०१ सम्पद्याधिकरणम्

ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ

अथ चतुर्थाध्यायस्य चतुर्थः पादः

सम्पद्याधिकरणम्

सूत्रभाष्यम्

भोगमाहास्मिन् पदे

॥ ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ॥ १ ॥

‘स य एवंविदेवं मन्वान एवं पश्यन्नात्मानमभिसम्पद्यैतेनात्मना यथाकामं सर्वान्कामाननु-भवति’ इति सौपर्णश्रुतेः ।

‘परञ्ज््योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’ इति च ।

‘एतं सेतुं तीर्त्वान्धस्सन्ननन्धो भवति’ इति च । तत्र तरणं नाम तत्प्राप्तयेऽन्यतरणमेव ।

‘इमां घोरामशिवां नदीं तीर्त्वैतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमोदत आनन्दी भवति’ इति मौद्गल्यश्रुतेः ॥

॥ इति सम्पद्याधिकरणम् ॥ १ ॥

तत्त्वप्रदीपिका

उक्तप्रकारद्वयेन परं ब्रह्म प्राप्तानां प्रलये प्रागुक्तप्रकारेण प्रविष्टानां स्वरूपानन्दानुभविनां सर्गे निर्गतानां मुक्तानां बहुविधमानन्दभोगमाहास्मिन्पादे । न च शून्यता मुक्तिः । तथात्वे तत्रार्थित्वासम्भवात् । न हि कश्चित्स्वरूपनाशमिच्छति । इच्छति दुःखातिरेकीति चेन्न । देहविरहमात्रस्य तस्येष्टत्वात् । देहदेहिविभागाज्ञः स इति चेत्तर्हि न शास्त्रात्तज्ज्ञ इच्छेत् । दुःखोच्छेदार्थं चेत्तदुपायमिच्छतु नात्मोच्छेदम् । न च नास्त्यात्मा । अहमस्मि न नास्मीत्यबाधितानुभवात् । न च भ्रान्तिसिद्धमिथ्याविशेषोच्छोदो मोक्षः । अविद्यमानोच्छेदस्यानेष्टव्यत्वात् । भ्रान्तिनिवृत्तिरिष्यत इति चेन्न । भ्रान्तेस्सत्त्वानङ्गीकारात् । अनिर्वचनीयाज्ञानाज्जायतेऽनिर्वचनीयो विशेषस् तत्प्रतीतिश्च, तन्निवृत्तिस्स इति चेत्, कस्याज्ञानम् अनिर्वचनीयस्य सत्यस्य वा? नाद्यः । सम्यग्बोधे तन्निवृत्तिप्रसङ्गात् । नान्त्यः । स्वत एव सत्यत्वविशेषप्रसङ्गात् । न च शून्यमस्मि, निर्विशेषोऽस्मीति वाऽनुभवे मोक्षे विशेषनिराकरणं शक्यम् । न च नानुभवः । स्वयम्भातत्वप्रतिज्ञाहानेः । अतः सविशेषो मोक्ष इत्यभ्युपेयताम् । न च क्षणिकस्य मोक्षस्तत्र प्रवृत्तिर्वा युज्यते, स्वरसभङ्गुरत्वादेव । न च सन्तानस्य मोक्षायान्यः प्रवर्तते । अयुक्तेः । सन्तानस्य चावस्तुत्वान्न प्रवृत्तिः । दुःखनिवृत्तिमात्रं मोक्ष इति तु पुरस्ता-न्निरस्तम् । अतो विशिष्टस्वरूपानन्दानुभवो मोक्ष इति विचक्षणाः प्रचक्षते । अतः साधूदितं भोगमाहेति ॥ सम्पद्याविहाय स्वेन शब्दात् ॥ सम्पद्येत्यनेन ‘पश्यन्नात्मानमभिसम्पद्यैतेनात्मना यथाकामं सर्वान्कामाननुभवति’ इति मोक्षे यथेष्टकामभोगवादिनी सौपर्णश्रुतिमुपलक्षयति । स्वेनेति च ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’ इति मोक्षं प्रस्तुत्य ‘स तत्र पर्येति जक्षन्क्रीड-न्रममाणः स्त्रीभिर्वा यानैर्वा’ इतिवादिनीम् । ‘सेतुं तीर्त्व’ इत्यादिश्रुतेस् तमतिक्रम्य भुङ्क्त इति नाशङ्कनीयमित्यविहायेति मौद्गल्यश्रुतिं सूचयति– ‘एतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमोदत आनन्दीभवति’ इति, तेनैव भोगवादिनीम् । एवं मुक्तस्य भोगोऽवगम्यते शब्दादिति भाष्याभिप्रायः ॥

‘सुखं स्वरूपभूतं यदानन्द इति कीर्तितम् ।

मुन्नाम विषयोत्थं यत्प्रकृष्टविषयात्प्रमुत्’ इति महामीमांसायाम् ॥

तत्त्वप्रकाशिका

एतत्पादार्थं दर्शयति ॥ भोगमिति ॥ चतुर्विधफले त्रयमुक्त्वा चतुर्मुखेन सह परं ब्रह्म प्राप्तानां यस्तत्र भोगः क्रमप्राप्तस्तमत्राह सूत्रकार इत्यर्थः । अत्रादौ मुक्तस्य ब्रह्मानतिक्रमेणैव भोगानुभव-साधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ब्रह्मणो गम्यत्वाभावप्रसङ्गात्समर्थनीयमेतत् । मुक्तौ ब्रह्म प्राप्नोतीत्युक्तम् । तस्य च भोग आवश्यकः । स मुक्तोऽत्र विषयः । किं ब्रह्मातिक्रम्य भोगान् भुुङ्क्ते उत तत्समीप एवेति सन्देहः । अर्चिराद्यतिक्रमोक्तिर्गम्यत्वोक्तिश्च सन्देहबीजम् । अतिक्रामतीति पूर्वः पक्षः । तथा हि । परमात्मानमविहायैवावस्थाने तस्य स्वरूपाविर्भावोऽस्ति न वा । नाद्यः । ‘एतं सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति’ इति परमात्मातिक्रमानन्तरमेव स्वरूपाविर्भावस्योक्तत्वात् । द्वितीये न विरोधः । अनाविर्भूतस्वरूपस्यामुक्तत्वेन मुक्तातिक्रमाव्याघातात् । अतो मुक्तस्य ब्रह्मातिक्रमनियमान्न तद्गम्यमिति । सिद्धान्तयत्सूत्रं पठति ॥ सम्पद्येति । ज्ञानी ब्रह्म प्राप्य तदविहायैव भोगान् भुङ्क्ते । न चैवममुक्तत्वम् । अन्यथारूपं परित्यज्य स्वरूपेणावस्थानादिति सूत्रार्थः । तत्र ब्रह्म प्राप्याविहायैव भोगान् भुङ्क्त इत्येतत्कुत इत्यतः सूत्रसूचितां श्रुतिमुदाहरति ॥ स इति ॥ ब्रह्मानतीत्याप्याविर्भूतस्वरूपत्वेन भोगो मुक्तानामित्येतत्कुत इति तत्रापि सूत्रसूचितां श्रुतिमुदाहरति ॥ परमिति ॥ नन्वेवं यदि ब्रह्मानतिक्रमेऽपि स्वरूपेणाविर्भावश्चेच्छ्रु तिविरोध इत्यत आह ॥ एतमिति ॥ सत्यमेवं श्रुतिरस्तीति तथापि नोक्तस्य तद्विरोधः । यतस्तत्रैतं सेतुं गन्तुमन्यत्तीर्त्वेति तत्प्राप्तयेऽन्यतरणमेवोच्यते न तु ब्रह्म तीर्त्वा स्वरूपाविर्भाव इति भावः । कुत एतदित्यत आह ॥ इमामिति ॥ एतं सेतुं तीर्त्वेदं गच्छतीति वचनाभावेनैतच्छ्रुतेः सामान्यरूपत्वाद्विशेषश्रुत्यनुसारेणार्थकल्पनोपपत्तेरिति भावः । अतो मुक्तस्य ब्रह्मातिक्रमाभावात्तदेव गम्यमिति सिद्धम् ॥

गुर्वर्थदीपिका

अर्चिराद्यतिक्रमोक्तिर्गम्यत्वोक्तिश्चेत्यत्रार्चिरादीनां क्रमेण गम्यत्वमुक्त्वा तेषामेव गम्यानामति-क्रमोक्तिस्तद्बलादतिक्रामतीति शङ्का । गम्यत्वोक्तिर् गम्यान्तरमनुक्त्वा केवलं ब्रह्मण एव गम्यत्वोक्तिस्तद्बलान्नातिक्रामतीति शङ्केत्यर्थः । इमां घोरामशिवां नदीमित्यत्र नदीं संसार-नदीमित्यर्थः । ‘नदीमुभयतो वाहाम्’ इति भागवतोक्तेः ।

भावबोधः

क्रमप्राप्त इति ॥ अनेनास्य पादस्यानन्तरसङ्गतिरुक्ता भवति ॥ गम्यत्वाभावप्रसङ्गादिति ॥ अनेन पूर्वपादान्त्याधिकरणोक्तस्य ब्रह्मणो गम्यत्वस्यात्र समर्थनादनन्तरसङ्गतिरुक्ता भवति । उक्तभोगस्यैवाप्रसक्तौ ब्रह्मातिक्रम्यानतिक्रम्य वा भोगान् भुङ्क्त इति सन्देहप्रकारकथनमशक्यमित्यत आह– तस्य च भोग आवश्यक इति ॥ अन्यथा मुक्तेः पुरुषार्थत्वं न स्यादिति भावः । ब्रह्मातिक्रम्येति । अत्र मुक्तः किं ब्रह्मातिक्रम्य भोगान् भुङ्क्ते उत तत्समीप एवेति चिन्ता । तदर्थम् ‘अन्धः सन्ननन्धो भवति’ इत्युक्तस्वरूपाविर्भावः पूर्वकालीन ‘तीर्त्वा’ इत्युक्ततरणकर्मत्वसमभि-व्याहृतसेतुपदोक्तब्रह्मण उतान्यस्येति । तदर्थम् ‘एतं सेतुं गन्तुमन्यत्तीर्त्वा’ इति वाक्यभेदाय पदद्वयाध्याहारो न कर्तव्य उत कर्तव्य इति । तदर्थमध्याहारज्ञापकं मुक्तस्य ब्रह्मातिक्रमाभावे नदीविशेषस्य मुक्तकर्तृकतरणकर्मत्वे च विशेषप्रमाणं नास्त्युतास्तीति ॥ अर्चिराद्यतिक्रमोक्ति-रिति ॥ अर्चिरादावतिक्रमसहदृष्टत्वस्य प्राप्यत्वस्य ग्रामादावनतिक्रमसहदृष्टगम्यत्वस्य च ब्रह्मणि दर्शनादिति भावः । सूत्रस्थ‘स्वेन’ इति पदसूचितन्यायविवरणभाष्योक्तपूर्वपक्षयुक्तिं सङ्गमयितुं विकल्पेन पृच्छति– परमात्मानमविहायैवेति । ‘एतं सेतुं तीर्त्वा’ इत्यतिक्रमोक्ते ब्रह्मातीत्य गच्छतीति न्यायविवरणोक्तयुक्त्याऽऽद्यं पक्षं निराचष्टे– नाद्य इत्यादिना । अत्र सूत्रे ‘परं जैमिनिः’ इत्यतः ब्रह्मार्थक ‘पर’मित्यस्यानुवृत्तिः । ‘अविहाय’ इत्यतः परं भोगान् भुङ्क्त इति शेषः । ‘स्वेन’ इत्यतः परं रूपेणावस्थानादिति च शेष इत्यभिप्रेत्य सूत्रार्थमाह– ज्ञानी-त्यादिना ॥ अविहायानतिक्रम्येत्यर्थः । स्वेन रूपेणावस्थानं संसारावस्थायामप्यस्तीत्यतो ऽन्यथारूपं परित्यज्येत्युक्तम् । आविर्भूतस्वरूपत्वेन भोगो मुक्तानामित्येतत् कुत इति । यद्यप्युदाहरिष्यमाणश्रुत्यंशे भोगो न प्रतीयते, तथापि तच्छेषे ‘स तत्र पर्येति’ इत्यत्र स्पष्टं भोगः प्रतीयत इति भावः ॥ यतस्तत्रेति ॥ तत्र तरणमित्यादिभाष्यव्याख्यानपरेणानेनैव ‘सेतुं गच्छत्यन्यत्तीर्त्वा इत्यर्थोपपत्तेरिति न्यायविवरणांशोऽपि व्याख्यातो भवति । एतं सेतुं तीर्त्वेदं गच्छतीति । अनेन ‘ब्रह्म तीर्त्वेदं गच्छति’ इति विशेषानुक्तेः ‘तरति’ इति सामान्यप्रतीतेः ‘इमां घोरामशिवां नदीं तीर्त्वा ब्रह्म सम्पत्स्यते’ इति विशेषोक्तेश्चेत्यन्वयप्रदर्शनपूर्वकं न्यायविवरण-स्याप्यर्थ उक्तो भवति ।

भावदीपः

एतत्पादार्थमिति पूर्ववत् । पादार्थोक्तिश्च वृत्तवर्तिष्यमाणसङ्गतिसूचनायेति भावेन व्याचष्टे ॥ चतुर्विधेति ॥ कर्मक्षयोत्क्रान्तिमार्गभोगरूपेत्यर्थः । लयात्पूर्वं साक्षात्परं प्राप्तानां भोगस्यात्रानुक्ते-र्बाधनिरासाय वा देहलयेनोत्तरोत्तरं प्रविष्टानामपि ग्रहणाय वाऽऽह ॥ चतुर्मुखेनेति ॥ अत्रेत्यधिकरणे ब्रह्मेति शास्त्रे मुक्तस्येत्यध्याये भोगेति पादे सङ्गतिरुपपादिता । एवमग्रेऽपि । पूर्वसङ्गतिफले आह ॥ अन्यथेति ॥ ब्रह्मातिक्रम इत्यर्थः । परं जैमिनिरित्युक्तप्रमेयसमर्थनमत्रेत्युक्तं भवति ॥ उक्तमिति ॥ परमित्यादौ । ननु भोगोऽस्ति न वेत्यविचार्य तद्विशेषचिन्तनमनवसर-दुष्टमित्यत आह ॥ तस्य चेति ॥ मुक्तेशाभेदस्य भोक्त्रापत्तेरित्यत्रैव निरासेन नैर्गुण्यमुक्तिनिरासा-त्पुंस्त्वादिवदित्यत्र ज्ञानसुखादिरूपत्वस्य जीवे प्रतिपादनेनेश्वरज्ञानेनावरणादिनिवृत्तौ स्वरूपा-नन्दानुभवरूपमोक्षस्यावश्यकत्वात् । अन्यथा मुक्तेरपुमर्थत्वापत्तेः । अत एव पूर्वमादावित्युक्तम् । भोगो नाम दर्शनस्पर्शनादिरूपविषयानुभवजन्यसुखानुभव इति भावः । एवं सेतुं तीर्त्वेत्यत्राति-क्रमोक्तेर्मुक्तो ब्रह्म तीर्त्वा गच्छतीत्यन्यत्रोक्तप्रतिज्ञामाह ॥ अतिक्रामतीति ॥ अतिक्रमोक्ते-रित्यन्यत्रोक्तहेतोरतिक्रम्य नैष्फल्येन प्राप्ताप्रयोजकत्वशङ्काव्युदासाय साक्षात्तमेव हेतुमनुक्त्वा विकल्पपूर्वं तद्धेतूक्तिभावमाह ॥ परमात्मानमित्यादिना ॥ शब्दादिति सूत्रांशव्यावर्त्यमाह ॥ एतमिति ॥ अनन्तरमेवेति ॥ अत एव भाष्ये श्रुतिशेषोक्तिः । अन्यथा तीर्त्वेत्यन्तमेव ब्रूयादिति भावः । न विरोध इति पदच्छेदः ॥ अत इति ॥ ब्रह्मानतिक्रमे स्वरूपानाविर्भावादित्यर्थः । भाष्ये श्रुतिद्वयोक्त्या सूचितं सूत्रखण्डस्यार्थमाह ॥ ज्ञानीति ॥ सूत्रेति ॥ सम्पद्येति पदसूचितामित्यर्थः ॥ तत्रापि सूत्रेति ॥ स्वेनेति पदसूचितामित्यर्थः । स तत्र पर्येति जक्षन् क्रीडन्निति वाक्यशेषे भोगोक्तेरिति भावः । द्वयोरपि श्रुतित्वाविशेषाद्वैपरीत्यं कुतो नेत्यतो न्यायविवरणोक्तदिशा तात्पर्यमाह ॥ एतं सेतुं तीर्त्वेदमिति ॥ अत इति ॥ ब्रह्मतरणश्रुतेरन्यार्थतया तद्विरोधा-भावादित्यर्थः ।

अभिनवचन्द्रिका

एतत्पादार्थमिति ॥ ‘अस्याऽध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः फलेऽप्य-वान्तरभेदेन पादभेद उपपन्न इति भावेन’ इति वर्तते तस्याऽनेन सम्बन्धः ॥ यस्तत्र भोग इति ॥ अनुभवार्थको भुजिधातुः, कर्मणि व्युत्पन्नो विषयवाची, भावे व्युत्पन्नस्तु अनुभववाची । ततश्चेह प्रकरणे भोगशब्देन यथायोगं क्वचिद्विषयग्रहणं, क्कचिदनुभवग्रहणमिति बोध्यम् । अर्चिराद्यतिक्रमोक्तिरिति ॥ श्रीमद्भागवते – ‘वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात्प्रयाति चक्रं नृप शैंशुमारम्’ इति अर्चिरादिवत् शिंशुमारस्यापि हरेः प्राप्तिमुक्त्वा ‘तद्विश्वनाभं प्रतिपद्य विष्णोरणीयसा विरजेनाऽऽत्मनैकम् । नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्त’ इत्यतिक्रमोक्तिः, ‘स एनान् ब्रह्म गमयति’ इति गम्यत्वोक्तिश्च, सन्देहबीजमित्यर्थः । एतेनाऽर्चिरादीनामतिक्रमोक्तेः, ब्रह्मणो गम्यत्वोक्तेश्च, भिन्नभिन्नविषयत्वेन विरुध्दोक्तित्वाभावाद् असंदेहबीजत्वमिति परास्तम् । परमात्मनोऽपि अर्चिराद्यन्तर्गतत्वेनाऽतिक्रमप्राप्त्युक्त्योर् एकविषयत्वाद् भिन्नमूर्तिद्वयाऽविषयत्वेन विरुद्धताविज्ञानात्, प्राक्सन्देहहेतुत्वस्याऽवर्जनीयत्वात् । अथवा अर्चिरादिवद् ब्रह्मण आपातत ‘एतं सेतुं तीर्त्वा’ इत्यतिक्रमोक्तिः, गम्यत्वोक्तिश्च, सन्देहबीजमित्यर्थः ॥ श्रुतिविरोध इति ॥ ‘एतं सेतुं तीर्त्वा’ इति श्रुतिविरोध इत्यर्थः ।

पूर्वपक्षस्तु मुक्तो ब्रह्माऽतिक्रम्य भोगान् भुङ्क्ते । ‘एवं तीर्त्वा’ इति ब्रह्मातिक्रमानन्तरं स्वरूपाविर्भावस्य उक्तत्वेनाऽनतिक्रम्य स्थितस्य स्वरूपानुभवाऽयोगात् । अतो मुक्तस्य ब्रह्मातिक्रमनियमान्न तद्गम्यमिति ।

सिद्धान्तस्तु ब्रह्म सम्पद्याऽविहायैव भोगान् भुङ्क्ते । ‘स एवं विदेवं मन्वान’ इति श्रुतेः । ‘परञ्ज्योतिरुपसम्पद्यस्वेन’ इति श्रुतेश्च । न च ‘एतं सेतुं तीर्त्वा’ इति श्रुतिविरोधः । ब्रह्म-प्राप्तयेऽन्यतरणस्यैव तदर्थत्वात् । अतो मुक्तस्य ब्रह्मातिक्रमाभावात् तदेव गम्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

॥ एतत्पादार्थमिति ॥ अन्यथा पूर्वपादेभ्यो भेदस्य सङ्गतेश्चाप्रतीतेरिति भावः । यथा पादार्थकथनं भेदसङ्गत्योः प्रत्यायकं तथा व्याचष्टे ॥ चतुर्विधेति ॥ भोगानुभवेति ॥ भोग्यानुभव इत्यर्थः । आदावत्र ब्रह्मापरित्यागासमर्थनेऽव्यवहितपूर्वाधिकरणोक्तं ब्रह्मणो गम्यत्वं न स्यादिति तत्फलाक्षेपेण पूर्वपक्षकरणादनन्तरसङ्गतिरिति भावः । ननु प्रमिते मुक्तभोगे तत्र प्रकार-चिन्तावसरस्स एव कुत इत्यत आह ॥ तस्य चेति ॥ अन्यथा मुक्तेरपुरुषार्थत्वप्रसङ्गः । तथा च पुरुषार्थत्वान्यथानुपपत्तिरेव तत्र भोगे प्रमाणमिति भावः ॥ किमिति ॥ किं मुक्तो ब्रह्मातिक्रमेण भोगान्भुङ्क्ते उत तत्समीप एवेति चिन्ता । तदर्थमनतिक्रमेण भोगाङ्गीकारे तस्य स्वरूपाविर्भाव-लक्षणमुक्तत्वाभावप्रसङ्गो भवत्युत न भवतीति । तदर्थमेतं सेतुं तीर्त्वेत्यत्र स्वरूपाविर्भावायोच्य-मानोत्तरणं प्रति कर्मत्वं किमेतं सेतुमिति श्रुतस्यैव ब्रह्मण उताध्याहृतस्यान्यस्येति ॥ अर्चिराद्यतिक्रमेति ॥ गम्यस्यार्चिरादेरतिक्रमोक्तिर्ब्रह्मणो गम्यत्वोक्तिश्चेत्यर्थः । ब्रह्म तावद्गम्यं स एनानिति श्रुतेः, यद्गम्यं तन्नातिक्रम्यं यथा ग्राम इति व्याप्तेर्ब्रह्मणोऽप्यनतिक्रमत्वं वा । क्वचिद्गम्यस्याप्यर्चिरादेरतिक्रमश्रवणादतिक्रम्यत्वं वेति सन्देह इत्यर्थः । सूत्रे स्वेनेत्यंशव्यावर्त्यं पूर्वपक्षमाह ॥ नाद्य इति ॥ कुतो नेत्यत एतं सेतुं तीर्त्वेत्यादिभाष्येण शब्दादिति सूत्रखण्डेन च व्यवच्छेद्यमतिक्रमोक्तिरिति न्यायं व्यनक्ति ॥ एतं सेतुमिति ॥ संपद्याविहायेत्यन्तसिद्धान्ते सम्पद्याविहाय स्वेनेत्याद्यपक्षाङ्गीकारात्तद्व्यवच्छेद्यं पूर्वपक्षमाह ॥ द्वितीय इति ॥ परमात्मानम-विहायावस्थितस्य स्वरूपाविर्भावो नास्तीति द्वितीयपक्षे मुक्तस्य ब्रह्मातिक्रम इति स्वपक्षविरोध इत्यर्थः ॥ तदुपपादयति ॥ अनाविर्भूतेति ॥ सूत्रे परं जैमिनिरित्यतः परमिति वर्तते । अविहायेत्यतः परं भोगान् भुङ्क्ते इति शेषः । अविहायेत्यपि पदच्छेदः । तत्रान्यथारूपमिति शेषः । स्वेनेत्यतः परं रूपेणावस्थानादिति शेष इत्यभिप्रेत्य सूत्रखण्डार्थमाह ॥ ज्ञानीति ॥ सूत्रसूचितामिति ॥ संपद्येत्यनेन सूचितामात्मानमभिसंपद्येति पदघटितां श्रुतिमित्यर्थः ॥ तत्रापि सूत्रसूचितामिति ॥ स्वेनेत्यंशेन सूचितां स्वेन रूपेणाभिनिष्पद्यत इति पदघटितश्रुतिमित्यर्थः । यद्वा शब्दादित्यनेनैव सामान्येनोक्तां पदद्वयेन विशेषसूचितामित्यर्थः । अन्धो ऽनन्धो भवतीति भाष्ये चशब्दोऽप्यर्थे । यद्यपि श्रुतिरस्ति तथापीत्यर्थः नोक्तस्य तद्विरोधस् तत्रेत्यतः पूर्वं यत इति शेषश्च । अन्यतरणमेवेत्यतः परमुच्यत इति शेष इति भावेन व्याचष्टे ॥ सत्यमेवमिति ॥ कुत एतदिति ॥ कुत एतदित्यतस्सामान्यरूपमिति न्यायं दर्शयितुं शब्दादित्यंशं व्याचष्टे इत्यर्थः ।

तत्त्वसुबोधिनी

क्रमप्राप्त इति । अनेनास्य पादस्य सङ्गतिरुक्ता भवति ॥ गम्यत्वाभावप्रसङ्गादिति ॥ अनेन पूर्वपादान्त्याधिकरणोक्तस्य ब्रह्मणः गम्यत्वस्यात्र समर्थनादनन्तरसङ्गतिरुक्ता भवति ॥ अन्यथेति ॥ ब्रह्मातिक्रमेण भोग इत्यर्थः । ननु मुक्तभोगस्यैवाभावान् मुक्तो ब्रह्मातिक्रम्यानतिक्रम्य वा भोगान्भुङ्क्ते इति सन्देहप्रकारकथनमशक्यमित्यत आह ॥ तस्य च भोग इति ॥ अन्यथा मुक्तेः पुरुषार्थत्वं न स्याद् इति भावः । अर्चिराद्यतिक्रमोक्तिरिति । अर्चिरादाविति क्रमसहदृष्टप्राप्यत्वस्य ग्रामादावनतिक्रमसहदृष्टगम्यत्वस्य च ब्रह्मणि दर्शनादिति भावः । विरोधाभावमेव प्रकटयति ॥ अनाविर्भूतेति ॥ मुक्तातिक्रमाव्याघातादिति ॥ मुक्तस्य ब्रह्मातिक्रमप्रतिपादकवचनेन विरोधा-भावादित्यर्थः । अत्र सूत्रे परं जैमिनिरित्यतः ब्रह्मार्थकपरमित्यस्यानुवृत्तिः । अविहायेत्यतः परं भोगान्न भुङ्क्ते इति शेषः । स्वेन इत्यतः परं रूपेणावस्थानादिति च शेष इत्यभिप्रेत्य सूत्रार्थमाह ॥ ज्ञानीति ॥ अविहाय अनतिक्रम्येत्यर्थः । स्वेन रूपेणावस्थानं संसारावस्थायामपि अस्तीत्यतो ऽन्यथारूपं परित्यज्येत्युक्तम् । आविर्भूतस्वरूपत्वेन भोगो मुक्तानामित्येतत् कुत इति यद्यपि उदाहरिष्यमाणश्रुत्यंशे भोगो न प्रतीयते तथापि तच्छेषे स तत्र पर्येतीत्यत्र स्पष्टं भोगः प्रतीयते इति भावः ।

वाक्यार्थविवरणम्

मुक्तातिक्रमेति ॥ मुक्तो ब्रह्म अतिक्रम्य तदूर्ध्वं गच्छतीत्यस्याव्याघात इत्यर्थः । भाष्ये नदीं संसारनदीम् ।

वाक्यार्थमञ्जरी

गम्यत्वाभावेति ॥ तस्यार्चिरादिवन्मार्गत्वप्राप्तेरिति भावः । मुक्तभोगस्यैवाप्रसक्तो मुक्तौ ब्रह्मातिक्रम्यानतिक्रम्य वा भोगान् भुङ्क्ते इति संदेहप्रकारकथनमशक्यमित्यत आह ॥ तस्येति ॥ अन्यथा मुक्तेः पुरुषार्थत्वं न स्यादिति भावः ॥ अर्चिराद्यतिक्रमोक्तिरिति ॥ अर्चिरादावतिक्रमसहदृष्टप्राप्यस्य ग्रामादावतिक्रमसहदृष्टगम्यत्वस्य च ब्रह्मणि दर्शनादिति भावः । सेतुरिव सेतुराश्रयो भगवान् अन्धः स्वरूपाविर्भावरहितः ॥ ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ॥ ज्ञानी परं ब्रह्म संपद्य प्राप्य अविहाय तदनतिक्रम्य स्वेन रूपेणावस्थितो भोगान् भुङ्क्ते कुतः शब्दादिमां घोरामिति श्रुतेरिति भावः । स्वरूपेणावस्थानस्य संसारेऽपि सत्त्वादन्यथारूपं परित्यज्येत्युक्तम् ॥

॥ इति सम्पद्याधिकरणम् ॥ १ ॥