०९ सर्वकामाधिकरणम्

ॐ जगद्व्यापारवर्जम् ॐ

९. सर्वकामाधिकरणम्

सूत्रभाष्यम्

॥ ॐ जगद्व्यापारवर्जम् ॐ ॥ १७ ॥

‘सर्वान्कामानाप्त्वाऽमृतः समभवत्’ इत्युच्यते । तत्र सृष्ट्यादिभ्योऽन्यान्व्यापारानाप्नोति ॥

तत्त्वप्रदीपिका

ननु हन्तैवं परमगतिं प्राप्तानां सत्यसङ्कल्पानां यथेष्टभोगभोगिनां किमपि नाशक्यमुपलभामहे । ‘सर्वान्कामानाप्त्वाऽमृतः समभवत्’ इति च श्रुतिः । अतः सृष्ट्यादीनपि प्राप्नोतीत्यत आह– जग-द्व्यापारवर्जम् ॥ ‘सर्वान्कामानाप्त्वा’ इति हि श्रुतावुच्यते । तत्र सृष्ट्यादिभ्योऽन्या-न्कामानाप्नोतीत्यर्थः ।

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तस्य मुक्तस्य भोगेयत्तासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा भगवतः सर्वोत्तमत्वाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृता मुक्ता एवात्र विषयः । जगत्सृष्ट्यादि-व्यापारानाप्नुवन्ति न वेति सन्देहः । तस्य ब्रह्मलक्षणत्वेनोक्तिर्मुक्तस्य सत्यकामत्वं च सन्देहबीजम् । आप्नुवन्तीति पूर्वः पक्षः । सर्वान्कामानाप्त्वेति श्रुतेः । सृष्ट्यादिव्यापारस्यापि काम्यत्वात् । न च सर्वशब्दस्य सङ्कोचः । मुक्तस्य सत्यकामत्वेन कामितसमस्तप्राप्त्युपपत्तेः सङ्कोचे कारणाभावात् । अन्यथोक्तसत्यकामत्वव्याघातात् । अतो मुक्तानां जगज्जन्मादिकर्तृत्वादयुक्तं लक्षणसूत्रमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ जगदिति ॥ न मुक्तानां जगद् व्यापारः किं तु तद्व्यतिरिक्त-कामावाप्तिरेव । ‘सर्वान्कामान्’ इति सर्वकामावाप्तिरुच्यत इति चेत् । सत्यम् । तत्रापि जगद्व्यापारवर्जमेव सर्वान्कामानाप्नोतीत्यर्थोपपत्तेरिति भावः ।

भावबोधः

भोगेयत्तासमर्थनादिति ॥ पूर्वाधिकरणे कारणनिर्णयेन परिहृतानुपपत्तिकस्य भोगस्य अत्र इयत्तासमर्थनादनन्तरसङ्गतिरिति भावः ॥ जगदिति ॥ अत्र सर्वे मुक्ता जगद्व्यापारादि-सर्वभोगानाप्नुवन्ति उत नाप्नुवन्तीति चिन्ता । तदर्थं ‘सर्वान् कामान्’ इति श्रुतिगत‘सर्व’शब्दः किमसङ्कुचितवृत्तिरुत सङ्कुचितवृत्तिरिति । तदर्थं ‘अस्माच्छरीरभेदात्’ इत्यनेनावगतस्य ‘सर्वान्’ इति श्रुतेर्जीवप्रकरणत्वस्य च सर्वशब्दसङ्कोचकत्वं न सम्भवतीति । तदर्थं सर्वजीवानां सर्व-कामावाप्तिसामर्थ्यमस्त्युत नास्तीति । तदर्थं ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति श्रुतिः किं सर्वमुक्तजीवविषया उत मुक्तहिरण्यगर्भमात्रविषयेति । तन्मात्रविषयत्वपक्षेऽपि किं मुक्तविरिञ्चस्य संसार्यादिसर्वजीवनियामकत्वतत्पूज्यत्वादिकम् उत स्वसहमुक्तमात्रनियामकत्वतत्पूज्यत्वादिकमिति । तदर्थमत्र प्रमाणमस्त्युत नास्तीति । सर्वान् कामानाप्त्वाऽमृतः समभवदिति भाष्योक्तयुक्तिमाह– सर्वान् कामानिति । सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिकार्यसम्भव इति न्यायविवरणोक्त-युक्तिमाह– मुक्तस्य सत्यकामत्वेनेति ॥ तत्रापीति ॥ सर्वशब्दविशेषितकामशब्दोक्तेषु विषयेष्वपीत्यर्थः । अनेन भाष्यगततत्रेतिपदमुक्ततात्यर्यं भवति ।

भावदीपः

भोगेयत्तेति ॥ भोगस्य मर्यादेत्यर्थः । एवं भोगेऽनुपपत्तिनिरासेन समर्थिते सत्यत्र तदियत्ता-चिन्तनमवसरप्राप्तमिति भावः । अन्यथा निरङ्कुशत्व इत्यर्थः । उक्तिर्जन्मादिसूत्र इत्यर्थः । सङ्कल्पादेव समस्तसम्भवात्सृष्ट्यादिकार्यसम्भव इत्यन्यत्रोक्तप्रतिज्ञामुक्त्वा भाष्यसूचितहेतुं तावदाह ॥ आप्नुवन्तीति ॥ श्रुतेर्निरवकाशतोपपादकत्वेन न्यायविवरणोक्तहेतुं व्यनक्ति ॥ न च सर्वेति ॥ अथाप्यस्तु सङ्कोच इत्यत आह ॥ सङ्कोच इति ॥ प्रकरणादि तु न कारणं बद्धस्यासामर्थ्येऽपि मुक्तस्य जगद्व्यापारसामर्थ्यसम्भवात् । मुक्तस्यापि जीवत्वेन बद्धवदसामर्थ्ये बाधकमाह ॥ अन्यथेति ॥ अत इति ॥ सत्यकामत्वयुक्त्या निरवकाशश्रुतिबलादित्यर्थः ॥ पूर्वपक्षं निराह ॥ नेति ॥ तस्य पर्यवसितार्थपरतया सृष्ट्यादिभ्योऽन्यानाप्नोतीति भाष्यं व्याचष्टे ॥ किं त्विति ॥ शङ्कोत्तरत्वेनापि समग्रभाष्यं व्यनक्ति ॥ सर्वानिति ॥ तत्रापीति ॥ सत्यकामत्वयुक्त्यनुसङ्गृहीत-श्रुतावपीत्यर्थः ॥ शेषं मत्वाह ॥ इत्यर्थोपपत्तेरिति ॥

अभिनवचन्द्रिका

भोगेयत्तासमर्थनादिति ॥ न मुक्तनां निरुपचरितसर्वकामावाप्तिर् अपि तु स्वयोग्यसर्वकामा-वाप्तिरिति समर्थनादित्यर्थः ॥ भगवत इति ॥ उपलक्षणमेतत् । मुक्तेषु तारतम्याभावप्रसङ्गाद् इत्यपि ग्राह्यम् ॥ सृष्ट्यादिव्यापारानिति ॥ इदं तु संदेहप्रदर्शनमुदाहरणमात्रम् । मुक्ताः स्वोत्तमैश्वर्यं लभन्ते न वेत्यपि ग्राह्यम् ॥ सिद्धान्तयत्सूत्रमिति ॥ ‘सर्वान्कामानाप्त्वा’ इति श्रुत्यर्थकथनेन मुक्तस्य जगव्द्यापारप्राप्ते र्निष्प्रामाणिकत्वसूचनमुखेन सिद्धान्तं सूचयत्सूत्रमुपन्यस्य व्याचष्ट इत्यर्थः । एतेन सूत्रे सिद्धान्तहेत्वनभिधानात् सूत्रस्य सिद्धान्तप्रापकत्वाभिधानमयुक्तमिति परास्तम् । सूत्रे प्रतिज्ञाऽभावात् प्रतिज्ञामध्याहरति – न मुक्तानामिति ॥ प्रतिज्ञया सूत्रं सङ्गमयितुं शङ्कते – सर्वान्कामानिति ॥ सत्यं तत्रापीति ॥ सत्यं सर्वकामावाप्तिः श्रुत्योच्यत इति तत्रापि तथापि सा श्रुतिर्नास्माकं बाधिका । तस्याः श्रुतेर् जगद्व्यापारवर्जमेव सर्वान् कामानाप्त्वेत्यर्थोपपत्तेरिति भावः । कुतः श्रुतेः सङ्कोच इति ॥ ‘सर्वान् कामानाप्त्वा’ इति श्रुतेः कुतो जीवपरत्वम् । जीवपरत्वेऽपि कुतः श्रुत्यर्थसंकोच इति तटस्थ आक्षिपतीत्यर्थः । परमसाध्यं निर्दिशति ॥ युक्त एवेति ॥ जीवपरत्वेऽपि कुतः श्रुत्यर्थसंकोच इति द्वितीयाक्षेपं परिहरति – जीवानां चेति ॥ प्रकरणात् श्रुत्युक्तो जीवः । असन्निहितत्वात्तु श्रुत्यर्थसंकोच इति सूत्रयोजना द्रष्टव्या । एतेन असन्निहितत्वादित्येतावतैव पूर्णत्वात् सूत्रे प्रकरणादिति व्यर्थं समुच्चयायोग इति च परास्तम् ॥ ता वा एता इति ॥ तावा एताः = प्रसिध्दाश् चतस्रः = ‘भूर्भुवःस्वर्महरिति चतुर्विध-व्याहृतिप्रतिपाद्या अनिरुध्दाद्या भगवन्मूर्तयः, प्रत्येकम् अनिरुध्दादिभेदेन चतुर्धा । या एताश् चतस्रः = अनिरुध्दाद्याश् चतस्रः = प्रत्येकमनिरुध्दादिभेदेन चतस्रः व्याहृतिप्रतिपाद्यः, ता एताः षोडश भगवन्मूर्तीः, यो वेद स ब्रह्म वेदेत्यर्थः ॥ अमुक्तज्ञानिनामिति ॥ अमुक्तस्वरूपं साकल्येन पश्यतां ज्ञानिनाममुक्तनिष्ठतया जगदैश्वर्याऽदर्शनान् नायं श्रुत्यर्थ इत्यर्थः । किमेतच्छ्रुतिबलेनाऽशेषमुक्तानां परमेश्वरवज् जगदैश्वर्यमुच्यते, उत हिरण्यगर्भस्यैवेति विकल्पं मनसि कृत्वा पक्षद्वयप्रतिषेधं युगपत्प्रतिजानीते – नैतच्छ्रुतिबलेनेति ॥ एतच्छ्रुतिबलेन हिरण्यगर्भस्य वा, अशेषमुक्तानां वा जगदैश्वर्यं न सिध्यतीत्यर्थः । प्रतिज्ञाद्वये युगपत् हेतुमाह– मुक्त-हिरण्यगर्भस्यैवेति ॥ अत्रायं विवेकः – हिरण्यगर्भमात्रविषयत्वाच्छ्रुतेर् नाऽनया सर्वेषां जगदैश्वर्यसिद्धिः । हिरण्यगर्भस्यापि मण्डलाधिपत्यप्रतिपादकत्वान् नाऽनया सर्वैश्वर्यसिद्धिरिति । आधिकारिकपदमिति ॥ श्रुत्यन्तरसिद्धस्य स्वावरनियामकत्वस्य सूचनायाऽऽधिकारिकपदमित्यर्थः ।

ननु मुक्तानामिति ॥ मुक्तेषु तारतम्यसद्भाव एव सर्वमिदमुपपन्नम् । भवेत् तदेव कुत इत्यतः प्रमाणोदाहरणेन तारतम्योक्तिपूर्वकं हिरण्यगर्भस्य सर्वनियामकत्वं देवानां स्वावरनियामकत्वं चाहाऽऽचार्यो भाष्यकार इत्यर्थः । आत्मत्वोपासकानां श्वेतद्वीपगमनोक्तिरयुक्ता । ‘योग्यत्वं चात्र विवक्षितम्’ इति गीताभाष्ये न सर्वेषां मुक्तानां श्वेतद्वीपावाप्तिः, किं तु अत्र श्वेतद्बीपावाप्तौ योग्यत्वं च विवक्षितमिति अभिधानादित्यत आह – योग्यत्वं चेति ॥ गीताभाष्ये निवासार्थमेव योग्यत्वमुक्तं ‘न तु दर्शनार्थमुक्तमिति न तद्विरोध इति भावः ॥ पृथिमीमारभ्येति ॥ पृथिवीमारभ्य केचिदत्रैव मुच्यन्ते’ इत्युक्तक्रमेण स्थितेषु यावत्सुस्थानेषु नारायणोऽस्ति तावत्सर्वस्थानेषु सालोक्याद्यस्त्येवेत्यर्थः । ननु नारायणावस्थानं न सालोक्यादिप्रयोजकं नरकादावपि तत्प्रसङ्गादित्यत आह– ईश्वरस्येति ॥ मुक्तप्राप्यत्वरूपविशेषस्य उक्तस्थानेष्वेवावस्थितेरत्रैव सालोक्यादीति भावः । अत एव मूले क्षीरसागर इति यावत्सु स्थानेषु नारायाणोऽस्ति तावत्सु सालोक्याद्यस्तीत्युक्तम् । अन्यथा क्षीरसागर इति पदं व्यर्थं स्याच् चकारेणेति ॥ ‘प्रत्यक्षोपदेशात्’ नेति नकारश् चकारेणाऽनुषज्यत इत्यर्थः ।

ननु किं चकारं प्रयुज्य तेन नकारानुकर्षणेन । नकार एव किं न प्रयुज्यते । न च सूत्रलाघवं भवति । चकारप्रयोगे वा नकारप्रयोगे वा साम्यात् । प्रत्युत चकारप्रयोगे प्रतिपत्तिगौरवमिति चेन्न । अनुवृत्यैव लभ्यस्य नकारस्य प्रयोगायोगात् । न च चकारवैयर्थ्यम् । चकाराप्रयोगे उत्तरसूत्रेषु नकारानुवृत्तिर्विज्ञायेत । तन्मा विज्ञायीति चकारप्रयोगः । ‘चानुकृष्टं न सर्वत्र’ इति नियमाच् चकारप्रयोगे उत्तरसूत्रेष्वनुवृत्त्यभावो विज्ञायते । यद्यपि उत्तरत्र नञोऽन्वयानुपपत्त्यापि अनुवृत्त्यभावो विज्ञातु शंक्यः, तथापि अन्तरङ्गज्ञापकाभाव एव बहिरङ्गमन्वेषणीयम् । इह तु शिष्यहितैषिणा सूत्रकृता अन्तरङ्गज्ञापकमुक्तम् । मानवमावर्तमिति पदद्वयेनोक्तमर्थं तद्वाचकप्रसिद्धपदस्य व्युत्पत्तिप्रदर्शनमुखेन ज्ञापयति – मानवा यत्रेति ॥ एतेन मानवावर्तमिति समस्तपदस्य मूलेऽभावात् तद्व्युत्पत्तिप्रदर्शनमयुक्तमिति परास्तम् ।

पूर्वपक्षस्तु मुक्ता अपि पारमेश्वरं जगद्वापारमाप्नुवन्ति । ‘सर्वान्कामानाप्नोति’ इति श्रुतेः । न च सर्वशद्बसंकोचः । बाधकाभावात् । अन्यथा सत्यकामत्वव्याघातः । कामिताऽप्राप्तौ दुःखप्रसङ्गश्च । अतो मुक्तानां जगज्जन्मादिकर्तृत्वाद् अयुक्तं लक्षणसूत्रमिति ।

सिद्धान्तस्तु न मुक्तनां सर्वकामावाप्तिः । प्रमाणाभावात् । न च ‘सर्वान्कामानाप्त्वा’ इति श्रुतिस्तत्र प्रमाणमिति वाच्यम् । योग्यसर्वकामाऽवाप्तेरेव श्रुत्यर्थत्वात् । ननु ‘सर्वान् कामानाप्त्वा’ इति श्रुतेर् ईश्वरपरत्वेन जीवपरत्वाभावान् नानया श्रुत्या मुक्तस्य जगद्वापारसिद्धिरित्येवोत्तरं युक्तमिति चेद् उच्यते सङ्कोचेनैवोत्तरं युक्तं, श्रुतेर्जीवपरत्वात् तत्कुत इति चेत्, ‘शरीरभेदादुत्क्रम्य’ इति जीवप्रकरणात् । अस्तु श्रुतेर् जीवपरत्वं, सङ्कोचः कुत इति चेज् जीवस्य तादृक्-सामर्थ्यविधुरत्वात् । ननु अस्त्येव मुक्तानां जगदैश्वर्यं, ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति प्रत्यक्षोपदेशादिति चेन्न । किमनया श्रुत्या सर्वमुक्तानां जगदैश्वर्यं सिध्यतीत्युच्यते, उत चतुर्मुखस्य । नाद्यः श्रुतेश्चतुर्मुखविषयत्वात् । नापि द्वितीयश् चतुर्मुखस्य मुक्ताऽऽधिकारिक-मण्डलाधिपत्यस्यैवाऽभिधानेन सर्वाधिपत्यानभिधानात् । ननु ब्रह्मादिदेवानां मुक्तनियामकत्वमात्रमेव कुतोऽङ्गीक्रियते संसारिनियामकत्वमपि किं न स्याद् इति चेत्, न ‘इमं मानवमावर्तं नावर्तन्त’ इति निषेधात् । अतो मुक्तानां जगद्व्यापाराभावाद् युक्तं लक्षणसूत्रमिति सिद्धम् ॥

वाक्यार्थमुक्तावली

यदि मुक्तानां सत्यकामत्वाविच्छया चिता वाचिता वा भोगस्तत एव सृष्ट्यादि-व्यापारोऽप्यस्त्वित्यत्याक्षेपोत्थानादनन्तरसङ्गतिः ॥ जगदिति ॥ अत्र मुक्ता जगत्सृष्ट्यादि-व्यापारानाप्नुवंत्युत नेति चिन्ता । तदर्थं तेषां सत्यकामत्वप्रतिपादकश्रुतौ सर्वशब्दस्य सङ्कोचे कारणं नास्त्युतास्तीति । सर्वान्कामानाप्त्वाऽमृत इति भाष्यसूचितं समस्तकार्यमिति पूर्वाधिकरण-सम्बन्धिनमेव पूर्वपक्षन्यायं प्रदर्शयिष्यन् न्यायार्थतया साध्यमाह ॥ आप्नुवन्तीति ॥ मुक्ताः समस्तं कार्यं सृष्टादिव्यापारमाप्नुवन्तीत्यर्थः । कुत इत्यतः समस्तकाम्यप्राप्त्याख्यकार्यश्रुतेरिति भावेनाह ॥ सर्वानिति ॥ ननु भवेच्छ्रुतिबलात्समस्तकामाप्तिः सृष्ट्यादिव्यापारावाप्तिस्तु कुतः समस्तस्य सृष्ट्यादिरूपव्यापाराख्यकार्यस्यापि समस्तकाम्यान्तर्भावादिति भावेनाह ॥ सृष्ट्यादीति ॥ कुतो न सङ्कोच इत्यतो मुक्तस्य समस्तकामितवत्वेन कामनायोग्यसृष्ट्यादिसमस्तकार्यप्राप्त्युपपत्तेरिति भावेनाह ॥ मुक्तस्येति ॥ विपक्षे बाधकपरत्वेनापि न्यायं विवृणोति ॥ अन्यथेति ॥ एतेन सम्यगस्तं निरस्तं व्याहतं कार्ये सत्यकामत्वाख्यं प्रसज्येतेति विवृतं भवति । सूत्रे मुक्तः जगद्व्यापारवर्जं सर्वकामानाप्नोतीत्यध्याहारं च मत्त्वा प्रवृत्तं सृष्ट्यादिभ्योऽन्यानाप्नोतीति भाष्यांशं तावद्व्याचष्टे ॥ न मुक्तानामिति ॥ तर्हि श्रुतिविरोध इत्याशङ्क्य तत्सावकाशत्वप्रतिपादनपरत्वेन सूत्रं व्याकुर्वन् कामानित्यादि समग्रभाष्यं व्याचष्टे ॥ सर्वानित्यादिना ॥ आप्नोतीत्यतः परम् इत्यर्थोपपत्तेरिति शेषः । ततश्च यद्यपि सर्वान् कामानाप्त्वाऽमृतः समभवदित्युच्यते । तथापि तत्र श्रुतावपि सृष्ट्यादिभ्योऽन्यानाप्नोतीत्यर्थोपपत्तेरिति भाष्यार्थः । सूत्रस्यापि जगद्व्यापारवर्जं सर्वान् कामानाप्त्वेति श्रुत्यर्थ इत्यध्याहारेणार्थ इति भावः ।

तत्त्वसुबोधिनी

भोगपक्षेऽपि भोगोपपत्युक्तिमत्तासमर्थनादिति । पूर्वाधिकरणे कारणनिर्णयेन परिहृतानु-पपत्तिकस्य भोगस्यात्रेयत्तासमर्थनादनन्तरसङ्गतिरिति भावः । सर्वान् कामानाप्त्वाऽमृतः समभावदिति भाष्योक्तयुक्तिमाह ॥ सर्वान् कामनिति ॥ सङ्कल्पादेव समस्तसम्भवादिति न्यायविवरणोक्तां युक्तिमाह ॥ मुक्तस्येति ॥ प्रकरणादसन्निहितत्वाच्चेति सूत्रनिरसनीयमाह ॥ सङ्कोच इति ॥ तत्रापीति सर्वशब्दविशेषितकामशब्दोक्तेषु विषयेष्वपि ।

वाक्यार्थविवरणम्

भोगेयत्तेति ॥ भोगे इयत्ता मर्यादेत्यर्थः ॥

वाक्यार्थमञ्जरी

इयत्ता मर्यादा कामान् काम्यान् ॥ अन्यथेति ॥ काम्यस्यापि सृष्ट्यादिव्यापारस्य लाभ इत्यर्थः ॥ ॐ जगद्व्यापारवर्जं ॐ ॥ मुक्तः जगत्सृष्ट्यादिव्यापारवर्जतदतिरिक्तानेव कामा-नाप्नोतीत्यर्थः ।


ॐ प्रकरणादसन्निहितत्वाच्च ॐ

सूत्रभाष्यम्

कुतः?–

॥ ॐ प्रकरणादसन्निहितत्वाच्च ॐ ॥ १८ ॥

जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । वाराहे च–

‘स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि ।

मुक्तानां नैव कामः स्यादन्यान्कामांस्तु भुञ्जते ॥

तद्योग्यता नैव तेषां कदाचित्क्वापि विद्यते ।

न चायोग्यं विमुक्तोऽपि प्राप्नुयान्न च कामयेत्’ इति ॥

तत्त्वप्रदीपिका

कुतः ‘सर्वान्कामान्’ इति श्रुतेरयमर्थः स्यादित्यत आह– प्रकरणादसन्निहितत्वाच्च ॥ ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वम् उत्क्रम्य’ इति जीवप्रकरणं ह्येतत् । न च तस्य तादृक् सामर्थ्यमस्ति । न च मुक्तो जगत्सृष्ट्यादीन्कामयति । विविदिषाकाल एवैतद्विरक्तिसंस्कारपाटवसम्भवात् ।

तत्त्वप्रकाशिका

कुतः श्रुतेः सङ्कोच इत्याक्षिपति ॥ कुत इति ॥ तत्परिहाराय सूत्रं पठित्वा व्याचष्टे ॥ प्रकरणादिति ॥ युक्त एव सर्वश्रुतेः सङ्कोचः । अत्र जीवस्योच्यमानत्वादस्य जीवप्रकरणत्वेन तदवगमाच्छरीरभेदादूर्ध्वमुत्क्रम्येति श्रवणाज्जीवानां च जगद्व्यापारशक्तिरहितत्वाद्बाधकवशा-त्सामान्यश्रुतेः सङ्कोचस्य न्यायप्राप्तत्वादिति भावः । तदयं प्रयोगः । न मुक्तो जगद्व्यापारशक्तिमान् । जीवत्वात् । सम्प्रतिपन्नवदिति । संसारिणां जगद्व्यापारशक्त्यभावेऽपि सत्यकामानां मुक्तानां तत्सम्भव इत्यत आह ॥ वाराहे चेति ॥

भावबोधः

‘प्रकरणादसन्निहितत्वाच्च’ इति सूत्रनिरसनीयमाह– सङ्कोच इति । अस्य जीवप्रकरणत्वं कुतो ज्ञायत इत्यत आह– शरीरभेदादिति ॥ असत्वकामत्वस्योपाधित्वशङ्कायां तन्निरासाय पक्षे साध्यग्राहिकां स्मृतिमवतारयति ॥ संसारिणामिति ॥ उपलक्षणं चैतत् । ‘व्यापारो जगतो विष्णौ मुक्तानां दुःखभोगगः’ इति न्यायविवरणोदाहृतश्रुतिरस्मिन्नर्थे मानमिति बोध्यम् ।

भावदीपः

पूर्वभाष्येणान्वयं सूचयन् हेतुं स्वयमध्याहृत्य तदुपपादकत्वेन जीवेत्यादिभाष्यं व्यनक्ति ॥ युक्त एवेति ॥ सर्वेति ॥ सर्वानिति श्रुतेः ॥ अत्रेति ॥ श्रुतावित्यर्थः । इति श्रवणाद् ऐतरेय इत्यर्थः । तस्य शरीरभेदादूर्ध्वमुत्क्रम्येति पाठेऽपि अनुपयोगादूर्ध्वपदानुक्तिः ॥ सामान्येति ॥ सर्वानिति श्रुतेः । प्रकरणादिति हेतोः सामर्थ्यवैधुर्यरूपसाध्ये साक्षादनन्वयादुत्तरोपयोगायाह ॥ तदयं प्रयोग इति ॥ जीवनकरणं हेतुरिति भावः । सम्प्रतिपन्नो बद्धजीवः । हेतोरप्रयोजकत्वशङ्कानिरासकतया स्मृतिमवतारयति ॥ संसारिणामिति ॥ इत्यत आहेति ॥ विपक्षे स्मृतिविरोध इति भावः ।

वाक्यार्थमुक्तावली

कुत इति ॥ कुतो बाधकादित्यर्थः । सर्वान् कामानाप्त्वाऽमृत इत्युक्तो न जगद्व्यापारशक्तिमान् जीवत्वादित्यनुमानं बाधकमिति मनसि निधाय यत्र जीवत्वं तत्र जगद्व्यापारशक्तिविदूरत्वं यथा संसारीति । संसारिणां ब्रह्मादीनामतीतानागतजगद्व्यापृतिशक्तिरस्ति । ‘प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव’ इति श्रुतेरित्यर्थमभिप्रेत्य व्याप्तिकथनाय जीवानामसन्निहितत्वा-ज्जगद्व्यापारशक्तिविदूरत्वादित्युक्तम् । अप्रयोजकत्वमाशङ्क्य यदि मुक्तो जगद्व्यापारशक्ति-मांत्स्यात्तर्हि जीवो न स्यात् । न चेष्टापत्तिः प्रकरणाज्जीवत्वावगमादिति भावेन प्रकरणादित्युक्तम् । अप्रयोजकत्वशङ्कापरिहारेण व्याप्तिकथनस्य समुच्चयार्थं चशब्दः । जगद्व्यापारवर्जमेव सर्वान् कामानाप्त्वेति श्रुत्यर्थ इति प्रतिज्ञांशस्यात्रानुवृत्तेश्चेति भावेन व्याचष्टे ॥ युक्त एवेत्यादिना ॥ जीवप्रकरणत्वं कुत इत्यत उक्तम् ॥ शरीरेति ॥ स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्येति जीवलिङ्गश्रवणादित्यर्थः । ततश्चायं सूत्रार्थः । युक्त एव जगद्व्यापारवर्जं सर्वान् कामानाप्त्वेति सङ्कोचः । अत्रोक्तस्य प्रकरणाज्जीवत्वाज्जीवानां च तादृशशक्तिविदूरत्वाच्चेति अनुमानस्या-सत्यकामत्वमुपाधिरित्याशङ्क्य तन्निरासाय पक्षे साध्यग्राहिकां सत्यकामत्वेऽपि स्वयोग्यविषय एव कामो नायोग्य इति विशेषक्लृप्त्याख्यसिद्धान्तन्यायस्फोरिकां चशब्दसूचितां स्मृतिमवतारयति ॥ संसारिणामिति ॥

तत्त्वसुबोधिनी

अत्र जीवस्योच्यमानत्वं कुत इत्यत आह ॥ अस्येति ॥ अस्य जीवप्रकरणत्वात् । कुतो ज्ञायत इत्यत आह ॥ जीवानामिति ॥ असत्यकामत्वस्योपाधित्वशङ्कायां तन्निरासपक्षे साध्यग्राहिकां स्मृतिमवतारयति ॥ संसारिणामिति ॥

वाक्यार्थविवरणम्

सम्प्रतिपन्नवदिति ॥ संसारिजीववदित्यर्थः ॥ संसारिणामिति ॥ तथा चोक्तानुमाने संसारित्वमुपाधिरिति भावः ॥ इत्यत आहेति ॥ आगमेन पक्ष एव साध्यनिश्चयेन तत्रैव साध्यव्यापकत्वभङ्गान्न तस्य उपाधित्वमित्याहेत्यर्थः ।

वाक्यार्थमञ्जरी

अस्य जीवप्रकरणत्वाज्जीवानां च जगद्व्यापारे असन्निहितत्वात् सामर्थ्यरहितत्वाच्चेत्यर्थः । सर्वश्रुतेः सर्वशब्दस्य अस्य जीवप्रकरणत्वं कुतो ज्ञायत इत्यत आह ॥ शरीरभेदादिति ॥ शिरोमध्यविदारणाद्देहादुत्क्रम्येत्यर्थः ।


ॐ प्रत्यक्षोपदेशादिति चेन्नाऽऽधिकारिकमण्डलस्थोक्तेः ॐ

सूत्रभाष्यम्

॥ ॐ प्रत्यक्षोपदेशादिति चेन्नाऽऽधिकारिकमण्डलस्थोक्तेः ॐ ॥ १९ ॥

‘ता यो वेद, स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावहन्ति’ इति प्रत्यक्षोपदेशा-ज्जगदैश्वर्यमप्यस्तीति चेन्न । आधिकारिकमण्डलाधिपतिर्ब्रह्मा हि तत्रोच्यते ।

गारुडे च–

‘आत्मेत्येव परं देवमुपास्य हरिमव्ययम् ।

केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ॥

अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन ।

केचित्स्वर्गे महर्लोके जने तपसि चापरे ॥

केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् ।

तत्रापि क्रमयोगेन ज्ञानाधिक्यात्समीपगाः ॥

सालोक्यं च सरूपत्वं सामीप्यं योगमेव च ।

इमामारभ्य सर्वत्र यावत्सु क्षीरसागरे ॥

पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः ।

मानुषा वर्णभेदेन तथैवाऽऽश्रमभेदतः ॥

क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।

आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः ॥

रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तमोत्तमाः ।

नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च ।

सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् ॥

पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः ।

स्वजगद्व्यापृतिस्तेषां पूर्ववत्समुदीरिता ॥

सयुजः परमात्मानं प्रविश्य च बहिर्गताः ।

चिद्रूपान्प्राकृतांश्चापि विना भोगांस्तु कांश्चन ।

भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृता’ इति ॥

तत्त्वप्रदीपिका

प्रत्यक्षेत्यादिसूत्रम् ॥ ‘तावा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति’ इति ब्रह्मविदो मुक्तस्य प्रत्यक्षमेव सर्वदेवपूज्यत्वोपदेशाज् जगदैश्वर्यमस्ति, कुतस्तस्य सृष्ट्यादिकं न स्यादिति चेन्न । मोक्षाधिकारिणां पदस्थानां च सतां मुक्तानां मण्डलस्याधिपतिर्ब्रह्मा हि तत्रोच्यते । न मुक्तमात्रम् । तेषां मोक्षेऽपि नियमनाधिकारो ब्रह्मणः । तस्माच्चाऽधिकारिका उच्यन्ते । तत्र तत्र स्थित्वा तद्भोगांश्च भुङ्क्त इति तत्स्थ इति सूत्रितम् । अत्र हि श्रुतौ ‘भूर्भुवःस्वरिति वा एतास्तिस्रो व्याहतयस् तासामुह स्मै तां चतुर्थीं माहाचमस्यः प्रवेदयते मह इति’ इत्युपक्रम्य भूर्लोकादिषोडस्थानस्थस् तत्तन्नामकश्च नामप्रवृत्ति-हेतुत्वान्नारायणो माहाचमस्यनाम्ना ब्रह्मणा विज्ञायत इत्युच्यते । स एव तद्विद्वां ‘स्तायो वेद स वेद ब्रह्मा’ इति परामृश्यते । उक्तं च व्याहृतितत्वे–

‘लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः ।

प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥

महाचमसनामाऽसौ यस्मादतिचमत्कृतिः ।

माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः ॥

एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः ।

स एव ब्रह्मवित्तस्मात्पूज्यते मुक्तिगोऽपि सन् ॥

सर्वदेवैरतितरां यः सम्यक् षोडशात्मवित्’ इति ॥

‘भूर्नामा स्फूर्तिरूपत्वाद्भूरिवीर्यत्वतो भुवः ।

सुवः सुबहुरूपत्वान्महः पूर्णत्वतो विभुः ॥

तदेतच्चतुराकारं ब्रह्मोक्तं गुणबृंहणात् ।

स आत्मा सर्वदेवानां चतुरात्मा जनार्दनः ॥

तस्य ब्रह्मादयो देवा अङ्गमागन्तुकत्वतः ।

वासुदेवादिरूपोऽसौ षोडशात्मा चतुश्चतुः ॥

स एव सर्ववेदेक्तो सर्वविद्यासु चेश्वरः ।

प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः ॥

इतिहासपुराणं च पञ्चरात्रं च सर्वशः ।

सम्यग्व्याहरणाद्विष्णोः श्रुता व्याहृतयस्त्विति ॥

सर्ववेदोक्तसर्वस्वव्याहृतेर्व्याहृतित्वमु ।

विशेषेणाऽहरन्तीमं विष्णुमित्यथवा स्मृता’ इति व्याहृतिसारे ॥

‘केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन’ इति, सृष्टौ सकृत् श्वेतद्वीपगमनात्परमस्मा-द्देशान्नोत्क्रामन्तीत्यर्थः । अन्यथा ‘बहुनाऽत्र किमुक्तेन’ इत्यादि वचनविरोधात् । तदोकोग्र-ज्वलनमित्यादिना ज्ञानिनो देहदेशनिर्गमस्योक्तत्वाच्च । स्वजगद्व्यापृतिः स्वप्रतिबिम्बमुक्तजीवेषु व्यापारः ॥

तत्त्वप्रकाशिका

मुक्तस्य जगदैश्वर्याभावमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे ॥ प्रत्यक्षेति ॥ अस्त्येव मुक्तानां जगदैश्वर्यम् । ‘ता वा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयस् ता यो वेद स वेद ब्रह्म सर्वेऽस्मै देवा बलिमावहन्ति’ इति स्फुटं मुक्तस्याखिलदेवतापूज्यत्वादिश्रवणात् । न च तदमुक्तविषयम् । अमुक्तज्ञानिनां तददर्शनादिति भावः । परिहारांशं व्याचष्टे ॥ नेति ॥ नैतच्छ्रुतिबलेनाशेषमुक्तानां जगद्विषयैश्वर्यसिद्धिः । मुक्तहिरण्यगर्भस्यैव मुक्ताधिकारिकदेवता-पूज्यत्वाभिधायकत्वात् । ‘माहाचमस्य प्रवेदयत’ इत्युपक्रमादिति भावः । अन्यदेवानामपि मुक्तस्वावरप्रेरणाधिकारित्वमस्तीति सूचनायाधिकारिकपदम् । ननु मुक्तानां देवानां स्वावरमुक्त-नियामकत्वं हिरण्यगर्भस्याशेषमुक्तनियामकत्वमित्येतत्कुत इति तत्राह ॥ गारुडे चेति ॥ न चानेनानन्दादयः प्रधानस्येत्युक्तिविरोधः । तदुपासनस्य सम्पूर्णमोक्षार्थत्वात् । अत्र ‘नोत्क्रामन्ति’ इति सम्पूर्णमोक्षाभावोक्तेः । न च ‘बहुनात्र किमुक्तेन’ इत्युक्तिविरोधः । सकृच्छ्वेतद्वीप-गमनाभ्युपगमात् ।

‘श्वेतं द्वीपं तथा गत्वा दृष्ट्वा विष्णुं च ते ततः ।

अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु’ । इति वचनात् ।

योग्यत्वं चात्र विवक्षितमित्येतदपि तत्रावस्थानायेति गमयितव्यम् । भूम्यादिषु मुक्तस्थितौ न मोक्षोऽयं स्यात् । सालोक्यादिचातुर्विध्यानन्तर्भावादित्यत आह ॥ सालोक्यं चेति ॥ पृथ्वीमारभ्योक्तक्रमेण यावन्नारायणस्तावत्सर्वस्थानेष्वपि सालोक्याद्यस्त्येव । ईश्वरस्य सर्वत्रावस्थितेरिति भावः । मानुषा इत्यादि तेषां तारतम्यकथनम् ॥

गुर्वर्थदीपिका

माहाचमस्यः प्रवेदयत इत्युपक्रमादिति वदता महाचमसविद्याधिकारित्वं चतुर्मुखस्यैवेति सूचितम् । किं च ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इत्यत्रोक्तं सर्वदेवपूज्यत्वं न सर्वदेवावराणाम् ऋष्यादीनां नापि सर्वदेवानां घटते । नीचानामुच्चपूज्यत्वायोगादात्माश्रयाच्च । अस्मा इत्येकवचना-योगाच्च । अतः परिशेषाच्चतुर्मुख एवेति सिद्ध्यति । टीकाकृता आदिपदसङ्गृहीतश्रुतौ ऋतस्य परमात्मनो नाभौ प्रथमजोऽहमस्मीति चतुर्मुखलिङ्गाच्चेत्यपि द्रष्टव्यम् । पूज्यत्वादिश्रवणा-दित्यत्रादिपदेन ‘अहमस्मि प्रथमजा ऋतस्य’ इति वक्ष्यमाणं सर्वदेवेभ्यः प्रथमोत्पन्नत्वं सर्व-भुवनाभिभावकत्वं च गृह्यते । अस्यापि मुक्तविषयत्वादिति शङ्कितुराशयः । मुक्तहिरण्यगर्भस्यै-वेत्यत्र मुक्तहिरण्यगर्भस्य सकलमुक्तोपास्यत्ववज्जगत्स्रष्टृत्वादिकमपि तस्यैव स्यादिति न शङ्कनीयम् । स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादिति सृष्ट्यादिव्यापारस्य निषिद्धत्वेनानिषिद्धश्रौतमात्राङ्गीकारेऽपि निषिद्धाश्रौतस्वीकारस्य तन्न्यायेनाप्यप्राप्तेः ।

आधिकारिकमण्डलाधिपतिरिति वदता भाष्यकारेण अधिकारिमण्डलसम्बन्धी आधिकारिक-मण्डलः । सम्बन्धश्च स्वामिभृत्यभावरूप इति सूचितम् । नोत्क्रामन्ति कदाचनेत्यस्येतर-मुक्तवदेकवारं ब्रह्मनाङ्योत्क्रमणेन मुक्तौ सत्यां पुनः स्वयोग्यस्थानस्थित्यनन्तरं नोत्क्रामन्ति नोर्ध्वं गच्छन्तीत्यर्थः । अत एव अत्रैव च स्थितिस्तेषामित्युक्तम् । अन्यथा लिङ्गशरीरभङ्गाभावा-न्मुक्तिरेव न स्यादित्यर्थः । न चानेनेत्यत्रानेन परं देवमात्मेत्येवोपास्यात्रैव मुच्यन्त इत्यनेन आनन्दादयः प्रधानस्येत्युक्तविरोधः । तत्र चतुर्गुणत्वोपास्तेः कथितत्वादत्रैकगुणोपास्तेरेव कथि-तत्वाद्विरोध इति शङ्काग्रन्थार्थः । समाधानं तु मानुषेष्वपि गुणचतुष्टयोपासकाः सर्वत्र सञ्चार-योग्यत्वात्सम्पूर्णमुक्ताः । आत्मत्वमात्रोपासकास्तु नोत्क्रामन्ति कदाचेनेत्युक्त्या मेरुसर्पणा-समर्थत्वादसम्पूर्णमुक्ता इति । वस्तुतस्तु शङ्कैवेयमुक्तविस्मरणशीलस्य मन्दस्यैव । प्राप्तेस्तु समञ्जसमिति प्रागुक्तसूत्रार्थविमर्शे सत्यात्मेत्येवोपासनेऽपि स्वयोग्यगुणचतुष्टयलाभेन विरोधस्यैवा-भावात् । समाधानमप्यस्तु वा ज्ञाततेतिवत्प्रौढवादेनैव नाभ्युपगमवादेन । आनन्दादिगुणचतुष्टयाभावे मुक्तावानन्दाभावप्रसङ्गात् ‘सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः । यथाक्रमं बहुगुणैर्ब्रह्मणा त्वखिलैर्गुणैः’ इत्यधिकारिभेदेनोपासनात्रैविध्यं विभजतो ग्रन्थकारस्य आत्मत्वाख्यैकगुणोपास्तेर-सम्मतत्वाच्चेति विवेको द्रष्टव्यः । न चायोग्यं विमुक्तोऽपीत्यनेन योग्यमेव कामयत इति सूचितम् । तस्य तात्पर्यमाह ॥ योग्यत्वं चात्र विवक्षितमिति ॥ सालोक्याद्यस्त्येवेत्यत्र सर्वगतभगवन्मूर्त्या सह स्थितत्वमात्रेण सालोक्यादिकमिव सालोक्यादिकम् । मुख्यं तु सालोक्यादिकं वैकुण्ठ-श्वेतद्वीपानन्तासनाख्यभगवल्लोकस्थितमूर्तिविशेषापेक्षयैव ‘आदघ्नास उपकक्षास उ त्वे हृदा इव स्नात्वा उ त्वे ददृश्र’ इति श्रुतेरिति ज्ञेयम् ।

भावबोधः

स्फुटमिति ॥ अनेन सूत्रभाष्यगतं ‘प्रत्यक्ष’पदमुक्ततात्पर्यं भवति । ‘ता यो वेद’ इति श्रुतौ तच्छब्दपरामृष्टं दर्शयितुं ‘ता वा एताः’ इति पूर्ववाक्योदाहरणमिति ज्ञातव्यम् । ‘महाचमस्य’ इत्युपक्रमादिति ।

‘महाचमसनामासौ यस्मादतिचमत्कृतिः ।

महाचमस्यस्तज्ज्ञानी ब्रह्मा संपरिकीर्तितः ॥’

इति प्रमाणान् महाचमस्यशब्दस्य हिरण्यगर्भवाचकत्वादिति भावः । सूचनायाधिकारिक-पदमिति । मुक्तदेवेषु नियामकत्वार्थकाधिकारिकपदप्रयोगेण स्वावरनियामकत्वं सूचितमिति भावः ॥ गारुडे चेति ॥ उपलक्षणं चैतत् ।

‘मुक्तानां न जगद्यत्नस्तथापि विबुधाः सदा ।

मुक्तानां तु नियन्तारस्तेषां ब्रह्मास्य वै हरिः ॥’

इति न्यायविवरणोदाहृतमप्यत्र मानम् ॥ न चानेनेति ॥ ‘आत्मेत्येव परं देवम्’ इत्यात्ममात्रोपासनप्रतिपादकेनेत्यर्थः । ‘महाज्ञाना गच्छन्ति क्षीरसागरम्’ इत्युक्त्या तदतिरिक्तानां क्षीरसागरस्थश्वेतद्वीपगमनं नास्तीत्यायातम् । तत्र विरोधमाशङ्क्य परिहरति– न च बहुनात्रेति ॥ सर्वमुक्तानां श्वेतद्वीपगमनाङ्गीकारे गीताभाष्यविरोधं तदभिप्रायकथनेन परिहरति– योग्यत्वं चेति ॥ ‘अत्रैव च स्थितिस्तेषाम्’ इत्यवस्थानस्यैव प्रकृतत्वादिति भावः । अत एव गीताभाष्यटीकायाम् ‘निवासः’ इति शेषपूरणेनैतद्व्याख्यातम् ॥ उक्तक्रमेणेति ॥ ‘अत्रैव च स्थितिस्तेषामन्तरिक्षे च केचन’ इत्याद्युक्तक्रमेणेत्यर्थः ॥

अत्राद्ये– जगद्व्यापारादिव्यतिरिक्ततत्तद्योग्यकतिपयकामावाप्तिप्रतिज्ञा । तदुपपादनाय द्वितीये– ‘सर्व’शब्दस्य सङ्कुचितार्थे हेतूक्तिः । तृतीये– जगद्व्यापाराभावाक्षेपसमाधानम् । चतुर्थे– तत्सूत्रोक्तविरिञ्चोपलक्षितदेवादीनां भोगमर्यादोक्तिरिति सूत्रक्रमः ॥

भावदीपः

व्युत्क्रमेण भाष्यं व्याचष्टे ॥ अस्त्येवेति ॥ ता यो वेदेति तच्छब्दार्थव्यक्त्यर्थं पूर्वशेषमाह ॥ ता वा इति ॥ चतस्रः भूर्भुवः सुवर्महरिति चतस्रो व्याहृतयो व्याहृतिशब्दवाच्या अनिरुद्धादि-भगवद्रूपविशेषाश् चतुर्धा प्रत्येकमनिरुद्धादिभेदेन चतुर्धा भवन्ति । एवं चतस्रश् चतस्रः षोडशरूप-विशेषा व्याहृतिशब्दिता इत्यर्थः । प्रत्यक्षेत्यस्य स्फुटमित्यर्थः । श्रुतेः सावकाशत्वं निराह ॥ न चेति ॥ नेत्यादिभाष्यं व्याचष्टे ॥ नैतदिति ॥ इत्युपक्रमादिति ॥

लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः ।

प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ।

महाचमसनामासौ यस्मादतिचमत्कृतिः ।

माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः ॥

इति तैत्तिरीयभाष्योक्तस्मृत्या चतुर्मुखोपक्रमादित्यर्थः । वक्ष्यमाणस्मृत्युपयोगायाह ॥ अन्य-देवानामित्यादि ॥ अधिकारे नियुक्ता आधिकारिकाः । तत्र नियुक्त इति ठक् ॥ अनेनेति ॥ आत्मत्वमात्रोपासनकथनेनेत्यर्थः । तदुपासनस्य चतुर्गुणोपासनस्येत्यर्थः ॥ सम्पूर्णेति ॥ चतुर्विधेत्यर्थः ।

अत्र नोत्क्रामन्तीत्यस्य विवरणम् ।

केचित्तु मानुषामुक्तिमनुत्क्रम्यैव देहतः ।

देहपाते तु देहस्य दोषान् भुक्त्वैव सर्वशः ।

मरणोच्छूनतादींस्तु स्वकीयारब्धकर्मजान् ।

देहे जीर्णे तु गच्छन्ति दृष्ट्वा विष्णुमनुज्ञया ।

पुनरत्रैव तिष्ठन्ति नित्यानन्दैकभोगिनः ॥

इति बृहद्भाष्योक्तदिशा ध्येयम् । तत्वप्रदीपे तु नोत्क्रामन्तीत्यस्य सृष्टौ सकृच्छ्वेतद्वीपगमना-त्परस्माद्देशान्नोत्क्रामन्तीत्यर्थः । अन्यथा बहुनात्रेति वचनविरोधात् । तदोकोग्रज्वलनमित्यादिना ज्ञानिनो देहदेशनिर्गमनस्योक्तत्वाच्चेत्युक्तम् । अत्रैव मुच्यन्त इत्याद्युक्त्या योग्यत्वं चात्र विवक्षितमिति द्वितीयगीताभाष्योक्त्या अत्रापि महाज्ञाना गच्छन्ति क्षीरसागरमिति महाज्ञानवत्त्व-रूपयोग्यत्वस्य क्षीराब्धिप्राप्तिहेतुत्वोक्त्या च सर्वेषां श्वेतद्वीपगत्यप्राप्तेराह ॥ न च बहुनेति ॥ बहुनात्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यादिति द्वितीये गीताभाष्योक्ति-विरोध इत्यर्थः ॥ इति वचनादिति ॥ द्वितीये छान्दोग्यभाष्योक्तादिति ज्ञेयम् । यत्तु द्वितीये गीताभाष्ये ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात्तत्र यान्ति योग्यत्वं चात्र विवक्षितमित्युक्तम् । कथं सर्वेषां श्वेतद्वीपगमनं युक्तं स्यादित्यत आह ॥ योग्यत्वं चेति ॥ महाज्ञानत्वलक्षणं योग्यत्वं चात्र क्षीराब्धौ निवासे विवक्षितम् । न तु गतिमात्रमित्यविरोध इत्यर्थः । गच्छन्तीत्युपलक्षणम् । तिष्ठन्तीत्यपि स्मृतौ बोध्यमिति भावः । इमामारभ्येत्यस्यार्थः पृथिवीमारभ्येति ॥ उक्तेति ॥ अन्तरिक्षे तु केचनेत्युक्तप्रकारेणेत्यर्थः ॥ सालोक्यादीति ॥ समानलोकस्थत्वं सालोक्यम् । सारूप्यं च श्यामावदाताः शतपत्रलोचनाः पिशङ्गवासाः सुरुचः सुपेशसः । चतुर्भुजा इत्यादि-भागवताद्युक्तरूपम् । सायुज्यं च भुञ्जते पुरुषं प्राप्य यथा चैव ग्रहादयः । तथा मुक्तावुत्तमायां बाह्यान् भोगांस्तु भुञ्जत इति गीताभाष्याद्युक्तरूपं ज्ञेयम् । सामीप्यं तु व्यक्तम् ।

वाक्यार्थमुक्तावली

नेति वक्ष्यमाणं पूर्वपक्षांशेऽप्याकृष्यते । जगद्व्यापारवर्जं सर्वान् कामानाप्त्वेति न किंत्वस्त्येव मुक्तानां जगदैश्वर्यं प्रत्यक्षोपदेशात् । प्रत्यक्षं स्पष्टं मुक्तस्याखिलदेवतापूज्यत्वोपदेशादिति चेन्न । ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इत्यत्राधिकारिकमण्डलस्थत्वोक्तेर् मुक्तावपि स्वावरनियमने अधिकृता आधिकारिका मुक्ताधिकारस्था देवास्तेषां मण्डलं स्थापयतीति वा मण्डले नियामकतया तिष्ठतीति वाऽधिकारिकमण्डलस्थस्तदधिपतिर्मुक्तो ब्रह्मा तस्य च मुक्ताधिकारिकत्व-देवतापूज्यत्वोक्तेरिति सूत्रार्थं हृदि निधायाह ॥ अस्त्येवेत्यादिना ॥ तावा एता इति श्रुतेरयमर्थः । व्याहृतय इति प्रथमं सम्बध्यते । ता वा एताश्चतस्रो व्याहृतयः व्याहृतिप्रतिपाद्यास्तन्नामिकाश्चतस्रो वासुदेवादिमूर्तयः प्रत्येकं चतुर्धा व्यस्ताश्चतस्रश्चतस्रः षोडशमूर्तीर् यो वेद स एव ब्रह्म वेद । अस्मै षोडशात्मविदे सर्वे देवा बलिमावहन्तीति ॥ महाचमस्य इति ॥

महाचमसनामासौ यस्मादतिचमत्कृतिः ।

महाचमस्यस्तज्ज्ञानी ब्रह्मा संपरिकीर्तितः ॥

इति प्रमाणान्महाचमस्यशब्दस्य हिरण्यगर्भवाचित्वादिति भावः । सूत्रे मुक्तदेव मण्डल-स्थोक्तेरित्यनुक्त्वा आधिकारिकपदप्रयोगनियामकमाह ॥ अन्यथेति ॥ नन्वात्मेत्येवेत्येकगुणो-पासनेन कथं मुक्तिरुच्यते । आनन्दादयः प्रधानस्येति मोक्षार्थमानन्दादीनामुपास्यत्वस्योक्त-त्वादित्याशङ्क्य निराकरोति ॥ न चेति ॥ न चैवं देवानामप्युपास्त्यभावप्रसङ्ग इति वाच्यम् । तेषामप्यंशेनोपास्त्यादिसद्भावात् । देवतापदप्राप्तेरव्यवहितपूर्वजन्मन्युत्क्रान्त्यादिसद्भावादिति दिक् । अत्र केचिदाचक्षते । आत्मेत्युपलक्षणम् । आनन्दादयो ग्राह्याः । टीका तु प्रौढवादेन प्रवृत्तेति । ननु–

बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।

योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥

इत्युक्तत्वाद् अत्रैव च स्थितिर् महाज्ञाना गच्छन्ति क्षीरसागरमिति कथमुच्यत इत्या-शङ्क्यापाकरोति ॥ न चेति ॥ सकृच्छ्वेतद्वीपं गत्वा धरादिकं प्रत्यागमनानन्तरमत्रैव स्थितिरित्यर्थ इति भावः । तर्हि गीताभाष्यविरोध इत्यत आह ॥ योग्यत्वं चेति ॥ अत एव गीताभाष्यटीकायां निवास इति शेषव्याख्यानम् ॥ पृथिवीमारभ्येति ॥ इमां पृथिवीमारभ्य केचिदत्रैव मुच्यतेऽन्तरिक्षे स्वर्गे महर्लोके जने तपसि सत्ये सुक्षीरसागरे शोभनक्षीरसमुद्रे चेत्युक्तक्रमेण यावद् यावत्सु स्थानेषु नारायणस्तिष्ठति । यद्वा यावत्सु स्थानेषु नारायण इति । अस्मिन्पक्षे क्षीरसागर इति पदम् । तावत्सु सर्वेष्वपि स्थानेषु सालोक्याद्यस्तीति भावः ॥ तारतम्यकथनमिति ॥ ज्ञानाधिक्या-त्समीपगा इत्युक्ततारतम्यकथनमित्यर्थः । यद्वा वक्ष्यमाणपूज्यपूजकभावोपपादनाय तारतम्य-कथनमित्यर्थः । स्वजगद्व्यावृत्तिः स्वप्रतिबिंबभूतजीवेषु व्यापार इति तत्वप्रदीपे । कांश्चन भोगान्विना स्वोत्तमैकभोगान्विनेत्यर्थः ।

तत्त्वसुबोधिनी

ननु ‘ता वा एता’ इति वाक्यं मुक्तस्याखिलपूज्यत्वप्रवियादमिति तु मुक्तानां जगदैश्वर्यमित्यत आशङ्क्य निषेधति ॥ न च तदिति ॥ स्फुटमिति ॥ अनेन सूत्रभाष्यगमने प्रत्यक्षमुक्ततात्पर्यक ता यो वेदेति श्रुतौ तच्छब्दापसमृष्टतर्षयितुं पूर्ववाक्योदाहरणमिति ज्ञातव्यम् ॥ माहाचमस्येत्युप-क्रमादिति ॥ ‘महाचमसनामासौ यस्मादतिचमत्कृतिः । महाचमस्य तद्ज्ञानी ब्रह्मा सम्प्रकीर्तितः’ इति प्रमाणान् महाचमस्यशब्दस्य हिरण्यगर्भवाचकत्वादिति भावः ॥ सूचनायाधिकारिक-पदमिति ॥ मुक्तदेवेषु नियामकत्वार्थकाधिकारिकपदप्रयोगेण स्वावरनियामकत्वं सूचितमिति भावः ॥ न चानेनेति ॥ आत्मेत्येव परं देवम् इति आत्मत्वमात्रोपासनाप्रतिपादकेनेत्यर्थः । महाज्ञाना गच्छन्ति क्षीरसागरमित्युक्त्या तदतिरिक्तानां क्षीरसागरस्यैतद्वीपगमनं नास्तीत्यायातम् । तच्च विरुद्धम् । बहुनात्र किमुक्तेनेत्यत्र सर्वेषामपि ज्ञानिनां श्वेतद्वीपगमनस्योक्तत्वादित्यांशक्य निषेधति ॥ न च बहुनात्रेति ॥ तत्र सर्वमुक्तानां श्वेतद्वीपगमनाङ्गीकारे योग्यत्वं चात्र विवक्षितमिति गीताभाष्य विरोधः । तत्र हि न सर्वज्ञानिनां श्वेतद्वीपगमनं किं तु योग्यानामेवेत्यर्थस्याभिप्रेतत्वात् सम्पूर्णमोक्षशून्यानां च योग्यताया अभावान्न तत्र गमनमित्यतस् तदभिप्रायकथनेन तद्विरोधं परिहरति । योग्यत्वं चात्र विवक्षितमिति एतदपि तत्रावस्थानायेति गमयितव्यमिति इत्येतदपि वाक्यं तत्र श्वेतद्वीपे अवस्थानमयोग्यत्वं विवक्षितमित्येवम् अर्थपरतया ज्ञातव्यम् । न तु तत्र गमनार्थं योग्यत्वं विवक्षितमित्यर्थपरतया अत्रैवावस्थितिः । तेषामित्यवस्थानस्यैव प्रकृतत्वात् तथा च न तद्विरोध इत्यर्थः । अत एव गीताभाष्यटीकायां निवास इति शेषपूरणेनैतद्वाक्यं व्याख्याति ॥ उक्तक्रमेणेति ॥ अत्रैव च स्थितिस्तेषामन्तरिक्षे च केचनेत्युक्तक्रमेणेत्यर्थः । सजगद्व्यापृतिरित्यस्यां स्मृतौ पूर्ववदित्यस्य मुक्तानां पूर्ववत् संसारावस्थायां स्वावरनियामकत्वाज् जगद्व्यापृतिः समुदीरिता इत्यर्थः । तद्रूपानित्यस्य तद्रूपान् आनन्दादिभोगान् विना प्राकृतानपि भोगान्विना कांश्चनाल्पान् स्वयोग्यभोगान् भुञ्जत इत्यर्थः ।

वाक्यार्थविवरणम्

बलिं पूजाम् । तददर्शनादिति ॥ अखिलदेवतापूज्यत्वादर्शनादित्यर्थः ॥ मुक्ताधि-कारिकेति ॥ मुक्ता या आधिकारिकदेवता इति विग्रहः ॥ महाचमस्य इति ॥ महाचमस्य ब्रह्मण एवोपक्रमादित्यर्थः ।

महाचमसनामासौ यस्मादतिचमत्कृतिः ।

महाचमस्यस्तज्ज्ञानी ब्रह्मा संपरिकीर्तितः ॥

इति वचनादिति भावः । महाचमस्यो ऽतिचमत्कारेणातिशीघ्रं कर्तेत्यर्थो द्रष्टव्यः ॥ आधिकारिकपदमिति ॥ मुक्तदेवेषु नियामकत्वार्थकमाधिकारिकपदमित्यर्थः ॥ उक्तिविरोध इति ॥ तथा च ‘आत्मेत्येव परं देवमुपास्य’ इत्युक्तं तदयुक्तमिति भावः ॥ तदुपासनस्येति ॥ तत्सूत्रोक्तचतुर्गुणोपासनस्येत्यर्थः ॥ सम्पूर्णेति ॥ कर्मक्षयोत्क्रान्तिमार्गभोगरूपचतुर्विध-मोक्षार्थत्वादित्यर्थः ॥ अत्रेति ॥ आत्मत्वमात्रोपासकानां नोत्क्रामन्तीत्युत्क्रमणाभावोक्त्या सम्पूर्णमोक्षाभावोक्तेरित्यर्थः । तथा च केचिदत्रैव मुच्यन्ते । चरमदेहपातानन्तरमत्रैव स्थिता भवन्ति ॥ अयमेव तेषां सान्तानिको लोक इति भावः ॥ अत्रैव चेति ॥ लिङ्गशरीरभङ्गानन्तरमप्यस्यां भूम्यामेव मेर्वादिदिव्यस्थाने स्थितिः । आनन्दाननुभवन्तः सन्तोऽत्रैव स्थिता भवन्ति । न वैकुण्ठश्वेतद्वीपादावित्यर्थः । ननु ‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ॥ योगी तावन्न मुक्तः स्यात्’ इति सर्वेषामपि मुक्तानां श्वेतद्वीपगमनोक्तेरत्रैव स्थित्यङ्गीकारे तद्विरोध इत्याशङ्क्य निषेधति ॥ न च बहुनाऽत्रेति ॥ तत्र प्रमाणमाह ॥ श्वेतद्वीपमिति ॥

ननु सकृच्छ्वेतद्वीपगमनमप्यनुपपन्नम् । गीताभाष्ये योग्यत्वं चात्र विवक्षितमिति श्वेतद्वीपगमने योग्यताऽपेक्षितेत्युक्तत्वेन कथं सर्वेषां सकृच्छ्वेतद्वीपगमनाङ्गीकारे तद्विरोधः न स्यादित्यत आह ॥ योग्यत्वं चात्रेति ॥ अवस्थानायेति ॥ सर्वेषां श्वेतद्वीपस्थनारायणदर्शनानन्तरं तत्रावस्थाने योग्यताऽपेक्षिता, न तत्र गमन इत्यर्थः । महाज्ञाना गच्छन्ति क्षीरसागरमित्यस्यापि तत्रावस्थान एव तात्पर्यं द्रष्टव्यम् ॥ तथा चायं सङ्ग्रहः ॥ चतुर्मुखेन सह सर्वेषां विरजास्नानेन लिङ्गशरीर-भङ्गानन्तरं परमात्मानं प्रविश्य प्रलये बहुतरस्वरूपानन्दमेवानुभवन्तः स्थिताः । प्रलयानन्तरं सृष्टिकाले श्वेतद्वीपप्रादुर्भावानन्तरं भगवदुदराद्बहिर्निर्गत्य श्वेतद्वीपं गत्वा तत्रत्य श्रीनारायण-दर्शनेनापगतेच्छावरकाः सन्तो योग्याश्चेत्तत्रैवावस्थिता भवन्ति । न चेत्ततो निर्गत्य भूम्यादिलोकेषु मोदन्त इति । तथा च ‘यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यादित्यस्य भगवदिच्छा-रूपावरकान्न मुक्तः स्यादित्यर्थो द्रष्टव्यः । प्रमाणे योगः सायुज्यम् । यावदित्यस्य यस्मादित्यर्थः । यद्वा अव्ययानामनेकार्थत्वाद् यावदित्यस्य पर्यन्तमित्यर्थः । तथा च सुक्षीरसागरं समीचीनक्षीरसमुद्रपर्यन्तमित्यर्थः । देवा इत्यस्य देवगन्धर्वा इत्यर्थः । कांश्चन भोगान्विना चिद्रूपान् प्राकृतांश्चापि भुञ्जत इत्यन्वयः । अप्रयोजकतामाशङ्क्य हेतूच्छित्तिं बाधकमाह ॥ अन्यथेति ॥ भोगविशेषस्यानन्दवृद्ध्यादौ मानवमावर्तमिति छान्दसो मुमागम इति ध्येयम् ॥

वाक्यार्थमञ्जरी

ता यो वेदेति श्रुतौ प्रत्यक्षं स्पष्टं मुक्तस्य सर्वदेवपूज्यत्वोपदेशात्तस्य जगदैश्वर्यमस्तीति चेन्न । आधिकारिकाणां स्वयोग्याधिकारनियुक्तानां देवानां मण्डले समुदाये नियामकतया स्थितस्य चतुर्मुखस्य तत्रोक्तेर्नाशेषमुक्तानां जगदैश्वर्यमित्यर्थः ॥ तावा इति ॥ ता एताश्चतस्रः-भूर्भुवस्वर्महरिति चतस्रो व्याहृतयो व्याहृतिशब्दवाच्या अनिरुद्धादिभगवद्रूपविशेषाश्चतुर्धा प्रत्येक-मनिरुद्धादिभेदेन चतुर्धा भवन्ति । एवं चतस्रश्चतस्रः षोडशरूपविशेषा व्याहृतिशब्दवाच्या भवन्ति । ता व्याहृतयोऽधिकारी वेद । अस्मै ज्ञानिने सर्वे देवा बलिं पूजां कुर्वन्तीत्यर्थः ॥ महाचमस्य इति ॥ महाचमस्यश्चतुर्मुखः प्रवेदयते जानातीत्यर्थः ।

महाचमसनामासौ यस्मादतिचमत्कृतिः ।

महाचमस्यस्तज्ज्ञानी ब्रह्मा संपरिकीर्तितः ॥

इति प्रमाणबलादित्यर्थः । सूत्रे वेदेत्यनुक्त्वाऽधिकारिकेतिपदप्रयोगे किं बीजमित्यत आह ॥ अन्यदेवतानामिति ॥ मुक्तेषु चतुर्मुखान्यदेवेषु नियामकत्वार्थकाधिकारिकपदप्रयोगे तेषां स्वावरनियामकत्वं सूचितमिति भावः ॥ न चानेनेति ॥ आत्मेत्येव परं देवमिति ॥ आत्मत्व-मात्रोपासनप्रतिपादकेनेत्यर्थः ॥ सम्पूर्णमोक्षाभावेति ॥ चतुर्विधमोक्षमध्ये उत्क्रान्त्यभावोक्ते-रित्यर्थः । एतद्विवरणं तु–

केचित्तु मानुषा मुक्तिमनुक्रम्यैव देहतः ।

देहपाते तु देहस्य दोषान् भुक्त्वैव सर्वशः ।

मरणोच्छूनतादींस्तु स्वकीयारब्धकर्मजान् ।

देहे जीर्णे तु गच्छन्ति दृष्ट्वा विष्णुमनुज्ञया ।

पुनरत्रैव तिष्ठन्ति नित्यानन्दैकभोगिनः ॥

इति बृहद्भाष्योक्तदिशा ज्ञेयम् । महाज्ञाना गच्छन्ति क्षीरसागरमित्युक्त्या तदतिरिक्तानां क्षीरसागरस्थश्वेतद्वीपगमनं नास्तीति प्राप्तम् । तत्र विरोधमाशङ्क्य परिहरति ॥ न चेति ॥ ‘बहुनात्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यात्’ इत्यनेनेत्यर्थः । ननु योग्यत्वं चात्र विवक्षितमिति गीताभाष्ये श्वेतद्वीपगमने योग्यताविशेषस्य प्रयोजकत्वोक्त्या सर्वेषां श्वेतद्वीपगमननिषेधात् कथं सर्वेषां सकृच्छ्वेतद्वीपगमनाङ्गीकार इत्यत आह ॥ योग्यत्वं चात्रेति ॥ नात्र श्वेतद्वीपगमने योग्यताविशेषापेक्षोच्यते किंतु तद्वास एव । अत्रैव च स्थितिस्तेषामित्यव-स्थानस्यैव प्रकृतत्वादिति भावः ॥ सालोक्यादीति ॥ भगवता समानलोकस्थितत्वं सालोक्यम् । चतुर्भुजादिसमानरूपवत्वं सारूप्यम् । समीपस्थत्वं सामीप्यं भगवद्देहेन भोगः सायुज्यमेतदनन्त-र्भावादित्यर्थः ॥ उक्तक्रमेणेति ॥ अत्रैव च स्थितिस्तेषामन्तरिक्षे च केचनेत्युक्तक्रमेणेत्यर्थः । ईश्वरस्य सर्वत्रावस्थितेरिति । तथा च तल्लोकस्थरूपविशेषेण सालोक्यादिकमक्षतमिति भावः ।

Load More