०२ मुक्ताधिकरणम्

ॐ मुक्तः प्रतिज्ञानात् ॐ

२. मुक्ताधिकरणम्

सूत्रभाष्यम्

॥ ॐ मुक्तः प्रतिज्ञानात् ॐ ॥ २ ॥

मुक्त एव चात्रोच्यते ।

‘अहरहरेनमनुप्रविशत्युपसङ्क्रमे च न तत्र मोदते न प्रमोदते न कामाननुभवति बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोऽनुप्रविशति मोदते च प्रमोदते च कामांश्चैवानुभवति’ इति बृहच्छ्रुतौ प्रतिज्ञानात् ॥

तत्त्वप्रदीपिका

ननु नैतासु श्रुतिषु मुक्त उच्यते, वैषयिकसुखभोगित्वोक्तेः । न हि तन्मुक्तस्य समस्ति विषया-भावात् । विषयसम्बन्धात्सुखेष्टौ च तदपाये तदभावप्रसङ्गो दुःखानुषङ्गप्रसङ्गश्च, लोकवत् । चक्षुराद्य-भावाच्च । नहि भोगसाधनानां, चक्षुरादीनां भोगायतनस्य शरीरस्य चाभावान्मुक्तस्य भोगसम्भवः । अतः सांसारिकेष्वेवोत्कृष्टं सुखं सगुणोपास्तिफलभूतं सगुणब्रह्म प्राप्यानुभवन्क्रमेण विमोक्ष्यमाण इहोच्यते ‘कामाननुभवति’ इत्यादिषु । अत्र प्रत्याचष्टे– मुक्तः प्रतिज्ञानात् ॥ मुक्त एव चात्र विषयभोगवानुच्यते । न संसारी । बृहच्छ्रुतौ मुक्तस्य कामानुभवप्रतिज्ञानात् । ‘कामांश्चैवानुभवति’ इति वचनात् । कामितानेवानुभवति नेतरान् । कामिताननुभवत्येव च । अतो नानिष्टभोगेष्टाभोगयोः प्रसङ्गः । ‘ब्रह्मविदाप्नोति परम्’ इति प्रस्तुतस्य मुक्तस्य हि श्रुतिर्ब्रह्मणा सह कामार्ष्टिमाचष्टे । यदा च विषयभोगाभावस् तदा च स्वरूपसुखस्यानपायादनिच्छायामुपरमस्य च सुखरूपत्वाद्विशेषाङ्गी-काराच्च नोक्तप्रसङ्गः । न च सुखे दुःखानुषङ्गनियम इति युक्तम् । अतो नान्यात्मको मोक्षो वितर्कणीयः । मुक्तस्य चिदात्मकानां स्वरूपभूतानां देहेन्द्रियाणां श्रुतिबलाद्वक्ष्यमाणत्वान्न भोगासम्भवाऽशङ्कावकाशः ॥

तत्त्वप्रकाशिका

अत्र ब्रह्म प्राप्य तदविहायैव भोगभोक्तुर्मुक्तत्वसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा भोगासिद्धेः साधनीयमेतत् । ‘स तत्र पर्येति’ इति श्रुत्युक्तो विषयः । किं मुक्तोऽमुक्तो वेति सन्देहः । उभयथा सम्भवः सन्देहबीजम् । नायं मुक्त इति पूर्वः पक्षः । ‘स तत्र पर्येति’ इत्यादिनास्य क्रियाप्रतीतेः । न हि क्रियावत्त्वं कृतकृत्यस्य मुक्तस्योपपद्यते । न च वाच्य-ममुक्तस्याप्येवंविधभोगासम्भव इति । अन्यदा सम्भवेऽपि परमात्मप्राप्तावमुक्तस्यापि तदुपपत्तेः । न चामुक्तत्वे श्रुत्युक्तस्य स्वेन रूपेणेति वाक्यविरोधः । तत्र निर्गुणोपासकस्य स्वरूपाविर्भाव-विधानात् । ‘स तत्र’ इति दहरविद्योपासकस्यामुक्तस्यैव भोगाभिधानात् । अतः श्रुत्युक्त-स्यामुक्तत्वान्न मुक्तस्य भोग इति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ मुक्त इति ॥ ‘स तत्र पर्येति’ इत्यत्र मुक्त एवोच्यते । मुक्तत्वं विनैतद्भोगानुपपत्तेः । न च ब्रह्मप्राप्त्या तदुपपत्तिः । ‘अहरहरेनम्’ इति श्रुतौ ब्रह्म प्राप्तानामपि सुप्तानाममुक्ततया दिव्यभोगाभावमुक्त्वा मुक्तस्यैव तत्प्राप्त्या तद्भावप्रतिज्ञानात् । अत एव तस्याक्रियावत्त्वं च परास्तं श्रुतिविरोधादिति भावः । स्वरूपाविर्भावोक्त्या च मुक्तत्वं ज्ञायते । न च प्रकरणभेदः कल्प्यः । एकप्रकरणत्वेन प्रतीतस्य कारणं विना भिन्नप्रकरणत्वकल्पनेऽतिप्रसङ्गात् । अतो युक्त एव मुक्तस्य भोग इति सिद्धम् ॥

भावबोधः

भोगभोक्तुरिति, ‘स तत्र पर्येति’ इत्युक्तस्येत्यर्थः ॥ अन्यथा भोगासिद्धेरिति ॥ पूर्वाधिकरणे ‘स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति’ इत्यादिवाक्यबलान्मुक्तस्य ‘स एवंवित्’’ इति श्रुत्युक्तो यो भोग उक्तस्तस्यान्यथाश्रुत्या भोगभोक्तुर्मुक्तत्वाभावेऽसिद्धेरित्यर्थः । अनेनानन्तर्यसङ्गतिरुक्ता भवति । एतेन ब्रह्मानतिक्रमेणैव भोगानुभवसाधनेनैव ब्रह्म प्राप्य तद-विहायैव भोगभोक्तुर्मुक्तत्वस्यापि सिद्धत्वाद्गतार्थमिदमधिकरणमित्यपि परास्तम् । भोगप्रतिपादक-श्रुत्युक्तस्य मुक्तत्वाक्षेपात् । किमिति । अत्र ‘स तत्र पर्येति’ इति श्रुत्युक्तः किममुक्त उत मुक्त इति चिन्ता । तदर्थं ‘पर्येति’ इत्युक्तक्रियाया एतद्वाक्योक्तस्यामुक्तत्वसाधकत्वं सम्भवत्युत न सम्भवतीति । तदर्थं क्रियायाः साधकत्वाङ्गीकारे एतद्वाक्योक्तरमणादिदिव्यभोग ‘स्वेन रूपेण’ इति पूर्ववाक्योक्तस्वरूपाविर्भावयोर्मुक्तत्वसाधकयोरसम्भवविरोधौ न प्राप्नुत उत प्राप्नुत इति । तदर्थं दिव्यभोगस्य ब्रह्मप्राप्तिमात्रनिबन्धनत्वं स्वेन रूपेणेति’ ‘स तत्र पर्येति’ इति वाक्ययोर्निर्गुणो-पासकसगुणोपासकरूपभिन्नभिन्नविषयत्वेन प्रकरणभेदश्च कल्पयितुं शक्येते उत न शक्येते इति । तदर्थं दिव्यभोगस्याविर्भूतस्वरूपमुक्तमात्रनिष्ठत्वे विशेषप्रमाणं प्रकरणभेदकल्पने बाधकं च न स्त उत स्त इति । ‘स तत्र पर्येति’ इत्यादौ कृतिमत्वादमुक्त एवोच्यत इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– नायं मुक्त इत्यादिना । कृतकृत्यस्येत्यनेन न्यायविवरणोक्तकृतिमत्व-हेतोरप्रयोजकत्वशङ्का परिहृता भवति । मुक्तत्वे कर्तव्यस्य कृतत्वेन निरर्थकक्रियावत्वं न स्यादिति हेतूच्छित्तेः ॥ अन्यदेति ॥ अनेन भाष्ये‘ऽहरहरेनम्’ इत्यादि, ‘तद्भवति’ इत्यन्तश्रुत्युदाहरणस्य निवर्तनीयप्रदर्शनेन प्रयोजनमुक्तं भवति । ‘स तत्र पर्येति’ इति श्रुत्यैक्यप्रतीतेश्चेत्यादिन्यायविवरण-निरसनीयमाह– न च मुक्तत्वे श्रुत्युक्तस्येत्यादिना ॥ ‘दिव्ये’त्यनेन ‘अहरहः’ इति श्रुतेरेतावन्तं कालं सुखमहमस्वाप्समित्यनुस्मृतिविरोधः परिहृतो भवति ॥ श्रुतिविरोधादिति ॥ अथ ‘यदैनं मुक्तोऽनुप्रविशति’ इति श्रुतेर्मुक्तस्य प्रवेशलक्षणक्रियाप्रतीतेरिति भावः । क्रियायाः फलरूपत्वेन कृतकृत्यत्वमप्युपपद्यत इति भावः । ‘स तत्र पर्येति’ इत्यादौ ‘स्वेन रूपेणाभिनिष्पद्यत’ इति मुक्तस्य स्पष्टं प्रतिभातत्वात् श्रुताविति न्यायविवरणार्थमाह– स्वरूपाविर्भावोक्त्या चेति ॥ ‘स तत्र पर्येति’ इति श्रुत्यैक्यप्रतीतेश्चेत्यादिप्रसङ्गादित्यन्तन्यायविवरणफलितार्थमाह– एकप्रकरणत्वेन प्रतीतस्येत्यादिना ॥

भावदीपः

मुक्तत्वेति ॥ एतेन यः पूर्वत्र स्वेनेति श्रुत्या मुक्तस्येश्वरानतिक्रमेण भोग उक्तः स न युक्तः । तस्यामुक्तत्वादित्याक्षेपेण पूर्वपक्षप्रवृत्तेराक्षेपिकी पूर्वसङ्गतिः सूचिता ॥ भोगासिद्धेरिति ॥ मुक्तस्येति शेषः । स तत्र पर्येतीति श्रुतिशेषस्यामुक्तपरत्वे भोगे मानाभावात् । स एवं विदिति श्रुतेरप्यमुक्तपरत्वादिति भावः ॥ उभयथेति ॥ विशेषादर्शनवेलायामसाधारणलिङ्गाभावाभि-मानादिति भावः । क्रियावत्त्वादमुक्त एवेत्यन्यत्रोक्तप्रतिज्ञाहेतू व्यनक्ति ॥ नायमिति । हेतोरप्रयोजकतां निराह ॥ न हीति ॥ ननु द्वितीये विहारोपदेशादित्यत्र मुक्तस्य विहारोक्तेर्न कर्तृत्वं काल्पनिकम् । अमुक्तस्य विहारायोगादिति भावेनाशङ्क्य निराह ॥ न चेति ॥ अहरहरिति भाष्यांशव्यावर्त्यहेतुमाह ॥ अन्यदेति ॥ विहारसूत्रोक्तस्याप्यत्राक्षेप इति भावः । ननु पूर्वं परञ्ज्योतिस्सम्पन्नस्याविर्भूतस्वरूपस्य मुक्तस्यैव स तत्रेत्युत्तरवाक्ये परामर्शस्य सिद्धत्वमुपेत्य मुक्तस्येशानतिक्रमेण भोगे स तत्रेति वाक्यस्य मानत्वमभिप्रेत्य सूत्रे स्वेनेत्युक्तेरत्र श्रुतावमुक्तत्व-शङ्कानुत्थितिरिति भावेन शङ्कते ॥ न चामुक्तत्वे श्रुत्युक्तस्येति ॥ पूर्वोक्तमेवेहाक्षिप्यत इति भावेन समाधिमाह ॥ तत्रेति ॥ परञ्ज्योतिरिति पूर्ववाक्ये ॥ स तत्रेतीति ॥ वाक्य इति शेषः । स इति तच्छब्देन नाविर्भूतस्वरूपस्याव्यवहितस्य परामर्शोऽपि तु प्राकरणिकस्येत्याह ॥ दहरेति ॥ छान्दोग्येऽष्टमे दहरविद्या ॥ अत इति ॥ क्रियावत्त्वादमुक्तस्यापीशं प्राप्तस्य भोगसम्भवा-त्पूर्ववाक्यविरोधाभावाच्चेत्यर्थः ॥ मुक्त एवात्रेत्यादिभाष्यं व्याचष्टे ॥ स तत्रेति ॥ परंपरया हेत्वंशं योजयति ॥ मुक्तत्वं विनेत्यादिना ॥ मोदप्रमोदपदयोः प्रागेव व्याख्यानात्फलितमाह ॥ दिव्यभोगेति ॥ पूर्वपक्ष्युक्तहेतुं पराचष्टे ॥ अत एवेति ॥ श्रुतीति ॥ भाष्योक्तश्रुतीत्यर्थः । यद्वा श्रुत्यन्तरबलान्मुक्तस्य भोगवत्वे स तत्रेत्यत्रापि तथैवेत्येतच्छ्रुतिविरोधादित्यर्थः । स्वेन रूपेणाभिनिष्पद्यत इति मुक्तस्य स्पष्टं प्रतिभातत्वाच्छ्रुतावित्यन्यत्रोक्तदिशा प्रतिज्ञानादित्यस्य स्पष्टं मुक्तपरत्वस्य प्रतिभानादित्यप्यर्थमुपेत्य तत्र निर्गुणेत्यादिचोद्यं निराह ॥ स्वरूपेति ॥ प्रकरणेति ॥ निर्गुणोपास्तिसगुणोपास्तिफलपरतयेति भावः । श्रुत्यैक्यप्रतीतेश्चेत्याद्यन्यत्रोक्तमेव समाधिमाह ॥ एकेति ॥ अतिप्रसङ्गादिति ॥ स तत्रेत्यादिश्रुतिरपि विभागेन योज्यताम् । ऐक्यप्रतीतेर-प्रयोजकत्वादिति भावः ॥ अत इति ॥ प्रतिज्ञानलिङ्गेन स तत्रेति वाक्योक्तस्य मुक्तत्वादित्यर्थः ।

अभिनवचन्द्रिका

ननु भाष्ये साधकोक्तावपि कृतिराहित्यरूपबाधकानुद्धारान् न्यूनतेत्यत आह– अत एवेति ॥ ‘अथ यदेनं मुक्तोऽनुप्रविशति’ इति मुक्तस्यापि स्पष्टं क्रियाप्रतीतेस् तद्विरोधान् मुक्तस्याऽकृतिमत्त्वं परास्तमिति भाव इति सम्बन्धः ।

पूर्वपक्षस्तु ‘स तत्र पर्येति’ इति श्रुत्युक्तो न मुक्तः पर्येतीति । क्रियाप्रतीतेः । मुक्तस्य हि न क्रिया सम्भवति । कृतकृत्यत्वात् । न च अमुक्तस्य एवंविधभोगासम्भवः प्रागभावसम्भवोऽपि परमात्मप्राप्त्यनन्तरं सम्भवात् । न च श्रुत्युक्तस्याऽमुक्तत्वे ‘स्वेन रूपेण’ इति वाक्यविरोधः । तत्र निर्गुणोपासकस्य स्वरूपाविर्भावाभिधानात् । ‘स तत्र’ इति दहरविद्योपासकस्याऽमुक्तस्यैव भोगाभिधानात् । अतः श्रुत्युक्तस्यामुक्तत्वान् न मुक्तस्य भोग इति ।

सिद्धान्तस्तु ‘स तत्र पर्येति’ इत्यत्र मुक्त एवोच्यते । मुक्तत्वं विना एतद्भोगासम्भवात् स्वरूपाविर्भावोक्तेश्च । न च एकप्रकरणत्वसम्भवे भिन्नप्रकरणत्वकल्पना युक्ता । अतिप्रसङ्गात् । अतो युक्त एव मुक्तस्य भोग इति सिद्धम् ॥

वाक्यार्थमुक्तावली

भोगभोक्तुरिति ॥ स तत्र पर्येतीति श्रुत्युक्तभोगभोक्तुरित्यर्थः ॥ अन्यथेति ॥ श्रुत्युक्तभोग-भोक्तुर्मुक्तत्वाभावे तद्बलात्पूर्वनये मुक्तस्य ब्रह्मातिक्रमेण यो भोग उक्तस्तस्यासिद्धेरित्यर्थः ॥ किमिति ॥ अत्र स तत्र पर्येतीति श्रुत्युक्तः किममुक्त उत मुक्त इति चिन्ता । तदर्थं स तत्र पर्येतीत्युक्तक्रिया मुक्तस्य न सम्भवत्युत जक्षन्क्रीडन्नित्युक्तदिव्यक्रीडाद्वारा मुक्तस्यापि सम्भवति । स्वेन रूपेणेति पूर्ववाक्यं च प्रकरणभेदेनाविरोधि उत मुक्तस्यापि क्रिया सम्भवति अमुक्तस्य दिव्य-भोगो न सम्भवति । पूर्ववाक्यं चैकप्रकरणत्वेन भोक्तुरमुक्तत्वे विरोधीति । प्रतिज्ञानादिति सूत्रखण्डव्यावर्त्यं कृतिरित्युक्तन्यायं व्यनक्ति ॥ स तत्र पर्येतीत्यादिनेति ॥ एवं मुक्तत्वे बाधक-मुक्त्वा अमुक्तत्वे बाधकं दिव्यभोगानुपपत्तिमाशङ्क्य परिहरति ॥ न चेति ॥ एतदपि प्रतिज्ञाना-दिति सूत्रखण्डोपात्तबृहच्छ्रुतावमुक्तस्य ब्रह्मप्राप्तावपि दिव्यभोगाभावोक्त्या व्यवच्छेद्यमिति ज्ञेयम् । पूर्ववाक्यविरोधं च स्वपक्षे आशङ्क्य प्रकरणभेदकल्पनयाऽपाकरोति ॥ न चेति ॥ एतच्च सिद्धान्ते भोगभोक्तुर्मुक्तत्वे बाधकाभावोक्त्या निरस्यम् । एकवाक्यत्वे बाधके सत्येव वाक्यभेदस्याश्रयणीय-त्वादिति ज्ञेयम् । मुक्त एवात्रोच्यते नामुक्तः । अमुक्तस्य भोगावश्यप्रतिज्ञानान् मुक्तस्य तत्प्रतिज्ञानादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ स तत्रेत्यादिना ॥ अत एवोक्तं विशदयति श्रुतीति ॥ बृहच्छ्रुतौ यदेवं मुक्तो ह्यनुप्रविशतीति प्रवेशलक्षणक्रियाप्रतिज्ञानादिति भावः । स तत्र पर्येतीत्यादौ स्वरूपेणाभिनिष्पद्यत इति मुक्तस्य स्पष्टं प्रतिभातत्वादिति न्यायविवरणानुसारेण स तत्र पर्येतीत्यमुक्त एवोच्यते । पूर्ववाक्ये स्वरूपाविर्भावोक्त्या मुक्तत्वस्य प्रतिज्ञानात् प्रतिभात-त्वादिति वृत्यन्तरमभिप्रेत्य प्रतिभानमित्युक्तन्यायं विशदयति ॥ स्वरूपाविर्भावेति ॥

स तत्र पर्येतीति श्रुत्यैक्यप्रतीतेश्चेति न्यायविवरणानुसारेण स तत्र पर्येतीत्युत्तरवाक्ये पूर्व-वाक्योक्तो मुक्त एवोच्यते न तु दहरविद्योपासकोऽमुक्तः स तत्रेति परामर्शबलेन तथैकप्रकरणतया प्रतिभानादिति वृत्यन्तरं दर्शयन् न्यायं प्रकारान्तरेण विवृणोति ॥ न चेति ॥ अतिप्रसङ्गादिति ॥ स एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुष इति पूर्ववाक्येऽपि स एष संप्रसादो जीव अस्माच्छरीरात् समुत्थाय परं ज्योतिर्निर्गुणं ब्रह्मैव भवति । यस्तूपसंपद्यते सगुणोपसत्तिं यथा यथोपासत इति श्रुत्युक्तन्यायेनेश्वराख्येन स्वेन रूपेणाभिनिष्पद्यते स तूत्तमः पुरुष ईश्वर इत्युच्यते इति पूर्ववाक्येऽपि सगुणनिर्गुणपरत्वेन भित्वा योजनाप्रसङ्गेन कुत्राप्येकं वाक्यं न स्यादतिप्रसङ्ग इति भावः । उक्तं चैतदेवाभिप्रेत्य न्यायविवरणे सा श्रुतिरप्येवं विभज्य किं न योजयितुं शक्येति श्रुतेरेवाभावप्रसङ्ग इति । एतेन प्रतिभान-मित्युक्तन्यायः पूर्ववाक्येऽपि वाक्यभेदप्रतिपत्तिभानादिति रीत्यन्तरेण विवृतो भवति ।

तत्त्वसुबोधिनी

भोगभोक्तुरिति ॥ स तत्र पर्येतीत्युक्तस्येत्यर्थः । अन्यथा भोगासिद्धेरिति । पूर्वाधिकरणे स्वेन रूपेणाभिनिष्पद्यते उत्तमपुरुषः स तत्र पर्येतीत्यादिवाक्यबलान्मुक्तो भवति । न च मुक्तस्य ब्रह्मानतिक्रमेणैव भोगानुभवसाधनेनैव ब्रह्म प्राप्य तदविहायैव भोगभोक्तुर् मुक्तस्यापि सिद्धत्वाद् गतार्थमधिकरणमिति वाच्यम् । भोगप्रतिपादकश्रुत्युक्तस्य मुक्तत्वाक्षेपादिति भावः । अस्तु क्रमाप्रतीतिस् तथापि श्रुत्युक्तो मुक्तः किं न स्यादित्यत आह ॥ न हीति ॥ कृतकृत्यस्येति हेतुगर्भविशेषणम् । तेन साध्यस्य सर्वस्य सम्पादितत्वादिति भावः । मुक्तत्वे कर्तव्यस्य सर्वस्य कृतत्वेन निरर्थकक्रियावत्वं न स्यादिति हेतूच्छित्तेरिति भावः ॥ अन्यदेति ॥ जाग्रदवस्थाया-मित्यर्थः । परमात्मप्राप्तौ इत्यतः शेषः ॥ न चामुक्तत्वे इति ॥ स तत्रेति ॥ श्रुत्युक्तस्य अमुक्तत्वस्य स्वेन रूपेण इत्यत्र स्वरूपाविर्भावाभिधानात् तद्विरोध इति नेत्यर्थः । तत्कुत इत्यतः प्रकरणभेदादित्याह ॥ तत्रेति ॥ अत एवेति ॥ परामृष्टहेतुमाह श्रुतिविरोधादिति । अथ यदैनं मुक्तो अनुप्रविशतीति श्रुतेर् मुक्तस्य प्रवेशलक्षणक्रियाप्रतीतिरिति भावः । क्रियायाः फलरूपत्वेन कृतकृत्यत्वमपि उपपद्यत इति भावः । ननु तस्य मुक्तत्वमेव कुत इत्यत आह ॥ स्वरूपावि-र्भावोक्त्या चेति ॥ प्रकरणभेद इति ॥ स्वेन रूपेण अभिनिष्पद्यत इत्यत्र निर्गुणोपासकस्य स्वरूपाविर्भावोऽभिधीयते । स तत्रेत्यत्र दहरविद्योपासकस्यैव भोग इति प्रकरणभेदो न चेत्यर्थः ।

वाक्यार्थविवरणं

कृतकृत्यस्येति ॥ तस्य प्राप्तप्राप्तव्यत्वेन क्रियया प्रयोजनाभावादिति भावः ॥ अन्यदेति ॥ परमात्माप्राप्तिदशायामसम्भवेऽपीत्यर्थः । श्रुत्युक्तस्यामुक्तत्व इत्यर्थान्वयः ॥ दहरविद्येति ॥ सगुणविद्येत्यर्थः ॥ तदुपपत्तिरिति ॥ अमुक्तस्यापीत्यर्थः ॥ उक्तेति ॥ तथा च भगवत्प्राप्तिमात्र-प्रयोजकमिति स्वरूपाविर्भावोऽपेक्षित इति भावः ॥ अक्रियावत्वम् अकृतिमत्त्वम् ॥ ‘‘अत एव’’ इत्युक्तं विशदयति ॥ श्रुतीति ॥ अथ यदैनं मुक्तोऽनुप्रविशतीति मुक्तस्य प्रवेशनलक्षण-क्रियाप्रतीतेरिति भावः । तस्याश्च क्रियायाः फलरूपत्वात् कृतकृत्यत्वमप्युपपन्नमिति द्रष्टव्यम् ॥ प्रकरणभेद इति ॥ सगुणनिर्गुणप्रकरणभेदेनोपासकभेदः कल्प्य इत्यर्थः । एकवाक्यत्वम् एकार्थत्वम् । अर्थैकत्वादेकं वाक्यमिति वचनात् ।

वाक्यार्थमञ्जरी

भोगासिद्धेरिति ॥ मुक्तस्येति शेषः ॥ कृतकृत्यस्येति ॥ क्रियायाः फलितार्थत्वादिति भावः ॥ ॐ मुक्तः प्रतिज्ञानात् ॐ ॥ स तत्र पर्येतीत्यत्र भोगभोक्तृत्वेनोक्तो मुक्त एव कुतः प्रतिज्ञानाद् अथेति श्रुत्यन्तरे मुक्तस्यैतादृशभोगप्रतिज्ञानादित्यर्थः । अहरहः प्रतिदिनं भोगाभाव एतावन्तं कालं सुखमहमस्वाप्समिति परामर्शविरोध इत्यत उक्तम् ॥ दिव्येति ॥ तत्प्राप्त्या ब्रह्मप्राप्त्या ॥ तद्भावे दिव्यभोगसद्भावेत्यर्थः । अकृतिमत्वं क्रियाराहित्यम् । अत एवेत्युक्तं विवृणोति ॥ श्रुति-विरोधादिति ॥ अथ यदैनं मुक्तोऽनुप्रविशतीति श्रुतौ मुक्तस्य प्रवेशलक्षणक्रियाप्रतीतेरिति भावः । क्रियायाः फलरूपत्वेन कृतकृत्यत्वमुपपद्यत इति हृदयम् ॥ प्रकरणभेद इति ॥ निर्गुण-सगुणपरत्वेनेत्यर्थः ॥

॥ इति मुक्ताधिकरणम् ॥ २ ॥