०५ चितिमात्राधिकरणम्

ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ

सूत्रभाष्यम्

॥ ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ ॥ ७ ॥

‘स वा एष एतस्मान्मर्त्याद्विमुक्तश्चिन्मात्रीभवत्यथ तेनैव रूपेणाभिपश्यत्यभि-शृणोत्यभिमनुतेऽभिविजानाति तामाहुर्मुक्तिः’ इति सौपर्णश्रुतौ चिन्मात्रेणाप्युपन्यासा-ज्जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बादरायणो मन्यते । नारायणाध्यात्मे च–

‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः ।

चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ॥

तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् ।

कुर्वन्ति भुञ्जते भोगांस्तदन्तर्बहिरेव वा ॥

यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिता’ इति ॥ ७ ॥

॥ इति चितिमात्राधिकरणम् ॥ ५ ॥

तत्त्वप्रदीपिका

उभयत्रापि प्रमाणसद्भावाच्चिन्मात्रकेन स्वदेहेन ब्रह्मदेहेन च साहित्येन भोगाविरोधं भगवान् बादरायणो मन्यते । साहित्यमनुग्राह्यानुग्राहकभावेन । उक्तं प्रागेव जीवानां सामान्यतः पारतन्त्र्यम् । तद् आमुक्तेरेवेति शङ्का मा भूदित्ययं निर्णयः । प्रत्यक्षत एव सिद्धो मुक्तानां भगव-न्नियतो भोग इति च प्रदर्शनाय ॥

तत्त्वप्रकाशिका

नैतौ परिहारावुपपन्नौ देहभावाभावयोर्विरुद्धत्वाद्वस्तुविकल्पासम्भवादित्याशङ्कां परिहरत्सूत्र-मुपन्यस्य व्याचष्टे ॥ एवमपीति ॥ नैतयोः पक्षयोर्विरोधोऽस्ति । औडुलोमिनोक्तस्य चिन्मात्रेण भोगस्य जैमिन्युक्तस्य च ब्राह्मेण देहेन भोगस्य प्रामाणिकत्वात् । प्रामाणिके च विरोधाभावात् । न चौडुलोमिमते प्रमाणाभावोऽनुक्तत्वादिति वाच्यम् । ‘स वा एषः’ इति श्रुतौ तदुपन्यासादिति भगवान् बादरायणो मन्यत इति भावः । अविरोधप्रकारं स्मृत्या दर्शयति ॥ नारायणेति ॥ अतो मुक्तौ भोगसम्भवाद्युक्तं पुरुषार्थत्वमिति सिद्धम् ॥

गुर्वर्थदीपिका

जैमिन्युक्तस्य च भावादित्यत्र जैमिन्युक्तस्य बाह्यदेहपरित्यागस्य भगवदङ्गाश्रितनिजदेहेन भगवता सहभोगस्य च सद्भावादित्यर्थः । एवं तर्ह्युभयमतेऽपि चिन्मात्रदेहसद्भावे जैमिन्यौडुलोमि-मतयोः को विशेष इति चेन्न । स्मृत्युक्तप्रकारेण हरिदेहे स्थित्वा स्वचिन्मात्रदेहेन भोगोऽस्तीति जैमिनिमतम् । बहिरपि चिन्मात्रदेहेन भोगोऽस्तीत्यौडुलोमिमतमिति विशेषसद्भावात् । न चैवं परस्परविरोधः शङ्क्यः । जैमिनिमतस्य सायुज्यदशाकालीनभोगविषयत्वात् । औडुलोमिमतस्य च सायुज्यभाजामेव कादाचित्कबहिर्भोगविषयत्वात्सालोक्यादिमुक्तिविषयत्वाच्च न विरोधः ।

भावबोधः

अनुक्तत्वादिति ॥ ‘सर्वं वा एतत्’ इति श्रुतौ मुक्तस्य चिच्छरीरमात्रोक्तावपि तस्य भोग-कारणत्वानुक्तेरित्यर्थः ॥ स वा एष इति श्रुताविति ॥ उपलक्षणं चैतत् । कथं मुक्तस्य चिन्मात्र एव देहो भवतीत्यादिन्यायविवरणोदाहृतश्रुतावित्यपि द्रष्टव्यम् ॥ स्मृत्या दर्शयतीति ॥ स्मृतौ ‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः’ इत्यनेन जैमिनिमतस्य नश्वरदेहाभावाभ्युपगमरूपत्वेन व्यवस्थयाविरोधपरिहारप्रकारस्योक्तत्वादिति भावः । ‘सायुज्यभाजां भगवत्प्रवेशो न भोगस्य गच्छामि’ इति श्रुत्युक्तरीत्या तदाशासितत्वेन तथा भोगस्य बहिर्भोगापेक्षया प्राथम्यप्राधान्य-बाहुल्यादिना चाभ्यर्हितत्वेनाद्ये सूत्रे तत्र प्रमाणोक्तिः । द्वितीये तदनुग्राह्यतया कादाचित्क-बहिर्भोगकारणतया च ब्राह्मदेहापेक्षयाऽप्रधानजीवस्वरूपचितिमात्रदेहोक्तिः । तृतीये चिन्मात्रदेहस्य भोगकारणत्वे प्रमाणविशेषोक्तिपूर्वकं मुनिमतयोः स्वमतत्वोक्त्याऽविरोधोक्तिरिति सूत्रक्रमः ॥

भावदीपः

नैताविति ॥ पूर्वयोगद्वयोक्तावित्यर्थः । उभयत्राप्यविरोधमित्यंतभाष्यं व्युत्क्रमेण व्याचष्टे ॥ नैतयोरिति ॥ चिन्मात्रेणेत्यनन्तरं भोगस्येति शेषमुपेत्य चिन्मात्रेण भोगस्य जैमिन्युक्तस्य भावात् प्रमाणभावादित्यर्थमुपेत्य व्याचष्टे ॥ औडुलोमिनेति ॥ हेतोरप्रयोजकत्वं निराह ॥ प्रामाणिके चेति ॥ श्रुतौ चिन्मात्रेण भोगस्योपन्यासादित्यंशं व्याचष्टे ॥ न चेति ॥ स वा एष एतदिति श्रुते-र्भाष्यकृतैवोक्तत्वेन सूत्रेऽनुक्तिमभिप्रेत्योक्तमनुक्तत्वादिति । प्रमाणस्येति शेषः । एवं चात्र सूत्रे उपन्यासादित्युक्तिर्युक्तेति भावः ॥ अत इति ॥ ब्राह्मदेहस्य तदन्यचिन्मात्रदेहस्य च भावादित्यर्थः ॥

वाक्यार्थमुक्तावली

विरुद्धत्वादिति ॥ ननु स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्येति मर्त्यशरीरा-भावस्तत्रोक्तः । अत्र तु चिन्मात्रदेह उक्तः । कुतो विरोध इति चेन् मर्त्यशरीरातिरिक्तचिन्मात्र-शरीरस्यैवाप्रामाणिकत्वेन शरीरं नास्ति शरीरमस्तीत्येव प्राप्तत्वाद्भाष्यकारैरुपन्यस्तप्रमाणस्य मुक्तस्य चिन्मात्रीभावविषयत्वेऽपि चिन्मात्रशरीराविषयत्वादिति भावः । सूत्रे एवंशब्दः प्रकृत-चिन्मात्रविग्रहकरणकभोगपरः । अपिशब्दः पूर्वसूत्रे सामान्येन प्रवृत्तभाष्योदाहृतोद्दालकश्रुति-समुच्चयार्थः । अन्यथा भाष्ये उद्दालकश्रुत्युदाहरणस्योत्सूत्रत्वप्रसङ्गात् । यद्वा जैमिन्युक्त-माध्यन्दिनायनश्रुत्या इहोदाह्रीयमाणसौपर्णश्रुतिसमुच्चयार्थः । पूर्वभावादित्यस्य पूर्वोक्तेन ब्राह्मेण देहेनैव भोगो न मर्त्यदेहेनेत्यत्रापि भावात्प्रमाणभावादित्यर्थः । यद्वा पूर्वोक्तस्य ब्राह्मेणैव देहेन भोगस्य भावात्सत्वात् । सत्वं च प्रामाणिकत्वमिह विवक्षितमिति प्रामाणिकत्वादित्यर्थ इत्याभिप्रेत्य व्याचष्टे ॥ नैतयोरित्यादिना ॥ स्मृत्येति ॥ अपिशब्दगृहीतयेति शेषः । अत्राद्ये सायुज्य-भाजामपेक्षितस्य ब्राह्मेण देहेन भोगस्य तदितरदेहाभावस्य चोक्तिः । द्वितीये तदङ्गानुगृहीतस्वाङ्गै-र्भोगोक्तिः । तृतीयेऽविरोधसमर्थनमिति सूत्रक्रमः ।

तत्त्वसुबोधिनी

स्मृत्या दर्शयतीति ॥ स्मृतौ ‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः’ इत्यनेन जैमिनि-मतस्य नश्वरदेहाभावावगमरूपत्वेन औडुलोमिमतस्य चिन्मातृदेहाभ्युपगमरूपत्वेन व्यवस्थयाऽ-विरोधप्रकारस्य उक्तत्वादिति भावः । अत्र आद्ये सूत्रे भगवत्प्रवेशेन भोगे प्रमाणोक्तिः । द्वितीये जीवस्वरूपचितिमात्रदेहोक्तिः । तृतीये मुनिमतयोः स्वमतोक्त्या अविरोधोक्तिरिति सूत्रक्रमः ।

वाक्यार्थविवरणं

वस्त्विति ॥ एकस्मिन्नेव मुक्ते देहित्वादेहित्वरूपविरुद्धधर्मद्वयालिङ्गितत्वासम्भवादित्यर्थः ॥ अनुक्तत्वादिति ॥ सर्वं वा एतदिति श्रुतौ चिन्मात्रदेहोक्तावपि तेन भोगानुक्तेश् चिन्मात्रदेहेन भोगे प्रमाणाभाव इत्यर्थः ॥ तदुपन्यासादिति ॥ तेन चिन्मात्रदेहेन भोगोपन्यासादित्यर्थः ।

वाक्यार्थमञ्जरी

वस्तुविकल्पेति ॥ वस्तुनि मुक्ते देहवत्वतद्राहित्यरूपद्वैविध्यायोगात् ॥ ॐ एवमप्युपन्यासा-त्पूर्वभावादविरोधं बादरायणः ॐ ॥ एवमपि चिन्मात्रदेहत्वेन भोगान् भुङ्क्ते इत्येवंप्रकारेणाप्युप-न्यासात्, स वा एष इति श्रुत्युक्तत्वात्, पूर्वभावात्पूर्वस्य जैमिन्युक्तस्य देहान्तरत्यागेन ब्राह्मेण देहेन सत्वस्य भावाद् ब्रह्मणीति श्रुतिसिद्धत्वेन सत्वादविरोधं जैमिन्यौडुलोमिमतयोर्मर्त्यामर्त्यदेह-भावाभावाभ्युपगमेन विरोधाभावं बादरायणो मन्यत इति भावः ॥

॥ इति चितिमात्राधिकरणम् ॥ ५ ॥


ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ

५. चितिमात्राधिकरणम्

सूत्रभाष्यम्

॥ ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ ॥ ५ ॥

सर्वदेहपरित्यागेन मुक्ताः सन्तो ब्राह्मेणैव देहेन भोगान्भुञ्जत इति जैमिनिर्मन्यते ।

‘स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृृणोति ब्रह्मणैवेदं सर्वमनुभवति’ इति माध्यन्दिनायनश्रुतावुपन्यासात् ।

‘आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति ।

गच्छेच्च हरिपादाभ्यां मुक्तस्यैषा स्थितिर्भवेत्’ इति स्मृतेः ॥

‘गच्छामि विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् ।

इत्यादि पूर्वस्मरणान्मुक्तस्यैतद्भविष्यति’ इति बृहत्तन्त्रोक्तयुक्तेश्च ॥

तत्त्वप्रदीपिका

सर्वदेहपरित्यागेनेति स्थूलसूक्ष्मशरीरविवक्षयोच्यते, न तु चिन्मात्रदेहविवक्षयाऽपि, श्रुतौ मर्त्यमिति विशेषणात् । ‘अतिसृज्य ब्रह्माभिसम्पद्य’ इति चोक्तेः । ‘इदं शरीरं मर्त्यमतिसृज्य’ इति श्रुत्युक्ते स्थूलशरीरमेवातिसृज्येति मतिर्मा भूदिति सर्वदेहपरित्यागेनेत्युक्तम् । सूक्ष्मशरीरस्यापि प्रत्यक्षैकदेशत्वादिदन्त्वम् । प्रलयेऽपचयान्मुक्तौ विनाशाच्च मर्त्यत्वम् । ब्राह्मेणैव देहेनेत्ययोगव्यवच्छेदः । न ब्राह्मेण देहेन विना भोगोऽस्तीति हेत्वर्थे वा । चिता वाऽचिता वेति विकल्पाम्नानाच्चिदात्मकात्स्वदेहादन्यदेहस्यापि भावं वक्ष्यमाणो जैमिनिर्मुक्तानां चिदानन्दात्मकं देहं प्रतिषेधतीति न मन्तव्यम् ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तस्य मुक्तस्य भोगसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा मुक्तेरपुरुषार्थत्व-प्रसङ्गात्समर्थनीयं तत् । भोगो विषयः । मुक्तानां युक्तो न वेति सन्देहः । विप्रतिपत्तिः सन्देह-बीजम् । न युक्त इति पूर्वः पक्षः । तथा हि । किं मुक्तानां देहोऽस्ति न वा । नाद्यः । तेषां संसार-पारङ्गतत्वेन शरीरानुपपत्तेः । अन्यथा मुक्तत्वस्यैवायोगात् । न द्वितीयः । शरीराभावे भोगासम्भवात् । अतो मुक्तौ भोगासम्भवादपुरुषार्थत्वमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ ब्राह्मेणेति ॥ युज्यते मुक्तस्य भोगः । न चोक्तविकल्पः । देहाभावाभ्युपगमात् । सर्वदेहपरित्यागेनैव मुक्तत्वात् । न चोक्तदोषः । मुक्तस्य स्वदेहाभावेऽपि परमात्मानं प्रविष्टस्य तद्देहेनैव ग्रहवद् भोगसम्भवादिति जैमिनिराचार्यो मन्यत इति भावः । कुत एतत् । श्रुतेरेवेत्याह ॥ स इति ॥ नन्वत्र मुक्तस्य भोगो ब्रह्मणा श्रूयते न पुनस्तद्देहेनेत्यत आह ॥ आदत्त इति ॥ ननु स्वयं देहविधुरस्य कथमन्यदेहेन भोगो युज्यते । प्रलयादावभावादित्यत आह ॥ गच्छामीति ॥

भावबोधः

भोगस्य समर्थनादिति ॥ पूर्वाधिकरणे सायुज्यभाजां भगवद्भुक्तभोग उक्तः । तस्यात्र भगवद्देहादिकारणविशेषोक्त्या समर्थनादनन्तरसङ्गतिरिति भावः ॥ मुक्तानामिति ॥ सायुज्यभाजां भोगो न युक्त उत युक्त इति चिन्ता । तदर्थं तत्कारणरूपो देहो मुक्तानां न सम्भवत्युत सम्भवतीति । तदर्थं संसारपारगतिरूपा मुक्तिर्देहमात्रविरोधिनी उत मर्त्यदेहैकविरोधिनीति । तदर्थं मर्त्यदेहैकविरोधित्वपक्षेऽपि ब्राह्मचितिमात्रदेहाभ्यां भोगो न युज्यत उत युज्यत इति । तदर्थं ‘ब्राह्मेण’ इति जैमिनिमतस्य सायुज्यभाजां स्वदेहाभावाभ्युपगमरूपत्वेन ‘चितिमात्रेण’ इत्यौडुलोमिमतस्य तेषां स्वदेहाभ्युपगमरूपत्वेन परस्परं विरोध उताविरोध इति । तदर्थं ब्राह्म-चितिमात्रदेहयोः सायुज्यभाजामन्तर्बहिर्भोगकारणत्वे विशेषप्रमाणं नास्त्युस्तीति । पारगतत्वा-न्मुक्तस्य चिन्मात्रदेहोऽपि नास्तीति न्यायविवरणं सोपस्करं व्याचष्टे– तेषां संसारपारङ्गतत्वेनेति ॥ मुक्तस्येति न्यायविवरणसूचिततर्कमाह– अन्यथेति ॥ सूत्रनिरसनीययुक्तिमाह– शरीराभाव इति ॥ देहाभावाभ्युपगमे हेतुमाह– सर्वदेहेति ॥ अनेन भाष्ये ब्रह्मणैवेत्येवकारोक्तदेहाभावे सर्वदेहपरित्यागेन मुक्ताः सन्त इत्यनेन हेतुरुच्यत इति, तृतीयाया इत्थंभावार्थत्वमिति चोक्तं भवति ।

भावदीपः

मुक्तस्य भोगेति ॥ अमुक्तस्यापि ब्रह्मप्राप्तिरुक्तेति मुक्तस्येत्युक्तम् । देहाद्यभावप्रयुक्त-तदभावशङ्कानिरासेनेति योज्यम् । तेन तस्य च भोग आवश्यक इत्याद्यनय एवोक्त्याऽस्य वैयर्थ्य-शङ्काऽपास्ता । प्रागुक्तो भगवदनतिक्रमेण भोगो वा भगवद्भुक्तभोगो वा न युक्तः । भोगसामान्य-स्यैवायोगादितीह शङ्कोत्थानात्पूर्वसङ्गतिरपि सूचिता । विप्रतिपत्तिर्वादिविवादः । न युक्त इत्यत्र हेत्वाकाङ्क्षायां पारङ्गतत्वान्मुक्तस्य चिन्मात्रदेहोऽपि नास्तीत्यन्यत्रोक्तापिपदसूचितदेहाभावहेतु-मसिद्धिनिरासाय विकल्पमुखेनाह ॥ किमिति ॥ पारङ्गतत्वहेतोरप्रयोजकत्वं निराह ॥ अन्यथेति ॥ भोगासम्भवादिति ॥ विषयदर्शनादिरूपत्वाद्भोगस्येति भावः ॥ अत इति ॥ भोगाविना-भूतदेहाभावादित्यर्थः ॥ प्रागुक्तशङ्कानिरासकतया भाष्यं व्याचष्टे ॥ युज्यत इत्यादिना ॥ सर्वदेहेति ॥ स्थूलसूक्ष्मसर्वदेहेत्यर्थः । श्रुतौ मर्त्यमिति विशेषणात् ॥

अभिनवचन्द्रिका

न द्वितीय इति ॥ द्वितीयः पक्षो नाङ्गीकर्तुमुचित इत्यर्थः । एतेन ‘नाद्य’ इत्याद्यपक्षं निषेधता द्वितीयपक्षस्याऽङ्गीकृतत्वेन पुनस्तन्निषेधे व्याघात इति परास्तम् ॥ न चोक्तविकल्प इति ॥ प्रसज्यत इति शेषः ।

पूर्वपक्षस्तु न मुक्तानां भोगो युक्तः शरीराभावात् । न च तेषामपि देहो विद्यते इति वाच्यम् । मुक्तत्वव्याघातात् । अतो मुक्तौ भोगासम्भवान् मुक्तेरपुरुषार्थत्वमिति ।

सिद्धान्तस्तु नास्त्येव मुक्तानां देहस् तथापि ब्राह्मेण देहेन भोगो युज्यते । ‘स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माऽभिसंपद्य ब्रह्मणा पश्यति’ इत्युपन्यासात् । ‘आदत्ते हरिहस्तेन’ इति स्मृतेश्चेति जैमिनिराचार्यो मन्यते । मुक्तानामपि चिन्मात्रदेहो विद्यते । ‘सर्वं वा एतदचित्परित्यज्य चिन्मात्र एव एष भवतीत्युद्दालकश्रुतेश् चिन्मात्रेण देहेन मुक्ता भोगान् भुञ्जत इत्यौडुलोमिराचार्यो मन्यते । न च एतन्मतयोर्विरोध इति वाच्यम् । ‘स वा एतस्मान् मर्त्याद्विमुक्तश् चिन्मात्रो भवति । अथ तेन रूपेणाऽभिपश्यति’ इति सौपर्णश्रुतौ उपन्यासाज् जैमिन्युक्तस्यापि प्रामाणिकत्वाद् अविरोध इति बादरायणोक्तेर् भोगसम्भवाद् युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धम् ।

वाक्यार्थमुक्तावली

भोगसमर्थनादिति ॥ पूर्वाधिकरणे सायुज्यभाजां भगवद्भुक्तभोग उक्तः । तस्य भगवद्देहादि-कारणविशेषोक्त्या समर्थनादनन्तरसङ्गतिरिति भावः । मुक्तानां भोगः किमयुक्त उत युक्त इति चिन्ता । तदर्थं मुक्तानां भोगव्यापकस्य देहस्य सद्भावे चानुपपत्तिरस्ति न वेति । चितिमात्रेणेति सूत्रनिरस्यं परागतिरित्युक्तन्यायं व्यञ्जयन्नाद्यं प्रतिक्षिपति ॥ नाद्य इत्यादिना ॥ अप्रयोजकत्वं परिहरति ॥ अन्यथेति ॥ शरीराभ्युपगम इत्यर्थः । ब्राह्मेणेति सूत्रनिरस्यं पूर्वपक्षमाह ॥ न द्वितीय इत्यादिना ॥ सूत्रे आगामिसूत्राद्बुध्या विवेकेन मात्रेणेत्याकृष्यत इति भावेन भाष्ये ब्राह्मेणैव देहेनेत्येवकारः । तेन तदतिरिक्तलिङ्गशरीरस्थूलशरीराभावो लब्धः । तत्र सर्वदेहपरित्यागेन मुक्ताः सन्त इति हेतुरुच्यते । इत्थंभूतलक्षणे तृतीया । सर्वदेहपरित्यागरूपमुक्तिं प्राप्ता इत्यर्थः । यद्वा मुक्तपदेन व्यक्तानन्दत्वमुच्यते । तत्र स्थूलसूक्ष्मदेहपरित्यागो हेतुरिति करणे तृतीयेति भावेन सर्वदेहपरित्यागेनेत्यादिभाष्यं व्याचष्टे ॥ युज्यत इत्यादिना ॥ तत्र भोगान् भुंजत इत्यस्यार्थो युज्यत इति । अवधारणलब्धार्थमाह ॥ देहेति ॥

तत्र हेतुतया सर्वदेहेत्येतद्योजयति ॥ सर्वेति ॥ ब्राह्मेणेत्येतद्व्यावर्त्यकथनपूर्वं व्याचष्टे ॥ न चेत्यादिना ॥ न पुनस्तद्देहेनेति ॥ ब्राह्मेणेत्यस्य तत्प्रसादेनेत्यर्थसम्भवादिति भावः । प्रलये तदभावादिति सर्वेषां ब्रह्मदेहेन भोगाभावादित्यर्थः । इदमुक्तं भवति । यदि स्वस्य भोगायतनदेहान्तराभावेऽपि वैष्णवदेहेन भोगोऽङ्गीक्रियते सर्वेषां प्रलये तत्प्रसङ्गः । न चासावस्त्यतो न मुक्तावपि ब्राह्मदेहेन भोग इति चेन्न । पूर्वस्मिन्काले संसारे विष्णुपादाभ्यां गच्छामीत्युपास्ति-सद्भावेन मुक्तानां तद्योग्यानां तदुपपत्तावप्यन्येषां तदभावेन तर्कस्याप्रयोजकत्वादिति । स्मृतौ गच्छामीत्यस्योत्तरत्र गच्छामीत्यर्थः । दर्शनमित्यतः परं भविष्यतीति शेषः । यद्वा संसार एव हरिपादाभ्यामहं गच्छामि हरिदृष्ट्यैव मे दर्शनं जातम् । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां चास्वतन्त्रत्वं स्वातन्त्र्येण ज्ञानादिजनकानि हरीन्द्रियाण्येवेति पूर्वस्मरणान्मुक्तस्यैतद्भविष्यतीत्यर्थः ।

तत्त्वसुबोधिनी

अन्यथेति ॥ सशरीरत्व इत्यर्थः । सूत्रनिरसनीयां युक्तिमाह ॥ शरीराभाव इति ॥ शरीरवत एव भोगस्य लोके दृष्टत्वादिति भावः । देहाभावाभ्युपगमे हेतुमाह ॥ सर्वदेहेति ॥ अनेन भाष्ये ब्राह्मेणैव इत्येवकारोक्तदेहाभावे सर्वदेहपरित्यागेन मुक्ताः सन्त इत्यनेन हेतुरुच्यत इति तृतीयपादान्तर्भाव अर्थत्वमिति चोक्तं भवति ॥ न चोक्तेति ॥ भोगासम्भवरूप इत्यर्थः । इत्यादिपूर्वस्मरणादित्यत्र पूर्वं स्मरणं पूर्वस्मरणमिति विग्रहः । पूर्वम् एवंविधस्मरणादित्यर्थः ।

वाक्यार्थविवरणम्

अयोगादिति ॥ शरीरत्वेन संसारित्वापत्तेरित्यर्थः ॥ भोगासम्भवादिति ॥ शरीरस्य भोगायतनत्वादिति भावः ॥ ब्रह्मणेति ॥ परब्रह्मानुग्रहेणेत्यर्थः । प्रलये भगवदुदरस्थितानामपि तद्देहेन भोगाभावादिति भावः ।

वाक्यार्थमञ्जरी

पारम् अन्तम् ॥ अयोगादिति ॥ सर्वदेहपरित्यागस्यैव मुक्तिशब्दार्थत्वादिति भावः । ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ । मुक्तो ब्राह्मेण परब्रह्मसम्बन्धिना देहेन भोगान् भुंक्ते इति जैमिनिराचार्यो मन्यत इत्यर्थः ॥ कुतः ब्रह्मणेति श्रुतौ तथोपन्यासाद् उक्तत्वात् । आदिशब्दोक्त-श्रुतियुक्तिभ्यां चेति जैमिनिराचार्यो मन्यत इत्यर्थः ॥ ग्रहवत् पिशाचवत् ॥ प्रलयादाव-भावादिति ॥ तदानीं सर्वेषां ब्रह्मप्रवेशादित्यर्थः ।