ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ
६. सङ्कल्पाधिकरणम्
सूत्रभाष्यम्
॥ ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ ॥ ८ ॥
न तेषां भोगादिषु प्रयत्नापेक्षा ।
‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ इत्यादिश्रुतेः ॥
॥ इति सङ्कल्पाधिकरणम् ॥ ६ ॥
तत्त्वप्रदीपिका
भोगस्य कर्मसाध्यत्वेन लोके दृष्टत्वान्मुक्तभोगस्य चानन्तकालीनस्यानन्तराऽन्तरा प्रयत्न-मन्तरेणासिद्धिरित्यत आह– सङ्कल्पादेव च तत् श्रुतेः ॥ भोगेष्टौ भोगे तदनिष्टावुपरमे च न प्रयत्नापेक्षा सङ्कल्पादेव भोगश्चकारात्तदुपरमश्च भवति । ‘स यदि पितृलोककामो भवति सङ्कल्पा-देवास्य पितरः समुत्तिष्ठन्ति’ इत्यारभ्य ‘यं यमन्तमभिकामो भवति’ ‘यं यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति’ इति श्रुतेः । उक्तं च सत्यकामत्वम् ।
‘कामः सङ्कल्प आनन्दो मुक्तानां तारतम्यतः ।
स्वरूपभूतास्ते सर्वे निर्दोषा गुणरूपका’ इति पाद्मे ॥
तत्त्वप्रकाशिका
अत्र ब्रह्मप्राप्तस्य मुक्तस्य सङ्कल्पमात्रसाध्यभोगवत्त्वसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा संसारसमानधर्मत्वापत्तेस्साधनीयमेतत् । प्रकृतो मुक्तभोग एवात्र विषयः । किं तत्तदुपायसाध्य-साधनसाध्य उत सङ्कल्पमात्रसाध्य इति सन्देहः । लोकदृष्टिरलौकिकत्वं च सन्देहबीजम् । तत्तदुपायसाध्यसाधनसाध्य इति पूर्वः पक्षः । मुक्तस्य भगवदोकसि स्थितत्वात् । भगवदोकसि च भूम्यादिवत्तत्तदुपायसाध्यसाधनसाध्य एव भोगो भवेत् । तस्याप्योकस्त्वसाम्यात् । अन्यथा लोक-विरोधापातात् । तथा च संसारसमानधर्मत्वान्मुक्तेरपुरुषार्थत्वमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ सङ्कल्पादेवेति ॥ न मुक्तानां भोगादिषु तत्तदुपायसाध्यसाधनापेक्षा किं तु सङ्कल्प-मात्रादेव तद्भोगसिद्धिः । कुतः । ‘स यदि’ इति श्रुतेः । श्रुतिविरोधादेवोक्तयुक्तेराभासत्वमिति भावः । चशब्दो विपक्षनिवृत्त्यर्थतया व्याख्यातः । न चैवं सति लोकविरोधः । निर्दोषे भगवदोकसि तथात्वस्यैव युक्तत्वात् । अतो मुक्तभोगस्य सङ्कल्पमात्रसाध्यत्वाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धम् ॥
गुर्वर्थदीपिका
स यदि पितृलोककामो भवतीत्यत्र ‘लोकृ दर्शन’ इति धातोः पितृलोकः पितॄणां दर्शनमित्यर्थः ॥
भावबोधः
सङ्कल्पमात्रसाध्येति । पूर्वाधिकरणे यस्य भोगस्य कारणत्वमुक्तं तस्यात्र सांसारिकभोग-वैलक्षण्याय सङ्कल्पमात्रसाध्यत्वसमर्थनादनन्तरसङ्गतिरिति भावः ॥ किं तदिति ॥ अत्र मुक्तभोगः किं तत्तदुपायसाध्यसाधनसाध्य उत सङ्कल्पमात्रसाध्य इति चिन्ता । तदर्थं तत्तदुपायसाध्यसाधन-साध्यत्वसाधकौकस्त्वयुक्तिरबाधितविषयोत बाधितविषयेति । तदर्थं मुक्तभोगानां सङ्कल्पमात्र-साध्यत्वे प्रबलप्रमाणं नास्त्युतास्तीति । तदर्थं ‘स यदि पितृलोककामो भवति’ इति श्रुतेर्लोक-विरोधः स्यादिति तर्कबाधो भवत्युत न भवतीति । तदर्थमयं तर्को अनाभास उतेष्टापादन-रूपत्वेनाभास इति । भगवदोकसि स्थितत्वान्मुक्तस्य तस्याप्योकस्त्वसाम्येन तत्तदुपायसाध्य-भोगसाधनत्वमित्यत्र न्यायविवरणे तत्तदुपायसाध्यभोगसाधनं यस्मिन्नोकसीति विग्रहो द्रष्टव्यः । न तेषां भोगादिषु प्रयत्नापेक्षेति भाष्यस्योत्सूत्रितत्वपरिहारार्थमाह– चशब्द इति ॥ निर्दोषत्वा-त्तदोकसो मुक्तस्य च ‘सङ्कल्पादेव’ इति श्रुत्यनुसारेणोपपत्तेरिति न्यायविवरणतात्पर्यमाह– निर्दोष इति ॥
भावदीपः
सङ्कल्पेत्यादि बहुव्रीहिः । एतेन पूर्वत्र भोगस्योपकरणमुक्तमत्र तु साधनमुच्यत इति पूर्वसङ्गतिरपि सूचिता ॥ अन्यथेति ॥ तत्तदुपायसाध्यभोगवत्त्व इत्यर्थः ॥ लोकेति ॥ लोके भोगस्य तत्तदुपायसाध्यत्वदृष्टिरित्यर्थः ॥ अलौकिकत्वं चेति ॥ कार्याख्यानादित्यत्र भाष्योक्त-मलौकिकं मुक्तिकार्यं यतोऽस्येति श्रुत्या मुक्तेरलौकिकत्वसिद्धेरिति भावः । भगवदोकसि स्थितत्वान्मुक्तस्य तस्याप्योकस्त्वसाम्येन तत्तदुपायसाध्यभोगसाधनत्वमित्यन्यत्रोक्तौ प्रतिज्ञाहेतू व्यनक्ति ॥ तत्तदुपायेति ॥ हेतोरप्रयोजकत्वशङ्कानिरासायोक्तरूपसाध्ये प्रयोजकतां व्यनक्ति ॥ भगवदोकसि चेति ॥ कुतो भवेदित्यत आह ॥ तस्यापीति ॥ हेतूच्छित्तिरेव बाधिकेति भावेन भावमाह ॥ अन्यथेति ॥ तथा चेति ॥ भोगस्य यत्नसाध्यत्वे सतीत्यर्थः ॥ तत्तदुपायेत्य-न्यत्रोक्तरीत्या नेत्यादिभाष्यं व्याचष्टे ॥ नेति ॥ भोगादीत्यादिपदेनानिष्टोपरमादिर्ग्राह्यः । एवं ह्याकस्मिकता कार्यस्येति पृच्छति ॥ किंत्विति ॥ सङ्कल्पादेवेति सूत्रांशार्थमाह ॥ सङ्कल्पेति ॥ एवेत्यनुवादो मात्रादित्यर्थोक्तिः ।
यद्वा सङ्कल्पादित्यस्यैव सङ्कल्पमात्रादित्यर्थः । एवेत्यनेन तेषां सङ्कल्पस्य सत्यत्वेन कार्याव्यभिचारित्वरूपबलवत्त्वमुच्यते । अत्र मात्रपदेन च तत्तत्कालकृतोपायसाध्यत्वमेव निवार्यते न तु ज्ञानोत्तरकृतपूर्वतननिवृत्तकर्मसाध्यता साऽ्रस्त्येव । तेनास्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजत इति श्रुत्यविरोधः । अग्निहोत्रादि तु तत्कार्यायैवेत्यादि प्रागुक्ताविरोधश्च । श्रुत्युक्तिः प्रागुक्तभगवदोकसिस्थत्वरूपयुक्तिनिरासार्था चेत्युपेत्याह ॥ श्रुतीति ॥ अप्रतीतेर्नेत्यादि भाष्यं चशब्दव्याख्यानमिति दर्शयति ॥ चशब्द इति ॥ निपातानामनेकार्थत्वाच्चशब्दो नञर्थः सन् विपक्षनिवृत्त्यर्थः न तु प्रसिद्धोपायसाध्यो न भोग इत्यर्थे वर्तत इत्यर्थः । एवशब्दो हेतुप्राबल्यार्थ इति भावः ॥ प्रागुक्तमनुवदति ॥ न चैवमिति ॥ भोगस्य सङ्कल्पैकसाध्यत्वे इत्यर्थः । निर्दोषत्वात्तदोकस इत्यन्यत्रोक्तमाह ॥ निर्दोष इति ॥ अत इति ॥ श्रुतिबलाल्लोकविरोधस्यानु-गुणत्वाच्चेत्यर्थः ॥
अभिनवचन्द्रिका
ननु सूत्रस्थ च शब्दाऽव्याख्यानान् न्यूनतेत्यत आह – चशब्द इति ॥ ‘न तेषां भोगादिषु प्रयत्नापेक्षेति भाष्येण’ इति शेषः ।
पूर्वपक्षस्तु तत्तदुपाय साध्यसाधनसाध्यो ओकसि स्थितभोगत्वात् । पृथिव्याद्योकसि स्थित-संसारभोगवत्, अन्यथा लोकविरोधात् । ततश्च सङ्कल्पसाध्यत्वाभावान् मुक्तेरपुरुषार्थत्वमिति ।
सिद्धान्तस्तु सङ्कल्पसाध्य एव मुक्तभोगः नोपायसाध्यः । ‘स यदि पितृलोककामो भवति सङ्कल्पादेवाऽस्य पितरः समुत्तिष्ठन्ति इति श्रुतेः । न च लोकविरोधः । निर्दोषे भगवदोकसि तथात्वस्यैव युक्तत्वात् । अतो मुक्तभोगस्य सङ्कल्पमात्रसाध्यत्वाद् युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धम् ।
वाक्यार्थमुक्तावली
सङ्कल्पमात्रसाध्येति ॥ एवं भगवदङ्गानुगृहीतस्वचिदङ्गैः स्वसङ्कल्पानुसारेण मुक्तानां भोग इति पूर्वाधिकरणे यथेष्टं परिवर्तत इत्यादावुक्तं तदत्र समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ मुक्तभोगः किं तत्तदुपायसाध्यसाधनसाध्य उत सङ्कल्पमात्रसाध्य इति चिन्ता । तदर्थं तस्य भगवदोकसि स्थितस्यापि सङ्कल्पादेव भोगाङ्गीकारे लोकविरोधो भवति न वेति । सौत्रचशब्देन तेषां भोगादिषु प्रयत्नापेक्षेति व्यावर्तनीयं पूर्वपक्षमाह ॥ तत्तदुपायेति ॥ सिद्धान्ते प्रबलश्रुत्युपन्यासेन निरसनीयं तदोक इत्युक्तपूर्वपक्षन्यायं व्यनक्ति ॥ मुक्तस्य भगवदोक-सीत्यादिना ॥ भगवदोकःस्थत्वमप्रयोजकमित्यतो विपक्षे बाधकमाह ॥ अन्यथेति ॥ ओकः-स्थितस्यापि तत्तदुपायसाध्यसाधनसाध्यभोगाभाव इत्यर्थः ॥ न मुक्तानां भोगादिष्विति ॥ अत्रादिपदेन भोगसाधनविषयादिपरिग्रहः । भाष्ये प्रयत्नापेक्षेत्यतः परमध्याहरति किं तु सङ्कल्प-मात्रादेव तद्भोगसिद्धिरिति । सङ्कल्पमात्रमलं तस्मादेवेति योज्यम् । न तेषां भोगादिप्रयत्नापेक्षेति भाष्यस्योत्सूत्रत्वपरिहारार्थमाह ॥ चशब्द इति ॥ न तेषां भोगादीति भाष्ये तच्छब्देन
मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः ।
चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ॥
इति निर्दोषवैकुण्ठादिलोके चतुर्विधनाशादिदोषशून्यभगवत्सायुज्यभाजां संसारिविलक्षणानां तदन्तर्बहिर्वेच्छानुसारेण भोगभाजां मुक्तानां परामर्शेन लब्धसमस्तदोष इत्युक्तन्यायं विशदयन् लोकवैलक्षण्यस्येष्टत्वात्तर्कस्येष्टापादनमाह ॥ निर्दोषेति ॥ एतेन सूत्रे अवधारणेनैव विपक्षस्य व्यावर्तितत्वाच्चशब्दवैय्यर्थ्यमिति निरस्तम् । विपक्षेत्यस्य परपक्षे प्रमाणस्याप्रयोजकत्वेना-भासत्वविबोधनार्थ इत्यर्थाङ्गीकारात् ।
तत्त्वसुबोधिनी
सङ्कल्पमात्रसाध्येति ॥ पूर्वाधिकरणे यस्य भोगस्य कारणमुक्तं तस्यात्र सांसारिकभोग-वैलक्ष्यण्याय सङ्कल्पमात्रसाध्यत्वसमर्थनादनन्तरसङ्गतिरिति भावः । उक्तनियमे हेतुमाह ॥ तस्या-पीति ॥ भगवदोकः स्थितस्यापीत्यर्थः ॥ अन्यथेति ॥ तत्तदुपायसाध्यसाधनसाध्यभोगाभाव इत्यर्थः । तर्हि एवं स्वरूपयुक्तेः का गतिर् इत्यत आह ॥ श्रुतिविरोधादिति ॥ न तेषां भोगादिष्वित्युक्तप्रयत्नापेक्षोक्तिः । भाष्यस्य उत्सूत्रत्वपरिहारार्थमाह ॥ चशब्द इति ॥ तथात्वे अस्यैवेति ॥ उपभोगसाध्यत्वस्यैवेत्यर्थः ।
वाक्यार्थविवरणं
तत्तदुपायेति ॥ तत्तत्कालीनप्रयत्नरूपोपायसाध्यं यत्साधनं स्रक्चन्दनवनितादि तत्साध्य इत्यर्थः ॥ उक्तयुक्तेरिति ॥ भगवदोकःस्थितत्वरूपयुक्तेरित्यर्थः ॥ विपक्षेति ॥ न तेषां भोगादिषु प्रयत्नापेक्षेति पूर्वपक्षनिवृत्त्यर्थतया तत्प्रतिषेधकतया व्याख्यात इत्यर्थः । ननु सङ्कल्पादेवेत्यवधारणे-नैव पूर्वपक्षप्रतिषेधस्य ज्ञातत्वाच् चशब्दस्य तत्प्रतिषेधपरत्वं किमर्थमुच्यत इति चेन्न । एवशब्दोक्त-विपक्षनिवृत्तिविवरणरूप इत्यर्थ इति केचित् । वस्तुतस्तु विपक्षशब्देन पूर्वपक्षफलं गृह्यते । यथा च एवशब्देन तेषां भोगादिषु प्रयत्नापेक्षेति पूर्वपक्षं प्रतिषिध्य चशब्देन पूर्वपक्षफलभूतं यत् संसारसमानधर्मत्वेन मुक्तेरपुरुषार्थत्वं तद्व्यावर्त्यत इति चैवशब्दयोरन्यतरवैय्यर्थ्यं नेति द्रष्टव्यम् । एवं च व्याख्यात इत्यस्य व्याख्यातव्य इत्यर्थः । ननु ओकस्त्वसाम्येऽपि तत्तदुपायसाध्यसाधन-साध्यभोगानङ्गीकारे लोकविरोधः स्यात् । भूम्यादिलोके तत्तदुपायसाध्यसाधनसाध्यभोगस्यैव दर्शनादित्युक्तमाशङ्क्य परिहरति ॥ न चैवं सतीति ॥ तथात्वस्यैवेति ॥ लोकविरुद्धत्व-स्यैवेत्यर्थः ।
वाक्यार्थमञ्जरी
तत्तदुपायेति ॥ तत्र साधनसंपादनोपायसाध्यानि साधनान्यन्नपानादीनि तत्साध्य इत्यर्थः । ओकसि गृहे ॥ ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ ॥ मुक्तस्येदं मे भूयादिति सङ्कल्पादेव भोगो भवति न तु प्रयत्नेन । कुतस् तच्छ्रुतेः सङ्कल्पादेवेति श्रुतौ तस्यार्थस्य श्रवणादित्यर्थः ॥ विपक्षेति ॥ पूर्वपक्षेत्यर्थः । व्याख्यातो न तेषामित्यादिना ॥
॥ इति सङ्कल्पाधिकरणम् ॥ ६ ॥