ॐ अभावं बादरिराह ह्येवम् ॐ
८. उभयविधभोगाधिकरणम्
सूत्रभाष्यम्
॥ ॐ अभावं बादरिराह ह्येवम् ॐ ॥ १० ॥
चिन्मात्रं विनाऽन्यो देहस्तेषां न विद्यत इति बादरिः ।
अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यत’ इत्येवं कौण्ठरव्यश्रुतावाह हि ॥
तत्त्वप्रदीपिका
मुक्तानां प्राकृतदेहोऽस्ति वा न वेत्याकाङ्क्षायामुच्यते– अभावं बादरिराह ह्येवम् ॥ स्वतः प्राकृतदेहस्याभावं बादरिः । अवरेषामिच्छयाऽपि न भवतीति च । तेषामिच्छाया एवाभावात् । भोगस्याल्पीयस्त्वेन तदर्थं शरीरान्तरस्यानपेक्ष्यत्वात् । ‘न प्रियाप्रिये स्पृशत’ इत्यत्र प्राकृत-प्रियास्पृष्टिरभिप्रेता । ‘याभ्यां ह्येष उन्मथ्यत’ इति वाक्यशेषात् । तेन ह्यनित्यत्वादिनोन्माथो भवति । अन्यथा बहुप्रमाणविरोधाच्च ॥
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तानां मुक्तानां भोगानुपपत्तिनिवारणादस्ति शास्त्रादिसङ्गतिः । भोगानुपपत्तौ मुक्तेरपुरुषार्थत्वप्रसङ्गान्निवारणीयमेतत् । प्रकृतो मुक्तभोग एवात्र विषयः । युज्यते न वेति सन्देहः । वादिविवादः सन्देहबीजम् । न मुक्तानां भोगो युज्यत इति पूर्वः पक्षः । तथा हि । किं मुक्तानां बाह्यदेहो विद्यते न वा । आद्येऽपि तत्राऽभिमानोऽस्ति न वा । नेति पक्षे सुप्तस्येव भोगासम्भवः । अस्ति चेद् दुःखादिप्रसङ्गः । देहिनो दुःखादिनियमदर्शनात् । ‘न ह वै सशरीरस्य सतः प्रियाप्रिय-योरपहतिरस्ति’ इति श्रुतेश्च । द्वितीये भोगासम्भवः । न हि शरीररहितस्य भोगो दृष्टचरः । न च चिच्छरीरेण भोगोपपत्तिः । तस्य सुप्त्यादौ विद्यमानस्यापि भोगायतनत्वादर्शनात् । न च ब्राह्मेण देहेन तदुपपत्तिः । सायुज्यभाजां कथञ्चिदुपपत्तावपि तदन्येषामनुपपत्तेः । अतः कथमपि मुक्तानां निर्दुःखभोगायोगादपुरुषार्थत्वं मुक्तेरिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ अभावमिति ॥ युक्त एव मुक्तानां भोगः । न चोक्तविकल्पावकाशः । चिन्मात्रदेहं विनाऽन्यदेहाभावस्याङ्गीकारात् । तदभावेऽपि भोगसम्भवादिति बादरिराचार्यो मन्यत इति भावः । मुक्तस्य देहाभावः कुत इत्यत आह ॥ अशरीर इति ॥
गुर्वर्थदीपिका
तदभावेऽपि भोगसम्भवादित्यत्र सौप्तचिद्देहवदनावृतत्वेन भोगसम्भवादित्यर्थः । यद्यपि चिन्मात्रदेहेन प्राग्भोगस्साधितस्तथाऽपि सुप्तौ बाह्यदेहाभिमानाभावे चिन्मात्रदेहेनापि भोगादर्शना-न्मुक्तावपि केवलं चिन्मात्रदेहेन कथं भोग इत्यभ्यधिकाशङ्कापरिहाराय ज्योतिर्मये बाह्यलीला-विग्रहदर्शनसद्भावदर्शनाय च ‘अभावं बादरिराह ह्येवं’ ‘भावं तु जैमिनिः’ इत्यधिकरणारम्भ इति ज्ञेयम् ।
भावबोधः
मुक्तानां भोगानुपपत्तिनिवारणादिति ॥ ननु एतदधिकरणं ‘ब्राह्मेण’ इत्येतदधिकरणा-नन्तरमेव स्यात् कुतो व्यवधानमिति चेत् । सत्यम् । तत्र सायुज्यभाजां भोगानुपपत्तिनिवारणम् । अत्र तु सर्वमुक्तानामिति विशेषज्ञापनार्थत्वात्, व्यवधानकरणस्य । अन्यथा एकविषयप्रतीति-प्रसङ्गात् । अत एव वक्ष्यते– सायुज्यभाजां कथञ्चिदिति ॥ उक्तप्रकारेण ‘त एव’ इत्यस्य ‘सङ्कल्पादेव’ इत्यनेन सङ्गतत्वादनन्तरमेतदधिकरणमिति भावः । युज्यत इति । अत्र सर्वमुक्तानां निर्दुःखभोगो न युज्यते उत युज्यत इति चिन्ता । तदर्थं तेषां बाह्यदेहाभावो न युज्यत उत युज्यत इति चिन्ता । तदर्थं देहभावाभावपक्षयोः परस्परविरोध उताविरोध इति । तदर्थं देहाभावभावयोः साधकबाधकाभावौ न स्त उत स्त इति । तदर्थं देहाभावे भोगो न स्यात्, देहे सति दुःखं स्यादिति बाधकतर्कयोर्मूलभूता व्याप्तिरस्ति उत नास्तीति । तदर्थं द्वितीयतर्कोपोद्बलकतयोक्ता ‘‘न ह वै सशरीरस्य’’ इति श्रुतिः किं निरवकाशोत कर्मारब्धदेहविषयतया सावकाशेति । तदर्थं मुक्तानां देहसद्भावेऽपि दुःखाभावे प्रमाणं नास्ति उतास्तीति । तदर्थं ‘तीर्णो हि’ इति श्रुतिः किं स्वर्गस्थविषयोत मुक्तविषयेति । देहभावे तत्कार्यदुःखादि तदभावे भोगासम्भव इति न्याय-विवरणोक्तयुक्तिमाह– तथा हीत्यादिना ॥ नेतिपक्ष इति ॥ अनेन तदभाव इति न्यायविवरणं देहाभिमानाभाव इति व्याख्यातं भवति ॥ अस्ति चेदिति । अनेन देहभाव इत्येतद्देहाभिमानभाव इति व्याख्यातं भवति ॥ द्वितीये भोगासम्भव इति ॥ अनेन देहाभाव इत्येतद्देहाभिमानाभाव इति व्याख्यातं भवति । ‘ब्राह्मेण’ इत्यनेन गतार्थताशङ्कापरिहारायाभ्यधिकाशङ्कामाह– न च चिच्छरीरेणेत्यादिना ॥ कथञ्चिदुपपत्ताविति ॥ सायुज्यभाजामपि कदाचिद्बहिर्भोगाङ्गीकारेण तदोपपत्त्यभावात् कथञ्चिदित्युक्तम् ।
भावदीपः
भोगानुपपत्तिनिवारणादिति ॥ प्राक्तद्देहभावाभावाभ्यां भोगायोगशङ्कायां तन्निवारणा-दित्यर्थः । तेन ब्राह्मेणेत्यनेनापौनरुक्त्यम् । तत्र देहसामान्यभावाभावप्रयुक्तभोगानुपपत्तिशङ्काया एव निरासादत्र पुनः स्वरूपदेहान्यदेहभावाभावप्रयुक्तभोगायोगशङ्कानिरासादिति । एतेन पूर्वक्लृप्त-स्वोत्तमादन्योऽधिपतिर्नेति चिन्तायां तर्हि क्लृप्तस्वरूपदेहादन्योऽपि देहो नास्ति उतास्तीति इह चिन्तनात्पूर्वसङ्गतिरपि सिद्धा । सूत्रादौ देहाभावभावपरोक्तिरुभयथा भोगोपपत्त्यर्थमेवेति दर्शयन् विषयाद्याह ॥ मुक्तभोग एवेति ॥ देहभावे तत्कार्यदुःखादिस्तदभावे भोगासम्भव इत्यन्यत्रोक्तं व्यनक्ति ॥ किमित्यादिना ॥ देहभावे दुःखादिप्रसङ्गः कुत इत्यतो व्याप्तिदृष्टिश्रुतिभ्यामित्याह ॥ देहिन इति ॥ अपहतिरपगम इत्यर्थः । अष्टमे छन्दोगश्रुतेश्चेत्यर्थः । आह च तन्मात्रमित्यनेनोक्तं दोषपरिहारमाशङ्क्य निराह ॥ न चेति ॥ तस्य सुप्त्यादाविति ॥ सुप्तिप्रलययोः स्वरूप-देहभावेऽपि स्रक्चन्दनादि विषयभोगादर्शनादित्यर्थः । ब्राह्मेण जैमिनिरित्यनेन गतार्थत्वमाशङ्क्य निराह ॥ न चेति ॥ बहिर्भोगाभावं मत्वोक्तं कथञ्चिदिति ॥ अत इति ॥ बाह्यदेह-भावाभावयोर्दोषभावादित्यर्थः ॥ उक्तशङ्कानिरासकतया भाष्यं व्याचष्टे ॥ युक्त एवेति ॥ तदभावेऽपि बाह्यदेहाभावेऽपि । स्वरूपदेहेन भोगसम्भवादित्यर्थः । न च सुप्त्यादौ व्यभिचारः । तदापि स्वरूपसुखानुभवभावात् । विषयभोगाभावस्तु विषयाभावादेवोपपन्नः । मुक्तौ तु सङ्कल्प-मात्रादेव विषयलाभः श्रुत्यैवोपपादितः । विवरिष्यते चैतत्तन्वभाव इत्यत्रेति भावः ॥ देहेति ॥ बाह्यदेहाभाव इत्यर्थः ॥
अभिनवचन्द्रिका
यथा खलु द्वादशाहेति ॥ अत्र क्रतुरित्यहीन उच्यते । अहीनत्वं च अहर्गणसाध्यक्रतुत्वम् । यथा ‘द्वादशाहमृद्धिकामा उपेयुः’ इत्युपेयचोदने ‘य एवं विद्वांसः सत्रमुपयन्ति’ इति चोपेयचोदने द्वादशाहस्य सत्रत्वं बहुकर्तृकत्वाद् गम्यते । एवं तस्यैव द्वादशाहेन ‘प्रजाकामं याजयेत्’ इति यजति चोदनेन एककर्तृकत्वात् ‘द्विरात्रेण यजति’ इत्यादिनेव अहीनत्वं गम्यत इति तदुभयं द्वादशाहस्याऽविरुद्धं तथा मुक्तस्य सशरीरत्वम् अशरीरत्वं च प्रामाणिकत्वादविरुद्धमिति भावः । ननु ‘भावे जाग्रद्वत्’ इति सूत्रमनारम्भणीयम् । शरीरभावे, भोगासम्भवस्याऽनापादितत्वेन तदुपपादनवैयर्थ्यादित्यत आह– वक्ष्यमाणेति ॥ ‘प्रदीपवदावेशस्तथा हि दर्शयतीति वक्ष्यमाणप्रस्तावायेत्यर्थः । ननु तत्प्रकाशयन्त इति व्यर्थमित्यत आह – तत्प्रकाशयन्त इति ॥ सूत्रे प्रदीपदृष्टान्तग्रहणस्यापि प्राय उच्यत इत्यर्थः । अत्र गुणसूत्रम् – ‘स्वाप्यय-सम्पत्योरन्यतरापेक्षमाविष्कृतं हीति । ‘तीर्णो हि’ इति वाक्यं सुप्तिमोक्षयोरन्यतरापेक्षम् । अन्यतरप्रतिपादकं, हि यस्माद् अत्र पिताऽपिता भवति’इत्याविष्कृतम्’ इति सूत्रार्थः । श्रुतेस्तावदर्थद्वयम् एकस्यां योजनायां स्वाप्ययपरत्वं, योजनान्तरे तु संपत्तिपरत्वम् इत्यन्यतराऽ-पेक्षत्वमिति भावः । एतेन सम्पत्तिपरत्वस्यैव वक्तव्यत्वाद् अन्यतरापेक्षमिति सन्दिग्धत्वकथनम् अयुक्तमिति परास्तम् ।
पूर्वपक्षस्तु न मुक्तनां भोगो युज्यते । देहभावाभावयोर्विरोधात् । तथा हि मुक्तस्य बाह्यदेहो विद्यते न वा । नाद्यः दुःप्रखसङ्गात् । द्वितीये भोगाऽसम्भवो ऽशरीरिणो भोगायोगात् । न च चिच्छरीरेण भोगोपपत्तिः । सुप्त्यादौ विद्यमानस्यापि तस्य भोगायतनत्वाऽदर्शनात् । न च ब्राह्मणदेहेन तदुपपत्तिः । परदेहस्य परं प्रति भोगायतनत्वायोगात् । अतः कथमपि मुक्तानां निर्दुःखभोगायोगाद् अपुरुषार्थत्वं मुक्तेरिति ।
सिद्धान्तस्तु युक्त एव मुक्तानां भोगः । चिन्मात्रदेहसद्भावात् । न च तस्य सुप्तावदर्शनाद् भोगायतनत्वासम्भवः । अज्ञानाद्यावृतत्वेन तदा भोगायतनत्वाभावेऽपि अज्ञाननिवृत्त्यनन्तरं तत्सम्भवात् । तर्हि प्रतिबद्धं कारणं कार्यं न जनयतीत्येतावता तदपगमेऽपि कार्यं न जनयतीति सांप्रतम् । न च दुःखप्रसङ्गः । बाह्यदेहाभावात् । ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत’ इति आम्नानादिति बादरिराचार्यो मन्यते । तथा युक्त एव मुक्तानां भोगः बाह्यदेहस्य सद्भावात् ।
न च तत्र प्रमाणाभावः । ‘चिता वा चिता वा नित्येन वाऽथानन्दीभवति’ इति विकल्पाम्नानाद् इति जैमिनिराचार्यो मन्यते । पक्षद्वयेऽपि प्रमाणसद्भावान् मुक्तानां बाह्यदेहो विद्यते न विद्यत इति भगवान्बादरायणो मन्यते । न च शरीरभावाभावयोरसम्भवः । द्वादशाहपरिसमाप्यस्य यागस्य इच्छया शरीरभावाभावयोरुपपत्तेः । न च शरीराभावदशायां भोगाभावः, शरीराभावेऽपि स्वप्नवदुपपत्तेः । ननु शरीरदशायां जाग्रद्वन् मुक्तनां बाह्यदेहेन भोगोऽभिमतः । एवं च सति दुःखमपि प्राप्नातीति चेन्न यथा प्रदीपो दीपिकां प्रविश्य तस्थं तैलाद्येव भुङ्क्ते न तु कार्ष्ण्यम् । एवं बाह्यशरीरमनुप्रविष्टोऽपि मुक्तस् तत्र सुखमेव भुङ्क्ते, न तु दुःखं ‘तीर्णो हि तदा सर्वान् । शोकान् हृदयस्य भवति’ इति श्रुतेः । नन्वियं श्रुतिः स्वर्गादिस्थविषयेति न मुक्तानां दुःखाभावे प्रमाणमिति चेत्, अस्य वाक्यस्य सुप्तिमुक्तिविषयत्वात् ‘अत्र पिताऽपिता भवति अनन्वागतं पुण्येनाऽनन्वागतं पापेन’ इत्याद्याविष्कृतत्वात् । अतो मुक्तानां निर्दुःखभोगानुभवो युक्त एवेति उपपन्नं मोक्षस्य पुरुषार्थत्वमिति सिद्धम् ॥
वाक्यार्थमुक्तावली
भोगानुपपत्तीति ॥ सङ्कल्पादेवेति सूत्रे साक्षादुक्तहेतोरतिशक्यत्वात् तदोकस्त्वास्तदोषत्वरूप-पूर्वपक्षसिद्धान्तन्यायैक्याच्चात एवेत्यधिकरणस्य सङ्कल्पाधिकरणत्वादानन्तर्यम् । अत्र तु द्वादशाह-वदिति मुक्तसङ्कल्पानुसारेणैवोभय विधदेहानुपपत्तिनिवारणादत एवेत्यधिकरणानन्तर्यमित्यनन्तर-सङ्गतिरिति भावः ॥ युज्यत इति ॥ मुक्तानां भोगो न युज्यत उत युज्यत इति चिन्ता । तदर्थं तेषां बाह्यदेहभावाभावो नोपपद्यत उतोपपद्यत इति । तदर्थं देहभावाभावयोः परस्परविरोध उताविरोध इति । अभावं बादरिराह ह्येवम् । तन्वभावे इति सूत्रनिरस्यं समस्तकार्यमित्युक्त-पूर्वपक्षन्यायं सम्यगस्तं निरस्तभोगलक्षणं कार्यं स्यादिति विवृणोति ॥ नेति पक्ष इति ॥ भावं जैमिनिर्विकल्पाम्नानाद् भावे जाग्रद्वदिति सूत्रनिरस्यसमस्तकार्यमित्युक्तन्यायं व्यनक्ति ॥ नेति पक्ष इति ॥ देहोऽस्त्यभिमानो नास्तीति पक्षे सम्यगस्तं निरस्तं भोगलक्षणं कार्यं स्यादित्यर्थः । प्रदीपवदावेश इति सूत्रनिरस्यं तमेव न्यायं प्रकारान्तरेण व्यनक्ति ॥ अस्ति चेदिति ॥ देह अभिमानश्चास्ति चेद्दुःखाज्ञानश्रमादिकम् अस्तमभिमानकार्ये स्यादित्यर्थः । तर्कस्य व्याप्तिग्राहकं साक्षिप्रत्यक्षमाह ॥ देहिन इति ॥ आगममप्याह ॥ न ह वा इति ॥ अभावं बादरिस् तन्वभाव इति सूत्रनिरस्यं तमेव न्यायं व्यनक्ति ॥ द्वितीय इति ॥ यदि देह एव नास्ति तर्हि सत्वमस्तं निरस्तं कार्यं भोगलक्षणं प्रसज्येतेत्यर्थः । चितिमात्रेणेत्यनेन गतार्थतामाशङ्क्य निषेधति ॥ न च चिच्छरीरेणेति ॥ ब्राह्मेणेत्यनेनापि गतार्थतां प्रतिषेधति ॥ न च ब्राह्मेणेति ॥ कथञ्चि-दुपपत्तावपीति ॥ सायुज्यभाजामपि कदाचिद्बहिर्भोगाङ्गीकारेण तदा भोगोपपत्यभावात् कथञ्चि-दित्युक्तम् । सूत्रे तन्वभाव इत्यतस्तनोरित्याकृष्यते । चितिमात्रेणेत्यनुकृष्यते । विनेति शेषः । तथा च चितिमात्रदेहं विना तनोरभावम् एवम् एवमपि देहाभावेऽपि एवमेवं भावं मुक्तानां भोगसम्भवं च बादरिराह । मुक्तस्य देहाभावः कुतः प्रमाणादित्यत उक्तमाहेति । हि यस्मादेवं मुक्तस्य शरीराभाव इत्येवं कौण्ठरव्यश्रुतिराह तस्मादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ मुक्त एवेत्यादिना ॥ वावेत्यवधारणे । प्रियाप्रिये सुखदुःखे । उन्मथ्यते नीचोच्चतालक्षणविक्रियां लभते ॥
तत्त्वसुबोधिनी
मुक्तानां भोगानुपपत्तिनिवारणादिति ॥ न चास्याधिकरणस्य ब्राह्मणेत्येतदधिकरणानन्तर्यमेव भवेत् कुतो व्यवधानमिति वाच्यम् । तत्र सायुज्यभाजां भोगानुपपत्तिनिवारणम् । अत्र तु सर्वमुक्तानामिति विशेषज्ञापनार्थत्वाद् व्यवधानकरणम् । अन्यथा एकविषयत्वप्रतीतिप्रसङ्गात् । देहिनो दुःखादिनियमादित्यत्र श्रुतिमाह ॥ न ह वा इति ॥ चितिमात्रेण तदात्मकत्वादित्यनेन गतार्थत्वमाशङ्कते न चेति ॥ ब्राह्मेणेत्यनेनास्य गतार्थताशङ्कापरिहाराय अभ्यधिकाशङ्कामाह ॥ न च ब्राह्मेण देहेनेति ॥ कथञ्चिदुपपत्ताविति ॥ सायुज्यभाजामपि कथञ्चिद्बहिर् भोगाङ्गीकारेण तदुपपत्यभावात् कथञ्चिदित्युक्तम् ।
वाक्यार्थविवरणम्
भोगानुपपत्तिरिति ॥ भोगाङ्गीकारे या प्राप्ता अनुपपत्तिरित्यर्थः ॥ अपहतिरिति ॥ प्रियाप्रियाभाव इत्यर्थः ॥ भोगायतनत्वेति ॥ स्त्रीसम्भोगाद्यायतनत्वेत्यर्थः । सायुज्यभाजामपि कदाचिद्बहिर्निगत्य भोगाङ्गीकारात् । तदोपपत्त्यभावात् कथञ्चिदित्युक्तमिति मन्तव्यम् ।
वाक्यार्थमञ्जरी
देहिनः देहाभिमानवतः ॥ न ह वै सशरीरेति ॥ शरीराभिमानवन्तं प्रियाप्रिययोः सुखदुःखयोर् अपहतिरसम्बन्धो नास्तीत्यर्थः । सायुज्यभाजामपि कदाचिद्बहिर्भोगाङ्गीकारेण तदानीं ब्रह्मदेहेनोत्पत्त्यभावात् कथञ्चिदित्युक्तम् ॥ ॐ अभावं बादरिराह ह्येवं ॐ ॥ अभावं मुक्तस्य चिन्मात्रदेहादन्यदेहाभावं बादरिर्मन्यते कुतः हि यस्मादशरीरो वावेति श्रुतिरेवमाहेत्यर्थः ॥
ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ
सूत्रभाष्यम्
॥ ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ ॥ ११ ॥
‘स वा एष एवंवित्परमभिपश्यत्यभिशृृणोति ज्योतिषैव रूपेण चिता वाऽचिता वा नित्येन वाऽनित्येन वाऽथाऽनन्दी ह्येवैष भवति नानानन्दं कञ्चिदुपस्पृशति’ इत्यौद्दालकश्रुतौ विकल्पाम्नानादन्यदेहस्यापि भावं जैमिनिर्मन्यते ॥
तत्त्वप्रदीपिका
कदाचिन्मुक्तस्यापि कस्यचिद्भोगार्थं प्राकृतदेहस्यापि भावं जैमिनिः ॥
तत्त्वप्रकाशिका
देहसद्भावमभ्युपगच्छत्सूत्रमुपन्यस्य व्याचष्टे ॥ भावमिति ॥ चिन्मात्रदेहातिरिक्तदेहोऽपि मुक्तानां विद्यते श्रुत्युक्तत्वादेवेति जैमिनिराचार्यो मन्यत इति भावः ॥
गुर्वर्थदीपिका
नित्येन वाऽनित्येन वेत्यत्रानित्येन स्वस्य सदाऽविद्यमानेनेत्यर्थः । मौक्तसकलपदार्था-नामनादिनित्यत्वेन सर्वथाऽनित्यत्वायोगादिति भावः ।
भावदीपः
व्युत्क्रमेण भाष्यं व्याचष्टे ॥ चिन्मात्रेति ॥
वाक्यार्थमुक्तावली
चितिमात्रं देहं विना तनोर्बाह्यायाभावं जैमिनिराह विकल्पाम्नानाच् चिन्मात्रदेहेनैवावतिष्ठत इत्यनुक्त्वा श्रुतौ चिता वाऽचिता वेति विकल्पाभिधानादित्यर्थमभिप्रेत्य व्याचष्टे ॥ चिन्मात्रेति ॥ स वा एष एवं विदपरोक्षज्ञानी मुक्तौ चिता वाऽचिता वा ज्योतिषैव प्रकाशमानेन स्वरूपेणैवाभि-पश्यति अभिश्रुणोति ॥ दर्शनश्रवणोपलक्षितसर्वविषयानुभववान् भवति । तेन चानंद्येवेति शरीरस्य सद्भावात् किञ्चिदल्पमप्यनानन्दमानन्दविरुद्धं दुःखं तन्नोपस्पृशति चिद्देहस्याप्राकृतदिव्यज्योति-र्मयत्वान्नित्यत्वाच्च । अचिद्देहस्याप्राकृतत्वेनानित्यत्वेऽपि शुद्धसत्वात्मकत्वेन ज्योतीरूपत्वा-दित्यर्थः । अत्र नित्येन वेत्येतन्नित्येनेव चिता वेत्यस्य विशेषणम् । एवमनित्येन वेत्यत्रापि वाशब्दस्यावधारणार्थकतया अनित्येनैव चिता वेत्येतद्विशेषणत्वं बोध्यं विकल्पद्वयाभावात् ।
वाक्यार्थमञ्जरी
कदाचिद्भोगार्थं मुक्तस्य चिन्मात्रदेहादन्यप्राकृतदेहस्य भावं सत्वं जैमिनिर्मन्यते । कुतः । चिता वा अचिता वेति श्रुतौ विकल्पाम्नानाद् विकल्पेनोभयशरीरेण भोगाभिधानादित्यर्थः ॥
ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ
सूत्रभाष्यम्
॥ ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ ॥ १२ ॥
यथा द्वादशाहः क्रत्वात्मकः सत्रात्मकश्च भवति । एवं मुक्तभोगो बाह्यशरीर-कृतश्चिन्मात्रकृतश्च भवति’ इति बादरायणो मन्यते ॥
तत्त्वप्रदीपिका
यथा द्वादशाहः क्रत्वात्मकः सत्रात्मकश्च भवति । क्रतुरित्यहीनो विवक्ष्यते । अहीनैकाहेष्वस्य श्रेष्ठत्वादत्र क्रतुशब्दः प्रयुक्तः । तथा च श्रुतिः– ‘श्रेष्ठयज्ञो वा एष यद्द्वादशाह’ इति । उभयात्मकत्वं कर्तुरिच्छया, उभयथा च विधानात् । तथा च श्रुतिर्द्वादशाहमहीनात्मकं प्रस्तुत्य ‘सत्रमुच्यते सर्वेऽप्यग्नीन्यजेरन्’ इति । एवं मुक्तभोगोऽप्युभयविधो भवति भोक्तुरिच्छया । यदा चिन्मात्रदेह-कृतस्तदा न बाह्यशरीरमपेक्ष्यम् । यदा बाह्यशरीरकृतस्तदा चिन्मात्राधिष्ठितेन तेन भोग इति विशेषः । अत इति मतद्वयोक्तप्रमाणपरामर्शार्थः ॥
तत्त्वप्रकाशिका
नन्वेवं मतद्वयस्य परस्परविरुद्धत्वाक्तिं तत्स्वमतमित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे ॥ द्वादशेति ॥ मुक्तानां देहभावाभावाख्यमुभयमपि स्वमतमेव । कुतः प्रमाणवत्वात् । कथमुभयं विरुद्धं स्वमतमिति । मैवम् । यथा खलु द्वादशाहयागस्य क्रतुत्वं सत्रत्वं चाविरुद्धम् । यजमानेच्छयैकयजमानत्वे क्रतुत्वस्यानेकयजमानत्वे सत्रत्वस्य सम्भवात् । एवं मुक्तेच्छया भोगार्थं देहभावाभावयोरविरोधेनोपपत्तेरिति भगवान् बादरायणो मन्यत इति भावः ॥
भावबोधः
प्रमाणवत्वादिति । सूत्रगत ‘अतः’शब्दव्याख्यानमेतदिति ज्ञातव्यम् ।
भावदीपः
भाष्यं सूत्रारूढं दर्शयितुं सूत्रार्थमाह ॥ मुक्तानामिति ॥ अत इत्यस्य भाष्येऽर्थानुक्तेः स्वयमाह ॥ प्रमाणवत्वादिति ॥ मतद्वयोक्तप्रमाणपरामर्श इति भावः ॥ क्रतुत्वमिति ॥ क्रतुरित्यहीनो विवक्ष्यते । अहीनैकाहेषु अस्य श्रेष्ठत्वात्क्रतुशब्दः प्रयुक्तः । तथा च श्रुतिः । श्रेष्ठयज्ञो वा एष यद्द्वादशाह इति तत्वप्रदीपोक्त्या अहर्गणत्वमित्यर्थः । सत्रस्यापि क्रतुत्वा-त्कथमेतदित्यतो व्यनक्ति ॥ यजमानेति ॥ क्रतुत्वस्य अहीनत्वस्येत्यर्थः ॥ सत्रत्वस्येति ॥ द्वादशाहमहीनात्मकं प्रस्तुत्य सत्रमुच्यते सर्वेऽप्यग्नीन्यजेरन्निति श्रवणादिति भावः ॥ उपपत्ति-रेवेति ॥ चोऽवधारण इति भावः ।
वाक्यार्थमुक्तावली
अत्रात इति मतद्वयोक्तप्रमाणपरामर्शः । उभयविधं मुक्तानां देहभावाभावाख्यं प्रागुक्तमुभयविधं प्रमेयं बादरायण आह । कुतो ऽत उभयोरपि प्रमाणवत्वात् । कथमुभयं विरुद्धं स्वमतमिति । द्वादशाहवत् । षष्ट्यर्थे वतिः । यथा द्वादशाहाख्ययागस्य क्रतुत्वं सत्रत्वं च यजमानेच्छया एकानेकयजमानाभ्यामविरुद्धं तथा मुक्तानामिच्छया देहभावाभावावविरुद्धाविति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ मुक्तानामिति ॥ क्रतुत्वमिति ॥ अत्र केनचित्प्रलपितम् । यागशब्दस्य क्रतुशब्द-पर्यायत्वेन सत्रयागेऽपि क्रतुत्वस्य लाभात् क्रतुत्वं सत्रत्वं चेति कथमिच्छाभावाभावाभ्यां व्यवस्थाप्यत इति । तदयुक्तम् । द्विविधो द्वादशाहः सत्रमहीनश्चेति । एकादशाहपर्यन्तमहर्गणा अहीना एव । त्रयोदशाहादिकं सत्रमेव । मध्यमं तु यजमानेच्छया । एकयाजमानकत्वेऽहीन-संज्ञकमनेकयाजमानकत्वे सत्रसंज्ञकमिति द्वादशाहस्योभयात्मकत्वप्रसिद्धेः । सति चैवं द्वादशाह-स्याहीनत्वं सत्रत्वं चेति वक्तव्ये क्रतुषु मध्ये द्वादशाहस्य श्रैष्ट्यज्ञापनायाहीनेऽपि द्वादशाहे क्रतुविशेषे कुरुपाण्डवन्यायेन क्रतुपदप्रयोगः । तदुक्तं तत्वप्रदीपे । अत्र क्रतुरित्यहीनो विवक्ष्यते । अहीनैकाहेष्वस्य श्रैष्ठ्यादत्र क्रतुशब्दः । तथा च श्रुतिः । श्रेष्ठयज्ञो ह वा एष द्वादशाह इतीति ॥ एकयजमानत्वेनेति ॥ द्वादशाहेन प्रजाकामं याजयेद् यजति वदित्यादिनैककर्तृकत्वस्य द्वादशाह-मुद्धिकामा उपेयुः, अत्र समूह्याग्नीन् यजेरन्नित्यादिनानेककर्तृकत्वस्य च प्रतीतेः । द्विरात्रेण यजतीत्यादाविवैकवचनेनैककर्तृकत्वेनाहीनत्वस्य सिद्धत्वात् । विद्वांसः सत्रमुपयन्तीत्यादि-वदुपेयचोदने बहुवचनबलेन द्वादशाहस्यानेककर्तृकत्वावगमाच्चेति भावः ।
तत्त्वसुबोधिनी
प्रमाणवत्वादिति ॥ सूत्रगतातःशब्दव्याख्यानमेतदिति ज्ञातव्यम् ।
वाक्यार्थमञ्जरी
उभयविधं मुक्तानां देहभावाभावाख्यप्रागुक्तमुभयप्रकारं बादरायणः स्वमतं मन्यते । कुतः । अत उभयोरपि प्रमाणवत्वात् । विरुद्धं कथं स्वमतमित्यत उक्तम् ॥ द्वादशेति ॥ यथा द्वादशाहाख्ययागस्य क्रतुत्वं सत्रत्वं चाविरुद्धं तथेत्यर्थः ॥ अनुपपत्तेरिति ॥ सदेहत्वे दुःखादेर-देहत्वे भोगासम्भवस्य चोक्तत्वादित्यर्थः ।
ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ
सूत्रभाष्यम्
उपपत्तिश्च
॥ ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ॥ १३ ॥
सन्ध्यं स्वप्नः । ‘सन्ध्यं तृतीयं स्वप्नस्थानम्’ इति श्रुतेः ॥
तत्त्वप्रदीपिका
उपपत्तिश्चेति सम्बन्धभाष्यम् । उपपत्तिश्चोभयत्राप्युत्तरसूत्राभ्यामुच्यते । तन्वभावे सन्ध्यवदुपपत्तेः ॥ बाह्यशरीराभावे भोगस्यासम्भवो नाऽशङ्कनीयः । स्वप्न इव भोगोपपत्तेः ॥
तत्त्वप्रकाशिका
भवतु देहभावाभावयोरविरोधस्तथापि कथं तथात्वे भोगोपपत्तिः । अनुपपत्तेरुक्तत्वादित्यत आह ॥ उपपत्तिश्चेति ॥ पक्षद्वयेऽपि भोगस्योपपत्तिरेवेत्यर्थः कथमुपपत्तिरित्याशङ्कां परिहर्तुं देहाभावे भोगोपपत्तिं प्रतिपादयत्सूत्रं पठित्वा दुर्गमांशं सप्रमाणकं व्याचष्टे ॥ तन्विति ॥ न तावद्देहाभावे भोगानुपपत्तिः । यथा खलु स्वप्नावस्थायां बाह्यदेहाभिमानाभावेऽपि भोगस्तथा मुक्तौ देहाभावेऽपि भोगोपपत्तेः । अनभिमानस्याभावसाम्यात् । स्वाप्नार्थानामकल्पितत्वस्योक्तत्वादिति भावः ।
भावबोधः
स्वप्नावस्थायां देहसत्त्वेन सन्ध्यवदिति कथं दृष्टान्तोक्तिरित्यत आह– अनभिमानस्याभाव-साम्यादिति ॥ तदभिमानाविषयस्य तत्कार्याकारित्वेन तं प्रत्यविद्यमानकल्पत्वादित्यर्थः । स्वाप्नपदार्थानां मिथ्यात्वेन तद्विषयकभोग एवासंप्रतिपन्न इत्यत आह– स्वाप्नार्थानामिति ॥
भावदीपः
प्रागुक्तदोषनिवर्तकतया सूत्रं स्वयं व्याचष्टे ॥ न तावदिति ॥ स्वप्नदशायां तनोर्भावात्कथं संध्यवदित्युक्तिरित्यत आह ॥ अनभिमानस्येति ॥ कल्पितार्थानामसतां कथं भोग इत्यत आह ॥ स्वाप्नेति ॥ भक्तिपादे संध्ये सृष्टिरित्यत्रोक्तत्वादित्यर्थः ॥
वाक्यार्थमुक्तावली
सप्तम्यर्थे वतिः । तन्वभाव इत्यस्य मुक्तौ शरीराभावेऽपीत्यर्थद्वयम् । भोगस्येति शेषः । उपपत्तेरिति पञ्चम्या भोगानुपपत्तिर्नास्तीत्यध्याहृतेन सम्बन्ध इत्यभिप्रेत्य सूत्रार्थमाह ॥ न तावदित्यादिना ॥ स्वप्नावस्थायां देहसद्भावात्संध्यवदिति कथमुक्तमित्यत आह ॥ अनभि-मानस्येति ॥ यथा देहाभावे तत्प्रयुक्तभोगाभावस्तथा तदभिमानाभावेऽपि तत्प्रयुक्तभोगाभावा-दनभिमानस्य देहाभावेन साम्यादित्यर्थः । ननु सत्यभोगो देहाविनाभूतः स्वाप्नार्थानामसत्वेन तद्भोगो देहेन विनाप्युपपद्यत इत्यत आह ॥ स्वाप्नेति ॥
तत्त्वसुबोधिनी
तथात्वेति । देहभावाभावित्व इत्यर्थः । स्वप्नावस्थायां देहसत्वेन सन्ध्यवदिति कथं दृष्टान्तोक्तिरित्यत आह ॥ अनभिमानस्यापीति ॥ तदभिमानाविषये अस्य तत्कार्याकारित्वेन तं प्रति अविद्यमानकल्पत्वादित्यर्थः । ननु स्वप्नदृष्टपदार्थानां मिथ्यात्वेन तद्विषयकभोगः कथं संप्रतिपन्न इत्यत आह ॥ स्वाप्नार्थानाम् इति ॥ सन्ध्ये सृष्टिराह हि इत्यत्र उक्तत्वादित्यर्थः ।
वाक्यार्थविवरणम्
अविरोध इति ॥ मुक्तेच्छयेत्यर्थः ॥ तथात्वे ॥ देहसद्भावासद्भावाङ्गीकारे इत्यर्थः ॥ अनुपपत्तेरिति ॥ देहाभावे भोगासम्भवस् तस्य भोगायतनत्वात् । देहसद्भावे दुःखादिप्रसङ्ग इत्यनुपपत्तेरुक्तत्वादित्यर्थः । ननु स्वप्नावस्थायां देहस्य सत्त्वेन तत्राभिमानमात्राभाव इत्येव । मुक्तौ तु देहस्याभाव इति वैषम्यात् सन्ध्यवदिति कथं स्वप्नदृष्टान्तोक्तिरित्यत आह ॥ अनभिमान-स्येति ॥ तदभिमानाविषयस्य तत्कार्याकारित्वेन तान् प्रत्यविद्यमानकल्पत्वात् स्वप्ने विद्यमानोऽपि देहोऽकिञ्चित्कर इति अविद्यमानकल्प एवेत्यर्थः । तथा च दृष्टान्तदार्ष्टान्तिकयोर्न वैषम्यमिति भावः । ननु स्वप्नदृष्टपदार्थानां मिथ्यात्वेन तद्विषयभोग एवासम्प्रतिपन्न इति चेत्तत्राह ॥ स्वाप्नार्थानामिति ॥
वाक्यार्थमञ्जरी
सन्ध्यवत्स्वप्नावस्थायामभिमानाभावेन देहाभावेन देहाभावेऽपि यथा भोगस्तथा मुक्तौ तन्वभावे बाह्यदेहाभावेऽपि भोगोपपत्तेरित्यर्थः । स्वप्नावस्थायां देहसत्वेन कथं संध्यवदिति दृष्टान्तोक्तिरित्यत आह ॥ अनभिमानस्येति ॥ तदभिमानाविषयस्य तत्कार्याकारित्वेन तं प्रत्यविद्यमानकल्पत्वा-दित्यर्थः ॥ ननु स्वप्नदृष्टपदार्थानां मिथ्यात्वेन तद्विषयकभोग एवासंप्रतिपन्न इत्यत आह ॥ स्वाप्नार्थानामिति ॥
ॐ भावे जाग्रद्वत् ॐ
सूत्रभाष्यम्
॥ ॐ भावे जाग्रद्वत् ॐ ॥ १४ ॥
ब्रह्मवैवर्ते च–
‘स्वप्नस्थानां यथा भोगो विना देहेन युज्यते ।
एवं मुक्तावपि भवेद्विना देहेन भोजनम् ॥
स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् ।
स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदाचन’ इति ॥ १४ ॥
तत्त्वप्रदीपिका
भोगमात्रे दृष्टान्तः । अतो न दुःखाद्यनुषङ्ग आशङ्कनीयः । श्रुतिरेव ‘चिता वाऽचिता वा’ इति भोगं प्रकृत्य ‘अथानन्दी ह्येवैष भवति नानानन्दं कञ्चिदुपस्पृशति’ इति शरीरे सत्यसति च निर्दुःखानन्दानुभवमवधारयतीति दुःखस्पृष्टिः श्रुत्यैव बाधिता । या पुनरेषा श्रुतिः ‘न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति साऽनिच्छया सशरीरं संसारिणमुद्दिश्याऽह । मुक्तस्त्वशरीरो ह्युच्यते । कदाचित्स्वेच्छया शरीरग्रहेऽपि तस्मिन्परमानुग्रहकृतात्स्वातन्त्र्यादनभिमानाच्च ।
सर्वदुःखनिवृत्तिस्तु ज्ञानिनो निश्चितैव हि ।
उपासया कर्मभिश्च भक्त्या चानन्दाचित्रता ॥
इत्यादिनोक्तस्य प्रचुरविचित्रतरानन्दस्य भोगार्थं हि शरीरस्वीकारः । स्वेच्छया शरीराणि स्वीकृत्येति ह्याह । न च स्वेच्छया कश्चिद्दुःखं भुञ्जीत । अतो न दुःखसम्बन्धस्तस्येति सिद्धम् । ‘अथ सोऽभयं गतो भवति’ ‘स दुःखाद्विमुक्त आनन्दी भवति’ ‘तरति शोकमात्मवित्’ इति श्रुतिभ्यश्च ॥
तत्त्वप्रकाशिका
देहसद्भावेऽपि सुतरां भोगोपपत्तिरिति भावेन सूत्रमुपन्यस्यति ॥ भाव इति ॥ यथा जाग्र-दवस्थायां देहसद्भावे भोगसम्भवस्तथा मुक्तावपि देहसद्भावे भोगोपपत्तिरिति सूत्रार्थः । वक्ष्यमाण-दूषणनिरासप्रस्तावायेदं सूत्रम् । प्रतिदृष्टान्तस्यापि वक्तुं शक्यत्वात्कुत एतदित्यतोऽत्र स्मृतिं चाह ॥ ब्रह्मवैवर्ते चेति ॥
गुर्वर्थदीपिका
देहसद्भावेऽपि तदभिमानस्यापि भावादित्यत्राभिमानो नाम न मानसो दोषरूपरागविशेषः किन्तु भोगकाले भोगोपयोगितया लीलया स्वीकारमात्रम् । अतो न संसारसाम्यमिति ज्ञेयम् ।
भावबोधः
ननु देहसद्भावाङ्गीकारे दुःखादिकमेवापादितं न भोगानुपपत्तिरुक्ता । अतः ‘भावे जाग्रद्वत्’ इति सूत्रं व्यर्थमित्यत आह– वक्ष्यमाणेति । ‘प्रदीपवदावेशः’ इत्यत्र वक्ष्यमाणं यद्दुःखादिप्राप्ति-रूपदूषणनिराकरणं तत्प्रस्तावायेत्यर्थः । देहसद्भावपक्षमप्रस्तुत्य तत्करणे तस्यैतद्विषयत्वं न ज्ञायेत । अतः प्रस्तावार्थमिदं सूत्रमिति भावः ॥
भावदीपः
सूत्रं स्वयं व्याचष्टे ॥ यथा जाग्रदिति ॥ देहवत्त्वपक्षे भोगाविवादाद् व्यर्थमेतत्सूत्रमित्यत आह ॥ वक्ष्यमाणेति ॥ उत्तरयोगे वक्ष्यमाणं यद्दूषणनिराकरणं तत्प्रस्तावाय तत्प्रारम्भायेत्यर्थः ॥ प्रतिदृष्टान्तस्येति ॥ सुप्त्यादिवद्भोगाभावोऽपि किं न स्यादिति वक्तुं शक्यत्वात्तन्वभाव इत्यादि-नोक्तं कुतो मानाज्ज्ञेयमित्यर्थः ॥ अत्रेति ॥ तन्वभाव इत्यादियोगद्वयोक्तार्थ इत्यर्थः ॥
वाक्यार्थमुक्तावली
मुक्तावित्यर्थकस्य तन्वभावेऽपीत्यस्यानुवृत्तिः । भाव इत्यत्र तनोरिति विभज्यान्वेति । जाग्रद्वदिति सप्तम्यर्थे वतिः । भोगोपपत्तेरिति चानुवर्तत इति भावेन सूत्रार्थमाह ॥ यथेति ॥ ननु देहाभिमानसद्भावे दुःखादिकमेवापादितं न तु भोगानुपपत्तिरुक्ता । अत इदं सूत्रं व्यर्थमित्यत आह ॥ वक्ष्यमाणेति ॥ वक्ष्यमाणं यद्दूषणनिराकरणं तत्प्रस्तावायेत्यर्थः । अन्यथा प्रदीपवदि-त्यस्यैतद्विषयता न ज्ञायत इति भावः ।
तत्त्वसुबोधिनी
ननु देहसद्भावाङ्गीकारे दुःखादिकमेव आपादितं न भोगानुपपत्तिरुक्ता । अतो भावे जाग्रद्वदिति सूत्रं व्यर्थमित्यत आह ॥ वक्ष्यमाणेति ॥ प्रदीपवदावेश इत्यत्र वक्ष्यमाणं यद् दुःखादिप्राप्तिरूपदूषणानिराकरणं तत्प्रस्तावायेत्यर्थः । देहसद्भावपक्षमप्रस्तुत्य तत्करणे तस्य तद्विषयत्वं न ज्ञायेत । अतः प्रस्तावार्थमिदं सूत्रमिति भावः । तथापि सदृष्टान्तमुक्तत्वात् कथं प्रस्तावाय इत्युक्तमित्यत आह ॥ प्रतिदृष्टान्तस्यापीति ॥ तथा दृष्टान्तमात्रप्रदर्शनमनुपयुक्तमिति भावः ।
वाक्यार्थविवरणम्
ननु ‘भावे जाग्रद्वत्’ इति सूत्रं व्यर्थम् । देहसद्भावे दुःखादिकमेवापादितम् । न भोगानुपपत्तिः । अतो जाग्रद्वद् भोगोपपादनं व्यर्थम् । दुःखादिकं च प्रदीपवदिति परिह्रियते । अत आह ॥ वक्ष्यमाणेति ॥
वाक्यार्थमञ्जरी
भावे मुक्तौ शरीरसत्वे जाग्रदवस्थावत् सुतरां भोगोपपत्तिरित्यर्थः । ननु देहसत्वाङ्गीकारे दुःखादिकमेवापादितं तेन भोगानुपपत्तिरुक्ता । अतस्तदुपपत्तिकथनाय भावे जाग्रद्वदिति सूत्रं व्यर्थमित्यत आह ॥ वक्ष्यमाणेति ॥ प्रदीपवदावेश इत्यत्र वक्ष्यमाणं यद्दुःखादिप्राप्तिरूपदूषण-निराकरणं तत्प्रस्तावायेत्यर्थः । देहसद्भावपक्षमप्रस्तुत्य तत्करणे तस्यैतद्विषयत्वं न ज्ञायेत । अतस्तत्प्रस्तावार्थमिदं सूत्रमिति भावः ।
ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ
सूत्रभाष्यम्
॥ ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ ॥ १५ ॥
शरीरमनुविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगाननुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादिषु प्रविष्टस्तत्स्थं तैलाद्येव भुङ्क्ते न तु कार्ष्ण्यादि । ‘तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य, भवति’ इति हि दर्शयति ॥
तत्त्वप्रदीपिका
तथाऽपि तात्पर्याद्दृष्टान्तेन प्रमाणान्तरेण प्रख्यापयति– प्रदीपवदित्यादि सूत्रम् ॥ नित्य-शुद्धचिदानन्दज्योतिरात्मानो मुक्ता युगपन्नानाभूरिभोगेच्छया शुद्धप्रकृतिमयानि ज्योतीरूपाणि सुखैकायतनानि शरीराण्यनुविश्येच्छानुसारेण प्रविश्य पुनरात्मज्योतिषाऽतिप्रकाशयन्तः सुखमेवानु-भवन्ति । न दुःखमण्वपि । ज्ञानोत्तरपुण्यभाजो भोगबाहुल्यमिति यदुक्तम् अग्निहोत्रादीत्यत्र ‘न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजत’ इति श्रुतेः, तत्सूचयति पुण्यानेव भोगा-ननुभवन्तीति । न च तेषां शरीरधर्मसंस्पर्शः । शरीराणामेव यथायोग्यं तद्धर्मयोग इत्येतदाह– तत्प्रकाशयन्तो– न दुःखादीनिति ॥ ज्योतिर्मयेष्वपि तेषु शरीरेषु प्राकृतत्वसामान्याद् दुःखायतनत्वं सम्भाव्यं मन्येरन्निति दीपिकायां सम्भवदपि कार्ष्ण्यं यथा न प्रदीपो भुङ्क्त इति । यद्यपि तेषां बहुरूपत्वेन चित्सुखात्मकैरनेकैर्देहैस्सुलभ एवातिबहुलो भोगः, तथाऽपि वश्यप्रकृतीनां वैचित्र्यकौतुकवता शरीरयोगेन च सुशक इति गुण एव । हृदयस्य भवति हृदयनाद्धृदयो भगवान्, तस्यैव भवति स्वदृष्ट्याऽपीत्यर्थः ॥
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोकेः ॥
इति स्वर्गे शोकाद्यभावश्रवणात्तत्रस्थस्यैतच्छोकतरणमिति चेन्न । स्वाप्ययेत्यादिसूत्रम् ॥ सुप्तौ मोक्षे च ‘तीर्णो हि’ इत्यादिशोकतरणमुच्यते । ‘अत्र पिताऽपिता भवति, माताऽमाता, लोकाऽलोका, देवा ओवा, वेदा अवेदा’ इत्याद्युक्त्वा ‘अनन्वागतं पुण्येनानन्वागतं पापेन’ इति दर्शितत्वात् । जन्ममृत्यादिदं पुण्यं वर्जितं विवक्षितं, मोक्षे ब्रह्मदर्शिकृतमल्पमपि पुण्यं भूरिभोगप्रदमनन्तकालीनं च भवति । उक्तो बृहदारण्यकभाष्ये च सूत्रार्थः ‘तीर्णो हि तदा’ इत्यादि श्रुत्यर्थविवेके– ‘सुषुप्तिमोक्षोभयविवक्षयैव’ तद्वचनमिति भगवताऽप्युक्तं ‘स्वाप्ययसम्पत्त्योरन्यतरा-पेक्षमाविष्कृतं हि’ इति । उभयापेक्षमित्युक्तमोक्षस्थसुषुप्तिरित्यपि मन्दस्याऽशङ्का स्यात् । अतो मोक्षे सुप्तिरेव नास्तीति ज्ञापयितुमन्यतरापेक्षमित्युक्तम् ॥ न त्वन्यतर एवार्थ इति ॥ ज्ञाने विकल्पायोगादिति । अतः सुप्तौ मोक्षे वेति वाशब्दः समुच्चये ।
तत्त्वप्रकाशिका
ननु देहसद्भावे भोगोपपत्तावपि दुःखमप्याप्यत इत्युक्तमेवेत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे ॥ प्रदीपवदिति ॥ न जडशरीरप्रवेशेऽपि दुःखानुभवप्राप्तिः किं तु साधूनेव भोगाननुभवन्ति प्रदीपवदेवेति । श्रुतिस्तु कर्मारब्धदेहविषयेति भावः । तत्प्रकाशयन्तस्तद्विवेकज्ञानवन्त इत्यर्थ इति प्रदीपदृष्टान्तग्रहणे विवक्षोच्यते । ननु देहसद्भावेऽपि कुतो मुक्तस्य दुःखाभावो दृष्टान्तमात्रस्यासाधकत्वादित्यत आह ॥ तीर्णो हीति ॥ देहसद्भावस्तूक्तश्रुतिसिद्धः । दुःखा-भावेऽप्यस्ति श्रुतिरतो न देहमात्रं दुःखहेतुरिति सिध्यतीति भावः ॥
भावबोधः
ननु देहे सति दुःखं स्यादिति तर्कस्योक्तरीत्याऽऽभासात्वेऽपि ‘न ह वै सशरीरस्य’ इति श्रुतेः का गतिरित्यत आह– श्रुतिस्त्विति ॥ भाष्ये तत्प्रकाशयन्त इत्येतदनुपयुक्तं किमर्थमुक्त-मित्यत आह– तत्प्रकाशयन्त इतीति ॥ यथा प्रदीपो दीपिकां प्रकाशयन् तैलाद्येव भुङ्क्ते, तथा मुक्तास्तज्जडशरीरं प्रकाशयन्तः साधूनेव भोगान् अनुभवन्तीति प्रदीपवदिति वक्तुः सूत्रकारस्य विवक्षाऽनेन भाष्येणोच्यत इत्यर्थः ॥
भावदीपः
भाष्यसूत्रे व्याचष्टे ॥ न जडेति ॥ श्रुतिस्त्विति ॥ ‘न ह वै सशरीरस्य’ इति श्रुतिरित्यर्थः । अयं चैच्छिक एव देहः । तथा च न तद्विरोध इति भावः । तत्प्रकाशयन्त इत्येतदुत्सूत्र-मित्यतस्तदर्थं वदन्नेव मूलमाह ॥ तत्प्रकाशयन्त इति ॥ यद्यपि देहात्मविवेकः संसारिणामस्ति । ‘जातमात्रा मृगा गावो हस्तिनः पक्षिणो खगाः’ । भयाभयस्वभोगादौ कारणानि विजानत इति । मम देह इति व्यक्तं ममार्थ इति च स्फुटमित्यादिना चानुभाष्यादौ तथोक्तेः । तथापि स्फुटतरतद्विवेकवन्त इत्यर्थः । दुःखाभावोपपादकत्वेनैतदुक्तिरिति भावः । ननु तीर्ण इति श्रुतौ मुक्तौ दुःखाभावश्रवणेऽपि देहिनो दुःखाभावे किमुक्तं स्यादित्यत आह ॥ देहेति ॥ चिता वाऽचिता वेति श्रुतिसिद्ध इत्यर्थः ॥
वाक्यार्थमुक्तावली
मुक्तानां तनावित्यनुवर्तते । प्रदीपवदिति षष्ट्यर्थे सप्तम्यर्थे च वतिः । तथा च मुक्तानां तनावावेशः प्रवेशः प्रदीपस्य प्रकर्षेण प्रकाशकस्य दीपादिरूपाग्नेः प्रदीपिकादावावेश इव । यथा प्रदीपिकाविष्टः सन् तत्स्थं तैलाद्येव भुङ्क्ते न तु कार्ष्ण्याद्येवं मुक्तो जडदेहं प्रविष्टस्तत्राभिमान-वत्वेऽपि न दुःखं भुङ्क्ते किं तु सुखमेव । कुतः हि यस्मात्तीर्णो हीति श्रुतिस्तथा मुक्ते दुःखाभावं दर्शयति तस्मादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ न जडेत्यादिना ॥ श्रुतिरिति ॥ न ह वै सशरीरस्येति श्रुतिरित्यर्थः । प्रदीपदृष्टान्तलब्धार्थप्रदर्शनपरं तत्प्रकाशयन्त इत्येतदनूद्य व्याचष्टे ॥ तद्विवेकेति ॥ विवेको नाम देहात्मनोरसङ्कीर्णधर्मवत्ता । तज्ज्ञानवन्त इत्यर्थः । अविवेककृतो हि दुःखादिर्विवेकिनां न सम्भवतीति भावः । ननु तीर्णो हीति श्रुतिर्न देहवतोऽपि दुःखाभावं प्रति-पादयति किं तु मुक्तस्य दुःखाभावं तच्चापादनालङ्कार एव देहित्वे दुःखापादनस्य प्रामाणिक-दुःखाभावपरित्यागरूपत्वेनानिष्टत्वोपपादकत्वादित्यतो भाष्याभिप्रायमाह ॥ देहसद्भाव-स्त्वित्यादिना ॥ ज्योतिषैव रूपेण चिता वाचिता वेति पठितश्रुतिसिद्ध इत्यर्थः ॥ अत इति ॥ मुक्ते आपादकदेहसद्भावेऽपि दुःखाभावस्यापि प्रमितत्वेनापाद्याभावात्तर्कस्य पक्ष एव व्याप्ति-विकलत्वादित्यर्थः ॥ न देहमात्रमिति ॥ न सर्वो देहो दुःखहेतुः किं तु कर्मारब्धदेह एव । मुक्तदेहस्तु न कर्मारब्ध इति न दुःखहेतुरित्यर्थः । एतेन विशेषक्लृप्तिरिति न्यायोऽपि दर्शितः ।
तत्त्वसुबोधिनी
ननु देहे सति दुःखं स्यादिति तर्कस्य उक्तरीत्या आभासत्वेऽपि न ह वै सशरीरस्येति श्रुतेः का गतिरित्यत आह ॥ श्रुतिस्त्विति ॥ भाष्ये तत्प्रकाशयन्त इत्यनुपयुक्तं किमर्थमुच्यते इत्यत आह ॥ तत्प्रकाशयन्त इति ॥ यथा प्रदीपो दीपिकां प्रकाशयन् तैलाद्येव भुङ्क्ते तथा मुक्ता तज्जडदुःखशरीरं प्रकाशयन्तः साधूनेव भोगाननुभवन्तीति प्रदीपवदिति वक्तुः सूत्रकारस्य विवक्षाऽनेन भाष्येण उच्यते इत्यर्थः । ननु तीर्णो हीति श्रुतिर् न देहवतोऽपि दुःखाभावं प्रतिपादयति किं तु दुःखाभावं, तच्चापादनानुकूलं भवतीत्यत आह ॥ देहसद्भावस्त्विति ॥
वाक्यार्थविवरणम्
प्रदीपवदिति ॥ वक्ष्यमाणं यद्दुःखादिप्रसक्तिरूपदूषणनिराकरणं तत्प्रस्तावायेत्यर्थः ॥ प्रस्ताव उपोद्घातः ॥ प्रतिदृष्टान्तस्यापीति ॥ तन्वभावेऽपि मृतवद्भोगानुपपत्तिरित्यर्थः ॥ श्रुतिश्चेति ॥ न ह वै सशरीरस्येति श्रुतिरित्यर्थः ॥ विवक्षेति ॥ सूत्रकारस्येति शेषः । यथा प्रदीपो दीपिकां प्रविष्टस्तत्प्रकाशयंस्तैलाद्येव भुङ्क्ते तथा मुक्ता अपि जडशरीरं प्रविश्य तत्प्रकाशयन्तः साधूनेव भोगाननुभवन्तीति प्रदीपवदिति वक्तुः सूत्रकारस्य विवक्षाऽनेन भाष्येणोच्यत इत्यर्थः । भाष्ये हृदयस्यहृदयनस्य, विष्णोः शेषभूतो भृत्यो भवतीत्यर्थो द्रष्टव्यः ॥ उक्तश्रुतीति ॥ ‘चिता वा अचिता’ वेत्युक्तश्रुतीत्यर्थः ॥ न देहमात्रमिति ॥ किन्तु कर्मारब्ध एवेति भावः ।
वाक्यार्थमञ्जरी
मुक्तानामावेशः बाह्यदेहप्रवेशः प्रदीपवत् प्रदीपस्य दीपिकाप्रवेश इव । कुतः । हि यस्मात्तीर्णो हीति श्रुतिस्तथा मुक्तौ दुःखाभावं दर्शयतीत्यर्थः । दीपिकातैलवर्तिकाश्रयदीपमात्रम् । ननु भाष्ये तत्प्रकाशयन्त इत्येतदनुपयुक्तं किमर्थमुक्तमित्यत आह ॥ तत्प्रकाशयंत इति ॥ यथा प्रदीपो दीपिकां प्रकाशयंस्तैलाद्येव भुङ्क्ते तथा मुक्तास्तज्जडशरीरं प्रकाशयन्तः साधूनेव भोगाननुभवन्तीति प्रदीपवदिति वक्तुः सूत्रकारस्य विवक्षाऽनेन भाष्येणोच्यत इत्यर्थः । ननु तीर्णो हीति श्रुतिर्न देहवतो दुःखाभावं प्रतिपादयति किं तु मुक्तस्य दुःखाभावं तदापादनानुकूलमेवेत्यत आह ॥ देहसद्भावस्त्वित्यादिना ॥