०४ अविभागाधिकरणम्

ॐ अविभागेन दृष्टत्वात् ॐ

४. अविभागाधिकरणम्

सूत्रभाष्यम्

॥ ॐ अविभागेन दृष्टत्वात् ॐ ॥ ४ ॥

ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते ।

‘यानेवाहं शृृणोमि यान् पश्यामि याञ्जिघ्रामि तानेवैत इदं शरीरं विमुच्यानुभवन्ति’ इति दृष्टत्वाच्चतुर्वेदशिखायाम् ।

भविष्यत्पुराणे च–

‘मुक्ताः प्राप्य परं विष्णुं तद्भोगाल्लेशतः क्वचित् ।

बहिष्ठान्भुञ्जते नित्यं नानन्दादीन्कथञ्चन’ इति ॥

॥ इति अविभागाधिकरणम् ॥ ४ ॥

तत्त्वप्रदीपिका

स्वरूपानन्दव्यतिरेकेण बहिर्भोगाश्च सन्ति मुक्तानामित्युक्तम् । के पुनस्त इत्याकाङ्क्षायां प्राप्तं ये परमेश्वरस्य भोगा न ते मुक्तानां भोग्याः, तदन्य एव, तस्य परमैश्वर्यवतो भोगानामत्युच्चत्वात्, ततो निकृष्टानां तत्तन्त्राणां तदनधिकारात्, ‘न चाऽधिकारिकमपि’ इत्युक्तन्यायाच्चेत्यत आह– अविभागेन दृष्टत्वात् ॥ ये परमात्मभोग्या न तेभ्योऽन्ये मुक्तभोग्याः । सर्वभोगवत्वात्तस्य । किन्तु अविभागेन तेषामेव केचिदत्यल्पा मुक्तैर्भुज्यन्ते । तथा दृष्टत्वात्स्मृतत्वाच्च । यथा राजादिषु मन्त्र्यादयः सामान्यभोगान्गीतलास्यादीननुभवन्ति । न त्वसाधारणानन्तः पुरादिगोचरान् । विभक्तभोग्याङ्गीकारे परमात्मनस्तद्भोगाभावात्सुखापरिपूर्तिप्रसङ्गः ॥

तत्त्वप्रकाशिका

अत्र सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथेश्वरस्य सर्वभोक्तृत्वासिद्धेः समर्थनीयमेतत् । परमात्मानं प्राप्य मुक्तो भोगान् भुङ्क्त इत्युक्तम् । प्राप्तिश्च सायुज्यादिरूपा । तत्र ते भोगा एव विषयः । किं परमात्मभुक्ता एव सायुज्यभाग्भिर्भुज्यन्ते उतान्य इति सन्देहः । उभयथापि सम्भवः सन्देहबजीजम् । परमात्माभुक्ता इति पूर्वः पक्षः । मोक्षस्य परमपुरुषार्थत्वेन परमात्माभुक्तभोगानामपि सौलभ्यात् । परमात्मभुक्ता एवेति नियमे कदाचित् सञ्जातभोगेच्छानामपि मुक्तानां भोगाभावप्रसङ्गात् । ईश्वरस्य नित्यपूर्णानन्दत्वेन कदाचिदभोगस्यापि सम्भवात् । ततश्च मोक्षस्यापुरुषार्थत्वापत्तिः स्यात् । अतो भगवदभुक्तभोगभोक्तृत्वान्मुक्तानां न तस्य सर्वभोक्तृत्वमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ अविभागेनेति ॥ ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते न तु तदभुक्ताः । तथा श्रुतेरित्यर्थः । न च परमगतित्वादे-तत्कल्प्यम् । मुक्तानां परमात्मभुक्तभोगाङ्गीकारेऽपि तदुपपत्तेः । न च कदाचिदुक्तरीत्या भोगाभावः । ‘पूर्णानन्दः पूर्णभुक् पूर्णकर्ता’ इतीश्वरस्य पूर्णानन्दत्वेऽपि पूर्णभोगश्रवणात् । ननु भगवद्भुक्ताशेष-भोगा मुक्तैर्भुज्यन्ते केचिद्वा । आद्ये तत्साम्यापातः । न द्वितीयः । ‘यानेव’ इति सामान्यतः सर्वभोगश्रवणादित्यत आह ॥ भविष्यदिति ॥ विशेषस्मृत्या सामान्यश्रुतेः सङ्कोच इति भावः । अतो मुक्तानां भगवद्भुक्तभोगभोक्तृत्वाद्युक्तं तस्य सर्वभोक्तृत्वमिति सिद्धम् ॥

भावबोधः

अनन्तरसङ्गतिमाह– परमात्मानं प्राप्येति ॥ पूर्वाधिकरणे ‘स तत्र पर्येति’ इति वाक्योक्त-दिव्यभोगभोक्तृमुक्तप्राप्यस्य परञ्ज्योतिःशब्दवाच्यस्य विष्णुत्वसमर्थनेनास्य निष्टङ्कितत्वादिति भावः ॥ किमिति ॥ अत्र ‘रममाणः’ इत्यादिवाक्योक्ता रमणादिदिव्यभोगा मुक्तैः परमात्मभुक्ता एव भुज्यन्ते उत परमात्माभुक्ता एवेति चिन्ता । तदर्थं नियमपक्षे मुक्तैः परमपुरुषार्थत्वं न सम्भवत्युत सम्भवतीति । तदर्थं मुक्तानां कदाचित् कामिताप्राप्तिरुत सर्वदा कामिताप्राप्तिरेवेति । तदर्थं पूर्णानन्दस्यापि परमात्मनो भोगः किं कादाचित्क उत सार्वकालिक इति । तदर्थं तद्भोगस्य सार्वकालिकत्वे प्रमाणं नास्त्युतास्तीति । परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्तीति न्यायविवरणानुसारेण पूर्वपक्षमाह– परमात्माभुक्ता इति ॥ अनेनेश्वरेत्यादिप्रतिज्ञांशो व्याख्यातः । परमगतित्वस्य हेतुत्वं घटयति– मोक्षस्येति ॥ ईश्वरस्य स्वत एव पूर्णानन्दत्वादभोगस्यापि सम्भवादिति न्यायविवरणं विपक्षबाधकप्रदर्शनपरत्वेन व्याचष्टे – परमात्मभुक्ता एवेति नियम इति ॥ परमगतित्वहेतोरप्रयोजकत्वमाह– मुक्तानामिति । उक्ततर्कदूषणपरत्वेन

‘पूर्णानन्दः पूर्णभुक् पूर्णकर्ता पूर्णज्ञानः पूर्णभाः पूर्णशक्तिः ।

आश्चर्यत्वाद्भगवान् वासुदेवो विरुद्धशक्तिर्न च दोषस्पृगीशः ॥’

इति आश्चर्यतयैव ब्रह्मण उभयोक्तेरिति न्यायविवरणं व्याचष्टे– पूर्णानन्द इति । न्यायविवरणगतस्योभयोक्तेरित्यस्य व्याख्यानं पूर्णानन्दत्वेऽपि पूर्णभोगश्रवणादिति ॥

ननूपपत्तित्वाविशेषात् परमगतित्वस्य कथमाश्चर्यत्वेन बाध इत्यत उक्तं न्यायविवरणे सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव प्रबलत्वादिति । अत्र श्रुतिशब्देन ‘पूर्णानन्दः पूर्णभुक्’ इत्युदाहृतश्रुतिरेव ग्राह्या न तु श्रुतिलिङ्गमित्युक्तश्रुतिरिति ज्ञातव्यम् ॥

भावदीपः

भगवद्भुक्तभोगभोक्तृत्वेति ॥ एतेन ब्रह्म प्राप्य भोगान् भुङ्क्ते मुक्त इति पूर्वनयैः सिद्धे सत्यत्र ते भोगाः कीदृशा इति जिज्ञासायां भगवद्भुक्तशेषा इति साधनात्पूर्वसङ्गतिः सूचिता । ब्रह्मप्राप्तेः सायुज्यादिरूपत्वात्सायुज्यभाजां प्राथमिकत्वात्तद्भोगविशेष आदौ चिंत्यत इति भावेन सायुज्यभाजामित्युक्तम् ॥ अन्यथेति ॥ भुक्तभोगाभोक्तृत्वे गुहां प्रविष्टावित्यत्र उक्तसर्वशुभ-भोक्तृत्वासिद्धेरित्यर्थः । एतद्विचारस्याप्रकृतत्वं निराह ॥ परमात्मानमिति ॥ सायुज्यादीति ॥ सालोक्यं च समीपत्वं सारूप्यं योग एव चेति वक्ष्यमाणदिशा सालोक्यादिरादिपदार्थः । अतः सायुज्यभाजां भोगचिन्ताप्रकृतैवेति भावः ॥ उभयथापीति ॥ तस्य सर्वभोक्तृत्वान्मुक्तेः परम-पुमर्थत्वेन तदभुक्तभोगसौलभ्याच्चोभयथा सम्भव इति भावः । परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्तीत्यन्यत्रोक्तप्रतिज्ञाहेतू व्यनक्ति ॥ परमेति ॥ परमगतित्वं विषयसौलभ्ये हेतुर्न साक्षादिति भावः । हेतोरप्रयोजकत्वमाशङ्क्याह ॥ परमात्मेति ॥ सञ्जातेति ॥ ननु मुक्तः किमर्थं विषयभोगानिच्छेत् । न तावत्सुखार्थम् । ज्ञानेनावरणभूताविद्यानिवृत्तावात्मस्वरूपसुखस्य व्यक्तत्वात् । नापि दुःखनिवृत्त्यर्थम् । अविद्यानिवृत्त्यैव तत्सिद्धेरिति चेन्मैवम् । नाविद्यैवात्म-स्वरूपस्यावरणम् । किं तु ईश्वरेच्छापि । तथा च ज्ञानेनाविद्यायां निवृत्तायामशेषानिष्टनिवृत्ति-र्भवति । स्वरूपसुखं च बहुतरं व्यज्यते । न तु सर्वम् । ज्ञानोत्तरानुष्ठितनिवृत्तकर्मणा प्रसन्नः परमेश्वरो मुक्तौ विषयानुत्पाद्य तद्भोगेन ज्ञानानभिव्यक्तमपि स्वरूपसुखं व्यक्तीकरोतीति प्रमेयदीपिकायामेवोक्तत्वात्सञ्जातभोगेच्छानामित्युक्तिर्युक्तैवेति ज्ञेयम् ।

नन्वविभागो वचनादित्यत्र भगवत्कामानुसारिकामवतां कुतो भोगाभावप्रसङ्गः । तथात्वे वा किमनिष्टमित्यत ईश्वरस्य स्वत एव पूर्णानन्दत्वात् । अभोगस्यापि सम्भवादित्यन्यत्रोक्तं व्यनक्ति ॥ ईश्वरस्येति ॥ अत इति ॥ परमपुमर्थत्वान्मुक्तेर्विवक्षितहानिप्रसङ्गाच्चेत्यर्थः ॥ य इत्यादिभाष्यं व्याचष्टे ॥ य इति ॥ भगवन्मात्रयोग्यभोगभोक्तृत्वभ्रान्तिं निरस्यन्नेवकारव्यावर्त्यमाह ॥ न त्विति ॥ एतेन श्रुतिगतैवकारोऽपि व्याख्यातः । भोगो नाम विषयदर्शनादिनिमित्त स्वरूपानन्द-विशेषाभिव्यक्त्यर्थविषयदर्शनादिरेव मुक्तानामिति ज्ञेयम् । प्रागुक्तयुक्तिं निराह ॥ न चेति ॥ उक्तबाधकनिरासकहेतुत्वेन पूर्णानन्द इत्याद्यन्यत्रोक्तमेवाह ॥ पूर्णेति ॥ स्मृत्युक्तेरुपयोगमाह ॥ नन्विति ॥ तत्साम्येति ॥ तथा च प्रतिषेधादिति चेन्न शारीरादित्युक्तव्याहतिरिति भावः । ननु तावता सावधारणश्रुतेः का गतिरित्यतः सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव बलवत्त्वादित्यन्यत्रोक्तिं सावकाशश्रुतितो निरवकाशस्मृतेरित्यस्योपलक्षणं मत्वा तात्पर्यमाह ॥ विशेषेति ॥ अत इति ॥ श्रुतिस्मृतिबलादित्यर्थः ॥

अभिनवचन्द्रिका

अत्र सायुज्यभाजामिति ॥ अत्र यद्यपि सूत्रभाष्याभ्यां मुक्तमात्रस्य विषयत्वं प्रतीयते, तथापि यस्मिन्नधिकरणे विषयत्वेन यदुदाह्रियते तदेव विषय इति न मन्तव्यम् । किन्नाम, यावान् तन्न्यायगोचरः स सर्वोऽपि विषयः । विषयाद्युक्तिस्तु उदाहरणमात्रमिति ज्ञापनाय सायुज्यभाजामित्युक्तम् । अत एव ये भोगाः परमात्मना भुज्यंते त एव मुक्तैर्भुज्यन्त इति सिद्धन्ते सामान्येन मुक्तग्रहणम् ।

पूर्वपक्षस्तु मुक्ताः परमात्माऽभुक्तभोगान्भुञ्जते । अवाप्तमहापुरुषार्थत्वात् । अन्यथा कदाचिन् मुक्तानां भोगेच्छायामपि अवाप्तकामत्वेन परमात्मनस्तदनिच्छायां मुक्तानां भोगो न स्यात् । परमात्मभोगं विना तेषां भोगायोगात् । ततश्च भगवद्भुक्तभोगभोक्तृत्वाद् युक्तं तस्य सर्वभोक्तृत्वमिति सिद्धम् ॥

(सिद्धान्तभागः नास्ति)

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिमाह ॥ परमात्मानमिति ॥ पूर्वाधिकरणे ज्योतिश्शब्दवाच्यं परमात्मानं प्राप्य मुक्तो भोगान् भुङ्क्त इत्युक्तम् । प्राप्तिश्च सायुज्यादिरूपा न तु तद्गतिरूपा । तस्याः पूर्वपादे विचारितत्वात् । तथा च सायुज्यादिकं प्राप्य भोगरूपमोक्षे भोगोऽत्र विचार्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ सायुज्यभाग्भिः किं परमात्माभुक्ता अपि भोगा भुज्यन्त उत भुक्ता एवेति चिन्ता । तदर्थमभुक्तभोगभोक्तृत्वे साधकं परमगतित्वम् भुक्ता एवेति नियमे बाधकं, कदाचि-त्सञ्जातभोगेच्छूनामपि तदभावप्रसञ्जनं च निरवकाशमुत सावकाशमिति । अविभागेनेति सौत्र-प्रतिज्ञाभागेन त एव मुक्तैर्भुज्यन्त इति भाष्येण च व्यवच्छेद्यं प्रतिज्ञांशमाह ॥ परमात्मेति ॥ दृष्टत्वादिति सूत्रखण्डोपात्तश्रुतौ तानेवैत इदं शरीरं विमुच्यानुभवन्तीति मुक्तत्वेऽपि परमात्मभुक्त-भोगैकनियमोक्त्याऽप्रयोजकत्वेन व्यवच्छेद्यं परा गतिरित्युक्तन्यायं व्यनक्ति ॥ मोक्षस्येति ॥ त एव मुक्तैर्भुज्यन्त इति भाष्ये भोगा मुक्तैर्भुज्यन्त एवेत्यप्यन्वयमभिप्रेत्य तद्व्यवच्छेद्यं बाधकमप्याह ॥ परमात्मभुक्ता एवेति ॥ यदि मुक्तानां परमात्मभुक्तभोगः स्यात्तर्हि कदाचिद्भोगः स्यादिति तर्कस्याप्रयोजकत्वं परिहरति । तर्कस्यानिष्टत्वमुपपादयति ॥ ततश्चेति ॥ केचित्तु परमात्मना भुक्तास्तदभुक्ता मुक्तैरिति विभागमन्तरेणैव मुक्ता भोगान् भुंजते तथा दृष्टत्वाच्छ्रुतेरिति सूत्रार्थ-मभिप्रेत्य व्याचष्टे ॥ ये भोगा इति ॥ इदं शरीरं विमुच्यानुभवन्तीति श्रुतिमनुसृत्य परमात्म-गतित्वहेतोरप्रयोजकत्वमाह ॥ परमात्मेति ॥ तदुपपत्तेः परमात्मगतित्वोपपत्तेरित्यर्थः । त एव मुक्तैरिति भाष्यस्य भोगा मुक्तैर्भुज्यन्त एव न तु कदाचिद्भुंजते । कुतः यानेवाहमिति सामान्यतः परमात्मनः सर्वभोगश्रवणात् । इदं शरीरं विमुच्य ताननुभवन्त्येवेति मुक्तानामभोगव्यावृत्तेश्चेति न्यायविवरणे स्पष्टं परमात्मनः पूर्णानन्दतोऽपि पूर्णभोगोऽस्तीत्यत्र श्रुत्युदाहरणाच्च परमात्मभुक्त-भोक्तृत्वेऽपि जीवानां स्वापेक्षितभोगसम्भवात्तर्कस्याप्रयोजकत्वमिति भावेनाह ॥ न चेत्यादिना ॥

ननु पूर्णस्य भोगो विरुद्धः लोके बुभुत्सावत एव भोगशक्तिदर्शनादित्युक्तं पूर्णानन्दत्वेऽपीति ॥ एवं च तयोः श्रुत्या सह दृष्टत्वान्न विरोधः । विरोधाविरोधयोर्दर्शनमूलकत्वात् । नन्वस्तु प्रामाणिकत्वादङ्गीकार्यत्वं, घटकं तु किमित्यत उक्तम् ॥ ईश्वरस्येति ॥ अचिन्त्यशक्त्यैवेतदुपपद्यत इति भावः । एतेनाश्चर्यतेत्युक्तन्यायोऽपि स्पष्टितो भवति ।

तत्त्वसुबोधिनी

पूर्वाधिकरणे स तत्र पर्येतीतिवाक्योक्तमित्यागमोक्तप्राप्यस्य परञ्ज्योतिःशब्दावाच्यस्य विष्णुत्वसमर्थनेन अस्य निष्टंकितत्वादिति भावः ।

वाक्यार्थविवरणम्

अन्यथेति ॥ सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वाभावे भगवतो मुक्तभोग्यभोक्तृत्वाभावप्राप्त्या सर्वभोक्तृत्वासिद्धेरिति भावः । अत्र सर्वत्रापि भुज्यत इति भोग इति व्युत्पत्त्या भोगशब्देन विषयो ग्राह्यः । कुतो भोगाभावसङ्ग इत्यत आह ॥ ईश्वरस्येति ॥ अत इत्यनन्तरं मुक्तानामिति योज्यम् । तस्य ईश्वरस्य ॥ परमगतित्वादिति ॥ परमपुरुषार्थत्वादित्यर्थः ॥ एतत् परमात्म-भुक्तभोगभोक्तृत्वम् ॥ उक्तरीत्येति ॥ ईश्वरस्य नित्यपूर्णानन्दत्त्वेनेत्युक्तरीत्येत्यर्थः ॥ पूर्णभोगेति ॥ तथा च कदाचिदपि तस्य भोगो नास्त्येवेति भावः ।

वाक्यार्थमञ्जरी

असिद्धेरिति ॥ सायुज्यभाग्भोग्यभोक्तृत्वादिति भावः । सायुज्यस्यैवाप्रसक्तत्वात् सायुज्य-भाग्भिर्भुज्यन्तेति संशयानुपपत्तिरित्यत आह ॥ प्राप्तिश्चेति ॥ ॐ अविभागेन दृष्टत्वात् ॐ ॥ मुक्ता अविभागेन परमात्मभोगापरित्यागेन तद्भक्तानेवेति यावत् । भोगान् भुञ्जते कुतः यानेवेति श्रुतौ तथा दृष्टत्वादित्यर्थः ।

॥ इति अविभागाधिकरणम् ॥ ४ ॥