकत्वमाशङ्क्य यदि मुक्तो जगद्व्यापारशक्ति-मांत्स्यात्तर्हि जीवो न स्यात् । न चेष्टापत्तिः प्रकरणाज्जीवत्वावगमादिति भावेन प्रकरणादित्युक्तम् । अप्रयोजकत्वशङ्कापरिहारेण व्याप्तिकथनस्य समुच्चयार्थं चशब्दः । जगद्व्यापारवर्जमेव सर्वान् कामानाप्त्वेति श्रुत्यर्थ इति प्रतिज्ञांशस्यात्रानुवृत्तेश्चेति भावेन व्याचष्टे ॥ युक्त एवेत्यादिना ॥ जीवप्रकरणत्वं कुत इत्यत उक्तम् ॥ शरीरेति ॥ स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्येति जीवलिङ्गश्रवणादित्यर्थः । ततश्चायं सूत्रार्थः । युक्त एव जगद्व्यापारवर्जं सर्वान् कामानाप्त्वेति सङ्कोचः । अत्रोक्तस्य प्रकरणाज्जीवत्वाज्जीवानां च तादृशशक्तिविदूरत्वाच्चेति अनुमानस्या-सत्यकामत्वमुपाधिरित्याशङ्क्य तन्निरासाय पक्षे साध्यग्राहिकां सत्यकामत्वेऽपि स्वयोग्यविषय एव कामो नायोग्य इति विशेषक्लृप्त्याख्यसिद्धान्तन्यायस्फोरिकां चशब्दसूचितां स्मृतिमवतारयति ॥ संसारिणामिति ॥
तत्त्वसुबोधिनी
अत्र जीवस्योच्यमानत्वं कुत इत्यत आह ॥ अस्येति ॥ अस्य जीवप्रकरणत्वात् । कुतो ज्ञायत इत्यत आह ॥ जीवानामिति ॥ असत्यकामत्वस्योपाधित्वशङ्कायां तन्निरासपक्षे साध्यग्राहिकां स्मृतिमवतारयति ॥ संसारिणामिति ॥
वाक्यार्थविवरणं
सम्प्रतिपन्नवदिति ॥ संसारिजीववदित्यर्थः ॥ संसारिणामिति ॥ तथा चोक्तानुमाने संसारित्वमुपाधिरिति भावः ॥ इत्यत आहेति ॥ आगमेन पक्ष एव साध्यनिश्चयेन तत्रैव साध्यव्यापकत्वभङ्गान्न तस्य उपाधित्वमित्याहेत्यर्थः ।
वाक्यार्थमञ्जरी
अस्य जीवप्रकरणत्वाज्जीवानां च जगद्व्यापारे असन्निहितत्वात् सामर्थ्यरहितत्वाच्चेत्यर्थः । सर्वश्रुतेः सर्वशब्दस्य अस्य जीवप्रकरणत्वं कुतो ज्ञायत इत्यत आह ॥ शरीरभेदादिति ॥ शिरोमध्यविदारणाद्देहादुत्क्रम्येत्यर्थः ।