ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ
६. कार्याधिकरणम्
सूत्रभाष्यम्
ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ॥ ७ ॥
‘स एनान्ब्रह्म गमयति’ इति कार्यं ब्रह्म गमयतीति बादरिर्मन्यते ।
‘ऋते देवान्परं ब्रह्म कः पुमान्प्राप्नुयात्क्वचित् ।
यद्यपि ब्रह्मदृष्टिः स्याद्ब्रह्मलोकमवाप्नुयात्’ इत्यध्यात्मवचनात्तस्यैव गत्युपपत्तेः ॥
तत्त्वप्रदीपिका
एवं तावद्यथोक्तमार्गेण गतानां ब्रह्मविदां ब्रह्मगमनमस्तीत्युक्तम् । किं तद्गम्यमित्यधुना निरूप्यते । किं कार्यमवरं ब्रह्माथ कारणं परमिति ? तत्रैवं बादरिर्मन्यते । न तेषां सर्वेषां तदा परमेव प्राप्यं किन्तु कैश्चित्कार्यमेव गम्यमिति ॥
तत्त्वप्रकाशिका
एवं मार्गं विचार्यात्र तेन मार्गेण गतानां गम्यनिरूपणादस्ति शास्त्रादिसङ्गतिः । अन्यथानु-स्मृत्यनुपपत्तेर्निरूपणीयमेतत् । ‘वायुरेव ब्रह्म नयति’ इत्युक्तं तद्ब्रह्मात्र विषयः । किं चतुर्मुखाख्यं किं वा परमुतोभयमिति सन्देहः । ब्रह्मशब्द एव सन्देहबीजम् । तृतीयपक्षेऽप्येकस्योभय प्राप्त्य-सम्भवात्कांश्चित्कार्यं कांश्चित्परमित्यर्थः स्यात् । तत्र किं केनचित्क्रमेणोभयप्राप्तिरुत क्रमं विनैव । क्रमोऽपि कश्चन योग्यतारूपस्तदन्यो वासाविति सन्देहः । उभयथा सम्भवः सन्देहबीजम् । किं तावत्प्राप्तमिति । तत्र सूत्रं पठित्वा व्याचष्टे ॥ कार्यमिति ॥ ‘स एनान् ब्रह्म गमयति’ इत्यत्र कार्यमुत्पत्तिमद्ब्रह्म वायुर्गमयतीति बादरिराचार्यो मन्यत इत्यर्थः । ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वा-त्कथमयमर्थ इत्यत आह ॥ ऋत इति ॥ ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वेऽपि नात्र तत्स्वीकारो युक्तः । ‘तथापि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते’ इत्यादिना चतुर्मुखमुक्तिपर्यन्तं बन्धस्य सन्ततत्वा-त्ततोऽर्वाक्चतुर्मुखस्यैव गत्युपपत्तेस्तथा स्मृत्युक्तत्वाच्चेति भावः ॥
भावबोधः
अत्र तेन मार्गेण गतानामिति । एतच्च गम्यनिरूपणस्य प्राथमिकत्वशङ्कापरिहारार्थ मेवोक्तम् । मार्गनिरूपणे गम्यनिरूपणस्यानाकाङ्क्षितत्वात् । न तु गन्तृनिर्देशार्थम् । देहलयवतामपि गन्तृत्वादिति ज्ञातव्यम् । अत एव मार्गं विचार्येत्येतदपि सार्थकम् ॥ गम्यनिरूपणादिति ॥ पूर्वाधिकरणे मुख्यप्राणो यद्ब्रह्म गमयतीत्युक्तम्, अत्र तद्गम्यनिरूपणादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र गम्यं किं कार्यपरयोरन्यतरदेवतोभयमपीति चिन्ता । तदर्थं बादरिजैमिनि-मताश्रयेण तत्तत्पक्षसाधकत्वेनोक्तानां गत्युपपत्त्यादीनां ब्रह्मशब्दमुख्यार्थत्वादीनां मुनिमतयोश्च किमेकाधिकारिविषयतया अन्योन्यनिषेधकत्वेन विरोध उत भिन्नाधिकारिविषयतया अन्योन्य-पक्षानिषेधकत्वेनाविरोधो वेति । तदर्थं भिन्नाधिकारिकत्वपक्षेऽपि तत्तत्प्राप्तौ तेषां तेषामधिकारिणां योग्यतारूपो नियामकः क्रमो नास्त्युतास्तीति । तदर्थं कार्यपरयोरुभयोरपि प्राप्यत्वेऽप्रतीकालम्बन-प्रतीकालम्बनत्वाख्ययोग्यतारूपक्रमसत्त्वे च विशेषप्रमाणं नास्त्युतास्तीति । चतुर्मुखमुक्तिपर्यन्तं संततत्वनियमाद्बन्धस्य तावद्भगवत्प्राप्तिर्नास्तीति नियम इति न्यायविवरणोक्तयुक्तिं प्रमाणोदाहरण-पूर्वकमाह– तथापि प्रकृतेर्बन्ध इत्यादिना ॥ चतुर्मुखस्यैव गत्युपपत्तेरिति ॥ अस्यैव गत्युपपत्ते-रिति भाष्यव्याख्यनपरेणानेन तावद्भगवत्प्राप्तिर्नास्तीति नियम इति न्यायविवरणस्यापि फलितं दर्शितमिति ज्ञातव्यम् ।
भावदीपः
मार्गपेटिकयास्यावसरसङ्गतिमाह ॥ एवमिति ॥ गम्येति ॥ चरमप्राप्येत्यर्थः ॥ अनु-स्मृतीति ॥ गत्यनुस्मृतीत्यर्थः । स्वहृदयमारभ्य ब्रह्मपर्यन्तत्वाद् गतेरिति भावः । अव्यवहितपूर्व-सङ्गतिं सूचयन् विषयमाह ॥ वायुरेवेति ॥ तच्छ्रुतेरिति श्रुत्युक्तब्रह्मस्वरूपनिरूपणात्पूर्वसङ्गतिरिति भावः । न्यायविवरणे चतुर्धाऽस्य पूर्वपक्षप्रतीतावपि त्रित्वे पर्यवसानात्तदनुगुणतया त्रेधा संशयस्थितिमाह ॥ किमित्यादिना ॥ तदन्यो वासावित्यन्तेन ॥ कार्यमिति योगानुरोधादाह ॥ चतुर्मुखेति ॥ चतुर्मुखाख्यमेवेत्यर्थः । परमिति योगानुरोधादाह ॥ किं वा परमिति ॥ परं ब्रह्मैवेत्यर्थः । अप्रतीकेति योगानुरोधा उभयमिति कोटिः । तत्राप्यप्रतीकालम्बनपदप्रयोग-व्यावर्त्यचोद्यानुगुणसन्देहं तृतीयकोटिपरिष्कारेणाह ॥ तृतीयेत्यादिना ॥ योग्यतेति ॥ प्रतीका-लम्बनाऽप्रतीकालम्बनादित्यर्थः ॥ तदन्य इति ॥ तत्तत्सौकर्यरूप इत्यर्थः ॥ उभयथेति ॥ लोके योग्यतारूपः कार्यरूपोऽप्यभिमतकार्यप्राप्तौ क्रमाद्दृश्यत इति भावः । भाष्यं व्याचष्टे ॥ स इति ॥ अत्रेति वायुरिति च शेषोक्तिः । उपपत्तेरित्युक्तेः सार्थक्यायाह ॥ ब्रह्मशब्दस्येति ॥ भाष्योक्तस्मृतौ कः पुमान्प्राप्नुयादित्येवोक्तेरप्राप्त्यनुपपत्तेरनुक्तेश् चतुर्मुखपर्यन्तं सन्ततत्वनियमाद्बन्धकस्येत्यन्यत्रोक्त-युक्तिं पूर्वपादन्यायविवरणोक्तश्रुत्या असिद्धिं निरस्यन्नेवाह ॥ तथापीति ॥ स्वोदयाज्ज्ञानस्य फलदत्वेऽपीत्यर्थः । भाष्ये वचनोक्तिरुपपत्तेर्दाढर्््यायेति भावेनाह ॥ तथेति ॥
अभिनवचन्द्रिका
तेन मार्गेण गतानामिति । ननु अर्चिरादिमार्गेण गतानां गम्यनिरूपणादित्ययुक्तम् । अप्रतीकालम्बनानामुत्तमेषु लयाधिकारिणां मार्गशून्यत्वात् । न च अप्रतीकालम्बनानामपि मार्गोऽस्तीति वक्तुं युक्तम् । ‘उत्क्रान्तस्तु शरीरात् स्वाद् गच्छत्यर्चिषमेवतु’ इति उत्क्रान्तानामेव अर्चिरादिमार्गाभिधानादिति चेत्, उच्यते – द्विविधा हि अप्रतीकालम्बनाः । स्वोत्तमेषु देहलययोग्याः, उत्क्रान्तियोग्याश्चेति । तत्र देहलययोग्यानां मार्गाभावे उत्क्रान्तियोग्यानामृषीणां राज्ञां च अस्त्येव मार्ग इति । ‘अप्रतीकालम्बनान्नयति’ इति सूत्रे ऋष्यादीनामेव गम्यमुच्यत इति । उक्तं च ऋष्यादीनामप्यप्रतीकालम्बनत्वम् । ‘अप्रतीकादेवतास्तु ऋषीणां शतमेव च । राज्ञां च शतमुद्दिष्टं गन्धर्वाणां शतं तथा’ इति । एकस्योभयप्राप्त्यसम्भवादिति । एकस्यैवा-वस्थानायोभयप्राप्त्यसम्भवादित्यर्थः । एतेन एकस्यैव अर्चिरादिसर्वलोकप्राप्तिवद् उभयप्राप्तिसम्भवाद् उभयप्राप्त्यसम्भावादित्ययुक्तमिति परास्तम् । एकस्य मार्गतया अपरस्य गम्यतया प्राप्तिसम्भवेऽपि उभयोरपि गम्यतया प्राप्त्यसम्भवस्याऽपरिहार्यत्वात् । अर्थः स्यादिति । ‘स एनान् ब्रह्म गमयति’ इति श्रुत्यर्थः स्यादित्यर्थः ॥ केनचित् क्रमेणेति ॥ किञ्चिन्नियामकमपेक्ष्योभयप्राप्तिर्भवति । उताऽनपेक्ष्येत्यर्थः ॥ क्रमोऽपीति ॥ नियामकभूतधर्मोपीत्यर्थः । इति जैमिनिराचार्यो मन्यत इति भाव इति । इति पूर्वपक्षी मन्यत इति भावः । एतेन ‘मुनिमतयोश्चान्यानिषेधकत्वेनाऽविरोधात्’ इत्युत्तरग्रन्थविरोध इति परास्तम् ॥ प्रतिपत्त्यभावादिति ॥ उपासनाभावादित्यर्थः । एवं बादिरिजैमिनिमतानुसारिपूर्वपक्षमुक्त्वा, उभयप्राप्तेः श्रुत्यर्थत्वमङ्गीकृत्य, सिद्धान्त्यभिमतं विशेषं दूषयतः पूर्वपक्षमाह – तृतीयपक्षेऽपीति ॥ पक्षद्वयेऽपीति ॥ अर्चिरादिमार्गेण गतस्य परप्राप्तिः, कार्यप्राप्तिरिति पक्षद्वयेऽपीत्यर्थः । क्रमस्येति ॥ केषाञ्चित्कार्यप्राप्तिरेव, न केषाञ्चित् कार्यप्राप्तिरिति नियमप्रयोजकस्याऽधिकारिगतस्य क्रमस्य तारतम्यस्याऽदर्शनादित्यर्थः । क्रममङ्गीकृत्यापि सिद्धान्त्यभिमतविशेषं दूषयति – क्रमपक्षेत्यादिना ॥ सौकर्यमिति । सौलभ्यं शक्तिरिति यावत् । नास्त्येव तारतम्यं, राजमन्दिरे भोजनोपविष्टानां राजपुत्राणामिच्छया व्यञ्जनादिप्राप्तिवद् अधिकारिणामिच्छयैव कार्यपरयोः प्राप्तिरिति प्रागुक्तम् । इदानीं तु अस्त्येव तारतम्यं, किंतु न योग्यतारूपम् । अप्रामाणिकत्वात् । किं तर्हि अतिफलितमाम्रवृक्षं गतवतो यस्याऽऽरोहणशक्तिस् तस्य महाफलप्राप्तिः । यस्य नारोहणशक्तिस् तस्य गलितफलप्राप्तिरिति दर्शनात् । यस्य परब्रह्मप्राप्तौ शक्तिस् तस्य तत्प्राप्तिः । यस्य तु सत्यलोकपर्यन्तं गतस्य शक्तिक्षयस् तस्य कार्यप्राप्तिरुच्यत इति भेदः ॥ महाफल इति ॥ महाफले क्रमस्य तारतम्यभावस्यायोगात् । स्वरूपतारतम्यस्याऽ-दर्शनात् शक्तितारतम्यमेव विवक्षितमिति भावः । बादरिजैमिनिमतावलम्बिभ्यामुक्तः श्रुत्यर्थः कुतो न ग्राह्य इति पृच्छति कुत इति ॥ उभयपक्षेति ॥ परस्परं निरूपितदोषादेव श्रुतेरर्थद्वयं न भवतीत्यर्थः । तदेव विशदयति परप्राप्तीत्यादिना ॥ अस्माद्वाक्यात्परं लेखकदोषाद् उत्तरत्र पतितं ‘नापि परमेवेत्यवधारणे हेतुरस्ति’ इति वाक्यं ग्राह्यम् ॥ कार्यप्राप्तिपक्ष इति ॥ इतःपरं लेखकदोषादुत्तरत्र पतितं ‘कार्यमेव नयतीत्यन्यव्यावृत्त्या कार्यप्राप्तौ विशेषहेत्वभावात्’ इति वाक्यं ग्राह्यम् । ततश्चैवं टीकावाक्यपाठः ‘परप्राप्तिपक्षे गत्यनुपपत्त्या दोषस्योक्तत्वान्नापि परमेवेत्यवधारणे हेतुरस्ति । कार्यप्राप्तिपक्षे च ब्रह्मशद्बाऽमुख्यत्वादिदोषाणामुक्तत्वात्कार्यमेव नयतीत्यन्यव्यावृत्त्या कार्यप्राप्तौ विशेषहेत्वभावात् । न चोभयप्राप्तिग्रहणे दोषद्वयापातः । येषां परप्राप्तिस्तेषां बद्धत्वेऽपि प्रमाणबलेन गत्युपपत्तेः श्रुत्यादीनां चाऽन्यनिषेधकत्वाभावात् । केषांचित्कार्यप्राप्तेरेव प्रमाणबलेनोपपत्तेः’ इति । अवश्यं चैतदेवं विज्ञेयम् । ‘न च उभयप्राप्तिग्रहणे दोषद्वयापात’ इति प्रतिज्ञाय ‘कार्यमेव नयतीत्यन्यव्यावृत्त्या कार्यप्राप्तौ विशेषहेत्वभावात्’ इत्यभिधानस्याऽसङ्गतत्वात् । ननु कार्यब्रह्मदर्शनाभावात्कार्यप्राप्तिरयुक्तेत्यत आह – कार्यप्राप्तिमतां चेति ॥ एवं तर्हि मुनिमतयोर्विरोध इत्यत आह मुनिमतयोश्चेति ॥ क्रमानुसारीति ॥ योग्यतातारतम्यानुसारीत्यर्थः ।
पूर्वपक्षस्तु अर्चिरादिमार्गेण गतानां सर्वेषां कार्यब्रह्मप्राप्तिरेव न परप्राप्तिः । तत्प्राप्तेरेवोपपन्न-त्वात् । देवव्यतिरिक्तानां परप्राप्त्ययोग्यत्वस्य ‘ऋते देवान् परम्ब्रह्म कःपुमान् प्राप्नुयात्क्कचित्’ इति स्मृतिसिद्धत्वात् । ‘यदि ह वा परमभि पश्यति प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मखम्’ इति श्रुतेश्च । न च – ब्रह्मविदाप्नोति परमिति साक्षाद्ब्रह्मप्राप्त्युक्तिविरोधः । उदाहृतश्रुतेः कार्यब्रह्मप्राप्त्यनन्तरं समीप एव परप्राप्तिरित्यर्थकत्वात् । कदा परब्रह्मप्राप्तिरिति चेद् उच्यते समस्तकार्यविलयानन्तरं कार्याऽधिपतिना चतुर्मुखेन सह तत्प्रसादान्मुमुक्षुः परं प्राप्नोति । ‘न हि ब्रह्माणमभिसंपद्य यदैतद्विलीयतेऽथ सह ब्रह्मणा परमभिगच्छति’ इत्यभिधानात् । ‘ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चर’ इति स्मृतेश्चेत्येकः ।
अपरस्तु पूर्वपक्षो ऽर्चिरादिमार्गेण परमेव ब्रह्म प्राप्नोतीति । ‘स एनान् ब्रह्म गमयति’ इति श्रुतेरर्थः । ब्रह्मशद्बस्य तत्रैव मुख्यत्वात् । न च संसारिणां ब्रह्मप्राप्त्यसम्भवान्मुख्यार्थपरित्याग इति वाच्यम् । श्रवणादिसाधनैः परब्रह्मण एवाऽपरोक्षीकृतत्वेन तत्प्राप्तेरेव युक्तत्वात् । प्रत्युत कार्यप्राप्तिरेवाऽनुपपन्ना तद्दर्शनाऽभावात् । किं च न कार्यविषये उपासना । नापि कार्यं ब्रह्म प्राप्नुवानीत्यभिसन्धिर्विद्यते । न हि दर्शनोपासनाऽभिसन्ध्यभावे तत्प्राप्तिर्युक्ता । परब्रह्मविषये तु सन्त्येव दर्शनोपासनाऽभिसन्धयः । ततश्च परप्राप्तिरेव श्रुत्यर्थः । कार्यप्राप्तिर्वा उभयप्रप्तिर्वा न श्रुत्यर्थ इति ।
अन्यस्तु पूर्वपक्षः कार्यप्राप्तिमात्रं न श्रुत्यर्थः । ब्रह्मशद्बस्य परब्रह्मणि मुख्यत्वस्य सर्वात्मना त्यागायोगात् । नापि परब्रह्मप्राप्तिमात्रं श्रुत्यर्थः । ‘प्राप्नोति ब्रह्माणं चतुर्मुखम्’ इति श्रुतिविरोधात् । किन्तु उभयप्राप्तिः श्रुत्यर्थः । परं तु कार्यपरब्रह्मगन्तृणां तत्प्राप्तौ न स्वरूपतारतम्यं निमित्तं, किं तु – राजपुत्राणां भोजनसमये विलक्षणव्यञ्जनप्राप्ताविवेच्छैव शरणमित्येकः पूर्वःपक्षः । अपरस्तु पूर्वपक्षो ऽस्त्येव कार्यपरब्रह्मप्राप्तौ साधनतारतम्यं निमित्तं, महाफलस्य साधनतारतम्य-मन्तराऽयोगात्, किंनाम न तद्योग्यता तारतम्यम् । अपि तु यस्य कार्यप्राप्तौ सौकर्यं तस्य तत्प्राप्तिः । यस्य परप्राप्तौ सौकर्यं तस्य तत्प्राप्तिरिति ।
सिद्धान्तस्तु ‘वायुः प्रतीकालम्बनान्मनुष्यांश्च कार्यं नयती’त्यर्थत्वे ‘सर्वान् परमेव नयति’ इत्यर्थत्वे च दोषसद्भावात् । न च – इच्छावशेनैव कार्यपरप्राप्त्योः सम्भवाद् अप्रतीकालम्बनत्वादि विशेषाऽङ्गीकारो व्यर्थ इति वाच्यम् । ‘स यथाकामो भवति’ इति श्रुतौ तत्प्राप्तीच्छूनामिच्छानुसारेण तत्प्राप्तिप्रतिषेधात् । न च प्रतीकालम्बनत्वादिविभागे प्रमाणाऽभावः । ‘प्रतीकं देह उदिष्टो येषां तत्रैव दर्शनम्’ इति स्मृतेः । ‘अन्तः प्रकाशा बहिःप्रकाशा’ इति श्रुतेश्च तत्र प्रमाणत्वात् । अतो ज्ञानिनां प्रलये पूर्वं परब्रह्मप्राप्तिसद्भावात् तथाऽनृस्मृतिरुपपन्नेति सिद्धम् ।
॥ इति श्रीमत्सत्यनिधितीर्थ श्रीचरण चरणाराधक श्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्वप्राकाशिकाव्याख्याऽभिनवचन्द्रिकायां चतुर्थाऽध्यायस्य तृतीयः पादः समाप्तः ॥
वाक्यार्थमुक्तावली
तेन मार्गेण गतानामिति ॥ नन्वत्र पादे तेन मार्गेण गतानामपि देवानां गम्यविचारा-त्कथमेतदिति चेन्न । तेषामपि देवत्वप्राप्त्यव्यवहितपूर्वजन्मन्युत्क्रान्तानां तेन मार्गेण गमनाङ्गी-कारेणाविरोधात् । विस्तृतं चैतत्प्रमेयमुक्तावल्याम् । भावबोधे तु एतच्च गम्यनिरूपणस्य प्राथमिकत्वशङ्कानिरासार्थमेवोक्तम् । मार्गनिरूपणे गम्यनिरूपणस्यानाकाङ्क्षितत्वात् । न तु गन्तृनिर्देशार्थे देहलयवतामपि गन्तृत्वादित्युक्तम् । केचित्तु अप्रतीकालम्बनेषु ऋषिप्रभृतीनां देवातिरिक्तानामपि प्रविष्टत्वात्तेषां चोत्क्रान्तिमार्गभात्क्वात्तद्विवक्षया तेन मार्गेणेत्युक्तमित्याहुः । वायुरेव ब्रह्म नयतीत्युक्तमिति ॥ वायुर्यद्ब्रह्म नयतीत्युक्तं तद्ब्रह्मणोऽत्र विचारादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ किं चतुर्मुखाख्यमेवोत चतुर्मुखाख्यं परं चेत्युभयमित्येकः संशयः । किं परमेवोतोभयमित्यपर इत्यर्थः बादरिमतावलम्बनेन जैमिनिमतावलम्बनेन च प्रधानपूर्वपक्षद्वयाङ्गी-कारात् ॥ तृतीयपक्षेऽपीति ॥ उभयप्राप्तिरिति । सिद्धान्त्यभिमतपक्षेऽप्येकस्य युगपदुभयप्राप्त्य-सम्भवात्कांश्चित्कार्यं नयति कांश्चित्परं नयतीति स एनान्ब्रह्म गमयतीति श्रुत्यर्थः स्यादित्यर्थः । ततश्च किं, तत्राह ॥ तत्रेति ॥ उभयप्राप्तिपक्षेऽप्यवान्तरपूर्वपक्षसद्भावादिति द्विविधः सन्देह इत्यन्वयः ।
केनचिदिति ॥ योग्यतादिक्रमेण केषाञ्चित्कार्यप्राप्तिः केषाञ्चित्परप्राप्तिर्वा उत क्रमं विना ऐच्छिकतया केषाञ्चित्परप्राप्तिः केषाञ्चित्कार्यप्राप्तिर्वेत्यर्थः ॥ क्रमोऽपीति ॥ क्रमोऽपि कश्चिद्योग्यतारूपस्सौकर्यक्रमो वेत्यर्थः । ततश्चायं समुदायार्थः । स एनान्ब्रह्मगमयतीत्यत्र गम्यतयोक्तब्रह्मपरापरयोरन्यतरदेवेति नियम उतोभयमपीति । तदर्थमपरमेवेति नियमः परमेवेति नियम इति नियमसाधकयोः प्रमाणयोः प्रतीकाप्रतीकालम्बनत्वरूपपुरुषयोग्यताभेदेनाविरोधो-न्नयनेनोभयोरपि गम्यत्वव्युत्पादनं न शक्यमुत शक्यमिति । स एनान् ब्रह्म गमयतीति बादरिर्मन्यत इति भाष्यस्य पूर्णत्वात्स एनान्ब्रह्म गमयतीति द्विरावर्तते । आवर्तनस्याद्यस्य इतीत्यनन्तरमत्रेति शेषः । द्वितीये तत्स्थपदानां सूत्रेणान्वयः । इतीत्यतः परमुच्यत इति शेष इत्यभिप्रेत्य व्याचष्टे ॥ स एनानिति ॥ सौत्रस्य कार्यमित्यस्य श्रौतेन ब्रह्मेत्यनेनान्वय इत्युक्तम् । कार्यमुत्पत्तिमद्ब्रह्मेति । स इत्यस्यार्थो वायुरिति । अस्य गत्युपपत्तेरित्यत्र पूर्वसूत्रादेवेत्यनुवृत्याऽन्वेतीति भावेन भाष्ये तस्यैव गत्युपपत्तेरित्युक्तम् । तस्य चतुर्मुखस्यैव गत्युपपत्तेश्चतुर्मुखगमनस्यैवोत्पत्तिसिद्धत्वादिति तदर्थ-मभिप्रेत्य कोऽसावुपपत्तिरित्यतः सान्तानिकेति न्यायमालोक्तेरित्यभिप्रायेण न्यायं विशदयति ॥ तथापि प्रकृतेरिति ॥ सन्ततत्वादविनाशित्वात् । एवमुपपत्तिसिद्धेऽर्थे स्मृतिरभ्युच्चयत्वेनोदाहृतेत्याह ॥ तथेति ॥ यद्यपि ब्रह्मदृष्टिर्वर्तते ब्रह्मलोकं परब्रह्मलोकं चावाप्नुयात्सर्वत्र तदवस्थानात् । तथापि कः पुमान् बद्धो देवान् ब्रह्मादीन् विना क्वचित् कियत्कालं चतुर्मुखमुक्तिपर्यन्तं परब्रह्म प्राप्नुयात् । किं तु ब्रह्मलोकं चतुर्मुखलोकमेवाप्नुयादिति स्मृत्यर्थः ।
तत्त्वसुबोधिनी
तेन मार्गेण गतानामिति ॥ एतच्च गम्यनिरूपणस्य प्राथमिकत्वशङ्कापरिहारार्थमेवोक्तम् । मार्गनिरूपणे गम्यनिरूपणस्य अनाकाङ्क्षितत्वाद् गन्तृनिर्देशार्थं देहलयवतामपि गन्तृत्वादि ज्ञातव्यम् । अत एवैवं मार्गं विचार्येत्येतदपि सार्थकम् ॥ गम्यनिरूपणादिति ॥ पूर्वाधिकरणे मुख्यप्राणो यद्ब्रह्म गमयतीत्युक्तम् अत्र तद्गम्यनिरूपणादनन्तरसङ्गतिरिति भावः । अन्यथानु-स्मृत्यनुपपत्तेरिति ॥ गम्यनिरूपणाभावे वैय्यर्थेन मार्गानुस्मृतेरेव अनुपपपत्तेरित्यर्थः । ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वेऽपि नात्र मुख्यत्वाङ्गीकार इत्यत उपपत्तेरिति सूत्रांशोक्तयुक्तिमाह ॥ ब्रह्मशब्दस्येति ॥ ततो अर्वागिति ॥ मुक्तेः पूर्वमित्यर्थः, बन्धकाल इति यावत् । तदतिस्मृतौ देवानृते परं ब्रह्म कः प्राप्नुयादित्युक्ते तर्हि ब्रह्मदर्शनं व्यर्थमित्यत उक्तं यद्यपीति ॥ तथा च ब्रह्मदृष्ट्या ब्रह्मलोकप्राप्तौ नॄणां देवप्राप्त्यनन्तरं परब्रह्मप्राप्तिर् भवतीति भावः ।
वाक्यार्थविवरणं
तदन्य इति ॥ यस्य यत्प्राप्तौ सौकर्यं तस्य तत्प्राप्तिरिति सौकर्यरूपः क्रम इत्यर्थः । भाष्ये यद्यपि ब्रह्मदृष्टिः परब्रह्मापरोक्षज्ञानं स्याद् भवति, तथापि ब्रह्मलोकं चतुर्मुखलोकम् अवाप्नुयादित्यर्थः ।
वाक्यार्थमञ्जरी
अनुस्मृत्यनुपपत्तेरिति ॥ मार्गवद्गम्यस्याप्यनुस्मर्तव्यत्वादिति भावः ॥ विनैवेत्यस्येति संदेह इति वक्ष्यमाणेनान्वयः संदेहबीजं सन्देहद्वयबीजम् ॥ ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ॥ स एनानित्यत्रोक्तं ब्रह्मकार्यमुत्पत्तिमच्चतुर्मुखमेव कुतो ज्ञानिनां बद्धत्वेनास्य गत्युपपत्तेः । चतुर्मुखप्राप्तेरेवोपपत्तेरिति बादरिराचार्यो मन्यत इत्यर्थः ॥ सन्ततत्वाद् अनुस्यूतत्वात् ॥ चतुर्मुखस्यैवेति ॥ अबद्धत्वेनैव भगवतः प्राप्यत्वादिति भावः ॥
ॐ विशेषितत्वाच्च ॐ
सूत्रभाष्यम्
ॐ विशेषितत्वाच्च ॐ ॥ ८ ॥
‘यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मुखम्’ इति कौषारवश्रुतौ ॥
तत्त्वप्रदीपिका
तर्हि वायुमेव प्राप्य तिष्ठन्तु ते नो चेत्परं ब्रह्मेति च नाशङ्कनीयमित्याह– विशेषितत्वाच्च ॥ ‘यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मुखम्’ इत्यादि विशेषितत्वाच्च । अतः परब्रह्मदर्शिनः कथमवरब्रह्मणि स्थितिरिति च संशयोऽनुपपन्नः, प्रमाणप्रसिद्धेः ॥
तत्त्वप्रकाशिका
न केवलं युक्तिमात्रेण श्रुतेरन्यार्थकल्पनमपि तु विशेषश्रुतेश्चेत्यर्थप्रतिपादकं सूत्रमुपन्यस्य तां श्रुतिमुदाहरति ॥ विशेषितत्वाच्चेति ॥ भाष्यस्य सूत्रेणान्वयः ॥
भावदीपः
सूत्रे चशब्दादाह ॥ न केवलमिति ॥ युक्तिमात्रेणेति ॥ एतच्चोपपत्तेरिति यथाश्रुत-सूत्राभिप्रायं, भाष्यदिशा तु युक्तिस्मृतिमात्रेणेति बोध्यम् । श्रुतेर् ब्रह्म गमयतीति श्रुतेरित्यर्थः । अनन्वयनिरासायाह ॥ भाष्यस्येति ॥
वाक्यार्थमुक्तावली
ब्रह्मणश्चतुर्मुखत्वेन श्रुतौ विशेषितत्वाच्चेति सूत्रार्थः ।
वाक्यार्थविवरणं
युक्तिमात्रेणेति ॥ सन्ततबन्धवत्त्वरूपयुक्त्येत्यर्थः ॥ श्रुतेरिति ॥ ब्रह्म गमयतीति श्रुतेरित्यर्थः ॥
वाक्यार्थमञ्जरी
प्राप्नोति ब्रह्माणं चतुर्मुखम् इति श्रुतेश्चतुर्मुखत्वेन ब्रह्मणा विशेषितत्वान्नैव कार्यं ब्रह्मशब्दार्थः ॥